Book Title: shaddarshan Samucchay Satik Sanuwad part 01
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 424
________________ षड्दर्शन समुझय भाग - १, परिशिष्ट - ५, षड्दर्शन समुययभूमिका ३६५ प्रत्यक्षत्वात् कालभेदोपाधिकल्पनायां तु कालस्यापि सन्नसन् इति प्रत्ययात्तत्रापि तत्कल्पनायामनवस्थानात् प्रत्यक्षमेव वस्तूनामनैकान्त्यम् । एवमेकत्वनित्यत्वादिष्वपि पदार्थानां सत्त्वादिव्यवस्था वास्तवी न सम्भवतीति न च वेदान्तमतप्रवेश इति वाच्यम् । व्यवहारेष्वनिर्वचनीयानां मायिकानां व्यावहारिकसत्ताङ्गीकारात्, परमार्थतस्तु तदधिष्ठाने निर्विकल्पके त्रिविधपरिच्छेदशून्ये ब्रह्मणि नित्यशुद्ध-बुद्ध-मुक्तस्वभावे वक्ष्यमाणे कल्पितत्वाङ्गीकाराय तन्मतप्रवेशानापत्तेः, तस्मात् सप्तभङ्गीन्यायस्य तर्कसिद्धत्वात् सप्तपदार्थेषु तत्प्रतिपादनं न्याय्यमिति चेत् ? चिरकालपिशाचा-विष्टोन्मत्तप्रलपनमेतत्, तदुक्तं - तिष्ठन्नयं नग्नतनुर्यतस्ततो जल्पन्ननैकान्तमसङ्गतं बहु । नूनं पिशाचोऽयममुष्य सिद्धये मिताक्षरैर्मन्त्रवरः प्रयोज्यते ।।१।। इति । तत्र 'पुद्गलसंज्ञकेभ्योऽणुभ्यः सङ्घाता भवन्ति' इति यदुक्तं तत्सर्वं पूर्वोक्तानुवादनिराकरणेनैव निराकृतम् । जीवादिपदार्थानां प्रसिद्धानां तु तत्परिमाणबन्धमोक्ष-व्यवहारादिव्यवस्था । सा तु क्रमेणैव निराक्रियते । तथाहि । तत्र यद्यपि कालोपाधिसत्त्वाऽसत्त्वप्रतीतावपि उपाध्यन्तरकल्पनेन व्यवस्था नोपाधितो व्यवस्थापयितुं शक्यते । तथापि सत्त्वासत्त्वभेदादीनां घटकपालादिषु सामान्यविशेषादिषु च व्यवस्थयैवान्योन्याऽसाङ्कर्येणैव प्रत्यक्षव्यवहारयोः प्रत्यक्षत्वात् न व्यावहारिकमेकान्तत्वमपन्होतुं शक्यते । अनकान्तिके च न कस्मिन् धर्मिणि परमार्थसति परमार्थसतां युगपत्सदसत्त्वादीनां धर्माणां परस्परविरहरूपाणां समावेशः सम्भवति । शीतोष्णादिवदसम्भवात् । ऐकान्तिके तु यदस्ति वस्तु तत्सर्वदा सर्वत्र सर्वथा सर्वात्मनाऽस्त्येव निर्वचनीयरूपेण यथा अस्मन्मते प्रत्यगात्मा । यत्तु क्वचित्केनचिदात्मना अस्तीत्युच्यते यथाऽस्मत्प्रपञ्चोऽनिर्वाच्यः । तत्तु व्यवहारतो यावद् ब्रह्मज्ञानमस्त्येव न तु परमार्थत:-इति किमनुपपत्रम् ? तव तु सत्त्वासत्त्वयोर्वस्तुधर्मत्वेऽसत्त्वदशायामपि वस्त्वनुवृत्त्यापातात् । वस्तुस्वरूपत्वे च सर्वदा सत्त्वासत्त्वप्रसङ्गेन भग्नेनापि घटेन मधुधारणप्रसङ्गात् तथा च प्रवृत्त्याद्यनुपपत्तिरपि । अस्माकं तु प्रवृत्तिनिवृत्ती व्यावहारिकसत्त्वेनैव भविष्यतः । न च व्यावहारिकविषयत्वमात्रेण सत्यत्वम् शुक्ति-मरुमरी चिकादिषु रजततोयादिभिरपि वास्तवत्वप्रसङ्गात् । न चाबाधितलौकिकदृढतरप्रतीतिविषयत्वेन सत्यत्वम् । देहात्मवादस्याप्यबाधितत्वेन तात्त्विकत्वापत्तेः । विवेकिना देहात्माभिमानस्य विचारेण बाधात्-इति चेत् । तर्हि प्रपञ्चस्याप्यनन्तस्य तुल्यत्वमिति न सत्यत्वावकाशः । तस्मादेकत्र विरुद्धधर्मद्वयसमावेशासम्भवादनकान्तिकस्य व्यवहारतो वस्तुतो वा असम्भवः । ऐकान्तिकत्वग्ग च घटादिषु तत्त्वतो योगेऽपि व्यवस्थयैव दृष्टव्यवहारदृष्टेर्व्यावहारिकत्वसिद्धिः । अपि च सत्त्वासत्त्वयोः परस्परविरुद्धत्वेन समुच्चयाभावे विकल्पः । न च-वस्तुनि विकल्पः सम्भवति । तस्मात् स्थाणुर्वा पुरुषो वेति ज्ञानवत् सप्तत्व-पञ्चत्वनिर्धारणस्य फलस्य निर्धारयितुश्च प्रमातुः तत्करणस्य प्रमाणस्य तत्प्रमेयस्य च पञ्चत्व-सप्तत्वस्य सदसत्त्वादिसंशये साधुसमर्थितमात्मनस्तीर्थकरत्वं दिगम्बरवृषभेणेति ।

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436