Book Title: shaddarshan Samucchay Satik Sanuwad part 01
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 419
________________ ३६० षड्दर्शन समुञ्चय भाग - १, परिशिष्ट - ५, षड्दर्शन समुच्चयभूमिका कर्म । तत्र घातिकर्म चतुर्विधम् । तद्यथा-ज्ञानावरणीयं दर्शनावरणीयं मोहनीयमन्तरायमिति । तथा चत्वार्यघातिकर्माणि । तद्यथा-वेदनीयं नामिकं गोत्रिकमायुष्कं चेति । तत्र सम्यग्ज्ञानं न मोक्षसाधनं न हि ज्ञानाद्वस्तुसिद्धिरतिप्रसङ्गादिति विपर्ययो ज्ञानावरणीयं कर्मोच्यते । आईतदर्शानाभ्यासान मोक्ष इति ज्ञानं दर्शनावरणीयं कर्म । बहुषु विप्रतिषिद्धेषु तीर्थकरैरुपदर्शितेषु मोक्षमार्गेषु विशेषानवधारणं मोहनीयं कर्म । मोक्षमार्गप्रवृत्तानां तद्विघ्नकरं विज्ञानमन्तरायं कर्म । तानीमानि श्रेयोहन्तृत्वाद्घातिकर्माण्युच्यन्ते । अघातीनि कर्माणि, तद्यथा वेदनीयं कर्म शुक्रपुद्गलविपाकहेतुः, तद्वि बन्धोऽपि न निःश्रेयस: परिपन्थि, तत्त्वज्ञानाविघातकत्वात् । शुक्रपुद्गलारम्भकवेदनीयकर्मानुगुणं नामिकं कर्म, तद्वि शुक्रपुद्गलस्याद्यवस्थां कललबुद्बुदादिमारभते । गौत्रिकमव्याकृतं ततोऽप्याद्यं शक्तिरूपेणावस्थितम् । आयुष्कं त्वायु: कायति कथयत्युत्पादनद्वारेत्यायुष्कम् । तान्येतानि शुक्रपुद्गलाद्याश्रयत्वादघातीनि कर्माणि । तदेतत् कर्माष्टकं पुरुषं बध्नातीति बन्धः । विगलितसमस्तक्लेशतद्वासनस्यानावरणज्ञानस्य सुखैकतानस्यात्मन उपरि देशावस्थानं मोक्ष इत्येके । अन्ये तूर्ध्वगमनशीलो हि जीवो धर्माधर्मास्तिकायेन बद्धस्तद्विमोक्षाद्यदूर्ध्वं गच्छत्येव स मोक्ष इति त एते सप्त पदार्था जीवादय: सहावान्तरप्रभेदैरुपन्यस्ताः ।" इति भामतीवृत्तिकारश्रीवाचस्पतिमिश्रोक्तिः । ___ 'अस्तीति कायन्ते शब्द्यन्त इत्यस्तिकाया: । के गै शब्दे । अर्हन् नित्यसिद्धः । इतरे केचित्साधनैर्मुक्ताः । अन्ये बद्धाः । प्रवृत्त्यनुमेय इति । सम्यग्मिथ्यात्वेन प्रवृत्तिद्वैविध्यं वक्ष्यति । तत्र धर्मास्तिकायः सम्यक्प्रवृत्त्यनुमेय इत्यर्थः । शास्त्रीयबाह्यप्रवृत्त्या ह्यान्तरोऽपूर्वाख्यो धर्मोऽनुमीयत इत्यर्थः । अधर्मेति । उर्ध्वगमनशीलो हि जीवस्तस्य देहेऽवस्थानेनाधर्मोऽनुमीयत इत्यर्थः । बन्धमोक्षौ फले । प्रवृत्ती तु समीच्यसमीच्यौ तयोः साधने ते दर्शयति-आस्रवेति । आस्रावयति गमयति । बन्धोऽष्टविधमिति । यद्यपि पूर्वोक्त आस्रवोऽपि बन्धः, तथापि तद्धेतुत्वादयमपि बन्ध इत्यर्थः । अतिप्रसङ्गादिति । आशामोदकादिज्ञानेभ्योऽपि मोदकादिसिद्धिप्रसङ्गादित्यर्थः । विपाकहेतुरिति । शरीराकारेण परिणामहेतुः । तर कर्म वेदनीयं शरीरद्वारेण तत्त्ववेदनहेतुत्वादिति शुक्रशोणितव्यतिरेकजाते मिलितं तदुभयस्वरूपमायुष्कम् । तस्य देहाकारपरिणामशक्तिोत्रिकम् । शक्तिमति तस्मिन् बीजे कललाख्यद्रवात्मकावस्थाया बुबुदात्मतायाश्चारम्भकः क्रियाविशेषो नामिकम् । सक्रियस्य बीजस्य तेज:पाकवशादीषद्धनीभाव: शरीराकारपरिणामहेतुर्वेदनीयमिति विभाग: । कायतीति कैगै शब्दे इत्यस्य रूपम्" इति कल्पतरुनामकभामतीवृत्तिवृत्तिकारामलानन्दसरस्वत्योक्तिश्चास्मादुक्तवज्रप्रहारेणोच्छ्वसितुमपि न शक्नोति । तत एकेन वृत्तेन चारित्रयोग्यता, एकेन ज्ञानादियोगेनैव मुक्तिभाजनता, एकेन प्रमाणद्वयं प्रमाणविषयश्च, एकेन प्रमाणद्वयलक्षणं, एकेन वस्तुनोऽनन्तधर्मात्मकत्वं, एकेन जैनदर्शनस्य पूर्वापरविरोधविरहित्वं चेति प्रतिपादितम् । कनककुम्भदृष्टान्तेन वस्तुनोऽनन्तधर्मात्मकत्वप्रतिपादनेन व्यासादयोऽपि प्रत्युक्ताः द्रष्टव्याः ।

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436