Book Title: shaddarshan Samucchay Satik Sanuwad part 01
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
षड्दर्शन समुञ्चय भाग - १, परिशिष्ट - ५, षड्दर्शन समुञ्चयभूमिका
३६३
सत्त्वं तर्हि सर्वं विश्वं एकरूपतामापाद्येत तथा सति विद्याऽविद्याजडचैतन्यद्वैताद्वैत-सदसदेकानेकनित्यानित्यसमलनिर्मलसाध्यसाधनप्रमाणप्रमेयप्रमुखपदार्थसाथैक्यप्रसङ्गेन प्रत्यक्षविरोधो दुर्द्धर एव स्यात् । किञ्चैवं ब्रह्मणोऽपि स्वरूपेण सत्त्वमिव मायारूपेणापि सत्त्वं स्यात् । तस्मात् एकस्मिन् धर्मिणि प्रतीयमानयोः सत्त्वासत्त्वयोः न विरोधः, खरविषाणवत् तस्यानुपलम्भस्वरूपत्वात् । ननु पररूपेणासत्त्वं पररूपासत्त्वमेव, घटाभावरूपे भूतले भूतलं नास्तीति वक्तुं यथा न शक्यते तथैव पटरूपाभावे घटे घटो नास्तीति वक्तुं न शक्यत इति चेत् ? न, विकल्पासहत्वात् तथाहि-पटरूपासत्त्वं पटादिधर्मः घटादिधर्मो वा ? न पटादिधर्मः, स्वस्वरूपव्याहतिप्रसङ्गात् । न च स्वस्वरूपं स्वस्मिन् नास्तीति वाच्यं, तस्य स्वस्वरूपविरोधित्वात् पटधर्मस्य घटाद्याधारत्वायोगाश्च अन्यथा वितानाद्याकारस्यापि घटाधारत्वप्रसङ्गात्, द्वितीयपक्षस्वीकारे तु सिद्धं न: समीहितमतो नास्ति विवदिषापि । तस्मात् अकामेनापि भवता भावधर्मयोगात् भावत्वमिव अभावधर्मयोगात् अभावात्मकत्वमप्यङ्गीकरणीयम्, अन्यथा अभावधर्मयोगाद्यथा असन्निति प्रत्ययो न स्यात्, तथा भावधर्मयोगात् सन्निति प्रत्ययोऽपि न स्यात् । एवं सति पटाभावे घटे घटो नास्तीति प्रयोगो नानुपपन्नः । न च वक्तव्यं पटरूपासत्त्वं घटनिष्ठाभावप्रतियोगित्वमेव तदेव च पटधर्मः, एवं सत्यपि पररूपासत्त्वस्य घटधर्मस्याव्याहतिः, यथा घटाभावः भूतलधर्मः, तत: घटस्य भावाभावात्मकत्वमविरुद्धमिति । ननु तथापि घटो नास्ति पटो नास्ति इत्येव वक्तुमुचितम्, अभावबोधकवाक्यस्य प्रतियोगिप्रधानत्वात् यथा भूतले घटो नास्टीत्यभावप्रतिपादनपरं वाक्यं प्रवर्त्तते न तु भूतलं नास्तीति, एवं पटाभावप्रतिपादनवाक्यस्यापि तथा प्रवृत्तिः, अन्यथा कपालदशायां कपालं भविष्यतीति प्रयोगप्रसङ्गोऽपि इति चेत् ? एवमेव, व्यवहारानुरोधेनैव शब्दप्रयोगसिद्धेः । नन्वेकवस्तुनः भेदाभावेन यत्स्वरूपेण सत्त्वं तदेव पररूपेणासत्त्वं यदेव पररूपेणासत्त्वं तदेव स्वरूपेण सत्त्वमिति सत्त्वासत्त्वाभ्यां कुत उभयरूपतेति चेत् ? अवच्छेदकभेदेनैकस्मिन्नपि वृक्षे कपिसंयोगतदभावसत्त्ववनिमित्तभेदेनेति ब्रूमः । तथा च - वाचकेन्द्रविरचिते भाषारहस्ये -
"भिण्णणिमित्तत्तणउ, ण य तेसिं हंदि भण्णइ विरोहो । वंजयघडयाईयं, होइ णिमित्तं पि इह चित्तं ।।१।।" इति ।
नन्वेकस्मिन् वस्तुनि सत्त्वासत्त्वयोः प्रतीतिमिथ्येति चेत् ? न, बाधकाभावात्, विरोध एव बाधक: इत्यपि न वक्तव्यम्, अन्योन्याश्रयणात्, अपि च ननु कोऽत्र विरोध: सहावस्थानलक्षण: ? वध्यवधकभावलक्षण: ? प्रतिबध्यप्रतिबन्धकरूपो वा ?, नाद्यः, यद्यद्देशावच्छेदेन यद्यत्कालावच्छेदेन स्वरूपादिभिधर्मिणः सत्त्वं तत्तद्देशावच्छेदेन तत्तत्कालावच्छेदेन पररूपादिभिरसत्त्वस्यानुपलम्भाभावात् । द्वितीयस्तु सबलदुर्बलानामहिनकुलादीनामेव प्रतीतः, न सत्त्वासत्त्वयोः समबलत्वात्तयोरिति । तृतीयोऽपि प्रतिबन्धकमणिचित्रभान्वादीनामेव सम्भवति, नाऽस्तित्वनास्तित्वयोः, यतः स्वरूपेणास्तित्वकालेऽपि

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436