SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ धर्मविन्द सामान्य अ.१ पहिधर्म उत्तमनिदर्शनानुसारिणो हि पुरुषा उदासात्मतया न रवमेऽपि विकृतप्रकृतयः संभवन्ति, इय च देवादिप्रतिपत्तिनित्यमेवोचिता | विशेषतश्च भोजनावसर इति ॥ ४०॥ तथा-सात्म्यतः कालभोजनमित्ति १९ ॥४१॥ _ 'पानाहारादयो यस्य, विरुद्धाः प्रकृतेरपि । मुख्खिायावलोक्यन्ते, तत्सात्म्यमिति गीयते ॥३१॥ इत्येवलक्षणात सात्म्यात् काले-बुभुक्षोदयावसरलक्षणे भोजन-अन्नोपजीवनं कालभोजनं, अयमभिप्राय:-आजन्म सात्म्येन भुक्तं विषमपि पथ्यं भवति, परम सात्म्यमपि पथ्यं सेवेत न पुनः सात्म्यप्राप्तमप्यपथ्य, सर्व बलवतः पथ्यमिति मत्वा न कालकूट खादेव, सुशिक्षितो हि विषतन्त्रज्ञो म्रियते एव कदाचिद्विषात, तथा अक्षुधितेनामृतमप्युपभुक्तं भवति विष, वथा क्षुत्कालातिक्रमादन्नद्वेषो देहसादश्च भवति, विध्यातेऽनौ किं नामेन्धनं कुर्यादिति ॥४१॥ तथा-लौल्यत्याग इति २०॥ ४२ ॥ सात्म्यतः कालभोजनेऽपि लौल्यस्य-आकाङ्क्षातिरेकादधिकभोजनलक्षणस्य त्यागः, यतः यो मितं भुङ्क्ते स बहु भुक्ते, अतिरिक्तभुक्तं हि उद्वामनहादनमारणानामन्यतमदसंपाद्य नोपरमं प्रतिपद्यते, तथा भुञ्जीत यथा सायमन्येधुश्च न विपद्यते वहुनिः, न भुक्तः परिमाणे सिद्धान्तोऽस्ति, वहनथभिलाषायत्तं हिभोजनं, अतिमात्रभोजी देहमग्निं च विधुरयति, तथा दीप्तोऽग्निर्ल घुभोजना देहपलं क्षपयति, अत्यकिदुःखेन परिणामः, श्रमार्गस्य पानं भोजनं वा नियमात् ज्वराय छर्दिषे वा स्यात् ॥४२॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy