Book Title: shaddarshan Samucchay Satik Sanuwad part 01
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 414
________________ षड्दर्शन समुञ्चय भाग - १, परिशिष्ट - ५, षड्दर्शन समुझयभूमिका ३५५ (अद्वैतब्रह्मसिद्धिपाठः पृ. ११७) "एवमनैकान्तासिद्धिवदात्मनः सावयवत्मप्यनुपपन्नमेव । तथाहि । सावयवत्वेन मध्यमपरिमाणवत्त्वम् । ततश्चानित्यत्वं घटादिवत् ततश्च कृतहान्यकृताभ्यागमप्रसङ्गश्च । ततश्च प्रवृत्त्यनुपपत्तिरिति । किञ्च मनुष्यकायपरिमाणो हि जीवः न हस्तिकायं कृत्स्नं व्याप्तुमर्हति । अल्पत्वात् इत्यात्मनः कृत्स्नशरीराव्यापित्वादकात्य॑म् । तथा हस्तिशरीरं परित्यज्य यदा कर्मवशात् पुत्तिकाशरीरं प्राप्नोति तदा न तत्र कृत्स्नः सम्भवतीति न शरीरपरिमाणत्वमात्मनः । कौमारे च स्वल्पपरिमाणो जीवः तारुण्ये स्थविरे च न कृत्स्नं शरीरं व्याप्नुयात् । ननु यथा प्रदीपो घटमहाहोदरवर्ति सङ्कोचविकाशवान् एवं जीवोऽपि अनन्तावयव: पुत्तिका-हस्तिदेहयो: - इति चेत् । न । तेषामनन्तानां जीवावयवानां समानदेशत्वप्रतिघातोऽस्ति न वा ?, नाद्यः । अनन्तावयवानां परिच्छिन्ने देशे संमातुमशक्यत्वेन देहावहिरपि जीवोपगतिप्रसङ्गात् । न द्वितीयः, एकावयवदेशत्वेनापि समानदेशत्वोपपत्तेः । सर्वेषामवयवानां च प्रथिमानुपपत्तिः । ततो जीवस्याणुमात्रत्वप्रसङ्गात् । नात्र प्रदीपदृष्टान्तः सम्भवति-नश्वराः प्रदीपावयवाः । प्रदीपश्चावयवी प्रतिक्षणमुत्पत्तिनिरोधधर्मा । दान्तिकस्यात्मनो नित्यत्वाभ्युपगमात् । आनन्त्यं च जीवावयवानामनुपपन्नतरम् । शरीरमात्रपरिच्छिन्नानां तदसम्भवात् । ननु बृहत्तनुदेहावाप्तावयवोपगमापगमाभ्यां जीवस्य देहपरिमाणता न विरुद्धा-इति चेत् । न । विकारवत्त्वप्रसङ्गात् । तथाहि । अवयवोपगमापगमाभ्यां ह्यनिशमापूर्यमाणस्यापक्षीयमाणस्य च जीवस्य विक्रियावत्त्वम् । न च-समुद्भवत्तनित्यमिति वाच्यम् । विक्रियावत्त्वेन चर्मादिवदनित्यत्वप्रसङ्गात् । आत्मनोऽनित्यत्वे चायुक्तो बन्धमोक्षाभ्युपगमः । बन्धमोक्षान्वयिनोऽभावात् । किञ्च आत्मत्वमवयवानां वा अवयविनो वा ? आये किं आगमापायिनां सर्वेषामवयवानामात्मत्वं हीनस्य वा कस्यचिदवयवस्य ? न प्रथमः, आगच्छतामपगच्छतां चावयवानामागमापायिधर्मत्वेन अनात्मत्वात् शरीरादिवत् । आगच्छतामपगच्छतां च तेषामनियतपरिमाणत्वादप्यनवधृतस्वरूपत्वापत्तेश्च । अवयवप्रादुर्भावोपादानत्वं लयाधारत्वं च महाभूतानां वा व्यतिरिक्तस्य वा कस्यचित् ? नाद्यः । जीवस्याभौतिकत्वेनासम्भवात् । नापरः । प्रतिजीवमसाधारणस्य साधारणस्य वा अवयवान्तरस्य वा निरूपणे प्रमाणाभावात् । नापि द्वितीयो हीनकल्पः । अयमसाविति विशेषतोऽज्ञातस्य तस्यात्मज्ञानाभावादपवर्गासिद्धिः । किञ्च । सावयवात्मवादिनो मते जीवावयवाः किं प्रत्येकं चेतयेरन् तत्समूहो वा ? आये तेषां प्रत्येकं चैतन्ये बहूनां चेतनानामेकाभिप्रायत्वनियमाभावात् कदाचिद्विरुद्धदिक्क्रियत्वे शरीरमुन्मथ्येत । द्वितीये तु-हस्तिशरीरस्य पुत्तिकादेहप्राप्तौ द्वित्रावयवशेषो जीवो न चेतयते । विगलितबहुसमूहितया पुत्तिकाशरीरे समूहस्याभावात् । सन्तानिसन्तानभावस्य नित्यत्वानित्यत्वप्रसङ्मापाद्य बौद्धं प्रत्येव पूर्व विस्तरेण निराकृतत्वात् च । ननु-अस्तु तर्हि नित्योऽणुपरिमाणो एवात्माइति चेत्, न । युगपत्सर्वाङ्गीणसुखादिसाक्षात्कारो न स्यात् न च प्रदीपप्रभान्यायेन तत्प्रभास्थानापनेन ज्ञानेनैव साक्षात्कारः सम्भवति इति वाच्यम् । प्रभापि किं तस्य गुणो वा स्वरूपं वा ? नाद्यः

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436