Book Title: shaddarshan Samucchay Satik Sanuwad part 01
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 420
________________ षड्दर्शन समुचय भाग - १, परिशिष्ट - ५, षड्दर्शन समुद्ययभूमिका ३६१ ते ह्येवं प्रलपन्ति नहि परस्परविरुद्धयोः सत्त्वासत्त्वयोः युगपत् एकस्मिन् घटादौ सम्भव:, परस्परपरिहारेण स्थितत्वात् । तथा च तेषां वचनं - "नैकस्मिन्त्रसम्भवात्" इति व्यासवचनं (पृ. ५५९) "(शाङ्करभाष्यम् पृ. ५५९) निरस्तः सुगतसमय: । विवसनसमय इदानीं निरस्यते । सप्त चैषां पदार्थाः सम्मता जीवाजीवास्त्रवसंवरनिर्जराबन्धमोक्षा नाम । सङ्क्षपतस्तु द्वावेव पदार्थो जीवाजीवाख्यौ । यथायोगं तयोरेवेतरान्तर्भावादिति मन्यते । तयोरिममपरं प्रपञ्चमाचक्षते पञ्चास्तिकाया नाम, जीवास्तिकाय: पुद्गलास्तिकायो धर्मास्तिकायोऽधर्मास्तिकाय आकाशास्तिकायश्चेति । सर्वेषामप्येषामवान्तरप्रभेदान् बहुविधान् स्वसमयपरिकल्पितान् वर्णयन्ति । सर्वत्र चेमं सप्तभङ्गीनयं नाम न्यायमवतारयन्ति । स्यादस्ति, स्यानास्ति, स्यादस्ति च नास्ति च, स्यादवक्तव्यः, स्यादस्ति चावक्तव्यश्च, स्यानास्ति चावक्तव्यश्च, स्यादस्ति च नास्ति चावक्तव्यश्चेति । एवमेवैकत्वनित्यत्वादिष्वपीमं सप्तभङ्गीनयं योजयन्ति । अत्राचक्ष्महे-नायमभ्युपगमो युक्त इति । कुतः ? एकस्मिन्नसम्भवात् । न ह्येकस्मिन् धर्मिणि युगपत्सदसत्त्वादिविरुद्धसमावेश: सम्भवति शीतोष्णवत् । य एते सप्त पदार्था निर्धारिता एतावन्त एवंरूपाश्चेति ते तथैव वा स्युर्नव वा तथा स्युः । इतरथा हि तथा वा स्युरतथा वेत्यनिर्धारितरूपं ज्ञानं संशयज्ञानवदप्रमाणमेव स्यात् । नन्वनेकात्मकत्वं वस्त्विति निर्धारितरूपमेव ज्ञानमुत्पद्यमानं संशयज्ञानवत्राप्रमाणं भवितुमर्हति । नेति ब्रूमः । निरङ्कशं ह्यनेकान्तत्वं सर्ववस्तुषु प्रतिजानानस्य निर्धारणस्यापि वस्तुत्वाविशेषात्स्यादस्ति स्यानास्तीत्यादिविकल्पोपनिपातादनिर्धारणात्मकतैव स्यात् । एवं निर्धारयितुर्निर्धारणफलस्य च स्यात्पक्षेऽस्तिता स्याञ्च पक्षे नास्तितेति । एवं सति कथं प्रमाणभूत: संस्तीर्थकरः प्रमाणप्रमेयप्रमातृप्रमितिष्वनिर्धारितासूपदेष्टुं शक्नुयात् ? कथं वा तदभिप्रायानुसारिणस्तदुपदिप्टेऽर्थेऽनिर्धारितरूपे प्रवर्तेरन् ? ऐकान्तिकफलत्वनिर्धारणे हि सति तत्साधनानुष्ठानाय सर्वो लोकोऽनाकुलः प्रवर्तते नान्यथा । अतश्चानिर्धारितार्थं शास्त्रं प्रणयन्मत्तोन्मत्तवदनुपादेयवचन: स्यात् । तथा पञ्चानामस्तिकायानां पञ्चत्वसङ्ख्यास्ति वा नास्ति वेति विकल्प्यमाना स्यात्तावदेकस्मिन् पक्षे पक्षान्तरे तु न स्यादित्यतो न्यूनसङ्ख्यात्वमधिकसङ्ख्यात्वं वा प्राप्नुयात् । न चैषां पदार्थानामवक्तव्यत्वं सम्भवति । अवक्तव्याश्चेनोच्येरन् । उच्यन्ते चावक्तव्याश्चेति विप्रतिषिद्धम् । उच्यमानाश्च तथैवावधार्यन्ते नावधार्यन्त इति च । तथा तदवधारणफलं सम्यग्दर्शनमस्ति वा नास्ति वा, एवं तद्विपरीतमसम्यग्दर्शनमप्यस्ति वा नास्ति वेति प्रलपन्मत्तोन्मत्तपक्षस्यैव स्यात्र प्रत्यायितव्यपक्षस्य । स्वर्गापवर्गयोश्च पक्षे भाव: पक्षे चाभावस्तथा पक्षे नित्यता पक्षे चानित्यतेत्यनवधारणायां प्रवृत्त्यनुपपत्तिः । अनादिसिद्धजीवप्रभृतीनां च स्वशास्त्रावधृतस्वभावानामयथावधृतस्वभावत्वप्रसङ्गः । एवं जीवादिषु पदार्थेष्वेकस्मिन् धर्मिणि सत्त्वासत्त्वयोविरुद्धयोधर्मयोरसम्भवात्सत्त्वे चैकस्मिन्धर्मेऽसत्त्वस्य धर्मान्तरस्यासम्भवादसत्त्वे चैवं सत्त्वस्यासम्भवादसतमिदमार्हतं मतं । एतेनैकानेकनित्यानित्यव्यतिरिक्ताव्यतिरिक्ताद्यनेकान्ताभ्युपगमा निराकृता मन्तव्याः ।" इति शङ्करस्वामिवचनं ।

Loading...

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436