________________
२५०
षड्दर्शन समुञ्चय भाग - १, श्लोक - ३२, नैयायिक दर्शन
સિદ્ધ કરવાની પોતાનામાં અશક્તિ જાણીને, કોઈક બહાનું કાઢીને કથાનો વિચ્છેદ કરે છે. તેથી તે નિગ્રહસ્થાનમાં આવી પડે છે. ठेभ हि प्रतिue "20 मारे ४२वानुं 4 छ, “पानसथ. (२॥ विशेषथी) કંઠ રૂંધાય છે” ઇત્યાદિ કહીને કથાનો વિચ્છેદ કરતાં વિક્ષેપથી પરાજીત થાય છે. (न्यायसूत्र : कार्यव्यासङगात कथाविच्छेदो विक्षेपः ॥५-२-२०॥ अर्थ स्पष्ट छ. सही એ જાણવું કે કથાનો જે વિચ્છેદ કરે તે વાદિ અથવા પ્રતિવાદિ નિગ્રહસ્થાનમાં सावी य छे.) स्वपक्षे परापादितदोषमनुसृत्य तमेव परपक्षे प्रतीपमापादयतो मतानुज्ञा नाम निग्रहस्थानं भवति । चौरो भवान्पुरुषत्वात् प्रसिद्धचौरवदित्युक्ते भवानपि चौरः पुरुषत्वादिति प्रतिब्रुवन्नात्मनः परापादितं चौरत्वदोषमभ्युपगतवान् भवतीति मतानुज्ञया निगृह्यते १८ । निग्रहप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणं नाम निग्रहस्थानं भवति, पर्यनुयोज्यो नाम निग्रहोपपत्त्यावश्यं नोदनीय इदं ते निग्रहस्थानमुपनतमतो निगृहीतोऽसीति वचनीयः, तमुपेक्ष्य न निगृह्णाति यः स पर्यनुयोज्योपेक्षणेन निगृह्यते १९ । अनिग्रहस्थाने निग्रहस्थानानुयोगो निरनुयोज्यानुयोगो नाम निग्रहस्थानं भवति, उपपन्नवादिनमप्रमादिनमनिग्रहार्हमपि निगृहीतोऽसीति यो ब्रूयात्, स एवमसद्भूतदोषोद्भावनया निगृह्यते २० । सिद्धान्तमभ्युपेत्यानियमात्कथाप्रसङ्गोऽपसिद्धान्तो नाम निग्रहस्थानं भवति, यः प्रथमं किंचित्सिद्धान्तमभ्युपगम्य कथामुपक्रमते तत्र च सिसाधयिषितार्थसाधनाय वा परोपलम्भाय वा सिद्धान्तविरुद्धमभिधत्ते, सोऽपसिद्धान्तेन निगृह्यते, यथा मीमांसामभ्युपगम्य कश्चिदग्निहोत्रं स्वर्गसाधनमित्याह कथं पुनरग्निहोत्रक्रिया ध्वस्ता सती स्वर्गस्य साधिका भवतीत्यनुयुक्तः प्राह अनया क्रिययाराधितो महेश्वरः फलं ददाति राजादिवदिति, तस्य मीमांसानभिमतेधरस्वीकारादपसिद्धान्तो नाम निग्रहस्थानं भवति २१ । हेत्वाभासाश्च यथोक्ता असिद्धविरुद्धादयो निग्रहस्थानम् २२ । इति भेदान्तरानन्त्येऽपि निग्रहस्थानानां द्वाविंशतिर्मूलभेदा निवेदिता इति । तदेवं छलजातिनिग्रहस्थानस्वरूपभेदाभिज्ञः स्ववाक्ये तानि वर्जयन्परप्रयुक्तानि समादधद्यथाभिमतसाध्यसिद्धिं लभत इति ।।