________________
षड्दर्शन समुझय भाग - १, श्लोक - १
બીજું, માયાવીપુરુષો સ્વયં અસર્વજ્ઞ હોવા છતાં પણ જગતમાં પોતાને સર્વજ્ઞ તરીકે પ્રગટ કરવાની ઇચ્છાવાળા હોય છે. (તેઓ લોકોને) તેવા પ્રકારની ઇન્દ્રજાલના વશથી અર્થાત્ ઇન્દ્રજાલરચીને અહીં તહીં રખડતા દેવોની પાસે પોતાની પૂજાદિકરતા બતાવે છે. તેથી દેવોના આગમનમાત્રથી પણ કેવીરીતે તેમના સર્વજ્ઞપણાનો નિશ્ચય થઈ જાય ?
શ્રી જૈન સ્તુતિકારશ્રી સમસ્તેભદ્રાચાર્યે પણ કહ્યું છે કે - “દેવોનું આગમન, આકાશમાં ચાલવું, ચામરાદિ વિભૂતિઓ માયાવીમાં પણ દેખાય છે. આથી અમે તમને મહાન માનતા નથી.” આથી દેવોથી પૂજાયેલા હોવા માત્રથી શ્રીવર્ધમાનસ્વામીમાં સર્વજ્ઞત્વ આવી જતું નથી.
भवतु वा वर्धमानस्वामी सर्वज्ञस्तथापि तस्य सत्कोऽयमाचाराङ्गादिक उपदेशः, न पुनः केनापि धूर्तेन स्वयं विरचय्य प्रवर्तित इति कथमवसेयं, अतीन्द्रिये विषये प्रमाणाभावात् । भवतु वा तस्यैवायमुपदेशस्तथापि तस्यायमर्थो नान्य इति न शक्यं प्रत्येतुं, नानार्था हि शब्दा लोके प्रवर्तन्ते, तथादर्शनात् । ततोऽन्यथाप्यर्थसंभावनायां कथं विविक्षितार्थनियमनिश्चयः । छद्मस्थेन हि परचेतोवृत्तेरप्रत्यक्षत्वात् कथमिदं ज्ञायते "एष सर्वज्ञस्याभिप्रायोऽनेन चाभिप्रायेणायं शब्दः प्रयुक्तो नाभिप्रायान्तरेण" इति । तदेवं दीर्घतरसंसारकारणत्वात् सम्यग्निश्चयाभावाश्च न ज्ञानं श्रेयः, किं त्वज्ञानमेवेति स्थितम् । ते चाज्ञानिकाः सप्तषष्टिसंख्या अमुनोपायेन प्रतिपत्तव्याः । इह जीवाजीवादीन् पदार्थान्क्वचित्पट्टकादौ व्यवस्थाप्य पर्यन्त उत्पत्तिः स्थाप्यते । तेषां च जीवादीनां नवानां प्रत्येकमधः सप्त सत्त्वादयो न्यस्यन्ते । तद्यथा । सत्त्वं १ असत्त्वं २, सदसत्त्वं ३, अवाच्यत्वं ४, सदवाच्यत्वं ५, असदवाच्यत्वं ६, सदसदवाच्यत्वं ७ चेति । तत्र सत्त्वं स्वरूपेण विद्यमानत्वम् । १ । असत्त्वं पररूपेणाविद्यमानत्वम् । २ । सदसत्त्वं स्वरूपपररूपाभ्यां विद्यमानाविद्यमानत्वम्, तत्र यद्यपि सर्वं वस्तु स्वपररूपाभ्यां सर्वदैव स्वभावत एव सदसत्, तथापि क्वचित्किंचित्कदाचिदुद्भूतं प्रमात्रा विवक्ष्यते, तत एवं त्रयोविकल्पा भवन्ति । ३ । तथा तदेव सत्त्वमसत्त्वं च यदा युगपदेकेन शब्देन वक्तुमिष्यते, तद्वाचकः शब्दः कोऽपि न विद्यत इत्यवाच्यत्वम्, एते चत्वारो विकल्पाः सकलादेशा इति सकलवस्तुविषयत्वात् । ४ । यदा त्चेको भागः सन्नपरश्चावाच्यो युगपद्विवक्ष्यते तदा सदवाच्यत्वम् । ५ । यदा त्वेको भागोऽसन्नपरश्चावाच्यस्तदाऽसदवाच्यत्वम् । ६ । यदा त्वेको भागः सनपरश्चासन्नपरतरश्चावाच्यस्तदा सदसदवाच्यमिति । ७ । न चैतेभ्यः सप्तभ्यो विकल्पेभ्योऽन्यो विकल्पः