Book Title: shaddarshan Samucchay Satik Sanuwad part 01
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
षड्दर्शन समुझय भाग - १, परिशिष्ट - ६, लघुषड्दर्शन समुशय ।
३६९
प्रत्यक्षमनुमानमुपमानमागमो-ऽर्थापत्तिरभावश्चेति षट् प्रमाणानि, नित्याद्य(T)नेकान्तवादः, वेदविहितानुष्ठानं मोक्षमार्गः, नित्यनिरतिशयसुखाविर्भावश्च मोक्षः ।
सांख्यमत साडयदर्शनं मरीचिदर्शनम् । तत्र केषाञ्चित् कपिल एव (देवता), पञ्चविंशतिस्तत्त्वानि, तथा हि - आत्मा प्रकृतिर्महानहङ्कारः, गन्धरसरूपस्पर्शशब्दाख्यानि पञ्च तन्मात्राणि ९, पृथिव्यप्तेजोवाय्वाकाशाख्यानि पञ्चभूतानि १४, एकादश चेन्द्रियाणि, तत्र घ्राणरसनचक्षुस्त्वक्श्रोत्रमनांसि षड् बुद्धीन्द्रियाणि २०, पायूपस्थवचःपाणिपादाख्यानि पञ्च कर्मेन्द्रियाणि २५, प्रत्यक्षमनुमानमागमश्चेति प्रमाणत्रयम्, नित्यैकान्तवादः, पञ्चविंशतितत्त्वज्ञानं मोक्षमार्गः, प्रकृतिपुरुषविवेकदर्शनाद् निवृत्तायां प्रकृतौ पुरुषस्य स्वरूपावस्थानं मोक्षः ।
नास्तिकमत नास्तिकाः कापील(पालि) काः । तेषां दर्शने नास्ति सर्वज्ञः, न जीवः, न धर्माधर्मी, न च तत्फलम्, न परलोकः, न मोक्षः, तथा च तन्मतम् -
एतावानेव लोकोऽयं यावानिन्द्रियगोचरः ।
भद्रे ! वृकपदं पश्य, यद्वदन्ति बहुश्रुताः ।। पृथिव्यप्तेजोवायवश्चत्वार्येव भूतानि, प्रत्यक्षमेवैकं प्रमाणम्, पृथिव्यादिभूतसङ्घात एव शरीरम्, मद्याङ्गेषु मदशक्तिरिव चैतन्यं तत्र जायते ।
एते च नैयायिकादिप्रवादा अनन्तधर्मात्मके वस्तुनि स्वाभिप्रेतनित्यत्वादि धर्मावधारणात् शेषधर्मतिरस्कारेण प्रवर्तमाना दुर्नया उच्यन्ते, यथा - 'नित्य एव शब्द:' इत्यादि । दुर्नयबलप्रभावितसत्ताका हि खल्वेते प्रवादाः, तथा हि - नैगमनयदर्श-नानुसारिणौ नैयायिकवैशेषिको, सङ्ग्रहनयानुसारिणः सर्वेऽपि मीमांसि(स)कविशेषा अद्वैतवादाः सायदर्शनं च, व्यवहार-नयानुसारिणः प्रायश्चार्वाका नास्तिकाः, ऋजुसूत्रनयानुसारिणो बौद्धाः, शब्दादिनयावलम्बिनो वैयाकरणादयः । त एव च प्रवादा अनन्तधर्मात्मकेषु] वस्तुनि स्वाभिप्रेतनित्यत्वादिधर्मसमर्थनाप्रवणाः शेषधर्मस्वीकारतिरस्कारपरिहारेण प्रवर्तमाना नया उच्यन्ते, यथा 'अनित्यः शब्दः' इत्यादि । परस्परसापेक्षं सर्वनयमयं तु जिनमतम्, यथा 'स्यादनित्यः शब्द' इत्यादि । अत एवोच्यते .
परस्परापेक्षसर्वनयनिर्मितमार्हतम् । मतं प्रमाणं स्याद्वादि श्रेयं श्रेयार्थिभिर्बुधः ।।१।। . ...
श्री लघुषड्दर्शनसमुशय समाप्तः ।।

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436