________________
| श्रावक सामान्य
चर्या
धर्मबिन्दु श्राद्धमध्यिाय:३ ॥५१॥
"॥ १३२ ॥ इत्यादिशुभचिन्तारूपायां प्रबन्धः' प्रकर्षवृत्तिः ॥ ७९ ॥
तथा-शिष्टचरितश्रवणमिति ॥८०॥ (२१३) शिष्टचरितानां-'शिष्टचरितप्रशंसे 'ति प्रथमाध्यायसूत्रोक्तलक्षणानां श्रवण-निरन्तरमाकर्णनं, तच्छ्वणे हि तद्गताभिलाषभावान्न कदाचिद् लब्धगुणहानिः संपद्यत इति ॥ ८॥
तथा-सान्ध्यविधिपालनेति ।। ८१॥ (२१४) सान्ध्यस्य-सन्ध्याकालभवस्य विधेः-अनुष्ठानविशेषस्य दिनाष्टमभागभोजनाभ्यवहारसंकोचादिलक्षणस्य पालनाअनुसेवनमिति ॥ ८१॥ एनामेव विशेषत आह
__ यथोचितं तत्प्रतिपत्तिरिति ॥ ८२ ॥ (२१५) 'यथोचितं' यथासामर्थ्य 'तत्प्रतिपत्तिः' सान्ध्यप्रतिपत्तिरिति ॥ ८२ ॥ कीदृशीत्याह
पूजापुरस्सरं चैत्यादिवन्दनमिति ॥ ८३ ॥ (२१६) तत्कालोचितपूजापूर्वकं चैत्यवन्दनं, गृहचैत्यचैत्यभवनयोः, आदिशब्दाद्यतिवन्दनं मातापितृवन्दनं च ॥ ८३॥
तथा-साधुविश्रामणक्रियेति ॥ ८४ ॥ (२१७) साधूनां निर्वाणाराधनयोगसाधनप्रवृत्तानां पुरुषाणां स्वाध्यायध्यानाद्यनुष्ठाननिष्ठोपहितश्रमाणां तथाविधविश्रामकसाध्वभावे विश्रामणक्रिया, विश्राम्यतां-विश्रामं लभमानानां करणं विश्रामणा सा चासौ क्रिया चेति समासः॥८४॥
॥५
॥