Book Title: shaddarshan Samucchay Satik Sanuwad part 01
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
३५६
षड्दर्शन समुञ्चय भाग - १, परिशिष्ट - ५, षड्दर्शन समुञ्चयभूमिका
गुणगुणिभावस्य समवायाधीनत्वात् तस्य च पूवमेव दूषितत्वात् । अग्रे नैयायिकादिकं प्रत्यतिविस्तरेण दूष्यमाणत्वाञ्च । न द्वितीयः । मध्यमपरिमाणत्वापत्त्या अणुत्वभङ्गप्रसङ्गात् । न हि गृहमण्डलवर्तिप्रदीपप्रभाकस्यचिदतीन्द्रिया भवति । इन्द्रियगोचरत्वे तु सावयवत्वापत्तेरनुभवसिद्धत्वात् । एवं च सति अस्मिन्नपि दर्शने न गुरुशब्दाभिधेयसिद्धिरिति । तस्मादसङ्गतमेवार्हतं दिगम्बरदर्शनमित्यलमसम्भाष्यमाणसम्भाषणेनेति दिक् ।' इति अद्वैतब्रह्मसिद्धिकारोक्तिः ।
(सर्वदर्शनसङ्ग्रहपाठः पृ. ३७) "तथा जीवस्य देहानुरूपपरिमाणत्वाङ्गीकारे योगबलादनेकपरिग्राहकयोगिजीवेषु प्रतिशरीरं जीवविच्छेदः प्रसज्येत, मनुजशरीरपरिमाणो जीवो मतङ्गजदेहं कृत्स्नं प्रवेष्टुं न प्रभवेत् । किं च गजादिशरीरं परित्यज्य पिपीलिकाशरीरं विशत: प्राचीनशरीरसत्रिवेशविनाशोऽपि प्राप्नुयात् । न च यथा प्रदीपप्रभाविशेषः प्रपाप्रासादाद्युदरवर्तिसङ्कोचविकाशवांस्तथा जीवोऽपि मनुजमतङ्गजादिशरीरेषु स्यादित्येषितव्यं, प्रदीपवदेव सविकारत्वेनानित्यत्वप्राप्ती कृतप्रणाशाकृताभ्यागमप्रसङ्गात् । एवं प्रधानमल्लनिबर्हणन्यायेन जीवपदार्थदूषणाभिधानदिशाऽन्यत्रापि दूषणमुत्प्रेक्षणीयम् । तस्मानित्यनिर्दोषश्रुतिविरुद्धत्त्वादिदमुपादेयं न भवति । तद्युक्तं भगवता व्यासेन-नैकस्मिन्न सम्भवादिति ।" इति सर्वदर्शनसङ्ग्रहकारोक्तिश्च खण्डिता।
"अपि च शरीरमात्रपरिच्छिन्नानां जीवावयवानामानन्त्यं नोत्प्रेक्षितुमपि शक्यं" एतदपि भाष्यकारवचः स्वस्य स्याद्वादमतानभिज्ञतासूचकम्, जीवप्रदेशानामसङ्घयसङ्ख्याकत्वस्य स्वीकृतत्वात् । शेषमुक्तप्रायम् । अत्र च यदनुक्तं तदनभ्युपगममात्रेण निरस्तमिति ध्येयम् । सूत्रसूत्रभाष्यखण्डनोक्तिखण्डितत्वेन भामतीनामकभाष्यवृत्तौ वाचस्पतिमिश्रोक्तिः, कल्पतरुनामकभामतीवृत्तावमलानन्द-सरस्वत्युक्तिः, कल्पतरुपरिमलनामकल्पतरुवृत्तावप्ययदीक्षितोक्तिश्च खण्डिता ज्ञातव्या, सूत्रसूत्रभाष्या-नुसारित्वात् तासामुक्तीनामिति ।
जीवाश्च त्रसस्थावरभेदेन द्विविधाः तत्र द्वीन्द्रियादयस्त्रसा:, स्थावरास्तु पृथिव्यप्तेजोवायुवनस्पतिभेदेन पञ्चविधाः, तेषां जीवसत्ताया अस्यैव ग्रन्थस्य वृत्तिकृद्भिरनुमानपुरस्सरं प्रसाधितत्वेन नास्ति तद्विषये आलोचनाऽवकाशः । मुक्तास्तु सकलकर्मपङ्कविनिर्मुक्ताः । नाऽनादिसिद्धाः ।
अजीवतत्त्वव्याख्याप्रसङ्गे धर्मास्तिकाय-अधर्मास्तिकाय-आकाशास्तिकाय-पुद्गलास्तिकाय-कालभेदेन पञ्चधा व्याख्यातमजीवतत्त्वं । तत्र लोकव्यापि-नित्यमवस्थितमरूपि-गत्युपग्रहकारि-द्रव्यं धर्मपदवाच्यं, तस्य अस्तयः-प्रदेशा असङ्ख्यकाः, तेषां काय:-समूहः धर्मास्तिकाय:, स्वतो गतिपरिणत-जीवपुद्गलानां गतावपेक्षकारणमित्यर्थः । एवमेवाधर्मास्तिकायोऽपि । नवरं स्थित्युपग्रहकारी । आकाशाऽस्तिकायोऽप्येवमेव । नवरं लोकालोकव्यापी अनन्तप्रदेशी अवगाहनोपकारश्च । अत्र लोक: धर्माधर्माकाशपुद्गलजीवाख्यपञ्चास्तिकायात्मकः । आकाशद्रव्यमेवास्ति यत्र सोऽलोकः । वर्णगन्धरसस्पर्शवन्तः पुद्गलाः, तेषां अस्तयः-प्रदेशा: सङ्ख्यातासङ्ख्यातानन्तसङ्ख्याकाः, तेषां काय:-समूहः पुद्गलास्तिकाय:

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436