Book Title: shaddarshan Samucchay Satik Sanuwad part 01
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 427
________________ ३६८ षड्दर्शन समुशय भाग - १, परिशिष्ट - ६, लघुषड्दर्शन समुशय ___ - पशिष्ट - 5 प्राचीनोऽज्ञातकर्तृको लघुषड्दर्शनसमुञ्चयः । जैनं नैयायिकं बौद्धं, काणादं जैमनीयकम् । साङ्ख्यं षड्दर्शनीयं, [च] नास्तिकीयं तु सप्तमम् ।।१।। [जैनमत] जैनदर्शने अर्हन् देवता, जीवाजीवौ तथा पुण्यं, पापमाश्रवसंवरौ । बन्धो विनिर्जरा मोक्षो, नव तत्त्वानि तन्मते ।। नैयायिकमत प्रत्यक्षं परोक्षं चेति प्रमाणद्वयम्, नित्यानित्याद्यनेकान्तवादः, सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः, सकलकर्मक्षये नित्यज्ञानानन्दमयश्च मोक्षः । नैयायिकाः पाशुपता जटाधरविशेषाः । तेषां दर्शने ईश्वरो देवता, प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनि-र्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानि षोडश तत्त्वानि, प्रत्यक्षमनुमानमुपमानमागमश्चेति चत्वारि प्रमाणानि, नित्यानित्यैकान्तवादः, आत्मादिप्रमेयतत्त्वं, ज्ञानं मोक्षमार्गः, षडिन्द्रियाणि, षड् विषयाः षड् बुद्धयः सुखं दुःखं शरीरं चेत्येकविंशतिः(ति) प्रतिभेदभिन्नस्य दुःखस्यात्यन्तोच्छेदश्च मोक्षः । [बौद्धमत] बौद्धा रक्तपटा भिक्षुकाः । तेषां दर्शने बुद्धो देवता, दुःखसमुदयमार्गनिरोधरुपाणि आर्यसत्य-ज्ञानि चत्वारि तत्त्वानि, प्रत्यक्षमनुमानं चेति द्वे प्रमाणे, क्षणिकैकान्तवादः, सर्वक्षणिकत्वसर्वनैरात्म(त्म्य)वासना मोक्षमार्गः [स] वासन(ना) क्लेश(स)मुच्छेदे प्रदीपस्येव ज्ञानसन्तानस्योच्छेदश्च मोक्षः । [वैशेषिकमत कणादस्य चाचार्यस्येदं काणादं जटाधरविशेषवैशेषिकदर्शनम् । तत्र ईश्वरो देवता, द्रव्यगुणकर्मसामान्यविशेषसमवा-याख्यानि षट् तत्त्वानि, प्रत्यक्षमनुमानमागमश्चेति प्रमाणत्रयम्, नित्यानित्यैकान्तवादः, आत्मनः श्रवणमनननिद(दि)ध्यासन-साक्षात्कारो मोक्षमार्गः, बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काररूपाणां नवानां विशेषगुणानामत्यन्तोच्छेदः मोक्षः । [जैमिनिमत] जैमनीयं भट्टदर्शनम् । तत्र सर्वज्ञो देवता नास्ति किन्तु नित्यवेदवाक्येभ्य एव तत्त्वनिश्चयः,

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436