Book Title: shaddarshan Samucchay Satik Sanuwad part 01
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 409
________________ ३५० षड्दर्शन समुचय भाग - १, परिशिष्ट - ५, षड्दर्शन समुझयभूमिका यद्वा शेषदर्शनानामास्तिकत्वेऽपि न क्षतिः, धर्मधर्म्युभयाभ्युपगमापेक्षयैवात्रास्तिकत्वव्यवहरणात् । अत एव समुदिताः स्यात्पदलाञ्छितास्सर्वेऽपि नया: प्रमाणरूपतां बिभ्रति । तथा च स्याद्वादमञ्जर्यां श्रीमन्मल्लिषेणसूरय: "स्यात्पदलाञ्छितानां नयानामेव प्रमाणव्यपदेशभाक्त्वात्" अन्यत्रापि च - "नयास्तव स्यात्पदलाञ्छना इमे, रसोपविद्वा इह लोहधातवः । भवन्त्यभिप्रेतफला यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः ।।१।।" ननु यन्मिथ्यादर्शनसमूहमयंतत्कथमाप्नोति सम्यग्रूपतां ? नहि कालकूटकणानां समूहोऽमृतरूपतामासादयतीति चेत् ? न, परस्परनिरपेक्षाणां सङ्ग्रहादिनयात्मकानां सावयादिदर्शनानां मिथ्यात्मकत्वेऽपि सम्पादितसंस्कारविशेषस्य हालाहललवसमूहस्यामृतात्मकत्ववत् परस्परसापेक्षाणां समासादितानेकान्तस्वरूपाणां तेषां सम्यग्रूपताप्राप्तेः । श्रूयते हि लोकेऽपि विषादयः परस्परसंयोगविशेषसमा-सादितमाहात्म्या: गदवतामात्मसात्कुर्वतामगदरूपतामासादयन्ति, कुत्रचिन्मधुरमपि नालिकेरफलाम्भः कर्पूरसंयोगाद् विषायते, तथा सम्यकशास्त्रमपि मिथ्यादर्शनसंयोगान्मिथ्यारूपं भवति । न हि प्रत्यक्षसिद्धे पर्यनुयोगोऽर्हति, अन्यथा चित्रभानोरपिदायदहनशक्त्यादिपर्यनुयोगापत्ते । अत एव निरपेक्षानैगमादयो दुर्नया:, सापेक्षास्तु सुनयाः । तथा चोक्तमनुयोगद्वारवृत्तौ “तदेवमेते निजनिजार्थप्रतिपादनपरा विप्रतिपद्यन्ते नया:, एते च परस्परं निरपेक्षाः, दुर्नयाः सौगतादिसमयवत्, परस्परसापेक्षास्तु सुनयाः" इति । तथा च स्तुतिद्वात्रिंशिकायां रत्नप्रभसूरय: - अहो चित्रं चित्रं, तव चरितमेतन्मुनिपते ! स्वकीयानामेषां, विविधविषयव्याप्तिवशिनां । विपक्षापेक्षाणां, कथयसि नयानां सुनयतां, विपक्षक्षेप्तृणां पुनरिह विभो ! दुष्टनयताम् ।।१।।" पञ्चाशति च - "निःशेषांशजुषांप्रमाणविषयीभूयं समासेदुषां, वस्तूनां नियमांशकल्पनपराः सप्त श्रुतासङ्गिनः । औदासीन्यपरायणास्तदपरे चांशे भवेयुर्नयाश्चेदेकान्तकलङ्कपङ्ककलुषास्ते स्युस्तदा दुर्नया: ।।१।।" अत्र मलयगिरिचरणास्तु नयदुर्नयव्यवस्था दैगम्बरी नत्वस्मदीया इत्याहुः, तथा तद्ग्रन्थः - “नयो दुर्नयः सुनयश्चेति दिगम्बरी व्यवस्था, नत्वस्माकम्, नयदुर्नययोराविशेषात् । स्याष्ठब्देन विवक्षितधर्मोपरागेण कालादिभिरभेदवृत्त्याऽभेदोपचाराद्वानन्तधात्मकवस्तुप्रतिपादने प्रमाणवाक्यस्यैव व्यवरि तेः, अत एव स्याच्छब्दलाञ्छिततयैव सर्वत्र साधूनां भाषाविनयो विहितः, अवधारणी भाषाच निषिद्धा, तस्या नयरूपत्वात्, नयानांच सर्वेषां मिथ्यादृष्टित्वात्, तथा चानुस्मरन्ति "सव्वेणया मिच्छावायिणो"त्ति, नच सप्तभङ्गात्मकं प्रमाणवाक्यं, एकभङ्गात्मकं च नयवाक्यमित्यपि नियन्तुं शक्यं, सप्तभङ्गायाः सप्तविधजिज्ञासोपाधिनिमित्तत्वात्, न च तासां सार्वत्रिकत्वं, को जीव ? इति प्रश्ने लक्षणमात्रजिज्ञासया "स्याद् ज्ञानादिलक्षणो जीवः" इति प्रमाणवाक्यरूपस्योत्तरस्य सिद्धान्तसिद्धत्वात्, स्यात्पदस्य चात्रानन्त

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436