SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ धर्मबिन्दु धर्मफलम सप्तमो-1 ऽध्यायः ॥८७॥ 变变变》令女大亨亨聲享 तत्रोत्तमा रूपसंपत्, सत्स्थितिप्रभावसुखद्युतिलेश्यायोगः, विशुद्धन्द्रियावधित्वं, प्रकृष्टानि भोगसाधनानि, दिव्यो विमाननिवहः, मनोहराण्युद्यानानि, रम्या जलाशया:, कान्ता अप्सरसः, अतिनिपुणाः किङ्कराः, प्रगल्भो नाट्यविधिः, चतुरोदारा भोगाः, सदा चित्तालादः, अनेकमुखहेतुत्वं, कुशलानुबन्धः, म. हाकल्याणपूजाकरणं, तीर्थकरसेवा, सहर्मश्रुतौ रतिः, सदा सुखित्वमिति॥८॥ (४५१) 'तत्र' देवस्थाने 'उत्तमा' प्रकृष्टा 'रूपसंपत्' शरीरसंस्थानलक्षणा ? सत्यः-सुन्दरा या स्थितिप्रभावसुखातिलेश्यास्ताभिर्योगः-समागमः, तत्र स्थिति:-पल्योपमसागरोपमप्रमाणायुष्कलक्षणा प्रभावो-निग्रहानुग्रहसामर्थ्य सुख-चित्तसमाधिलक्षणं द्युतिः-शरीराभरणादिप्रभा लेश्या-तेजोलेश्यादिका इति २ विशुद्धानि-स्वविषयाविपर्यस्तज्ञानजननेन निर्मलानीन्द्रियाणि अवधिश्च यस्य स तथा तद्भावस्तत्त्वं ३ 'प्रकृष्टानि' प्रकर्षवन्ति 'भोगसाधनानि' भोगोपकरणानि ४ तान्येव दर्शयति-'दिव्यो' निजप्रभामण्डलविडम्बिताशेषतेजस्विचको 'विमाननिवहः' विमानसंघातः ५ 'मनोहराणि' मनःप्रमोदप्रदानि अशोकचम्पकपुन्नागनागप्रभृतिवनस्पतिसमाकुलानि 'उद्यानानि' बनानि ६ 'रम्या' रखें योग्याः 'जलाशयाः' वापीहदसरोवरलक्षणाः ७ 'कान्ताः' कान्तिभाजः 'अप्सरसो' देव्यः ८ 'अतिनिपुणाः' परिशुद्धविन यविधिविधायिनः ‘किङ्कराः' प्रतीतरूपा एव ९ 'प्रगल्भः' प्रौढो 'नाट्यविधिः' तीर्थकरादिचरितप्रतिबद्धाभिनयलक्षणः १० 'चतुरोदाराः' चतुरा:-झटित्येवेन्द्रियचित्ताक्षेपदक्षा उदाराश्च-उत्तमाः भोगाः-शब्दादयः श्रोत्रादीन्द्रियविषयाः ११ 'सदा' सततं 'चित्ताहादो' मनःमसादरूपः १२ अनेकेषां-स्वव्यतिरिक्तानां देवादीनां तत्तन्नानाविधसमुचिताचार बताशेषतेजस्विचान्ति 'भोगावस्तज्ञानजननेन नि ॥८७॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy