________________
षड्दर्शन समुञ्चय भाग - १, परिशिष्ट - ५, षड्दर्शन समुञ्चयभूमिका
३४७
साम्प्रतं कतमं दर्शनं कं नयमवलम्ब्य निर्गतं तदेव प्रकटयते, तत्र सामान्यविशेषग्रहणशीलाभ्यां सङ्ग्रहव्यवहाराभ्यां नैयायिक-वैशेषकदर्शने निर्गते, यत्र नैगमाभिप्रायेण नैयायिक - वैशेषिके प्रवृत्ते इत्युक्तं स्यात्, तत्र सङ्ग्रहव्यवहारान्तरीभूतस्यापि नैगमनयस्य स्वातन्त्र्यापेक्षणाज्जातव्यम्, अत एव “उभयमपि परस्परविभक्तं द्रव्यपर्यायरूपमेकत्र विद्यत इत्यभिप्रायेण नैगमोऽशुद्ध-द्रव्यार्थिकप्रकृतिः" इति सम्मतिवृत्त्युक्तमपि सङ्गच्छते।
शुद्धसङ्ग्रहनयाद्ब्रह्मवादिदर्शनं निर्गतं, तथा चोक्तं सम्मतौ- "दबट्ठियनयपयडी सुद्धसंगहपरुवणाविसऊं ।" तत्र जैमिनीया मीमांसकाऽपरनामधेयाः शब्दाद्वैतवादिनः, तेषां मते शब्द एव ब्रह्म सर्वेषां शब्दानामर्थानां च प्रकृतिः, वेदान्तिनस्तु सर्वेषां बीजभूतं चिद्ब्रह्मेति वदन्ति । ___ साङ्ख्यदर्शनस्य निर्गमनं तु अशुद्धाद्व्यवहारनयात् । ननु साङ्ख्यदर्शने कर्तृत्वं, निर्गुणत्वं, व्यापकत्वं चात्मन्यभ्युपगतत्वेनोभयत्र शुद्धितौल्येन कथं तयोभिन्नप्रकृतिकता ? न चोपचरितभोक्तृत्वमात्मन्यभ्युपगतत्वेन वेदान्तदर्शनापेक्षयाऽशुद्धत्वं साढयस्येत्यारेकणीयम्, वेदान्तदर्शनेऽपि विकल्पितविज्ञानादिगुणानामात्मन्यभ्युपगतत्वेन प्रत्युत साङ्ख्यदर्शने कर्तृत्वभोक्तृत्वादीनां प्रातिभासिकं शुद्धत्वं, वेदान्तदर्शनेऽन्तःकरणधर्माणां कर्तृत्वं, तञ्च परमार्थतोऽसदपि व्यवहारतस्सदिति स्थूलव्यवहारनयावलम्बनत्वेनाशुद्धत्वं तथा चोक्तं-श्रीमत्र्यायाचार्यनयोपदेशे -
"प्रत्युतात्मनि कर्तृत्वं, साङ्ख्यानां प्रातिभासिकं । वेदान्तिनां त्वनिर्वाच्यं, मतं तद्व्यावहारिक ।।१।।" इति
किञ्च, व्यवहारो हि कारणानन्तरमेवासत्कार्योत्पत्तिमिच्छति, सत्कार्यवादित्वेन साङ्ख्यस्तु न तथा, क्षणिकाऽसत्कार्याभ्युपगन्तृत्वेन व्यवहाराभ्युपगन्तृत्वमपि न नोद्यं, तदभ्युपगमेऽपि वस्तुतस्तदनभ्युपगमेन व्यवहारातिक्रान्तत्वात्, अपि च चतुर्दशपूर्वधरश्रीमद्भद्रबाहुस्वामिपादैनमस्कारनिर्युक्तौ नैगमाभिप्रायेण साङ्ख्यदर्शनप्रवृत्तिरुक्ता, तथा च तद्ग्रन्थः -
"उप्पत्राणुपनो, इत्थ नयाऽऽइनिगमस्सऽणुपनो । सेसाणं उपन्नो, जइ कत्तो ? तिविहसामित्ता ।।१।।"
एवं सति वेदान्तसावययोः शुद्धाशुद्धसङ्ग्रहव्यवहाराभ्युपगन्तृत्वं न स्यात्, तथा च सम्मत्या समं विरोधापत्तिः । ___ अत्र समाधि:, दृष्टिसृष्टिवादात्मकमौलवेदान्तदर्शनापेक्षया सम्मतौ तथा प्रतिपादितं, तन्मते जागरूकव्यवहारस्यापि स्वप्नप्रतिमत्वेन व्यवहारकणस्याप्यनङ्गीकारात्, तस्मात् परस्परविरुद्धकल्पनाकोटिक्लेशपरामृष्टहदयानां वेदान्तिनां नमस्कारनिर्युक्तो व्यवहाराभासत्वसमर्थनेऽपि न क्षतिः । नैगमोक्तिस्तु सङ्ग्रहव्यवहारान्तर्भूतत्वेन नैगमस्येति द्रष्टव्यं, प्रतिजीवं जन्ममरणादिव्यवस्थाव्यवहरणात् सावन्यस्य व्यवहारप्रकृतिकता । तथा च निरूपितं न्यायाचार्येर्नयोपदेशे___ "साङ्ख्यशास्त्रे च नानात्म-व्यवस्थाव्यवहारकृत् । इत्येतावत्पुरस्कृत्य विवेकः सम्मतावयम् ।।१।।" इति ।