Book Title: shaddarshan Samucchay Satik Sanuwad part 01
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 408
________________ षड्दर्शन समुच्चय भाग - १, परिशिष्ट - ५, षड्दर्शन समुनयभूमिका ३४९ इति यः षड्दर्शनभाषान्तरभूमिकाकारोल्लेख: सोऽपि निराकृतो मन्तव्यः, अज्ञातमूलकत्वादेतदुल्लेखस्येति । एतेषां षण्णां दर्शनानां मध्ये वस्तुतो जैनदर्शनमेवास्तिकत्वं बिभर्ति, आस्तिकत्वं चात्र सर्वज्ञप्रणीततत्त्वानां सम्यग्निर्णयवत्त्वं, तचावगतस्वपरसमयरहस्यानां सम्यग्दृशां । ज्ञानावरणीयकर्मोदयसहकृतदर्शनमोहनीयोदयजन्याज्ञानत्वस्यैव प्रतिबन्धकतावच्छेदकत्वेन ज्ञानावरणीयकर्मोदयमात्रजन्यमज्ञानं तु सम्यग्दृशां न प्रतिबन्धकं, मिथ्यात्वप्रदेशोदयजन्यप्रवचनसंशयरूपस्याज्ञानस्य च प्रतिबन्धकत्वेऽपि प्रतिबन्धकसहकृतोत्तेजक इव "तमेव सझं" इत्याद्यालम्बनरूपास्तिकत्वोत्तेजकप्रभावान्न प्रतिबद्धं सामर्थ्यम् । स्वपरसमयानभिज्ञानामेकान्तेन जिनोक्ततत्त्वश्रद्धानवतामार्हतानाम् “यज्जिनैः प्रज्ञप्तं तदेव सत्यम्" इति द्रव्यसम्यक्त्ववतामपि भावसम्यक्त्वाभावः । "नियमेण सद्दहंतो छक्काए भावउंन सद्दहइ । हंदि अपज्जेसुवि सद्दहणा होइ अविभत्ता ।।१।।" इति गाथाव्याख्याने सम्मतिवृत्तौ स्पष्टतया प्रतिपादितः, ___नास्तिकत्वं चोक्तवैपरीत्यं, माषतुषादौ तु गुरुपारतन्त्र्येणार्हत्प्रणीततत्त्वानां सम्यग्निर्णयसद्भावान्नातिप्रसङ्गः । यद्वा शासनबाीकान्तश्रद्धानं तत्, तेनैकान्तजिनोक्ततत्त्वश्रद्धावत्स्वपि नातिव्याप्तिः । चार्वाकभिन्नदर्शनाभ्युपगन्तृत्वमास्तिकत्वमिति तु लौकिकानां रूढिः, तामभिप्रेत्यैव "एवमास्तिकवादानां कृतं सक्षेपकीर्तनम्" इति कथनं निबन्धनिर्मातृभिः, “अस्ति परलोकः पुण्यं पापमिति वा मतिरस्य आस्तिकः" इति श्रीमद्धेमचन्द्रसूरिपादैश्च 'सिद्धहेमे' आस्तिकशब्दव्युत्पत्तिरकारि, सर्वसाधारणत्वादनयोः निबन्धयोरिति । यत्र च चार्वाकमुद्दिश्य "नास्तिकस्तु पापीयान्" इत्युक्तं तद्धर्म्यपेक्षया द्रष्टव्यम्, तथा च निरूपितवन्तो श्रीमन्यायाचार्या: - धयंशे नास्तिको ह्येको, बार्हस्पत्यः प्रकीर्तितः । धर्मांशे नास्तिका ज्ञेयाः, सर्वेऽपि परतीर्थिकाः ।।१।।" इति । अत्र केचिद्वेदानभ्युपगन्तृत्वं नास्तिकत्वमिति निरूपयन्ति, तत्र यौक्तिकं । "नास्ति परलोकः पुण्यं पापमिति वा मतिरस्य" इत्याबालगोपालविख्यातनास्तिकशब्दव्युपत्त्या सममपि विरोधात् ।। न च जैनदर्शनव्यतिरिक्तदर्शनानां तत्त्वदृष्ट्या नास्तिकत्वप्रतिपादनेनार्हद्दर्शनस्य प्रागुक्तं सर्वदर्शनात्मकत्वं कथं सञ्जाघटीति ? न हि प्रत्येकमसत् समुदायेषुपलभ्यत इति वाच्यम, प्रत्येकमसतोऽपि समुदायेषु सद्भावात्, तथाहि-प्रतिसिन्धुसलिलशीकरेष्वदृश्यमानोऽपि सरित्पतिः समुदितेषु तेषु दृश्यत एव तथा च श्रीसिद्धसेनपादा: - "उदधाविव सर्वसिन्धवः, समुदीर्णास्त्वयि नाथ दृष्टयः । न च तासु भवान् प्रदृश्यते, प्रविभक्तासु सरित्स्विवोदधिः ।।१।।"

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436