________________
षड्दर्शन समुच्चय भाग - १, परिशिष्ट - ५, षड्दर्शन समुनयभूमिका
३४९
इति यः षड्दर्शनभाषान्तरभूमिकाकारोल्लेख: सोऽपि निराकृतो मन्तव्यः, अज्ञातमूलकत्वादेतदुल्लेखस्येति । एतेषां षण्णां दर्शनानां मध्ये वस्तुतो जैनदर्शनमेवास्तिकत्वं बिभर्ति,
आस्तिकत्वं चात्र सर्वज्ञप्रणीततत्त्वानां सम्यग्निर्णयवत्त्वं, तचावगतस्वपरसमयरहस्यानां सम्यग्दृशां । ज्ञानावरणीयकर्मोदयसहकृतदर्शनमोहनीयोदयजन्याज्ञानत्वस्यैव प्रतिबन्धकतावच्छेदकत्वेन ज्ञानावरणीयकर्मोदयमात्रजन्यमज्ञानं तु सम्यग्दृशां न प्रतिबन्धकं, मिथ्यात्वप्रदेशोदयजन्यप्रवचनसंशयरूपस्याज्ञानस्य च प्रतिबन्धकत्वेऽपि प्रतिबन्धकसहकृतोत्तेजक इव "तमेव सझं" इत्याद्यालम्बनरूपास्तिकत्वोत्तेजकप्रभावान्न प्रतिबद्धं सामर्थ्यम् । स्वपरसमयानभिज्ञानामेकान्तेन जिनोक्ततत्त्वश्रद्धानवतामार्हतानाम् “यज्जिनैः प्रज्ञप्तं तदेव सत्यम्" इति द्रव्यसम्यक्त्ववतामपि भावसम्यक्त्वाभावः ।
"नियमेण सद्दहंतो छक्काए भावउंन सद्दहइ । हंदि अपज्जेसुवि सद्दहणा होइ अविभत्ता ।।१।।" इति गाथाव्याख्याने सम्मतिवृत्तौ स्पष्टतया प्रतिपादितः, ___नास्तिकत्वं चोक्तवैपरीत्यं, माषतुषादौ तु गुरुपारतन्त्र्येणार्हत्प्रणीततत्त्वानां सम्यग्निर्णयसद्भावान्नातिप्रसङ्गः । यद्वा शासनबाीकान्तश्रद्धानं तत्, तेनैकान्तजिनोक्ततत्त्वश्रद्धावत्स्वपि नातिव्याप्तिः । चार्वाकभिन्नदर्शनाभ्युपगन्तृत्वमास्तिकत्वमिति तु लौकिकानां रूढिः, तामभिप्रेत्यैव "एवमास्तिकवादानां कृतं सक्षेपकीर्तनम्" इति कथनं निबन्धनिर्मातृभिः, “अस्ति परलोकः पुण्यं पापमिति वा मतिरस्य आस्तिकः" इति श्रीमद्धेमचन्द्रसूरिपादैश्च 'सिद्धहेमे' आस्तिकशब्दव्युत्पत्तिरकारि, सर्वसाधारणत्वादनयोः निबन्धयोरिति । यत्र च चार्वाकमुद्दिश्य "नास्तिकस्तु पापीयान्" इत्युक्तं तद्धर्म्यपेक्षया द्रष्टव्यम्, तथा च निरूपितवन्तो श्रीमन्यायाचार्या: -
धयंशे नास्तिको ह्येको, बार्हस्पत्यः प्रकीर्तितः । धर्मांशे नास्तिका ज्ञेयाः, सर्वेऽपि परतीर्थिकाः ।।१।।" इति ।
अत्र केचिद्वेदानभ्युपगन्तृत्वं नास्तिकत्वमिति निरूपयन्ति, तत्र यौक्तिकं । "नास्ति परलोकः पुण्यं पापमिति वा मतिरस्य" इत्याबालगोपालविख्यातनास्तिकशब्दव्युपत्त्या सममपि विरोधात् ।।
न च जैनदर्शनव्यतिरिक्तदर्शनानां तत्त्वदृष्ट्या नास्तिकत्वप्रतिपादनेनार्हद्दर्शनस्य प्रागुक्तं सर्वदर्शनात्मकत्वं कथं सञ्जाघटीति ? न हि प्रत्येकमसत् समुदायेषुपलभ्यत इति वाच्यम, प्रत्येकमसतोऽपि समुदायेषु सद्भावात्, तथाहि-प्रतिसिन्धुसलिलशीकरेष्वदृश्यमानोऽपि सरित्पतिः समुदितेषु तेषु दृश्यत एव तथा च श्रीसिद्धसेनपादा: -
"उदधाविव सर्वसिन्धवः, समुदीर्णास्त्वयि नाथ दृष्टयः । न च तासु भवान् प्रदृश्यते, प्रविभक्तासु सरित्स्विवोदधिः ।।१।।"