SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ तथा-योगाभ्यास इति ॥ ८५ ॥ (२१८) योगस्य-सालम्बननिरालम्बनभेदभिन्नस्याभ्यासः-पुनः पुनरनुशीलनम्, उक्तं च-“सालम्बनो निरालम्बनश्च योगः परो द्विधा ज्ञेयः । जिनरूपध्यानं खल्वाधस्तत्तत्त्वगस्त्वपरः॥ १३३॥" (पोड०)'तत्तत्त्वग' इति निवृत्तजिनस्वरूपप्रतिबद्ध इति ॥ ८५॥ तथा-नमस्कारादिचिन्तनमिति ॥ ८६ ॥ (२१९) नमस्कारस्य आदिशब्दात्तदन्यस्वाध्यायस्य च चिन्तनं-भावनम् ॥८६॥ तथा-प्रशस्तभावक्रियेति ॥८७॥ (२२०) तथा थया क्रोधादिदोषविपाकपर्यालोचनेन प्रशस्तस्य-प्रशंसनीयस्य भावस्य-अन्तःकरणरूपस्य क्रिया करणं, अन्यथा महादोषभाराव, यदुच्यते-" चित्तरत्नमसंक्लिष्टमान्तरं धनमुच्यते । यस्य तन्मुषितं दोषैस्तस्य शिष्टा विपत्तयः ॥ १३४ ॥” (ह० अष्टके ) ॥ ८७॥ तथा-भवस्थितिप्रेक्षणमिति ॥८८॥ (२२१) भवस्थिते:-संसाररूपस्य प्रेक्षणम्-अवलोकनम्-यथा-"यौवनं नगनदास्पदोपम, शारदाम्मुदविलासि जीवितम् । स्वपलब्धधनविभ्रम धन, स्थावरं किमपि नास्ति तत्त्वतः ॥ १३५ ॥ विग्रहा गदभुजङ्गमालयाः, संगमा विगमदोषदृषिताः। संपदोऽपि विपदा कटाक्षिता, नास्ति किश्चिदनुपद्रवं स्फुटम् ॥ १३६ ॥” इत्यादीति ॥ ८८॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy