________________
षड्दर्शन समुचय भाग - १, परिशिष्ट - ५, षड्दर्शन समुच्चयभूमिका
परिशिष्ट - ५
[શ્રીજૈન આત્માનંદસભા દ્વારા વિ.સં. ૧૯૭૪માં પ્રતાકારે પ્રકાશિત પૂ.આ.ભ. શ્રી ગુણરત્નસૂરીશ્વરજી મહારાજા કૃત બૃહવૃત્તિ યુક્ત પૂ.આ.ભ. હરિભદ્રસૂરીશ્વરજી મહારાજા વિરચિત ષદર્શન સમુચ્ચય ગ્રંથના પ્રારંભમાં આ ભૂમિકા જોવા મળે છે. ત્યાંથી લઈને અમે અહીં પરિશિષ્ટ તરીકે મૂકેલ છે. આ ભૂમિકાના કર્તા અનુયોગાચાર્ય પૂ. મુ. શ્રી દાનવિજયજીગણિવર્યના શિષ્યરત્ન ५. भु. श्री प्रेभविश्यक भ.सा. छे.]
३४६
षड्दर्शनसमुच्चयभूमिका |
ज्ञातारं ज्ञेयवस्तूनाम्, भेत्तारं कर्मभूभृतां । प्रमाणादिप्रणेतारम्, शक्रपूज्यं जिनं स्तुवे । । १ । । सुप्रसिद्धं ह्येतत् शेमुषीशालिशेखराणां सुहृत्सज्जनानां यदुतास्यां भारतभूमौ सुविख्यातख्यातितरास्तत्त्ववेत्तारः सुविशालशेमुषीशालिनोऽसाधारणसामर्थ्यसम्पन्नाः श्रीमद्धरिभद्रसूरिवरा अभूवन् ।
प्रकाशयन्ति च परिपूर्णतया श्रीमतां तेषां विचित्रतरां विद्वत्तां प्राप्तपराकाष्ठां परोपकारपरायणतां च, शास्त्रवार्त्तासमुच्चय- अनेकान्तजयपताका-धर्मबिन्दु - ललितविस्तरादिचतुश्चत्वारिंशदधिकचतुर्दशशतसङ्ख्याकास्तेषामेव प्रबन्धाः । येषां महिम्ना समासादयन्ति शिवसद्मसम्प्राप्तेरनुकूलसाधनानि शिवशर्माभिलाषिण: ।
विस्फूर्जन्निश्चयव्यवहारकथाकल्लोलकोलाहलकम्पितकुवादिकच्छपकुले स्फूर्जत्सुयुक्तिसरित्स्वामिनि स्याद्वादसुमर्यादासुशालिन्यस्मिन् समयरत्नाकरे प्रवेशाय तीर्थभूमिप्रतिमस्यास्य षड्दर्शनसमुच्चयाख्यप्रबन्धस्य प्रणेतारोऽपि एत एव सूरि सार्वभौमाः ।
एतेषां पूज्यपादानां सत्तासमयादिकं तु पञ्चाशक - धर्मसङ्ग्रहण्यादिप्रबन्धप्रस्तावनातोऽवसेयं जिज्ञासुभिः ।
निबन्धेऽस्मिन् बोद्ध- नैयायिक - साङ्ख्य- जैन- वैशेषिक- जैमिनीयाख्यानि यद्वा बौद्ध- नैयायिकसाङ्ख्य- जैन- जैमिनीय- चार्वाकाख्यानि षड्दर्शनानि निरूपयाञ्चक्रिरे। अनेनास्य नामापि सान्वयं निर्मितवन्तः ।
मुख्यतया जैनदर्शने द्रव्यार्थिक-पर्यायार्थिकाख्यनयद्वयम्, एतदवान्तरविभागास्सप्त, तत्र नैगमसङ्ग्रह-व्यवहाराख्यास्त्रयः प्रथमनयकक्षाप्रविष्टाः, ऋजुसूत्र - शब्द -: - समभिरूढैवम्भूताख्याः चत्वारो द्वितीयनयकक्षाप्रविष्टाः, एतत्सप्तनयात्मकं केवलं जैनदर्शनमेव । शेषाणि त्वेकैकनयावलम्बीनि, अत एवात्र वक्ष्यमाणमन्यत्र च निरुक्तं जैनदर्शनस्य सर्वदर्शनात्मकत्वं सञ्जाघटीति । तथा चानुयोगद्वारवृत्तौ मलधारिश्रीमद्धेमचन्द्रसूरयः “तैश्च परस्परसापेक्षेः समुदितैरेव सम्पूर्णं जिनमतं भवति, नैकैकावस्थायाम्" इति ।