SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ गृह पतेः-वक्ष्यमाण कथानकाभिधास्यमाननामधेयस्य श्रेष्टिनः राजग्रहाद् यः पुत्राणां मोक्षो-विमोचनं तदेव ज्ञातदृष्टान्तः तस्मात, भावार्थश्च कथानकगम्यः, तच्चेद-समस्ति सकल सुरसुन्दरीमनोहरविलासोपहासप्रदानप्रवणसीमन्तिनीजनकटाक्षच्छटाक्षेपोपलक्ष्यमाणनिखिलरामणीयकप्रदेशो देशो मगधाभिधानः, तत्र च तुषारगिरिशिखरधवलप्रासादमालाविमलकूटकोटिभिरकालेऽपि शरदभ्रलोलां कुर्वाणमिव बभूव वसन्तपुरं नाम नगरं, तस्य च पालयिता सेवावसररभसप्रणतनिखिल भूपाल विमलमौलिमुकुटकोटीविलग्नमाणिक्यमयूखवाताभिरश्रितक्रमकमलयुगः चण्डदोर्दण्डव्यापारितमण्डलानखण्डितारातिमत्तमातङ्गकुम्भस्थलगलितमुक्ताफलपकरप्रसाधिताशेपसंग्राममहीमण्डलः समजायत जितशत्रुनामा नृपतिः, तस्य च सकलजननपनमनोहारिणी पूर्वभवपरम्परोपार्जितपुण्यप्राग्भारनिर्मापितफलसंबन्धानुकारिणी विबुधबधविलासावलेपापहारिणी बभूव प्रेयसी धारिणो, तया च सार्द्धमसौ महीपतिः प्रणताशेषक्षितिपतिः दूरतो निराकृनिकृतिर्मनोहरपञ्चप्रकारभोगान् भुनानो महान्तमनेहासमनैषीत् । इतश्च तत्रैव पुरे प्रचुरतरद्विपदचतुष्पदापदहिरण्यसुवर्णधनधान्यशलशिलामुक्तापवालपद्मरागवैडूर्यचन्द्रकान्तेन्द्रनीलमहानीलराजपदृप्रभृतिप्रवरपदार्थसार्थपरिपूर्णसमृद्धिसमुपहसितश्रीकण्ठसखदर्पोद्रेको दीनानाथान्धप१प्रमुखप्राणिप्रणाशिताशेषशोकः समजनि समुद्रदत्ताभिधानो निखिलबणिग्वर्गप्रधानो गुणगणगरिष्ठः श्रेष्ठी, तस्य चाश्रय इव लावण्यगुणानां उदाहरणमिव सर्वश्रेयोवरतूनां महानिधानमिव पुर यरत्नानां भूषणमिव स्वकुलसंततेः पादप इव सौकुमार्यवनलतायाः समभवत् सुमङ्गलाभिधाना सधर्मचारिणी, तस्यामसौ निबिडबद्धानुरागो जीवलोकोद्भवप्राज्यवैषयिकशर्मसागरोदरमध्यमग्नोऽनल्पं कालमतिवाहयांचकार, प्रस्तावे च समजनिषत तयो विशदसमाचारसमाचरणपवित्राः पुत्राः क्रमेण प्रियङ्कर-क्षेमङ्कर-ध
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy