________________
षड्दर्शन समुञ्चय भाग- १, श्लोक -३
५२भार्थथा सत्यमान तत्त्वो वाय छे. देवता अने, 'तत्त्व' शोनो द्वन्द्वसमास 25 देवतातत्वानि ५६ मन्यु छ. ते देवता भने तत्वना मेथी ७ शनी छ मेम अन्वय ४२पो.
તેથી અહીં આ અર્થ થાય છે - જે કારણથી દેવતા અને તત્ત્વના ભેદવડે દર્શનોના મૂલભેદો છે જ થાય છે. તે કારણથી છ જ દર્શનો અહીં કહેવાશે, પરંતુ ઉત્તરભેદની અપેક્ષાથી અધિક દર્શનો નહિ કહેવાય. આનાથી પૂર્વના શ્લોકમાં “સર્વ' શબ્દનું ગ્રહણ હોવાછતાં પણ છે જ દર્શનોને કહેવા માટે પ્રતિજ્ઞા કરાયેલી છે તેમ જાણવું. રા.
अथ षण्णां दर्शनानां नामान्याहહવે છ દર્શનોના નામો કહે છે.
बौद्धं नैयायिकं सांख्यं जैनं वैशेषिकं तथा ।
जैमिनीयं च नामानि दर्शनानाममून्यहो ।। ३ ।। सोर्थ : प्रौद्ध, नैयायि5, Aivय, हैन, वैशेषि तथा मिनी २॥ (७) शनाना नाम छ.
बुद्धाः सुगतास्ते च सप्त भवन्ति । विपश्यी १ शिखी २ विश्वभूः ३ क्रकुच्छन्दः ४ काञ्चनः ५ काश्यपः ६ शाक्यसिंहश्चेति ७ । तेषामिदं दर्शनं बौद्धम् । न्यायं न्यायतर्कमक्षपादर्षिप्रणीतं ग्रन्थं विदन्त्यधीयते वेति नैयायिकास्तेषामिदं दर्शनं नैयायिकम् । संख्यां प्रकृतिप्रभृतितत्त्वपञ्चविंशतिरूपां विदन्त्यधीयते वा सांख्याः । यद्वा तालव्यादिरपि शांख्यध्वनिरस्तीति वृद्धाम्नायः । तत्र शंखनामा कश्चिदाद्यः पुरुषविशेषस्तस्यापत्यं पौत्रादिरिति गर्गादित्वात् यञ्प्रत्यये शांख्यास्तेषामिदं दर्शनं सांख्यं शांख्यं वा । जिना ऋषभादयश्चतुर्विंशतिरर्हन्तस्तेषामिदं दर्शनं जैनम् । एतेन चतुर्विंशतेरपि जिनानामेकमेव दर्शनमजनिष्ट, न पुनस्तेषां मिथो मतभेदः कोऽप्यासीदित्यावेदितं भवति । नित्यद्रव्यवृत्तयोऽन्त्या विशेषा एव वैशेषिकं, विनयादिभ्य इति स्वार्थ इकण् । तद्वैशेषिकं विदन्त्यधीयते वा, तद्वत्त्यधीत, इत्यणि वैशेषिकास्तेषामिदं वैशेषिकम् । जैमिनिराद्यः पुरुषविशेषस्तस्येदं मतं जैमिनीयं मीमांसकापरनामकम् । तथाशब्दश्चकारश्चात्र समुञ्चयार्थौ । एवमन्यत्राप्यवसेयम् । अमूनि षडपि दर्शनानां नामानि । अहो इति शिष्यामन्त्रणे । आमन्त्रणं च शिष्याणां चित्तव्यासङ्गत्याजनेन शास्त्रश्रवणाभिमुखीकरणार्थमत्रोपन्यस्तम् ।।३।।