Book Title: shaddarshan Samucchay Satik Sanuwad part 01
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 421
________________ षड्दर्शन समुच्चय भाग - १, परिशिष्ट - ५, षड्दर्शन समुच्चयभूमिका अत्रोच्यते - “ सप्त चैषां पदार्थाः सम्मता" इत्यादि “ इमं सप्तभङ्गीनयं योजयन्ति" इत्यन्तं तु समीचीनं, सप्तभङ्गी स्वरूपं च न्यायाचार्योक्तमिदं " एकत्र वस्तुन्येकैकधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः समस्तयोश्च विधिनिषेधयोः कल्पनया स्यात्काराङ्कितः सप्तधा वाक्प्रयोगः सप्तभङ्गी इयं च सप्तभङ्गी वस्तुनि प्रतिपर्यायं सप्तविधधर्माणां सम्भवात् सप्तविधसंशयोत्थापितसप्तविधजिज्ञासामूलसप्तविधप्रश्नानुरोधादुपपद्यते । तत्र स्यादस्त्येव सर्वमिति प्राधान्येन विधिकल्पनया प्रथमो भङ्गः । स्यात्कथञ्चित् स्वद्रव्यक्षेत्रकालभावापेक्षयेत्यर्थः । अस्ति हि घटादिकं द्रव्यतः पार्थिवादित्वेन, न जलादित्वेन, क्षेत्रतः पाटलिपुत्रकादित्वेन, न कान्यकुब्जादित्वेन, कालतः शैशिरादित्वेन, न वासन्तिकादित्वेन, भावतः श्यामादित्वेन, न रक्तादित्वेन । एवं स्यान्नास्त्येव सर्वमिति प्राधान्येन निषेधकल्पनया द्वितीयः । न चासत्त्वं काल्पनिकं सत्त्ववत्तस्य स्वातन्त्र्येणानुभवात् । अन्यथा विपक्षासत्त्वस्य तात्त्विकस्याभावेन हेतोस्त्रैरूप्यव्याघातप्रसङ्गात् । स्यादस्त्येव स्यान्नास्त्येवेति प्राधान्येन क्रमिकविधिनिषेधकल्पनया तृतीयः । स्यादवक्तव्यमेवेति युगपत्प्राधान्येन विधिनिषेधकल्पनया चतुर्थः । एकेन पदेन युगपदुभयोर्वक्तुमशक्यत्वात् । शतृशानचौ सदित्यादौ साङ्केतिकपदेनापि क्रमेणार्थद्वयबोधनादन्यतरत्वादिना कथञ्चिदुभयबोधनेऽपि प्रातिस्विकरूपेणैकपदादुभयबोधस्य ब्रह्मणापि दुरुपपादत्वात् । स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपद्विधिनिषेधकल्पनया च पञ्चमः । स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युगपद्विधिनिषेधकल्पनया च षष्ठः । स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेति विधिनिषेधकल्पनया युगपद्विधिनिषेधकल्पनया च सप्तम इति । " " अत्राचक्ष्महेनायमभ्युपगमो युक्तः एकस्मिन्नसम्भवात्, न ह्येकस्मिन् धर्मिणि युगपत् सदसत्त्वादिविरुद्धयोः समावेशः सम्भवति शीतोष्णवत्" एतत्तु न समीचीनं, यतो नहि वयं एकस्मिन् धर्मिणि येन रूपेण सत्त्वं तेनैव रूपेणासत्त्वं प्रतिपादयामः येनोक्तदोषः स्यात्, किन्तु स्वद्रव्य-क्षेत्र - काल - भावाद्यपेक्षया सत्त्वं परद्रव्यक्षेत्रकालभावाद्यपेक्षया चासत्त्वं प्रतिपादयामः, यदि पररूपेणापि सत्त्वं स्यात् तर्हि स्वरूपमेव जह्यात् तदन्यस्वरूपवत् तथा चाहुः अनेकान्तजयपताकायां श्रीमद्धरिभद्रसूरिपादा. "यतस्तत्स्वद्रव्यक्षेत्रकालभावरूपेण सद्वर्त्तते परद्रव्यक्षेत्रकालभावरूपेण चासत् ततश्च सचासच भवत्यन्यथा तदभावप्रसङ्गात् । तथाहि यदि तत् यथा स्वद्रव्य-क्षेत्र - कालभावरूपेण सदेवं परद्रव्यादिरूपेणापि स्यात्, ततश्च तद्घटवस्त्वेव न स्यात्, परद्रव्यादिरूपेणापि सत्त्वात्, तदन्यस्वात्मवत्, तथा यदि यथा परद्रव्यक्षेत्रकालभावरूपेणासदेवं स्वद्रव्यादिरूपेणापि स्यात् इत्थमपि तद्वटवस्त्वेव न स्यात् स्वद्रव्यादिरूपेणाप्यसत्त्वात् खरविषाणवदित्येवं तदभावप्रसङ्गात् सदसद्रूपं तदङ्गीकर्त्तव्यमिति । तथा च तद्द्रव्यतः पार्थिवत्वेन सत् नाबादित्वेन तथा क्षेत्रत इहत्यत्वेन, न पाटलिपुत्रकादित्वेन, तथा कालतो घटकालत्वेन न मृत्पिण्डादिकालत्वेन तथा भावतः श्यामत्वेन न रक्तत्वादिनेति, अन्यथेतररूपापत्त्या तत्स्वरूपहानिप्रसङ्ग इति” । किञ्च यदपेक्षया स्वरूपसत्त्वं तदपेक्षया पररूपेणापि ३६२

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436