Book Title: shaddarshan Samucchay Satik Sanuwad part 01
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 425
________________ ३६६ षड्दर्शन समुद्यय भाग - १, परिशिष्ट - ५, षड्दर्शन समुछयभूमिका अतो यदस्ति तदस्त्येवेति नियमवन्मन्महे । यस्तु कथञ्चिदास्ते प्रपञ्चः स च विकल्पितः तत्र च हेयोपादेयादिविभागाऽसिद्धिः । निर्धारणस्य च एकान्तसत्त्वे सर्वत्र नानैकान्तवादः । किञ्च । सङ्क्षिप्तानां प्रपञ्चितानांच पदार्थानां सर्वैर्वा शब्दैः वाच्यत्वं केनचिद्वेति विकल्प्य घटादेस्तच्छब्दवाच्यत्वेऽपि स्तम्भादिशब्दावाच्यत्वात् । न च द्वितीयमभिगम्यते नाद्य इति वाच्यम् । पदार्थानामवाच्यत्वासम्भवात् । अवक्तव्याश्चेत् केनापि शब्देन न उच्येरन् । उच्यन्ते चावक्तव्याश्चेति विरुद्धम् । ननु सत्त्वादिरूपेण निर्धारणाभावात् उच्यमानानामपि स्यादवक्तव्यता-इति चेत् । न । उच्यमानाश्च तथैवावधार्यन्ते नावधार्यन्त इति च । स्वर्गापवर्गयोश्च पक्षे भाव: पक्षेऽभावश्च तस्यैव नित्यता चानित्यता च वदतो मत्तोन्मत्तवदनुपादेयवचनत्वात् । अपि च अर्हन्नित्यमुक्तोऽनादिसिद्धः । जीवः कश्चिदनुष्ठानान्मुक्त अन्यस्तदभावाद्वध्यते । एवमार्हतमते निश्चितस्वभावानां जीवानां तथात्वमस्ति नवेति विकल्प्यमाने स्यादस्ति स्यानास्तीत्यव्यवस्थायां शास्त्रावधृतस्वभावत्वासम्भवात्तदप्रामाण्यप्रसङ्गः । इति । किञ्च । घटादीनामपि परस्परं सङ्कीर्णत्वात् ओदनार्थी अग्निभक्षणे प्रवर्तेत । जलार्थी मृदानयने च प्रवर्तेत । न च तत्र भेदस्यापि सत्त्वात् न तथा प्रवृत्तिः इति वाच्यम् । अभेदस्यापि च सत्त्वेन प्रवृत्तेरावश्यकत्वात् ।" इति अद्वैतब्रह्मसिद्धिकारोक्तिः (सर्वदर्शनसङ्ग्रहपाठः) "तदेतदार्हतमतं प्रामाणिकगर्हणमर्हति न कस्मिन् वस्तुनि परमार्थे सति परमार्थसतां युगपत्सदसत्त्वादिधर्माणां समावेशः सम्भवति । न च सदसत्त्वयोः परस्परविरुद्धयोः समुश्चयासम्भवे विकल्पः किं न स्यादिति वेदितव्यं क्रिया हि विकल्प्यते न वस्त्विति न्यायात् । न चानेकान्तं जगत्सर्वं हेरम्बनरसिंहवदिति दृष्टान्तावष्टम्भवशादेष्टव्यम् । एकस्मिन् देशे गजत्वं सिंहत्वं वाऽपरस्मिन्नरत्वमिति देशभेदेन विरोधाभावेन तस्यैकस्मिन् देश एव सत्त्वासत्त्वादिनाऽनेकान्तत्वाभिधाने दृष्टान्तानुपपत्तेः । ननु द्रव्यात्मना सत्त्वं पर्यायात्मना तदभाव इत्युभयमप्युपपन्नमिति चेन्मैवं, कालभेदेन हि कस्यचित्सत्त्वमसत्त्वं च स्वभाव इति न कश्चिद्दोषः । न चैकस्य ह्रस्वत्वदीर्घत्ववदनेकान्तत्वं जगत: स्यादिति वाच्यं प्रतियोगिभेदेन विरोधाभावात् । तस्मात् प्रमाणाभावाद्युगपत्सत्त्वासत्त्वे परस्परविरुद्ध नैकस्मिन् वस्तुनि वक्तुं युक्ते । एवमन्यासामपि भङ्गीनां भङ्गोऽवगन्तव्यः । किं च सर्वस्यास्य मूलभूतः सप्तभङ्गीनयः स्वयमेकान्तोऽनेकान्तो वा, आद्ये सर्वमनेकान्तमिति प्रतिज्ञाव्याघातः । द्वितीये विवक्षितार्थासिद्धिः । अनेकान्तत्वेनासाधकत्वात् । तथा चेयमुभयतः पाशा रज्जुः स्याद्वादिनः स्यात्" इत्यादि सर्वदर्शनसङ्ग्रहकारोक्तिश्च निराकृता । अत्र शाङ्करभाष्यादिस्थपाठाः तेषु तेषु मुद्रितपुस्तकेषु यथा दृष्टास्तथैव विरामादिभिरसंस्कृता उपन्यस्ता अतस्तद्शुद्धिविषये न कार्यों वाचकैर्व्यामोहः । वैशषिकनाग्नि पञ्चमाधिकारे नवभिर्वृत्तैः वैशेषिकदर्शनस्वरूपं सङ्खपतस्समदर्शि । षष्ठेऽधिकारे दशभिर्वृत्तजैमिनीयदर्शनस्वरूपं सन्दर्य नैयायिकैः साकं वैशेषिकाणमभेदमानिनां मतापेक्षया वृत्तद्वयेन षड्दर्शनसङ्ख्यां समापूर्य च वृत्ताष्टकेन नास्तिकमतं प्रदर्शितम् ।

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436