Book Title: shaddarshan Samucchay Satik Sanuwad part 01
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 406
________________ षड्दर्शन समुञ्चय भाग - १, परिशिष्ट - ५, षड्दर्शन समुञ्चयभूमिका ३४७ साम्प्रतं कतमं दर्शनं कं नयमवलम्ब्य निर्गतं तदेव प्रकटयते, तत्र सामान्यविशेषग्रहणशीलाभ्यां सङ्ग्रहव्यवहाराभ्यां नैयायिक-वैशेषकदर्शने निर्गते, यत्र नैगमाभिप्रायेण नैयायिक - वैशेषिके प्रवृत्ते इत्युक्तं स्यात्, तत्र सङ्ग्रहव्यवहारान्तरीभूतस्यापि नैगमनयस्य स्वातन्त्र्यापेक्षणाज्जातव्यम्, अत एव “उभयमपि परस्परविभक्तं द्रव्यपर्यायरूपमेकत्र विद्यत इत्यभिप्रायेण नैगमोऽशुद्ध-द्रव्यार्थिकप्रकृतिः" इति सम्मतिवृत्त्युक्तमपि सङ्गच्छते। शुद्धसङ्ग्रहनयाद्ब्रह्मवादिदर्शनं निर्गतं, तथा चोक्तं सम्मतौ- "दबट्ठियनयपयडी सुद्धसंगहपरुवणाविसऊं ।" तत्र जैमिनीया मीमांसकाऽपरनामधेयाः शब्दाद्वैतवादिनः, तेषां मते शब्द एव ब्रह्म सर्वेषां शब्दानामर्थानां च प्रकृतिः, वेदान्तिनस्तु सर्वेषां बीजभूतं चिद्ब्रह्मेति वदन्ति । ___ साङ्ख्यदर्शनस्य निर्गमनं तु अशुद्धाद्व्यवहारनयात् । ननु साङ्ख्यदर्शने कर्तृत्वं, निर्गुणत्वं, व्यापकत्वं चात्मन्यभ्युपगतत्वेनोभयत्र शुद्धितौल्येन कथं तयोभिन्नप्रकृतिकता ? न चोपचरितभोक्तृत्वमात्मन्यभ्युपगतत्वेन वेदान्तदर्शनापेक्षयाऽशुद्धत्वं साढयस्येत्यारेकणीयम्, वेदान्तदर्शनेऽपि विकल्पितविज्ञानादिगुणानामात्मन्यभ्युपगतत्वेन प्रत्युत साङ्ख्यदर्शने कर्तृत्वभोक्तृत्वादीनां प्रातिभासिकं शुद्धत्वं, वेदान्तदर्शनेऽन्तःकरणधर्माणां कर्तृत्वं, तञ्च परमार्थतोऽसदपि व्यवहारतस्सदिति स्थूलव्यवहारनयावलम्बनत्वेनाशुद्धत्वं तथा चोक्तं-श्रीमत्र्यायाचार्यनयोपदेशे - "प्रत्युतात्मनि कर्तृत्वं, साङ्ख्यानां प्रातिभासिकं । वेदान्तिनां त्वनिर्वाच्यं, मतं तद्व्यावहारिक ।।१।।" इति किञ्च, व्यवहारो हि कारणानन्तरमेवासत्कार्योत्पत्तिमिच्छति, सत्कार्यवादित्वेन साङ्ख्यस्तु न तथा, क्षणिकाऽसत्कार्याभ्युपगन्तृत्वेन व्यवहाराभ्युपगन्तृत्वमपि न नोद्यं, तदभ्युपगमेऽपि वस्तुतस्तदनभ्युपगमेन व्यवहारातिक्रान्तत्वात्, अपि च चतुर्दशपूर्वधरश्रीमद्भद्रबाहुस्वामिपादैनमस्कारनिर्युक्तौ नैगमाभिप्रायेण साङ्ख्यदर्शनप्रवृत्तिरुक्ता, तथा च तद्ग्रन्थः - "उप्पत्राणुपनो, इत्थ नयाऽऽइनिगमस्सऽणुपनो । सेसाणं उपन्नो, जइ कत्तो ? तिविहसामित्ता ।।१।।" एवं सति वेदान्तसावययोः शुद्धाशुद्धसङ्ग्रहव्यवहाराभ्युपगन्तृत्वं न स्यात्, तथा च सम्मत्या समं विरोधापत्तिः । ___ अत्र समाधि:, दृष्टिसृष्टिवादात्मकमौलवेदान्तदर्शनापेक्षया सम्मतौ तथा प्रतिपादितं, तन्मते जागरूकव्यवहारस्यापि स्वप्नप्रतिमत्वेन व्यवहारकणस्याप्यनङ्गीकारात्, तस्मात् परस्परविरुद्धकल्पनाकोटिक्लेशपरामृष्टहदयानां वेदान्तिनां नमस्कारनिर्युक्तो व्यवहाराभासत्वसमर्थनेऽपि न क्षतिः । नैगमोक्तिस्तु सङ्ग्रहव्यवहारान्तर्भूतत्वेन नैगमस्येति द्रष्टव्यं, प्रतिजीवं जन्ममरणादिव्यवस्थाव्यवहरणात् सावन्यस्य व्यवहारप्रकृतिकता । तथा च निरूपितं न्यायाचार्येर्नयोपदेशे___ "साङ्ख्यशास्त्रे च नानात्म-व्यवस्थाव्यवहारकृत् । इत्येतावत्पुरस्कृत्य विवेकः सम्मतावयम् ।।१।।" इति ।

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436