Book Title: shaddarshan Samucchay Satik Sanuwad part 01
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 405
________________ षड्दर्शन समुचय भाग - १, परिशिष्ट - ५, षड्दर्शन समुच्चयभूमिका परिशिष्ट - ५ [શ્રીજૈન આત્માનંદસભા દ્વારા વિ.સં. ૧૯૭૪માં પ્રતાકારે પ્રકાશિત પૂ.આ.ભ. શ્રી ગુણરત્નસૂરીશ્વરજી મહારાજા કૃત બૃહવૃત્તિ યુક્ત પૂ.આ.ભ. હરિભદ્રસૂરીશ્વરજી મહારાજા વિરચિત ષદર્શન સમુચ્ચય ગ્રંથના પ્રારંભમાં આ ભૂમિકા જોવા મળે છે. ત્યાંથી લઈને અમે અહીં પરિશિષ્ટ તરીકે મૂકેલ છે. આ ભૂમિકાના કર્તા અનુયોગાચાર્ય પૂ. મુ. શ્રી દાનવિજયજીગણિવર્યના શિષ્યરત્ન ५. भु. श्री प्रेभविश्यक भ.सा. छे.] ३४६ षड्दर्शनसमुच्चयभूमिका | ज्ञातारं ज्ञेयवस्तूनाम्, भेत्तारं कर्मभूभृतां । प्रमाणादिप्रणेतारम्, शक्रपूज्यं जिनं स्तुवे । । १ । । सुप्रसिद्धं ह्येतत् शेमुषीशालिशेखराणां सुहृत्सज्जनानां यदुतास्यां भारतभूमौ सुविख्यातख्यातितरास्तत्त्ववेत्तारः सुविशालशेमुषीशालिनोऽसाधारणसामर्थ्यसम्पन्नाः श्रीमद्धरिभद्रसूरिवरा अभूवन् । प्रकाशयन्ति च परिपूर्णतया श्रीमतां तेषां विचित्रतरां विद्वत्तां प्राप्तपराकाष्ठां परोपकारपरायणतां च, शास्त्रवार्त्तासमुच्चय- अनेकान्तजयपताका-धर्मबिन्दु - ललितविस्तरादिचतुश्चत्वारिंशदधिकचतुर्दशशतसङ्ख्याकास्तेषामेव प्रबन्धाः । येषां महिम्ना समासादयन्ति शिवसद्मसम्प्राप्तेरनुकूलसाधनानि शिवशर्माभिलाषिण: । विस्फूर्जन्निश्चयव्यवहारकथाकल्लोलकोलाहलकम्पितकुवादिकच्छपकुले स्फूर्जत्सुयुक्तिसरित्स्वामिनि स्याद्वादसुमर्यादासुशालिन्यस्मिन् समयरत्नाकरे प्रवेशाय तीर्थभूमिप्रतिमस्यास्य षड्दर्शनसमुच्चयाख्यप्रबन्धस्य प्रणेतारोऽपि एत एव सूरि सार्वभौमाः । एतेषां पूज्यपादानां सत्तासमयादिकं तु पञ्चाशक - धर्मसङ्ग्रहण्यादिप्रबन्धप्रस्तावनातोऽवसेयं जिज्ञासुभिः । निबन्धेऽस्मिन् बोद्ध- नैयायिक - साङ्ख्य- जैन- वैशेषिक- जैमिनीयाख्यानि यद्वा बौद्ध- नैयायिकसाङ्ख्य- जैन- जैमिनीय- चार्वाकाख्यानि षड्दर्शनानि निरूपयाञ्चक्रिरे। अनेनास्य नामापि सान्वयं निर्मितवन्तः । मुख्यतया जैनदर्शने द्रव्यार्थिक-पर्यायार्थिकाख्यनयद्वयम्, एतदवान्तरविभागास्सप्त, तत्र नैगमसङ्ग्रह-व्यवहाराख्यास्त्रयः प्रथमनयकक्षाप्रविष्टाः, ऋजुसूत्र - शब्द -: - समभिरूढैवम्भूताख्याः चत्वारो द्वितीयनयकक्षाप्रविष्टाः, एतत्सप्तनयात्मकं केवलं जैनदर्शनमेव । शेषाणि त्वेकैकनयावलम्बीनि, अत एवात्र वक्ष्यमाणमन्यत्र च निरुक्तं जैनदर्शनस्य सर्वदर्शनात्मकत्वं सञ्जाघटीति । तथा चानुयोगद्वारवृत्तौ मलधारिश्रीमद्धेमचन्द्रसूरयः “तैश्च परस्परसापेक्षेः समुदितैरेव सम्पूर्णं जिनमतं भवति, नैकैकावस्थायाम्" इति ।

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436