Book Title: shaddarshan Samucchay Satik Sanuwad part 01
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
षड्दर्शन समुञ्चय भाग - १, परिशिष्ट - ५, षड्दर्शन समुञ्चयभूमिका
३५९
बन्धोऽष्टविधं कर्म । तत्र घातिकर्म चतुर्विधम् । ज्ञानावरणीयम् १ दर्शनावरणीयम् २ मोहनीयम् ३ आन्तरीयकम् ४ चेति । तत्र सम्यक्ज्ञानं न मोक्षसाधनम् । ज्ञानाद्वस्तुसिद्धो शुक्तिरजतादिज्ञानेभ्योऽपि सत्यरजतादिसिद्धिप्रसङ्गात् । आशामोदकादिज्ञानेभ्योऽपि मोदकादिसिद्धिप्रसङ्गाञ्च । इति विपर्ययो ज्ञानावरणीयं कर्मोच्यते १ । आर्हतदर्शनाभ्यासान मोक्ष इति ज्ञानं दर्शनावरणीयं कर्म २ । बहुषु विप्रतिषिद्धेषु तीर्थकरैरुपदर्शितेषु मोक्षमार्गेषु विशेषानवधारणं मोहनीयं कर्म ३ । सन्मोक्षमार्गप्रवृत्तानां तद्विघ्नकरमैश्वर्यादिकमस्त्विति ज्ञानं आन्तरीयकम् ४ । तान्येतानि श्रेयोहन्तृत्वाद् घातिकर्माण्युच्यन्ते । अघातीनि च कर्माणि चत्वारि । आयुष्कं १ गोत्रिकं २ नामिकं ३ वेदनीयं ४ चेति । तत्र शुक्र-शोणितव्यतिकरे जाते मिलितं तदुभयं स्वरूपं आयुष्कम् १ । तस्य आयुष्कस्य देहाकारपरिणामशक्तिोत्रिकं २ शक्तिमति तस्मिन् बीजे कललाख्यद्रवात्मकावस्था बुबुदात्मतायाश्चारम्भक: क्रियाविशेषो नामिकम् ३ । सक्रियस्य बीजस्य तेज:पाकवशादीषद्घनीभावः शरीराकारपरिणामहेतुर्वेदनीयम् ४ इति । अन्ये तु विधान्तरेण कर्माप्टकमाहुः । जैनमते ज्ञान-दर्शन-सुख-वीर्यगुणकस्य ज्ञानादिगुणानां मोक्षदशायामाविर्भविष्यतां संसारदशायां प्रतिघातकानि प्रवाहानादीनि पापरूपाणि चत्वारि घातिकर्माणि, शरीरसंस्थानादिवर्त्तकानि कर्माण्यघातीनि इति तदेतत्कर्माष्टकं पुरुषं बनातीति बन्धः ।
एवं बन्धपदार्थं निरूप्य मोक्षपदार्थोऽपि निरूप्यते । 'अर्हन्मुनिप्राप्तिर्मुक्तिः' इति केचित् । 'विगलितसमस्तक्लेशतद्वासनस्य अनावरणज्ञानस्य सुखैकतानस्यात्मन: उपरि देशावस्थानं मोक्षः' इत्यपरे । अन्ये तु - अनादिकालप्रवृत्तशरीरावस्थितिप्रयुक्तबन्धमुक्तौ सततोर्ध्वगमनं जीवस्य मोक्षं मन्यन्ते । दृष्टं चोर्ध्वगमनं बद्धमुक्तस्य । यथा पञ्जरमुक्तस्य शुकस्य । यथा वा दृढपङ्कलिप्तस्य जलनिमजने प्रक्षीणपङ्कलेपस्य शुष्कालाबुफलस्य निश्छिद्रस्येति ।" इति अद्वैतब्रह्मसिद्धिकारोक्तमुद्गरप्रहारः ।
(शङ्करभाष्यवृत्तिः पृ. ५५९) "जीवास्तिकायस्त्रिधा-बद्धो मुक्तो नित्यसिद्धश्चेति । पुद्गलास्तिकाय: षोढा-पृथिव्यादीनि चत्वारि भूतानि स्थावरं जङ्गमं चेति । धर्मास्तिकाय: प्रवृत्त्यनुमेयोऽधर्मास्तिकाय: स्थित्यनुमेयः । आकाशास्तिकायो द्वेधा-लोकाकाशोऽलोकाकाशश्च । तत्रोपर्युपरिस्थितानां लोकानामन्तर्वी लोकाकाशस्तेषामुपरि मोक्षस्थानमलोकाकाश: । तत्र हि न लोका: सन्ति । तदेवं जीवाजीवपदार्थों पञ्चधा प्रपञ्चितौ । आस्रवसंवरनिर्जरास्त्रयः पदार्थाः प्रवृत्तिलक्षणा: प्रपञ्यन्ते । द्विधा प्रवृत्तिः सम्यग्मिथ्या च । तत्र मिथ्याप्रवृत्तिराश्रवः । सम्यक्प्रवृत्ती तु संवरनिर्जरौ । आस्रवयति पुरुषं विषयेष्वितीन्द्रियप्रवृत्तिराश्रवः । इन्द्रियद्वारा हि पौरुषं ज्योतिर्विषयान् स्पृशद्रूपादिज्ञानरूपेण परिणमत इति । अन्ये तु कर्माण्याश्रवमाहुः । तानि हि कर्तारमभिव्याप्य स्रवन्ति कर्तारमनुगच्छन्तीत्यास्रवः । सेयं मिथ्याप्रवृत्तिरनर्थहेतुत्वात् । संवरनिर्जरौ च सम्यक्प्रवृत्ती । तत्र शमदमादिरूपा प्रवृत्ति: संवरः । सा ह्यानवस्रोतसो द्वारं संवृणोतीति संवर उच्यते । निर्जरस्त्वनादिकालप्रवृत्तिकषायकलुषपुण्यापुण्यप्रहाणहेतुस्तप्तशिलारोहणादिः । स हि नि:शेषं पुण्यापुण्यं सुखदुःखोपभोगेन जरयीति निर्जरः । बन्धोऽष्टविधं

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436