SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ तथाविधशुद्धसमा चारसाधुसमीपे प्रागेव गृहादौ गृहीतस्य प्रत्याख्यानस्य अभिव्यक्ति:-गुरोः साक्षिभावसंपादनाय प्रत्युच्चारणम् ॥५१॥ ततो-जिनवचनश्रवणे नियोग इति ॥५२॥ (१८५) संप्राप्तसम्यग्दर्शनादिः प्रतिदिनं साधुजनात् सामाचारी शृणोतीति श्रावक इत्यन्वर्थसंपादनाय जिनवचनश्रवणे 'नियोगो' नियमः कार्यः॥५२॥ ततः-सम्यक् तदर्थालोचनमिति ॥५३॥ (१८६) सम्यक-संदेहविपर्ययानध्यवसायपरिहारेण तदर्थस्य-वचनाभिधेयस्य पुनः पुनर्विमर्शनं, अन्यथा 'वृथा श्रुतमचिन्तित' मितिवचनात् न किञ्चिच्छ्वणगुणः स्यादिति ॥५३॥ ततः-आगमैकपरतेति ॥ ५४॥ (१८७) आगमो-जिनसिद्धान्तः स एवैको न पुनरन्यः कश्चित् सर्वक्रियासु पर:-प्रधानो यस्य स तथा तस्य भावः आगमै* कपरता, सर्वक्रियास्वागममेवैकं पुरस्कृत्य प्रवृत्तिरिति भाव इति ॥५४॥ ततः-श्रुतशक्यपालनमिति ॥ ५५ ॥ (१८८) श्रुतस्य-आगमादुपलब्धस्य शक्यस्य-अनुष्ठातुं पार्यमाणस्य पालनम्-अनुशीलनं सामायिकपौषधादेरिति ॥५४॥ तथा-अशक्ये भावप्रतिबन्ध इति ॥५६॥ (१८९)
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy