SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ क) क) को को को * # तान्यतरगुणस्थानकस्थः प्रवृद्धतीत्रशुद्धध्यानाधीनमानसः क्षपक श्रेणिमारुरुक्षुरपूर्वगुणस्थानकमवाप्य प्रथमतः चतुरोऽनन्तानुबन्धनः क्रोधादीन् युगपत् क्षपयितुमारभते, ततः सावशेषेष्वेतेषु मिध्यात्वं क्षपयितुमुपक्रमते, ततस्तदवशेषे मिथ्यात्वे च क्षीणे सम्यग्मिथ्यात्वं सम्यक्त्वं च क्रमेणोच्छिनत्ति, तदनन्तरमेवाबद्धायुष्कोऽनिवृत्तिकरणं नाम सकलमोहापोहैकसह नवमगुणस्थानकमध्यारोहति, तत्र च तथैव प्रतिक्षणं विशुद्धयमानः कियत्स्वपि संख्यातेषु भागेषु गतेष्वष्टौ कषायान् - अप्रत्याख्यानावरणप्रत्याख्यानावरणसंज्ञितान् क्रोधादीनेव क्षपयितुमारभते, क्षीयमाणेषु च तेष्वेताः षोडश प्रकृतीरध्यवसायविशेषात् निद्रानिद्रा ? प्रचलाप्रचलार स्त्यानर्द्धि ३ नरकगति४ नरकानुपूर्वी५ तिर्यग्गति६ तिर्यगानुपूर्वी ७ एकेन्द्रिय८ द्वोन्द्रिय९त्रीन्द्रिय १० चतुरिन्द्रियजातिनाम ११ आतपनाम १२ उद्योतनाम १३ साधारणनाम १४ स्थावरनाम १५ सूक्ष्मनाम १६लक्षणाः क्षपयति, ततोsटकषायावशेषक्षये यदि पुरुषः प्रतिपत्ता ततो नपुंसकवेदं ततः स्त्रीवेदं ततो हास्यादिषट्कं ततः पुनः पुरुषवेदं क्षपयति, यदि पुनर्नपुंसकं स्त्री वा तदा पुरुषवेदस्थाने स्ववेदमितश्वेदद्वयं च यथाजघन्यप्रथमतया क्षपयति, ततः क्रमेण क्रोधादीन संज्वलनान् त्रीन्, अतः बादरलोभं चात्रैव क्षपयित्वा सूक्ष्मसंपरायगुणस्थाने च सूक्ष्मं सर्वथा विनिवृत्तसकलमोहविकारां क्षीणमोहगुणस्थानावस्थां संश्रयते, तत्र च समुद्रप्रतरणश्रान्तपुरुषवत् संग्रामाङ्गण विनिर्गत पुरुषवद्वा मोहनिग्रह - निलनिबद्धाध्यवसायतया परिश्रान्तः सन्नन्तर्मुहूर्त्त विश्रम्य तद्गुणस्थानकद्विचरमसमये निद्राप्रचले चरमसमये च ज्ञानावरणान्तरायप्रकृतिदशकं दर्शनावरणावशिष्टं प्रकृतिचतुष्कं च युगपदेव क्षपयति । बद्धायुः पुनः सप्तकक्षयानन्तरं विश्रम्य यथानिबद्धं चायुरनुभूय भवान्तरे क्षपकश्रेणि समर्थयत इति । यश्चात्रापूर्वकरणोपन्यासानन्तरं क्षपक श्रे गेरुपन्यासः स सैद्धान्तिक - 30 30 4616) ) (646) 44
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy