SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ सेवकादीनां न संभवन्ति, तथाहि-आद्ययोः स्पष्ट एव तेषां संभवः, विरुद्धराज्यातिक्रमरतु यदा सामन्तादिः स्वस्वामिनो वृत्तिमुपजीवति तद्विरुदस्य च सहायीभवति तदा तस्यातिचारो भवति, कूटतुलादयस्तु यदा भाण्डागारद्रव्याणां विनिमय कारयति तदा राज्ञोऽप्यतिचाराः स्युरिति ॥२५॥अथ चतुर्थाणुव्रतस्य स्वदारसंतोपलक्षणस्य परदारपरिहारस्य चातीचाराःपरविवाहकरणेत्वरपरिगृहीतापरिगृहीतागमनानङ्गक्रीडातीव्रकामाभिलाषा इति ॥२६॥ (१५९) इत्वरपरिगृहीता चापरिगृहीता च इत्वरपरिगृहीतापरिगृहीते तयोर्गमने इत्वरपरिगृहीतापरिगृहीतागमने ततः परविवाहकरणं च इत्वरपरिगृहोतापरिगृहीतागमने चानङ्गक्रीडा च तीव्रकामाभिलाषश्चेति समासः, इह परेषां-स्वापत्यव्यतिरिक्तानां जनानां विवाहकरणं-कन्या फललिप्सया स्नेहसंबन्धादिना वा परिणयनविधानं परविवाहकरणं, इह च स्वापत्येष्वपि संख्याभिग्रहो न्याय्यः, तथा इत्वरी-अयनशीला भाटीपदानेन स्तोककालं परिगृहीता इत्वरपरिगृहीता-वेश्या, तथा अपरिगृहीता-वेश्यैव अगृहीतान्यसत्कभाटिः कुलाङ्गना वाऽनाथेति तयोर्गमनं-आसेवनं इत्वरपरिगृहीतापरिगृहीतागमनं, तथा अङ्ग-देहावयवोऽपि मैथुनापेक्षया योनिर्मेहनं वा तद्व्यतिरिक्तानि अनङ्गानि-कुचकक्षोरुवदनादीनि तेषु क्रीडा-रमणं अनङ्गक्रीडा अथवा अनङ्ग:कामः तस्य तेन वा क्रीडा अनङ्गक्रीडा स्वलिङ्गेन निष्पन्नप्रयोजनस्याहार्यैश्चर्मादिघटितप्रजननोषिदवाच्यदेशासेवनमित्यर्थः, तथा कामे-कामोदयजन्ये मैथुने अथवा 'सूचनात्सूत्र मिति न्यायात् कामेषु-कामभोगेषु, तत्र कामौ-शब्दरूपे भोगा-गन्धरसस्पर्शाः तेषु तीव्राभिलापः-अत्यन्ततदध्यवसायित्वं यतो वाजीकरणादिनाऽनवरतसुरतमुखा) मदनमुद्दीपयति, एतान् समाचरन्नतिचरति चतुर्थाणुव्रतमिति । इह च द्वितीयतृतीयातिचारौ स्वदारसंतोषिण एव नेतरस्य, शेषास्तु द्वयोरपीति,
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy