________________
५२
षड्दर्शन समुच्चय भाग - १, श्लोक - ७, बोद्धदर्शन
પણ કરવો. કહેવાનો આશય એ છે કે હું અને મારા તથા પર-પરકીયના સંબંધથી જે રાગલેષાદિદોષો પેદા થાય છે તે “સમુદય' નામનું તત્ત્વ બૌદ્ધમતમાં કહેવાયેલું છે.
અહીં શ્લોકના ઉત્તરાર્ધમાં એકપદમાં સાતઅક્ષરો છે અને એકપદમાં નવઅક્ષરો છે, છતાં છંદભંગ દોષ ન જાણવો. કારણ કે આ શાસ્ત્ર ઋષિપ્રણીત હોવાથી આર્ય છે. તેથી સાત-નવ અક્ષરવાળા બીજા છંદનો સદ્ભાવ પ્રાચીન પરંપરામાં હશે એમ માની લેવું. કા.
अथ दुःखसमुदयतत्त्वयोः संसारप्रवृत्तिनिमित्तयोर्विपक्षभूते मार्गनिरोधतत्त्वे प्रपञ्चयन्नाहહવે સંસારની પ્રવૃત્તિના નિમિત્તભૂત દુ:ખ અને સમુદયતત્ત્વના વિપક્ષભૂત માર્ગ અને નિરોધ तत्त्वना विस्तार ४२०i 3 छ ....
क्षणिकाः सर्वसंस्कारा इत्येवं वासना यका ।
स मार्ग इह विज्ञेयो निरोधो मोक्ष उच्यते ।।७।। શ્લોકાર્થ : સંસારના સર્વસંસ્કારો ક્ષણિક છે. આ પ્રકારની વાસનાને માર્ગતત્ત્વ તથા રાગાદિ વાસનાઓના સર્વથા નાશને નિરોધ અર્થાતુ મોક્ષ કહેવાય છે.
परमनिकृष्टः कालः क्षणः, तत्र भवाः क्षणिकः क्षणमात्रावस्थितय इत्यर्थः । सर्वे च ते संस्काराश्च पदार्थाः सर्वसंस्काराः क्षणविनश्वराः सर्वे पदार्था इत्यर्थः । तथा च बौद्धा अभिदधति । स्वकारणेभ्यः पदार्थ उत्पद्यमानः किं विनश्वरस्वभाव उत्पद्यतेऽविनश्वरस्वभावो वा । *यद्यविनश्वरस्वभावः, तदा तद्व्यापिकायाः क्रमयोगपद्याभ्यामर्थक्रियाया अभावात्पदार्थस्यापि व्याप्यस्याभावः प्रसजति । तथाहि-यदेवार्थक्रियाकारि तदेव परमार्थसदिति । स च नित्योऽर्थोऽर्थक्रियायां प्रवर्तमानः क्रमेण प्रवर्तेत यौगपद्येन वा । न तावत्क्रमेण, यतो ह्येकस्या अर्थक्रियायाः करणकाले तस्यापरार्थक्रियायाः करणस्वभावो विद्यते न वा । यदि विद्यते, कुतः क्रमेण करोति । अथ सहकार्यपेक्षया इति चेत्, तेन सहकारिणा तस्य नित्यस्य कश्चिदतिशयः क्रियते न वा । यदि क्रियते, तदा किं पूर्वस्वभावस्य परित्यागेन क्रियतेऽपरित्यागेन वा । यदि परित्यागेन, ततोऽतादवस्थ्यापत्तेरनित्यत्वम् । अथ पूर्वस्वभावापरित्यागेन, ततस्तस्य नित्यस्य तत्कृतोपकाराभावात्किं सहकार्यपेक्षया कर्तव्यम् । अथाकिंचित्करोऽपि सहकारी तेन विशिष्टकार्यार्थमपेक्ष्यते । तदयुक्तं, यतः• * (१) “अर्थक्रियासमर्थं यत् तदत्र परमार्थसत् । अन्यत् संवृत्तिसत् प्रोक्तं; ते स्वसामान्यलक्षणे ।।" [प्र. वा. २/३]
(२) यथा यत् सत् तत् क्षणिकमेव, अक्षणिकत्वेऽर्थक्रियाविरोधात् तल्लक्षणवस्तुत्वं हीयते । [हेतु बि. पृ. ५४]