________________
षड्दर्शन समुच्चय भाग - १, श्लोक - १
જગતમાં જન્મ-જરા-મરણાદિ જે કંઈ સર્વ દેખાય છે તે પણ કાકતાલીય સમાન છે. અર્થાત્ તેના કોઈ પ્રતિનિયત કારણો નથી, આકસ્મિક છે.
२६
ते प्रमाणे स्वतः छ विडयो प्राप्त थया नास्ति परतः कालतः से प्रभाो पए। छविडयो प्राप्त થાય છે. સર્વે મળી જીવપદથી બાર વિકલ્પો પ્રાપ્ત થયા. આ રીતે અજીવાદિ છ પદાર્થોના પ્રત્યેકના બાર વિકલ્પો પ્રાપ્ત થાય છે. તેથી ૧૨૪૭ = ૮૪ અક્રિયાવાદિઓના વિકલ્પો થાય છે.
तथा कुत्सितं ज्ञानमज्ञानं तदेषामस्तीत्यज्ञानिकाः । ततो ( अतो ) ऽनेकस्वरादिति मत्वर्थीय इकप्रत्ययः [ सि. हैम ७ / २] । अथवाऽज्ञानेन चरन्तीत्यज्ञानिकाः, असञ्चिन्त्यकृतकर्मबन्धवैफल्यादिप्रतिपत्तिलक्षणाः साकल्यसात्यमुग्रिमौदपिप्पलादबादरायणजैमिनिवसुप्रभृतयः । ते ह्येवं बुवते । न ज्ञानं श्रेयः, तस्मिन् सति विरुद्धप्ररूपणायां विवादयोगतश्चित्तकालुष्यादिभावतो दीर्घतरसंसारप्रवृत्तेः । यदा पुनरज्ञानमाश्रीयते तदा नाहंकारसंभवो नापि परस्योपरि चित्तकालुष्यभावः, ततो न बन्धसम्भवः । अपि च, यः सञ्चिन्त्य क्रियते कर्मबन्धः स दारुणविपाकोऽत एवावश्यं वेद्यस्तस्य तीव्राध्यवसायतो निष्पन्नत्वात् । यस्तु मनोव्यापारमन्तरेण कायवाक्कर्मप्रवृत्तिमात्रतो विधीयते, न तत्र मनसोऽभिनिवेशस्ततो नासाववश्यं वेद्यो नापि तस्य दारुणो विपाकः । केवलमतिशुष्कसुधापङ्कधवलितभित्तिगतरजोमल इव स कर्मसङ्गः स्वत एव शुभाध्यवसायपवनविक्षोभभितोऽपयाति । मनसोऽभिनिवेशाभावश्चाज्ञानाभ्युपगमे समुपजायते, ज्ञाने सत्यभिनिवेशसम्भवात् । तस्मादज्ञानमेव मुमुक्षुणा मुक्तिपथप्रवृत्तेनाभ्युपगन्तव्यं, न ज्ञानमिति । अन्यच, भवेद्युक्तो ज्ञानस्याभ्युपगमो, यदि ज्ञानस्य निश्चयः कर्तुं पार्येत । यावता स एव न पार्येत । तथाहिसर्वेऽपि दर्शनिनः परस्परं भिन्नमेव ज्ञानं प्रतिपन्नाः, ततो न निश्चयः कर्तुं शक्यते किमिदं सम्यगुतेदमिति । अथ यत्सकलवस्तुस्तोमसाक्षात्कारिभगवद्वर्धमानोपदेशादुपजायते ज्ञानं तत्सम्यग्नेतरत्, असर्वज्ञमूलत्वादिति चेत् सत्यमेतत्, किंतु स एव सकलवस्तुस्तोमसाक्षात्कारी, न तु सौगतादिसंमतः सुगतादिरिति कथं प्रतीयते, तद्ग्राहकप्रमाणाभावादिति तदवस्थः संशयः । ननु यस्य दिवः समागत्य देवाः पूजादिकं कृतवन्तः, स एव वर्धमानः सर्वज्ञो न शेषाः सुगतादय इति चेन्न, वर्धमानस्य चिरातीतत्वेनेदानीं तद्भावग्राहक प्रमाणाभावात् । संप्रदायादवसीयत इति चेत् । ननु सोऽपि संप्रदायो धूर्तपुरुषप्रवर्तितः किं वा सत्यपुरुषप्रवर्तित इति कथमवगन्तव्यं,
1