Book Title: shaddarshan Samucchay Satik Sanuwad part 01
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 423
________________ षड्दर्शन समुच्चय भाग - १, परिशिष्ट - ५, षड्दर्शन समुचयभूमिका पररूपेण नास्तित्वस्यानुभवात् । एतेन परस्परपरिहारस्थितिलक्षणोऽपि विरोधो निरस्त इति । " य एते सप्त पदार्थाः” इत्यारभ्य “संशयज्ञानवदप्रमाण" मित्यन्तमपि शङ्करस्वामिवचनमविचारितमेव रमणीयम्, जीवादिपदार्थानां स्वपरस्वरूपाभ्यां तथाऽतथारूपनिर्णयज्ञानसद्भावात् । “निरङ्कुशं हि अनेकान्तत्वं " इत्यादि " अनिर्धारणात्मकतैव स्यात्" इत्यन्तमपि तुच्छम्, निर्णयस्यापि स्वपरस्वरूपाभ्यां निर्णयानिर्णयत्वस्य स्वीकृतत्वात् । ३६४ “एवं निर्धारयितुर्निर्धारणफलस्य च" इत्यादितः " मत्तोन्मत्तवत् अनुपादेयवचनः स्यात्" इत्यन्तं तु स्वोन्मत्तताख्यापकमेव, प्रमातृफलयोरपि स्वपररूपाभ्यां अस्तित्वनास्तित्वस्वीकारात्, अत एव श्रीमत्तीर्थाधिपतीनां यथार्थवक्तृत्वेन तदुपदिष्टेऽर्थे एव प्रवृत्तिः ज्ञातपरमार्थानाम् । एवं पञ्चास्तिकायानां पञ्चत्वसङ्ख्या स्वरूपेणास्तित्वभावं बिभत्तिं षड्त्वादिपररूपेण च नास्तित्वभावमपि बिभर्त्ति अट एव " तथा पञ्चानामस्तिकायानां पञ्चत्वसङ्ख्या विकल्प्यमाना स्यात्" इत्यादित: "न्यूनसङ्ख्यात्वमधिकसङ्ख्यात्वं वा प्राप्नुयात्" इत्यन्तमपि प्रत्युक्तमवसेयम् । " न चैषां पदार्थानामवक्तव्यत्वं सम्भवति अवक्तव्याश्चेत् नोच्येरन् उच्यन्ते चावक्तव्याश्चेति विप्रतिषिद्धं उच्यमानाः तथैवावधार्यन्ते न वावधार्यन्त इति च " एतदपि मिथ्याप्रजल्पितम्, जीवादिवस्तूनां नैकान्तेनावक्तव्यत्वमाचक्ष्महे येनोक्तदोषः स्यात्, किन्तु कथञ्चित्, यतः सर्वेऽपि शब्दाः प्रधानतया न सत्त्वासत्त्वे युगपत् प्रतिपादयन्ति तथा प्रतिपादने तेषां शक्त्यभावात्, “उच्यमानाश्चे" त्यादितः " प्रयतत" इत्यन्तस्य तु निरस्तप्रायत्वेन न पुनः प्रयास्यते । एतेन (अद्वैतब्रह्मसिद्धिपाठः पृ. ११२) “घटस्य विवक्षायां स्यादस्ति १ निषेधविवक्षायां स्यान्नास्ति २ क्रमेण विधिनिषेधयोर्विवक्षायां स्यादस्ति च नास्ति चेति वक्तव्यम् ३ युगपदस्तित्व-नास्तित्वयोर्विधिनिषेधयोर्विवक्षायां वाचः क्रमवर्त्तित्वात् उभयं युगपद्वाच्यम् । अशक्तितः 'उभयं युगपद्वक्तुं न शक्यते ' इति तु वक्तुं शक्यं तत्कथं च वक्तव्यं ? इत्यपेक्षायां स्यादवक्तव्य इति ४ आद्योऽस्तित्वभङ्गोऽन्त्येनासत्त्वेन सह युगपदवाच्य इति विवक्षायां स्यादस्ति चावक्तव्यश्चेति ५ । अन्त्यस्य चासत्त्वस्य आद्येन सत्त्वेन सह युगपदवाच्य इति विवक्षायां स्यान्नास्ति चावक्तव्यश्चेति ६ । क्रमेण विधिनिषेधाधीनसमुचितरूपश्च स्यादस्ति च नास्ति चेत्येवंरूपः तृतीयो भङ्गएकः सत्त्वेन सह वा युगपदवाच्य इति विवक्षायां स्यादस्ति च नास्ति चावक्तव्यश्चेति सप्तमो भङ्गो भवति । अथवा पञ्चमादिभङ्गानां चतुर्थभङ्गात्फलतो भेदाभावमाशङ्कय प्रकारान्तरेण व्याख्यायते तत्र सत्त्वैकान्तपक्षः साङ्ख्याद्यभिमतः सत्कार्यवादः । तत्र पूर्वपक्षिणा सत्त्वं निर्वक्तुमशक्यमित्युच्यते । एतत्पूर्वपक्षविवक्षायां स्यादस्ति चावक्तव्यश्चेति पञ्चमो भङ्गः । अनेकान्तवादः शून्यवाद्यभिमतोऽसद्वादः । तत्र असत्त्वं निर्वक्तुमशक्यमिति पूर्वपक्षविवक्षायां स्यान्नास्ति चावक्तव्यश्चेति षष्ठोभङ्गः । क्रमेण सदसत्त्वपक्षेो वैशेषिकाद्यभिमतो घटादीनां मध्ये सतां पूर्वं पश्चाच प्रागभाव - प्रध्वंस- प्रतियोगित्वरूपमसत्त्वमिति I तत्र सदसत्त्वं निर्वक्तुमशक्यमिति पूर्वपक्षविवक्षायां स्यादस्ति च नास्ति चावक्तव्यश्चेति सप्तमो भङ्गः । तत्तत्पूर्वपक्षिभिर्यत्सत्त्वादिकं निर्वक्तुमशक्यमित्युच्यते तदपि स्यात् । एवं च - 'घटः सन्, घटोऽसन्' ।। इत्येकस्यैव सदसत्त्वयोः

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436