________________
तथा ग्रामैकरात्रादिविहरणमिति ॥ ९३ ॥ (३६२)
ग्रामे - प्रतीतरूपे उपलक्षणत्वान्नगरादौ च एका चासौ रात्रिश्चेत्येक रात्रः आदिशब्दात् द्विरात्रस्य मासकल्पस्य च ग्रहः तेन विहरणं, किमुक्तं भवति ? - यदा प्रतिमाकल्परूपो निरपेक्षो यतिधर्मः प्रतिपक्षो भवति तदा ऋतुबद्धे काले ग्रामे ज्ञातः सन् स एकरात्रं अज्ञातच एकरात्रं द्विरात्रं वा वसति, यथोक्तम् - " नाएगरायवासी एगं च दुगं च अन्नाए (१९७ ) जिनकल्पिकयथालन्दकल्पिक शुद्धपरिहारिका ज्ञाता अज्ञाताश्च मासमिति ॥ ९३ ॥
तथा - नियत कालचारितेति ॥ ९४ ॥ (३६३)
नियते- तृतीयपौरुषीलक्षणे काले भिक्षार्थी संचरणं, यथोक्तम्- " भिक्खा पंथो य तझ्याए "ति ॥ ९४ ॥ तथा - प्राय ऊर्ध्वस्थानमिति ॥ ९५ ॥ (३६४)
प्रायो - बाहुल्येन ऊर्ध्वस्थानं - कायोत्सर्गः ॥ ९५ ॥
तथा - देशनायामप्रबन्ध इति ॥ ९६ ॥ (३६५)
देशनायां - धर्मकथारूपायां धर्मं श्रोतुमुपस्थितेष्वपि तथाविधप्राणिषु अप्रबन्धः - अभूरिभाव:, ' एगवयणं दुवयणं - चेति वचनप्रामाण्यात् ॥९६॥
C
सदा
तथा - सदाऽप्रमत्ततेति ॥ ९७ ॥ (३६६) " दिवा रात्रौ चाप्रमत्तता- निद्रादिप्रमादपरिहारः ॥९७॥
1041469) *** *** 100% ग्र