SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ यतिधर्मफलम् धर्मबिन्दु सापेक्षयति धर्मा|| ध्याय. alsy11 तथा-ध्यानकतानत्वमितीति ॥९८॥ (३६७) ध्यान-धर्मध्यानादावेक एव तान:-चित्तप्रसर्पणरूपो यस्य स तथा तद्भावस्तत्त्वम्, इतिशब्दः समाप्तौ ॥ अयोपसंजिहीर्षुराहसम्यग्यतित्वमाराध्य, महात्मानो यथोदितम् । संप्राप्नुवन्ति कल्याणमिह लोके परत्र च ॥२८॥ सम्यग् यतित्वम्-उक्तरूपमाराध्य-समासेव्य महात्मानो जना 'यथोदितं' यथा शास्त्रे निरूपित, किमित्याह-संप्राप्नुवन्ति' लभन्ते 'कल्याणं' भद्रं, केत्याह-इह लोके परत्र चेति, प्रतीतरूपमेव ॥१॥ एतदेव विवरीषुराहक्षीराश्रवादिलब्ध्योघमासाद्य परमाक्षयम् । कुर्वन्ति भव्यसत्वानामुपकारमनुत्तमम् ॥ २९॥ क्षीरं- दुग्धं श्रोतृजनकर्णपूरेषु आश्रवति-क्षरतिभाषमाणो यस्यां लब्धौ सा क्षीराश्रवा, आदिशब्दान्मध्वाश्रवा सपिराश्रवा अमृताश्रवा चेत्यादिको यो 'लब्ध्योघो' लब्धिसंघातः तं 'आसाद्य' उपलभ्य 'परमाक्षयं परमं-सर्वसुन्दरं अक्षयं च-अनेकधा उपजीव्यमानमपि अनुपरमस्वभावं, किमित्याह-'कुर्वन्ति' विदर्धात भव्यसत्त्वानां उपकत्तु योग्यानां 'उपकारं' सम्यक्त्वज्ञानचारित्रलाभलक्षणं 'अनुपमं निर्वाणकफलत्वेन अन्योपकारातिशायिनमिति ॥२॥ मुच्यन्ते चाशु संसारादत्यन्तमसमञ्जसात् । जन्ममृत्युजराव्याधिरोगशोकाद्युपद्रुतात् ॥ ३०॥ 'मुच्यन्ते' परिहियन्ते चः समुच्चये 'आशु'शीघ्रं 'संसारात्' भवात् , कीदृशादित्याह-अत्यन्तम्-अतीव संगतं-युक्तं अः-स्वरूपं यस्य स तथा तत्प्रतिषेधादसमअसस्तस्मात् , अत एव जन्ममृत्युजराव्याधिरोगशोकायुपद्रुतात् , ज | ॥७ ॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy