Book Title: shaddarshan Samucchay Satik Sanuwad part 01
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 413
________________ ३५४ षड्दर्शन समुञ्चय भाग-१, परिशिष्ट -५, षड्दर्शन समुनयभूमिका हस्तिशरीरं व्याप्नुयात् । पुत्तिकाजन्म च प्राप्नुवन्न कृत्स्नः पुत्तिकाशरीरे सम्मीयेत । समान एष एकस्मिनपि जन्मनि कौमारयौवनस्थाविरेषु दोषः । स्यादेतत्-अनन्तावयवो जीवस्तस्य त एवावयवा अल्पे शरीरे सङ्कचेयुर्महति च विकसेयुरिति । तेषां पुनरनन्तानां जीवावयवानां समानदेशत्वं प्रतिहन्यते वा न वेति वक्तव्यम् । प्रतिघाते तावन्नानन्तावयवाः परिच्छिन्ने देशे सम्मीयेरन् । अप्रतिघातेऽप्येकावयवदेशत्वोपपत्तेः सर्वेषामवयवानां प्रथिमानुपपत्तेर्जीवस्याणुमात्रत्वप्रसङ्गः स्यात् । अपि च शरीरमात्रपरिच्छिनानां जीवावयवानामानन्त्यं नोत्प्रोक्षितुमपि शक्यम् ॥३४।। अथ पर्यायेण बृहच्छरीरप्रतिपत्तो केचिजीवावयवा उपगच्छन्ति तनुशरीरप्रतिपत्तौ च केचिदपगच्छन्तीत्युच्येत तत्राप्युच्यते - (ब्रह्मसूत्रं पृ. ५६३) "न च पर्यायादप्यविरोधो विकारादिभ्यः ॥३९॥" (शाङ्करभाष्यं पृ. ५६३) न च पर्यायेणाप्यवयवोपगमापगमाभ्यामेतद्देहपरिमाणत्वं जीवस्याविरोधेनोपपादयितुं शक्यते । कुतः ?, विकारादिदोषप्रसङ्गात् । अवयवोपगमापगमाभ्यां ह्यनिशमापूर्यमाणस्यापक्षीयमाणस्य च जीवस्य विक्रियावत्त्वं तावदपरिहार्यम् । विक्रियावत्त्वे च चर्मादिवदनित्यत्वं प्रसज्येत । ततश्च बन्धमोक्षाभ्युपगमो बाध्येत, कर्माष्टपरिवेष्टितस्य जीवस्यालाबुवत्संसारसागरे निमग्नस्य बन्धनोच्छेदादूर्ध्वगामिनं भवतीति । किञ्चान्यत् । आगच्छतामपगच्छतां चावयवानामागमापायधर्मवत्त्वादेवानामत्वं शरीरादिवत् । ततश्चावस्थितः कश्चिदवयव आत्मेति स्यात् । न च स निरूपयितुं शक्यतेऽयमसाविति । किञ्चान्यत् । आगच्छन्तश्चैते जीवावयवाः कुतः प्रादुर्भवन्त्यपगच्छन्तश्च व वा लीयन्त इति वक्तव्यम् ? नहि भूतेभ्यः प्रादुर्भवेयुभूतेषु च निलीयेरन, अभौतिकत्वाज्जीवस्य । नापि कश्चिदन्यः साधारणोऽसाधारणो वा जीवानामवयवाधारो निरूप्यते प्रमाणाभावात् । किञ्चान्यत् । अनवधृतस्वरूपश्चैवं सत्यात्मा स्यात्, आगच्छतामपगच्छतां चावयवानामनियतपरिमाणत्वात् । अत एवमादिदोषप्रसङ्गान पर्यायेणाप्यवयवोपगमापगमावात्मन आश्रयितु शक्यते । अथवा - पूर्वेण सूत्रेण शरीरपरिमाणस्यात्मन उपचितापचितशरीरान्तरप्रतिपत्तावकाळप्रसञ्जनद्वारेणानित्यतायां चोदितायां पुनः पर्यायेण परिमाणानवस्थानेऽपि स्रोत:-सन्ताननित्यतान्यायेनात्मनो नित्यता स्यात् । यथा रक्तपटानां विज्ञानानवस्थानेऽपि तत्सन्ताननित्यतातद्वद्विसिचामपीत्याशङ्कय तेन सूत्रेणोत्तरमुच्यते । सन्तानस्य तावदवस्तुत्वे नैरात्म्यवादप्रसङ्गः । वस्तुत्वेऽप्यात्मनो विकारादिदोषप्रसङ्गादस्य पक्षस्यानुपपत्तिरिति ।।३५।।" (ब्रह्मसूत्रं पृ. ५६४) “अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः ।।३६।।" (शाङ्करभाष्यं पृ. ५६४) “अपि चान्त्यस्य मोक्षावस्थाभाविनो जीवपरिमाणस्य नित्यत्वमिष्यते जैनैः । तद्वत्पूर्वयोरप्याद्यमध्यमयोर्जीवपरिमाणयोर्नित्यत्वप्रसङ्गादविशेषप्रसङ्गः स्यात् । एकशरीरपरिमाणतैव स्यानोपचितापचितशरीरान्तरप्राप्तिः । अथवाऽन्त्यस्य जीवपरिमाणस्यावस्थितत्वात्पूर्वयोरप्यवस्थयोरवस्थितपरिमाण एव जीव: स्यात्, ततश्चाविशेषेण सर्वदैवाणुर्महान् वा जीवोऽभ्युपगन्तव्यो न शरीरपरिमाणः । अतश्च सौगतवदार्हतमपि मतमसङ्गतमित्युपेक्षितव्यम् ।।३६ ।। इति षष्ठमेकस्मिन्नसम्भवाधिकरणम् ।।" इति ब्रह्मसूत्र-शाङ्करभाष्योक्तिः ।

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436