________________
स्वयमेव शास्त्रश्रवणे आदिशब्दादन्येन वा प्रेरणायां कृतायां प्रतिपत्तेः' अनाभोगेन विहितं मयेदमसुन्दरमनुष्ठानमित्यङ्गीकरणात् ॥२४॥ इयमपि
असदाचारगर्हणादिति ॥२५॥ (३९२) असदाचारस्य-अनुचितानुष्ठानस्य गर्हणात्-तदुचितप्रायश्चित्तप्रतिपत्त्या निन्दनात् ॥२५॥ अथ प्रस्तुतमेव निगमयन्नाह
इत्युचितानुष्ठानमेव सर्वत्र श्रेय इति ॥२६॥ (३९३) 'इति' एवं अनुचितानुष्ठाने नियमादसदभिनिवेशभावात् उचितानुष्ठानमेव 'सर्वत्र' गृहस्थधर्मप्रतिपत्तौ यतिधर्मप्रतिपत्तौ च 'श्रेयः' प्रशस्यं वर्तते ॥२६॥ कुत इत्याह
भावनासारत्वात्तस्येति ॥ २७ ॥ (३९४) ___ भावना-निरुपाधिको जीववासकः परिणामः, ततो भावना सारं-प्रधानं यत्र तत्तथा तद्भावस्तत्वं तस्मात् 'तस्य उचितानुष्ठानस्य ॥२७॥ भावनामेव पुरस्कुर्वन्नाह
इयमेव प्रधानं निःश्रेयसाङ्गमिति ॥२८॥ (३९५) 'इयमेव' भावना प्रधानं 'निःश्रेयसाङ्गं निर्वाणहेतुः ॥२८॥ एतदपि कुत इत्याह
एतत्स्थैर्याद्धि कुशलस्थैर्योपपत्तेरिति ॥ २९॥ (३९६) एतस्या-भावनायाः स्थैर्यात्-स्थिरभावात् 'हिः' स्फुटं कुशलानां-सकलकल्याणाचरणानां स्थैर्यस्य उपपत्तेः