Book Title: shaddarshan Samucchay Satik Sanuwad part 01
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 412
________________ षड्दर्शन समुश्चय भाग - १, परिशिष्ट - ५, षड्दर्शन समुञ्चयभूमिका ३५३ अन्यथा विभुत्वपक्षेऽप्याकाशवदचेतनत्वापत्तिस्स्यादात्मनः । नन्वेकान्तेनाविभुत्वे अनेकान्तव्याहतिरिति चेत् ? न, व्यक्त्यपेक्षयैव विभुत्वं निषिध्यते, न तु शक्तत्यपेक्षया, शक्तया त्वस्माभिरप्यात्मनः विभुत्वस्य स्वीकृतत्वात् । तथा चोक्तं महोपाध्यायश्रीमद्यशोविजयगणिभिायखण्डखाये - "शक्तत्या विभुः स इह लोकमितप्रदेशो, व्यक्त्या तु कर्मकृतसौवशरीरमानः । यत्रैव यो भवति दृष्टगुण: स तत्र, कुम्भादिवद्विशदमित्यनुमानमत्र ।।१।।" इति । न च मूर्त्तत्वे सावयवत्वं, तत्त्वे च पटादिवत् कार्यत्वप्रसङ्ग इत्यपि जल्पनीयम् । कार्यत्वस्यापि कथञ्चिदिष्टत्वात् । कथञ्चिनित्यत्वस्यापि स्वीकृतत्वेन नास्ति कृतहानाकृताभ्यागमरूपदोषस्यापि प्रवेशस्थानं, न हि घटादावपि प्राक्प्रसिद्धसमानजातीयकपालसंयोगारब्धत्वं दृष्टं, येन प्राक्प्रसिद्धसमानजातीयावयवारब्धत्वप्रसक्तिः स्यात् । न च पटादौ तथोपलब्धेऽपि सर्वत्र तथा कल्पयितुं शक्यते, अन्यथा काष्ठे लोहलेख्यत्वदर्शनेन वज्रेऽपि तत्प्रसक्तिः स्यात् । वज्रे लोहलेख्यत्वं त्वनुभवविरोधीति चेत् ? अत्राप्येवमेव । सावयवत्वमत्र प्रदेशवत्त्वम्, नत्ववयवारब्धत्वम् । न चात्मप्रदेशाः प्रविभक्ताः, श्रृङ्खलावय-वानामिव तेषां परस्पराजहद्वृत्तित्वात्, ते च प्रदेशाः पृथक् पृथग् न चेतयेरन्, किन्तु कथञ्चिदवयवा-भिन्नोऽवयवी चेतयते । आत्मत्वमपि कथञ्चिदवयवाभिन्नावयविन्येवेति ध्येयम् । अत्र कार्यत्वमपि पूर्वाकारपरित्यागेनोत्तराकारपरिणामवत्त्वं । अत्रात्मप्रदेशानां प्रदीपवत् सङ्कोचविकाशशालित्वेनैव लोकप्रदेशपरिमितास्ते कथं सम्मीयेरन-कीटादिशरीरे ? इति चिन्ताऽपि न समुत्पादनीया चेतसि । न चाशङ्कनीयं दृष्टान्तवैषम्यमपि, प्रदीपस्यापि कथञ्चित्रित्यत्वस्य स्वीकारात् । अथ तेषां सङ्कोचविकाशशालित्वेनाणुत्वप्रसङ्ग इति चेत् ? न, जघन्यतोऽपि शरीरावगाहनाया: शरीरनामकर्मोदयवर्तित्वेन अङ्गुलासङ्ख्येयभागमितत्वात् । अत एवाणुमात्राप्यवगाहना कथं न भवतीति प्रश्नस्य नास्त्यवकाश: । ननु मुक्तावस्थायां तु भविष्यत्येव आत्मनोऽणुत्वपरिमाणप्रसक्तिः, तनिमित्तशरीराभावादिति चेत् ?, न, तत्रापि चरमशरीरस्य निमित्तत्वात्, तथा चोक्तवन्त: कुवादिकरिकण्ठीरवा: श्रीमद्यशोविजयवाचकवर्या न्यायखण्डखाये - "आत्मा स्वकर्मकृतशरीरसमानावगाहनाकः तदवच्छिन्नभोगवत्त्वादित्यत्र तात्पर्यं, स्वकर्मकृतत्वं च स्वकर्मनिरूपितप्रतियोग्यनुयोगिभावसम्बन्धाश्रयकृतत्वं तेन स्वकर्मक्षयकृतत्रिभागहीनचरमशरीरावगाहनावस्थितक्षीणसकलक्लेशशालिनि सिद्धे नाव्याप्तिः ।" एतेन (ब्रह्मसूत्रं पृ. ५६२) "एवं चात्माऽकात्य॑ म् ।।३४।।" (शाङ्करभाष्यं पृ. ५६२) "यथैकस्मिन् धर्मिणि विरुद्धधर्मासम्भवो दोषः स्याद्वादे प्रसक्तः, एवमात्मनोऽपि, जीवस्याका~मपरो दोष: प्रसज्येत । कथम् ? शरीरपरिमाणो हि जीव इत्यार्हता मन्यन्ते । शरीरपरिमाणतायां च सत्यामकृत्स्नोऽसर्वगतः परिच्छिन्न आत्मेत्यतो घटादिवदनित्यत्वमात्मनः प्रसज्येत । शरीराणां चानवस्थितपरिमाणत्वान्मनुष्यजीवो मनुष्यशरीरपरिणामो भूत्वा पुनः केनचित्कर्मविपाकेन हस्तिजन्म प्राप्नुवन्न कृत्स्नं

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436