Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
Catalog link: https://jainqq.org/explore/009102/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्री विजयमहोदयसूरिग्रंथमाला-६ -श्रीप्रद्युम्नाचार्यविरचित ग्रन्थनाम कर्ता समरादित्यसंक्षेपः श्री विजयमहोदयसूरिग्रंथमाला-६ : समरादित्यसंक्षेपः : श्रीमत्प्रद्युम्नाचार्य : प्रवचन प्रकाशन, पूना : इ. सं. १९०६ : इ. सं. २००२ प्रकाशक प्रथममुद्रण पुनर्मुद्रण मूल्य : रु. ९०.०० : PRAVACHAN PRAKASHAN, 2002 सम्पादक हर्मन जेकोबी पूना Lपुनःसम्पादक तपागच्छाधिराजपूज्यपादाचार्यवर्यश्रीमद् विजयरामचन्द्रसूरीश्वरचरणरेणुः मुनिप्रशमरतिविजयः *प्राप्तिस्थान ) : भूपेश भायाणी ४८८, रविवार पेठ, पूना-४११००२ फोन : ०२०-४४५३०४४ अहमदाबाद : सरस्वती पुस्तक भंडार हाथीखाना, रतनपोल, अहमदाबाद-३८०००१ फोन : ५३५६६९२ अहमदाबाद : राजेन्द्रभाई घेलाभाई शाह ८, भावि एवेन्यू, मर्चन्ट पार्क सोसायटी पालडी, अहमदाबाद-३८०००७ फोन : ०७९-६६०२३९३ लाभार्थी श्री झालावाड श्वे. मू. तपागच्छ संघ सुरेन्द्रनगर, गुजरात मुद्रण : राज प्रिन्टर्स, पूना अक्षरांकन : विरति ग्राफिक्स, अहमदाबाद Page #2 -------------------------------------------------------------------------- ________________ પ્રકાશકીય T વિષયાનુPa૫: 1 શ્રી સમરાદિત્ય મહાકથા જૈન સાહિત્યથી સર્વોત્કૃષ્ટ ગ્રંથરચના છે. નવ ભવ સુધી ચાલતી કથાના મૂળમાં છે કષાયના પરિહારનો ઉપદેશ. યાકિનીમહતરાસૂનું પૂ. આ. ભ. શ્રીમદ્ હરિભદ્રસૂરીશ્વજી મ. એ પ્રાકૃત ભાષામાં સિરિમઈસમાઈશ્ચકહા રચી. તેની અસરકારકતા વિશે એટલું બધું લખાયું છે કે વધુ કે નવું લખવાની જરૂર નથી. પૂ. આ. શ્રી પ્રદ્યુમ્નસૂરીશ્વરજી મ. એ આ મહાકથાનો સંક્ષેપ કરીને શ્રીસમરત્યસંક્ષેપ: ગ્રંથની રચના કરી છે. મૂળ કહા-પ્રાકૃતમાં છે. આ ગ્રંથ સંસ્કૃતમાં છે. મૂળ કહા-ઘપ્રધાન છે. આ ગ્રંથ પદ્યબદ્ધ છે. વિ. સં. ૧૩૨૪ની સાલમાં આ ગ્રંથની રચના થઈ છે. પ્રો. હર્મન જેકોબીએ અનેક હસ્તપ્રતોના આધારે આ ગ્રંથનું પ્રથમ પ્રકાશન કર્યું હતું. અતિશય જીર્ણ અને વિસ્મૃતપ્રાય બની ચૂકેલું આ પ્રકાશન આશરે ૯૬ વરસ બાદ પૂજ્યપાદ તપાગચ્છાધિરાજ આચાર્ય ભગવંત શ્રીમદ્ વિજયરામચંદ્રપ્રસૂરીશ્વરજી મ. ના શિષ્યરત્નો પ્રવચનકાર બંધુબેલડી પૂ. મુનિરાજશ્રી વૈરાગ્યરતિવિજયજી મ. પૂ. મુનિરાજ શ્રી પ્રશમરતિવિજયજી મ. ના માર્ગદર્શન અનુસાર પુન:પ્રકાશન પામી રહ્યું છે એ આનંદજનક બીના છે. પ્રવચન પ્રભાવક પૂ. આ. ભ. શ્રીમદ્ વિજયહેમભૂષણસૂરીશ્વરજી મહારાજાની પ્રેરણાથી શ્રી ઝાલાવાડ જે. મૂ. તપાગચ્છ સંઘે આ ગ્રંથનાં પ્રકાશનનો સંપૂર્ણ લાભ લીધો છે તે અનુમોદનીય છે. આ ગ્રંથના પુનર્મુદ્રણમાં વિદુષી પૂ. સાધ્વીજીશ્રી ચંદનબાળાશ્રીજી મ. એ શ્રુતભક્તિના રસથી ખૂબ જ સહાય કરી છે તે અંગે અમે કૃતજ્ઞ છીએ. આ પુસ્તક જ્ઞાનદ્રવ્યના સત્રયથી પ્રકાશિત થયું છે. ગૃહસ્થો તેની પૂર્ણ રકમ ચૂકવ્યા વિના માલિકી ન કરે તેવી નમ્ર વિનંતી છે. સૌ કોઈ આ ગ્રંથમાં અધ્યયન દ્વારા ભવવિરહના રસિક બને એ જ શુભભાવના. પ્રવચન પ્રકાશન શ્રીમદ્રિત્યસંક્ષેપ: .. નવમવાનુH: ......... ૨. પ્રથમો ભવ:. ૨. દ્વિતીય પર્વ: .... રૂ. તૃતીયો ભવ: ...... ૪. વતુર્થી ભવ: ....... છે. પશ્ચમો પુa: .... ૬. પણ બ4: ... ૭, સપ્તમી પવ: ..... ૮. અષ્ટમી પર્વ: ........ ૬. નવમો બવઃ ... Page #3 -------------------------------------------------------------------------- ________________ श्रीसमरादित्यसंक्षेपः । निरोद्धं पार्यते केन समरादित्यजन्मनः । प्रशमस्य वशीभूतं समरादित्यजन्मनः ॥ तिलकमंजरी महाकवि धनपाल: Page #4 -------------------------------------------------------------------------- ________________ समरादित्यसंक्षेपः श्रीप्रद्युम्नाचार्यविरचितः श्रीसमरादित्यसंक्षेपः चित्रभानुसुधाभानुचण्डभानुप्रभाधिकम् । शाश्वतं जयति ज्योतिः परमं परमङ्गलम् ॥१॥ आदिबोधिदमर्हन्तं वृषभं कनकप्रभम् । प्रणौमि यदनुध्यानं स्तम्भनं मोहभूपतेः ॥२॥ शान्त्याद्यर्हत्त्रयं नौमि यत्पदाधो निधिव्रजः । नवहेमाम्बुजव्याजात्परित्यक्तोऽपि नात्यजत् ॥३॥ जेतापि जगतामेष विषमास्त्रो यतस्त्रसन् । सुध्रुवां भ्रूवनेऽनेशत् स नेमिः पातु वः प्रभुः ॥४|| श्रीमतः पार्श्वनाथस्य स्तुमस्तां गतरागताम् । यत्र प्रभावती मूर्तिः सत्त्रं सर्वत्र दृश्यते ॥५॥ अन्तस्थाशीर्षवर्गान्त्यानपि पूज्यपदं नयन् । वर्धमानमहावीरनामभ्यां पातु वो जिनः ॥६|| विदितस्फूर्तयः शुद्धसंयमस्येव मूर्तयः । जिनाः सप्तदशान्येऽपि श्रेयो विश्राणयन्तु वः ॥७॥ चतुर्मुखभवां हंसगामिनीमर्थदीपिकाम् । स्फुरत्प्रकीर्णकामङ्गोपाङ्गपूर्णां गिरं स्तुवे ॥८॥ श्रीमते गोपमुख्याय गौतमस्वामिने नमः । परितश्चारिता येन त्रिपद्यपि जिनस्य गौः ॥९॥ ससुधर्मासधर्मा श्रीसुधर्मा गणभृद्वरः । सवृन्दारकवृन्देन वज्रिणा सेवितः श्रिये ॥१०॥ जम्बूजित्वा जनीव्याजाच्चमू: कर्ममहीभुजाम् । तानेकाङ्गाञ्जिगायाष्टावप्यकष्टात्किमद्भुतम् ॥११॥ वैरिणामन्तरङ्गाणां षण्णामपि निषेधकाः । षट् सन्तु षड्व्रताधाराः श्रुतकेवलिनः श्रिये ॥१२॥ वज्रोऽयं नवचत्त्वात्रो नवो धनगिरावभूत् । चारूमिकायां रुक्मिण्यां यो धात्रापि न यन्त्रितः ॥१३॥ तामेवार्या स्तुवे यस्या धर्मपुत्रो वृषासनः । गणेशो हरिभद्राख्यश्चित्रं भववियोगभूः ॥१४॥ चतुर्दशशती ग्रन्थान् सदालोकान् समावहन् । हरेः शतगुणः श्रीमान् हरिभद्रविभुर्मुदे ॥१५|| तमःस्तोमं स हन्तु श्रीसिद्धसेनो दिवाकरः । यस्योदये स्थितं मूकैरुलूकैरिव वादिभिः ॥१६॥ सिद्धव्याख्यातुराख्यातु महिमानं हि तस्य कः । समस्त्युपमिति म यस्यानुपमितिः कथा ॥१७॥ वादं जित्वाल्लुकक्ष्मापसभायां तलपाटके । आत्तैकपट्टो यस्तं श्रीप्रद्युम्नं पूर्वजं स्तुवे ॥१८॥ वस्त्रप्रतिष्ठाचार्याय नमः श्रीदेवसूरये । यत्प्रसादमिवाख्याति सुखप्रश्नेषु दर्शनम् ॥१९॥ नृपतिर्बोधितो मारिवारिणा हेमसूरिणा । चित्रं तु चेतना जन्तुजाते जातेह भूतले ॥२०॥ Page #5 -------------------------------------------------------------------------- ________________ नवभवानुक्रमः श्रीप्रद्युम्नाचार्यविरचितः श्रीदेवानन्दसूरिभ्यो नमोऽस्तु यदुपज्ञतः । सिद्धसारस्वतादीहक् कुर्वेऽहं बालचापलम् ॥२१॥ तद्विनेयं नमामि श्रीकनकप्रभसद्गुरुम् । पदार्थमर्थितो ज्ञात्वा येन पोतेऽप्यहं पितुः ॥२२॥ श्रीमते नरचन्द्राय नमोऽस्तु मलधारिणे । ददे मेऽनुत्तरा येनोत्तराध्ययनवाचना ॥२॥ विभुं विजयसेनं तं नौमि येन जनेऽखिले । न्यस्तो विकस्वरो न्यायस्तदीयकलिका मयि ॥२४॥ कूवडग्रामविश्रामं पद्मचन्द्रप्रभुं स्तुवे । चातुर्विद्येन मे दत्ता येनावश्यकवाचना ॥२५।। बहुप्रबन्धकर्तुः श्रीबालचन्द्रस्य का स्तुतिः । मन्त्रीशवस्तुपालेन यः स्तुतः कवितागुणात् ॥२६।। प्रबन्धस्य विधानेऽहमशक्तः स्वगुणैः पुनः । हरिभद्रप्रभोर्वाणीगुणेन विदधामि तम् ॥२७॥ तत्कृते समरादित्यचरिते पूरिते रसैः । वक्ष्ये संक्षेपमक्षेपमात्मनः स्मृतिहेतवे ॥२८॥ ग्रासे बालः पितुः प्राप्ते किञ्चिदुज्झति चात्ति च । यथा तथा चरित्रेऽस्मिन्विधास्येऽहं तथाविधः ॥२९॥ नवं कर्तुमशक्तेन मया मन्दधियाधिकम् । प्राकृतं गद्यपद्यं तत्संस्कृतं पद्यमुच्यते ॥३०॥ गुणसेनाग्निशर्माख्यौ जन्मिनौ प्रथमे भवे । सिंहानन्दाभिधौ वप्ता तनयश्च द्वितीयके ॥३१॥ शिखी सुतोऽस्य माता च जालिन्याख्या तृतीयके । तुर्ये धनो धनश्रीश्च पतिपत्नीतया मतौ ॥३२॥ जयश्च विजयश्चैव सोदरौ पञ्चमे भवे । धरणाख्यश्च लक्ष्मीश्च षष्ठे तौ दम्पती पुनः ॥३३॥ बन्धू पितृव्यजौ सेनो विषेणश्चापि सप्तमे । गुणचन्द्रोऽष्टमे पूर्वः परोऽभूद्वानमन्तरः ॥३४॥ नवमे समरादित्यो गिरिसेनः परोऽन्त्यजः । इत्थं मर्त्यभवाः स्वर्गदुर्गत्यन्तरितास्तयोः ॥३५॥ आद्यस्याजनि मोक्षोऽथान्यस्यानन्तो भवोऽभवत् । विरोधो ववृधे पूर्व नर्मपारणभङ्गतः ॥३६।। आद्येनाद्ये भवे पूर्वमग्निशर्मा खलीकृतः । गुणसेनस्ततस्तेन पश्चात्सर्वेषु जन्मसु ॥३७।। सतामभिमताः सन्ति शतशः सुप्रथाः कथाः । न परा समरादित्यात्परं संवेगरङ्गभूः ॥३८।। संवेगः कथितो मोक्षाभिलाष: पूर्वसूरिभिः । संक्षिप्य वक्ष्यमाणोऽसौ ततः सम्यग् निशम्यताम् ॥३९|| Page #6 -------------------------------------------------------------------------- ________________ समरादित्यसंक्षेपः प्रथमो भवः सुवृत्तः सिन्धुसिद्धान्तः सप्तक्षेत्रीप्रकाशकः । जैनाचार्य इव द्वीपो जम्बूद्वीपोऽस्ति विश्रुतः ॥४०॥ मेरुविभाति यन्मध्ये योगवल्लक्षयोजनः । चूलिकानिर्वृतिः सन्नन्दनः सौमनसान्वितः ॥४१॥ तत्रापरविदेहेषु रामणीयकमन्दिरम् । क्षितिप्रतिष्ठितं नाम नगरं सुप्रतिष्ठितम् ॥४२।। अट्टस्तबकयुग् यत्र प्राकारः परितः स्थितः । भाति क्षितिनितम्बिन्याः प्रालम्बमिव लम्बितम् ॥४३।। निश्युत्पलैर्दिवा पद्यैः कलितालिकुलारवैः । रक्ष्यते सिन्धुशुद्धान्तवद्यत्र सरसीव्रजः ॥४४॥ सूरतारस्फुरद्धिष्ण्यगुरुज्ञकविमङ्गलैः । युतं तेजस्विनां स्थानं व्योमवद्यदवातरत् ॥४५॥ पूर्णचन्द्रनृपस्तत्र पूर्णचन्द्र इवोदयी । कलाकलापसम्पूर्णश्चित्रं दिनकरः सताम् ॥४६॥ यत्कीर्तिकौमुदी सर्वमधुराणां धुरि स्थिता । चित्रं द्विषद्विपत्रातदन्तभेदप्रदाऽभवत् ॥४७|| उचितं पूर्णचन्द्रस्य कुमुदिन्यभिधा प्रिया । असूर्यपश्यता यस्याः कथञ्चिदपि नान्यथा ॥४८॥ एतयोः शिवयोः सूनुर्गुणसेनाभिधोऽजनि । महासेन इवाश्चर्य तारकस्वस्तिकारकः ॥४९॥ निहताहितवर्गेऽस्मिन्निसर्गेण बलीयसि । कुमारे भारमारोप्य सुखमास्ते पितेश्वरः ॥५०॥ कुमारभावसुप्रापकेलिप्रियतया च सः । प्रायः प्राप धृति चित्ते कुब्जवामननर्तनैः ॥५१॥ इतश्चास्त्यत्र नीतिज्ञो जनमान्यः षडङ्गवित् । स्वभावादल्पसंतुष्टो यज्ञदत्तः पुरोहितः ॥५२॥ तस्यास्ति तनयः सोमदेवाकुक्षिसमुद्भवः । अग्निशर्माभिधः कर्मानुभावेन कुरूपकः ॥५३।। त्रिकोणमस्तकः पिङ्गनेत्रश्चिपिटनासिकः । बिलमात्रश्रुतिदीर्घरदस्तुच्छरदच्छदः ॥५४|| वक्रग्रीवोऽल्पवक्षाश्च हुस्वबाहुमहोदरः । एकपक्षोन्नतश्रोणिविषमोरुद्वयोऽपि च ॥५५॥ जङ्घायुगे लघुः स्थूलशूर्पाकारक्रमद्वयः । प्रज्वलज्ज्वलनज्वालाजालपिङ्गलकुन्तलः ॥५६॥ कलापकम् कुरूपशेखरं शीर्षे शेखरन्यासपूर्वकम् । कुमारस्तूर्यनादैस्तं नित्यं नर्तयते पुरि ॥५७।। तं धूलिनृपवद्धूलिधूसरं रोपितं खरे । क्षुद्रडिम्भपरीवारं वाद्यमानाग्रडिण्डिमम् ॥५८॥ विधृताच्छित्तिरच्छत्रं जनैः सह हसन्नसौ । नित्यं भ्रमयते च श्रीपथे कर्मेव संसृतौ ॥५९॥ युग्मम् इत्थं विडम्ब्यमानोऽयं चिरं चित्ते व्यचिन्तयत् । मम प्राग्भवदुःकर्मप्रभवोऽयं पराभवः ॥६०॥ Page #7 -------------------------------------------------------------------------- ________________ प्रथमो भवः कुर्वे दुः कर्ममर्मावित्तदहं दुस्तपं तपः । जन्मान्तरेऽपि येनैवं न भवेयुविडम्बना: ॥ ६१ ॥ विचिन्त्येति सवैराग्यो निर्गत्य नगरादसौ । मासमात्रेण कालेन स्थितं तद्देशसीमनि ॥ ६२ ॥ नैकानोकहसच्छायं शान्तशाश्वतशात्रवम् । सुगन्धि हव्यगन्धेन धुनीसम्बन्धबन्धुरम् ॥६३॥ तपोधनमनःप्रत्तपरितोषं समित्कुशैः । ततः सम्परितोषाख्यमाससाद तपोवनम् ॥६४॥ विशेषकम् तत्र प्रविश्य चापश्यद्धर्मध्यानपरायणम् । ऋजुमार्जवकौण्डिन्यं नाम्ना कुलपति स तु ॥६५॥ तं वीक्ष्य जातरोमाञ्चः पञ्चाङ्गस्पृष्टभूतलः । धन्यमान्यो ननामाऽयममायमृषिपुङ्गवम् ॥६६॥ विमुच्य मुनिना ध्यानं स्वागतप्रश्नपूर्वकम् । आसने दापिते हृष्टो निविष्टः स विशिष्टधीः ॥६७॥ मुनिरूचे च तं भद्र ! समायातः कुतो भवान् । सर्वं पूर्वं स्ववृत्तान्तं सोऽथ तस्मै न्यवेदयत् ॥६८॥ ऊचे कुलपतिः क्लेशतप्तानां हि तपोवनम् । तपोवनं च सम्प्राप्तो वत्स मा गच्छ दीनताम् ॥ ६९ ॥ योग्योऽस्मि यदि तद्दत्त व्रतं तेनेति भाषिते । स्वाचारं मुनिनाऽख्याय सुमुहूर्ते स दीक्षितः ||७०|| तदैवाभिनवोद्भूतवैराग्यातिशयादयम् । गुस्तपस्विनां चाग्रे प्रतिज्ञामीदृशीं व्यधात् ॥७१॥ १. All mss have स्थितं; it would be better to read स्थितः । समरादित्यसंक्षेपः मासाद्भोज्यं मया लाभेऽलाभे वापि गृहान्तरम् । न गन्तव्यं च भाव्यं च पुनर्मासोपवासिना ॥ ७२ ॥ युग्मम् तां निर्वाहयतस्तस्य प्रतिज्ञां दारुणामपि । व्यतीयुर्बहवः पूर्वलक्षाः कक्षाश्रयश्रितः ॥७३|| तदासन्नस्य लोकस्य वसन्तपुरवासिनः । निःस्पृहे बहुमानोऽस्मिन्नीलीरागनिभोऽजनि ॥७४॥ यत्कृतं कैतवेनापि निःस्पृहत्वं फलप्रदम् । तच्चेन्निः कैतवं कीदृक् चिन्ता चिन्तामणेस्ततः ॥ ७५ ॥ इतः पितृनिदेशेन गुणसेन उपायत । कन्यां वसन्तसेनाख्यां सेनामिव मनोभुवः ॥ ७६ ॥ अवज्ञा पितुराज्ञाया मा भूदिति भयातुरः । राज्यश्रियमुपादत्त स द्वितीयां वधूमिव ॥७७॥ पूर्णचन्द्रनरेन्द्रस्तु विमुच्य विषयान् द्विधा । कुमुदिन्या समं देव्या वनवासमशिश्रियत् ॥७८॥ नृपतिर्गुणसेनोऽथ विष्वक्सेन इवापरः । वसन्तसेनया देव्या समं रेमे श्रियेव सः ॥ ७९ ॥ दिग्यात्रानिर्गतोऽन्येद्युर्वसन्तपुरमागतः । विमानच्छन्दकाभिख्ये प्रासादे प्राविशन्नृपः ॥ ८० ॥ दुर्दिनं धूपधूम्याभिः क्षणां माणिक्यराशिभिः । मुक्तास्रग्भिः पयोधाराश्चामरैश्च बलाकिकाः ॥८१॥ दधदिन्द्रधनुः पञ्चवर्णपट्टांशुकोच्चयैः । गन्धोदकेन वर्षश्च वर्षारात्र इवात्र यः ॥८२॥ युग्मम् तत्र पौरन्यथायोग्यं सम्मान्य च विसृज्य च । तन्नाटकादिभिस्तेनाहोरात्रमतिवाहितम् ॥८३॥ Page #8 -------------------------------------------------------------------------- ________________ प्रथमो भवः द्वितीयदिवसे प्रात:कृत्यमाधाय कृत्यवित् । वाहकेल्यां गतो वाहानवाहयदयं बहून् ॥८४|| ततः श्रान्तः स विश्रान्तः सहस्राम्रवने वने । यावत्तावत्समायातां द्वौ तापसकुमारकौ ॥८५॥ तौ स्वसिद्धान्तसिद्धाशीर्वादेनाऽऽनन्द्य भूपतिम् । अभ्युत्थानासनाद्यैस्तन्मानिताविदमूचतुः ॥८६।। आवां कुलपतिः प्रैषीन्महाराज ! तपोवनात् । वर्णाश्रमगुरोस्तेऽङ्गप्रवृत्तिज्ञानहेतवे ॥८७|| श्रुत्वेति नृपतिर्भक्तिकौतुकाभ्यां तपोवनम् । गतोऽनंसीत्कुलपतिं तपस्विपरिवारितम् ॥८॥ निर्गम्य धर्म्यवार्ताभिः कञ्चित्कालं नरेश्वरः । रोमाञ्चितवपुर्भक्त्यावादीत्कुलपति प्रति ॥८९॥ धन्योऽस्मि यस्मै मे यूयं निस्पृहाः स्पृहयालवः । मुनी प्रेष्य ममाङ्गस्य प्रवृत्तिं ज्ञातुमिच्छवः ॥९०|| तद्विभो धन्यमूर्धन्यं कुर्वन्गुर्वनुकम्पया । मद्गृहे विविधाहारग्रहेणानुगृहाण माम् ॥११॥ ततः कुलपतिः प्राह वर्णाश्रमगुरोस्तव । प्रवृत्तियुज्यतेऽस्माकं ज्ञातुमाश्रमवासिनाम् ॥१२॥ किं च सौधे तवाहारग्रह: संगतिमङ्गति । अस्ति किं त्वग्निशर्माख्यो धर्मारामघनो मुनिः ॥९३।। कृतमासोपवासोऽपि न भिक्षां लभते यदि । आद्ये गृहे पुनर्मासोपवासी जायते ततः ॥१४॥ स कृतध्यानसंधानः सावधानो मनोजये । अशनायां न जानाति रसनायां निरीहधीः ॥१५॥ समरादित्यसंक्षेपः तत्तं महामुनि मुक्त्वा प्रार्थना सफलाऽस्तु ते । स्थानस्थोऽपि हि षष्ठांशं धर्मस्य लभते भवान् ॥९६।। पञ्चभिः कुलकम् क्व सोऽस्तीति नृपप्रोक्ते प्रोचे मुनिमतल्लिका । रसालशालवीथ्यां स ध्यानस्थस्तप्यते तपः ॥९७|| गतस्तत्र धृतध्यानं सानन्दाश्रुनिरीक्ष्य तम् । इलातलमिलन्मौलिर्नरमौलि: समानमत् ॥९८॥ दत्ताशीस्तेन भूनेताऽपृच्छत्तं स्वच्छमानसः । तपसो दुस्तपस्यास्य हेतुः को नाम ते मुनि ॥१९॥ सोऽवदहुःखदारिदयपराभवविरूपताः । कल्याणमित्रं राज्ञस्तुक् गुणसेनश्च हेतवः ॥१००।। स्वनामाशङ्कितो राजावऽदद् दुःखादिहेतवः । सन्तु कल्याणमित्रं तु गुणसेनः कथं नु ते ॥१०१।। मुनिः प्राह महाराज भजन्ते स्वयमुत्तमाः । मध्यमाः प्रेरिता धर्मं कथञ्चिदपि नाधमाः ॥१०२।। जीवं नयेन केनाऽपि धर्मे नुदति यः पुमान् । कल्याणमित्रं स ज्ञेयः कर्षन्संसारचारकात् ॥१०३।। युग्मम् राज्ञा कौमारवृत्तान्तं स्मृत्वोचे भगवन्कथम् ? । तेन त्वं प्रेरितो धर्मे स प्रोचे हेतुमात्रतः ॥१०४|| दध्यौ नृपो महात्माऽयमहो मेऽभिभवं कृतम् । प्रेरणां मन्यते धर्मे पापात्माऽहं तु हन्त हा ॥१०५॥ ध्यात्वेत्युवाच तं पापः स एवाऽस्मि महामुने ! । अपूर्वो गुणसेनोऽहं सपूर्वोऽपि पुरा तव ॥१०६॥ मनिरूचे महाराज ! गणसेनः कथं भवान् । येनाहं परपिण्डादः प्रापितः श्रियमीदृशीम् ॥१०७।। Page #9 -------------------------------------------------------------------------- ________________ प्रथमो भवः राज्ञोचे मनयोऽवश्यं सर्वदाऽपि प्रियंवदाः । कथं सुधांशोरङ्गारवृष्टिसृष्टिः कदाचन ॥१०८॥ अलमालप्य तद्वालचेष्टितं मे निवेदय । कदा ते पारणं भावि सोऽवदत् पञ्चभिर्दिनैः ॥१०९।। राजावदीत् प्रसादोऽयं कार्यो मय्यथ सोऽवदत् । तत्तत्रैव दिने ज्ञेयं क्षणक्षयिणि जीविते ॥११०॥ यस्य मैत्री यमेन स्याज् ज्ञानं वा भुवनाऽद्भुतम् । स एवं वक्ति कल्येऽद: करिष्याम्यपरः कथम् ॥१११।। अतस्तज्ज्ञायते नार्वागिति श्रुत्वा नृपो जगौ । विघ्नं मुक्त्वा भवत्वेवं मुनिः प्राह भवत्विति ॥११२।। नत्वा नृपोऽथ तं यातः पुरं कुलपतेर्व्यधात् । पूजां सपरिवारस्य भक्तिवैभवसन्निभाम् ॥११३।। अथाऽग्निशर्मा सम्प्राप्तः सौधं पारणवासरे । शिरोऽतिदिवसे तत्रातीव तीव्रास्ति भूपतेः ॥११४॥ प्राविक्षन्बहवस्तत्र वैद्या वैद्यकवेदिनः । पिष्यन्ते भेषजान्युच्चैः क्रियते च प्रलेपनम् ॥११५।। किङ्कर्तव्यविमूढाश्चाऽभूवन्मन्त्रिमहत्तमाः । सर्वमन्तःपुरं चासीद्वाष्पक्लिन्नविलोचनम् ॥११६।। संत्यक्तकन्दुकक्रीडं कन्याऽन्तःपुरमप्यभूत् । वेत्रिकञ्चुकिसूदाद्यं विचित्तं सर्वमस्ति च ॥११७।। कालं कियन्तमप्येवंविधे नीत्वा नृपालये । अकृतप्रतिपत्तिः सोऽग्निशर्मा निर्गतस्ततः ॥११८।। पञ्चभिः कुलकम् समरादित्यसंक्षेपः गतस्तपोवनं म्लानो दृष्टः पृष्ठश्च तापसैः । मुने किं पारणं नाभूद्गुणसेननृपालये ॥११९।। सोऽवादीदगमं तत्र गात्रेण त्वपटुर्नृपः । उद्विग्नं सकलं राजकुलं तेन न पारणम् ॥१२०॥ तेऽवदन् सत्यमेवेदं शरीरेणापर्टर्नपः । अन्यथा कथमागच्छेद्भगवानप्यपारणः ॥१२॥ नृपस्य पक्षपातो हि भगवन्नधिकस्त्वयि । यतः कुलपतेरग्रे गुणास्तव बहु स्तुताः ॥१२२।। अग्निशर्माऽवदत्तस्मै गुरुगौरवकारिणे । अस्तु स्वस्तीति जल्पित्वा पुनर्मासोपवास्यभूत् ॥१२३।। इतश्च भूभुजा भूरिभेषजास्तशिरोतिना । पृष्टः परिजनः किं न महामुनिरिहाऽऽमत् ॥१२४।। तेनोक्तमागतः सोऽभूत्कि तु देवव्यथावशात् । आकुले सकले राजकुले केनाऽपि नार्चितः ॥१२५।। तदाकर्ण्य नृपः शान्तशिरोतिरपि तत्क्षणात् । उत्पन्ननव्यचित्तातिविलापमकरोदिति ॥१२६।। अहो अहमधन्योऽस्मि पुण्यहीनश्च यस्य मे । कल्पद्रुरङ्गणायातोऽप्यदत्त्वा निर्गतः फलम् ॥१२७|| यदेव पारणं पुण्यकारणं सुकृतात्मनाम् । पापात्मनस्तदेवेदं ममाभूत्पुण्यवारणम् ॥१२८॥ भेषजैः शान्तिमायाता शिरसो वेदना मम । मनसो वेदनायास्तु शमनेऽस्या न भेषजम् ॥१२९।। कलापकम् १. Instead of क्षणक्षयिनि (sic) it would be better to read क्षणक्षयि हि जीवितम् । १. बहुश्रुताः क। Page #10 -------------------------------------------------------------------------- ________________ प्रथमो भवः विलप्यैवं द्वितीयेऽह्नि गतः प्रातस्तपोवनम् । नत्वा कुलपति लज्जानम्रास्यो न्यषदन्नृपः || १३०॥ विचित्ततां परिज्ञाय तस्योवाच मुनीश्वरः । किं ते दुःखं महाराज ! कथ्यं चेत्कथ्यतां मम ॥ १३१ ॥ नृपोऽवदत्तदप्यस्ति किं किञ्चिद्यन्न कथ्यते । युष्मादृशमहर्षीणामषडक्षीणमप्यलम् ॥१३२॥ परं नृशंसमेतादृक् चरितं यन्न शक्यते । वचसा शंसितुं किं तु युष्मदाज्ञेति कथ्यते ॥१३३॥ मद्दुश्चेष्टितनिर्वेदादग्निशर्मा तपस्व्यभूत् । आत्तव्रतेऽपि ही तस्मिन्मदीयं दुष्टचेष्टितम् ॥१३४॥ यन्निमन्त्र्य मया मासपारणेऽसौ न भोजितः । शिरोर्तिजप्रमादेन तत्पापं मम दुर्वचम् ॥ १३५ ॥ षड्भिः कलापकम् ऊचे कुलपतिर्वत्स ! त्वं खेदं मा कृथा वृथा । अलाभे हि तपोवृद्धिस्तस्य प्रत्युत संपदः ॥ १३६ ॥ नृपोऽवादीदयं खेदः कथं शाम्यत्यभोजिते । तस्मिन्महामुनौ गाढप्रतिज्ञाभरधूर्वहे ||१३७|| श्रुत्वेति तापसाचार्यः समतौदार्यसुन्दरः । अग्निशर्माणमाकार्य कार्यवेदीत्युवाच तम् ॥१३८ ।। वत्स ! चित्तं तवातुच्छमतुच्छं दुस्तपं तपः । अतुच्छः समताभावोऽतुच्छचाभिग्रहग्रहः ॥ १३९ ॥ १३ यत्त्वं समेतो भूपस्य गृहादकृतपारणः । तेनासह्यतमेनैष हृदि दन्दह्यतेऽधिकम् ॥१४०॥ १. ० भारधूर्वहे क । १४ समरादित्यसंक्षेपः तत्प्रार्थयन्तमेतं च मां च मानय मानद । मासान्ते पारणं कार्यं गृहेऽस्य धरणीभुजः ॥ १४१ ॥ इत्यूचुषा धृतो बाहौ गुरुणा करुणावता । बहुमानेन तस्यासावमानस्तदमानयत् ॥ १४२ ॥ पञ्चभिः कुलकम् अवोचच्च ममानेन परलोकविरोधकृत् । न किञ्चन कृतं येन चित्ते संतप्यतेऽधिकम् ॥१४३॥ अहो महानुभावत्वमस्येति नृपतिर्वदन् । नत्वा कुलपतिं तं च मुदितः स्वपुरं ययौ ॥१४४॥ तत्पारणदिन ध्यानशुद्धधीरवनीश्वरः । मुनीश्वरश्च सद्ध्यानबद्धधीर्मासमक्षपत् ॥ १४५ ॥ अङ्गुलीभिर्गणयतस्तत्पारणकवासरः । गुणसेनमहीभर्तुः सुमुहूर्त इवागमत् ॥१४६॥ इतः कुलपतेर्वाचा सदाचारशिरोमणिः । अग्निशर्माऽस्तदुष्कर्माऽभूत्तदागमनोन्मुखः || १४७ || तत्पारणदिनप्रातः समयेऽथ समागतः । स्पर्शः शशंस भूपस्य वचः श्रवणदुः श्रवम् ॥१४८॥ देव देवस्य या सेना रभसेनाऽद्रिसन्धिगा । व्यद्राव्यत प्रमत्ता सा मानभङ्गमहीभुजा ॥ १४९ ॥ अवस्कन्दस्य दानेनाऽऽस्कन्द्य तावकसैनिकान् । मानभङ्गस्त्वयि स्वामिन्निजं नाम न्ययोजयत् ॥१५०|| श्रुत्वेति भूपतिः कोपारुणदारुणलोचनः । परिकम्प्राधरः पाणितलप्रहतभूतलः ॥ १५१ ॥ १. क्षिपत् क । २. निजनाम क । Page #11 -------------------------------------------------------------------------- ________________ प्रथमो भवः द्विधापि मानभङ्गस्य प्रभूष्णुर्भञ्जनेऽस्म्यहम् । मानभङ्गोऽथवा नेतुः कः प्रमत्तपराजये ॥१५२।। उक्त्वेति स महारम्भः ससंरम्भः परक्षितौ । भृत्यैर्भम्भारवारम्भमादधेऽरं भयोज्झितः ॥१५३।। विशेषकम् कृतप्रयाणवादेन भम्भानादेन संगतम् । हस्तिकाश्वीयपादातरथकड्यादिकं स्यात् ॥१५४।। करिवारिधरं तूर्यजितं कुन्तचञ्चलम् । अकालदुर्दिनप्रायं बभौ तन्मिलितं बलम् ॥१५५।। पृथ्वीशेऽथ रथारूढे पूर्णकुम्भे पुरस्कृते । जयतूर्ये स्वनत्युच्चैः पठन्मङ्गलपाठके ॥१५६।। निरुद्ध नृपतिद्वारे दुर्गमे बलिनामपि । स महात्मा द्विमासान्ते पारणाय समागमत् ॥१५७।। युग्मम् प्रविष्टोऽपि प्रधानेन जनेनाऽनुपलक्षितः । भीतश्च दुर्दमाश्वीयरथसम्मर्दमर्दनात् ॥१५८।। स्थित्वा कियन्तमप्येष कालं कालमुखादिव । विनिर्गतो नृपद्वाराद् गजाश्वरथदन्तुरात् ॥१५९|| युग्मम् इत: सुलग्ने लग्न विज्ञप्तो नृपतिर्जगौ । पारणादिनमद्यास्ति तापसस्याऽग्निशर्मणः ॥१६०॥ आगच्छतु महात्माऽसौ द्विमासक्षपको मुनिः । भोजयित्वा च नत्वा च तं गमिष्यामि सिद्धये ॥१६१।। तदा व्यज्ञपि केनाऽपि स आगत्य गतः प्रभो ! । निर्याति नगरान्मन्ये नाऽद्याप्येष स्थिरक्रमः ॥१६२।। श्रुत्वेति नृपती रथ्याननुदत्तस्य पृष्ठतः । स निर्गच्छन्पुरा दृष्टो रथादुत्तीर्य वन्दितः ॥१६३।। समरादित्यसंक्षेपः पदोर्लगित्वा प्रोक्तश्च निवर्तस्व गृहान्प्रति । त्वत्कृतेऽहमियत्कालं प्रस्थितोऽपि स्थितः प्रभो ! ॥१६४।। अग्निशर्मावदल्लाभालाभयोः समचेतसः । स्वप्रतिज्ञा न मुञ्चन्ति महाराज तपस्विनः ॥१६५।। राज्ञोचे लज्जितोऽस्म्युच्चैः प्रमादाचरितादितः । किं च त्वद्देहपीडातो मनःपीडा ममाऽधिका ॥१६६।। न निर्गच्छति गी: स्वं च मन्ये पापशिरोमणिम् । तन्मे दुःखशमोपायं दु:खिमित्र ! विचिन्तय ॥१६७।। दध्यौ मुनिरयं बाढं खिद्यते मय्यभोजिते । नास्य दुःखशमोपायोऽन्योऽस्ति मनोजनं विना ॥१६८॥ ध्यात्वेति स नृपं प्राह त्वं महाराज ! मा श्रमः । पूर्णे मासि करिष्यामि पारणं तव मन्दिरे ॥१६९| तद्गिराउजनि गोशीर्षचन्दनच्छटयेव सः । शीतो ध्मातद्विपञ्चाशत्पलायोगोललीलया ॥१७०॥ मुनिमूचे च भगवन् यात यूयं तपोवनम् । नाहं कुलपतेः शक्तो निजं दर्शयितुं मुखम् ॥१७१।। इत्युदित्वा च नत्वा च प्रेष्य चामुं तपोवनम् । स्वयं चास्य कृते स्थित्वा सैन्यं प्रैषीद्रिपुं प्रति ॥१७२।। गुरोः सर्वं समाख्याय मुनेस्तपसि तस्थुषः । नित्यं संसेव्यमानस्य राज्ञा मासो व्यतीयिवान् ॥१७३|| पारणस्य दिने प्राप्ते मनोरथशतैरथ । देवी वसन्तसेनाख्या सुखतः सुषुवे सुतम् ॥१७४।। १. पापिशिरोमणिः क च; प्रियमित्र क । Page #12 -------------------------------------------------------------------------- ________________ प्रथमो भवः वेत्रिणी जन्म पुत्रस्य धरित्रीशाय शंसितुम् । गत्या नित्यगति पश्चाच्चक्रे स तु मुखेऽभवत् ॥१७५॥ श्वासाद्वक्तुमशक्तापि सा सानन्दविलोचना । अवदन्त्यपि कल्याणशंसिनीत्यन्वमन्यत ॥ १७६ ॥ वर्धापतो नृपः पुत्रजन्मनाऽस्यै वितीर्णवान् । भूषणान्यङ्गलग्नान्युत्तीर्णान्युद्धषणादिव ॥ १७७॥ पुत्रजन्मसुधां श्रुत्या निपीय वसुधाधिपः । मुधा मेने सुधापानं सुधाशनपतिश्रियै ॥१७८॥ अथादिशदसौ देशे पटहोद्घोषपूर्वकम् । पुत्रजन्मोत्सवं प्रीतः पुर्यामेव न केवलम् ॥ १७९ ॥। गुप्तिमोक्षमहादानमानवृद्धिपुरस्सरम् । तदाऽभूत्तत्क्षणादेव महोत्सवमयं पुरम् ॥१८०॥ नृत्यद्वेश्याजनं तूर्यबन्दिवृन्दरवाकुलम् । वर्धापनमभूद्दिव्यं कुब्जनृत्यहसज्जनम् ||१८१|| इतश्च गुरुनिर्देशादग्निशर्मा तपोधनः । आगच्छन्नुच्छ्रितानेकपताकं पुरमैक्षत ॥ १८२ ॥ तत्प्रशान्तरजःपुञ्जं मसृणं घुसृणाम्बुभिः । मौक्तिकस्वस्तिकाकीर्णं वीक्ष्य चित्ते व्यचिन्तयत् ॥ १८३॥ अहो महानुभावोऽयं मम पारणवासरे। चक्रेऽवक्रेण चित्तेन महोत्सवमयं पुरम् ॥ १८४॥ अहो अस्य परा भक्तिरहो अस्य विनीतता । अहो अस्य महौदार्यमहो अस्य महन्महः ॥ १८५ ॥ १. सुधापानसुधाशनपतिश्रियों क ख ० श्रियौ ङ । २. वृन्दसमाकुलम् क । १७ १८ समरादित्यसंक्षेपः ध्यायन्निति कृशाङ्गोऽपि तत्प्रमोदेन मेदुरः । गुणसेननरेन्द्रस्य प्रासादे प्राविशन्मुनिः ॥ १८६॥ विशेषकम् पुत्रप्रमोदतस्तत्र प्रमत्ते धरणीधवे । व्याकुले सकले राजकुले नाट्यादिवीक्षणैः ॥ १८७॥ दूरेऽस्तु भुक्तियुक्तिश्च भक्तिव्यक्तिश्च काचन । केनाऽपि न दृशा दृष्टो न केनाऽपि च भाषितः ॥ १८८ ॥ निर्गतः स मुहूर्तेन बाधितः सकुधा क्षुधा । त्वरितत्वरितं गच्छन्विपरीतः पुराभूत् ॥ १८९ ॥ विशेषकम् पुरमस्तरजःपुञ्जं सरजस्को द्विधाऽप्ययम् । सानुरागं पुरं राज्ञि रागहीनस्त्वसावभूत् ॥१९०॥ पुरं समौक्तिकं दध्यौ स तु ध्यानेन मुक्तकः । तत्रोत्सवमये सोऽभून्मत्सरेण निरुत्सवः ॥१९१॥ रक्तो दृशोर्मुखे श्यामो भस्मपाण्डुः कुधा सितिः । पिङ्गो जटास्ववर्णोऽयं पञ्चवर्णोऽप्यजायत् ॥१९२॥ अध्यायच्च दुरात्माऽयं बाल्यादपि रिपुर्मम । तदेतेन हतेनापि हतकेन न पातकम् ॥१९३॥ ध्यात्वेत्यज्ञानदोषेण निदानं क्षुन्निदानतः । भवे भवेऽस्य भूयासं वधायेति व्यधादयम् ॥ १९४ ॥ युग्मम् स तपोविभवक्रीततन्निदानक्रयाणकः । माकन्दवीथ्यामेवागाच्शौल्लिकानां भयादिव ॥ १९५ ।। तस्यां शिलातलासीनस्तन्निदानं निकाचयन् । तस्थौ चतुर्विधाहारपरिहारपरायणः ॥ १९६ ॥ १. ध्यानममौक्तिकं कङ । Page #13 -------------------------------------------------------------------------- ________________ प्रथमो भवः दृष्टस्तपस्विभिम्र्लानः पृष्टोऽपारणकारणम् । प्राक् चिन्तितं च वृत्तं च तदग्रेऽगुणयत्पुनः ॥१९७।। असंभाव्यमदस्तस्मिस्तपस्विजनवत्सले । इत्युक्त्वा तत्र गत्वा च तैराख्यायि गुरोस्तथा ।।१९८।। श्रुत्वा कुलपतिस्तच्च समागच्छत् ससंभ्रमः । नतस्तेनाऽवदत्तस्य प्रमादो ही महीभुजः ॥१९९।। सोऽवदन्नाऽस्य दोषोऽयं ममैवैष प्रमादिनः । गच्छाम्यहं यदाहारमात्रहेतोरिदं गृहम् ॥२००।। न्यषेधि स मयाऽऽहारस्तन वाच्यः किमप्यहम् । प्रोचे कुलपतिः कोप: कार्यो नात्र महीपतौ ॥२०१।। शिष्यं तमनुशिष्यैवं तापसान्परिचारकान् । समादिश्य च याति स्म मुनीश उटजं निजम् ॥२०२।। अथ स्मृते नरेन्द्रेण पृष्टः प्रोवाच काष्टिकः । समेत्याऽगादभुक्तोऽपि स तपस्वी तपोवनम् ॥२०३।। अथात्मानं नृपो निन्दन्नक्षमः स्वास्यदर्शने । प्राहिणोत्तदुदन्ताय सोमदेवं पुरोधसम् ॥२०४॥ गतोऽयं वीक्ष्य तं विप्रः कुशस्त्रस्तरकस्थितम् । उवाच भगवन् ! क्षीणशरीर इव लक्ष्यसे ॥२०५।। तेनोक्तमन्यतो लब्धवृत्तीनां हि तपस्विनाम् । मतं कृशत्वमेवाङ्गमिति श्रुत्वाऽवदद् द्विजः ।।२०६।। त्वादृशामपि नाऽऽहाप्रदा नात्र पुरे जनाः । स प्राह सत्यमेवेदं गुणसेननृपं विना ॥२०७॥ समरादित्यसंक्षेपः विप्रः प्राह नपः किं तेऽकरोद्धर्मपरो हि सः । मुनिराह महाधर्मपरो हि ऋषिघातकः ॥२०८|| सोमस्तं कुपितं मत्वाऽपृच्छदन्यं तपस्विनम् । किमिदं सोऽवदद्राज्ञि कोपेनानशनं ह्यदः ॥२०९।। तद् ज्ञात्वा कथयामास यथावृत्तं स भूभुजे । सशुद्धान्तोऽप्ययं तस्मै नमस्कर्तुमुपाययौ ॥२१०॥ नृपागमनमाख्यातं तापसेनाऽग्निशर्मणः । सोऽपि स्वगुरुमाकार्येत्यवदन्निष्ठुरं वचः ॥२११।। अकारणरिपोरस्य न मुखं वीक्षितुं क्षमः । यत्किञ्चिदुक्त्वा दूरेण पाप एष विसृज्यताम् ॥२१२।। सकषायममुं हित्वा गुरुरागान्नृपं प्रति । नतस्तेनाथ तं वीथ्यां चम्पकानां न्यवेशयत् ॥२१३॥ अजल्पच्च महाराज ! क्रमचङ्कमणं तव ।। सकलत्रस्य भूभागमियन्तं नोचितं ह्यदः ॥२१४|| नृपोऽजल्पदितोऽप्यस्ति प्रभो मेऽनुचितं परम् । येन तेनाऽप्युपायेन यदेतदृषिघातनम् ॥२१५।। अथवा मे किमेतेन वचसा निकृतिस्पृशा । महात्मा क्व स तन्नत्या शोधयाम्यात्मकल्मषम् ।।२१६।। जगौ कुलपती राजंस्त्वन्निर्वेदभुवो मुनेः । नाऽऽहारपरिहारोऽसौ किं तु पर्यन्तसङ्गतः ॥२१७।। किं च क्लेशकलापेन पूर्वकर्म समजितम् । विधुनानोऽधुना ध्यानं चर्करीति स कर्कशम् ॥२१८।। १. हि क । १. निर्वेदभवो क । Page #14 -------------------------------------------------------------------------- ________________ प्रथमो भवः तेनान्यस्यापि ते नामा दर्शनं नैव युज्यते । तवामन्दपरिस्पन्दमन्दिरस्य विशेषतः ॥२१९।। यद्यमन्दस्तवानन्दस्तस्य वन्दनकर्मणि । पुरे गत्वाऽत्र तद्भूमीपते ! त्वं पुनरापतेः ॥२२०॥ तथेति प्रतिपद्याऽथ दुर्मना मेदिनीपतिः । नत्वा कुलपति गन्तुं प्रावर्तत निजं पुरम् ॥२२१।। सानुकोशेन केनाऽपि तापसेनाऽग्निशर्मणः । अनुगम्य मनोभावः कथितः पृथिवीपतेः ॥२२२।। नृपोऽध्यायदिहागन्तुं न स्थातुं चान्तिके पुरे । क्षितिप्रतिष्ठितं गन्तुं साम्प्रतं मम साम्प्रतम् ।।२२३।। स्थितः पुरेऽत्र मा श्रौषमस्याऽश्रव्यं मुनेर्वचः । ध्यात्वेत्यपृच्छदैवज्ञं प्रयाणायापरे पुरे ॥२२४|| प्रातरेवेति तेनोक्ते प्रयाणैरविलम्बितैः । ससैन्यो नृपतिः प्राप तत्पुरं मासमात्रतः ॥२२५॥ पौरगौरवितस्तत्र गुणगौरः क्षमापतिः । पुरे च सर्वतोभद्रे प्रासादे च विवेश सः ॥२२६।। तस्मिन्नेव दिने तत्रानेकशिष्यपरिच्छदः । द्वादशाङ्गी चतुर्ज्ञानी यौवनस्थो मनोरमः ॥२२७।। मण्डनं भूमिभामिन्याः क्षमाया जङ्गमा क्षमा । आकरो गुणरत्नानामानन्दो जगतीदृशाम् ॥२२८॥ सूरिविजयसेनाख्यो नृपवंशसमुद्भवः । उद्याने समवासाषींदशोकवननामनि ॥२२९।। विशेषकम् समरादित्यसंक्षेपः रक्ताशोकलता यत्रासूर्यम्पश्या दलोच्चयैः । कौसुम्भवसना भान्ति मधुभूपप्रिया इव ॥२३०|| इतश्च गुणसेनेनाऽऽस्थानस्थेनावनीभुजा । प्रस्तावे धर्मवार्तानामित्यूचे रुचिरं वचः ॥२३१।। कुलीनश्च सुलीनश्च योगमार्गे महामनाः । दृष्टः किं कोऽपि केनाऽपि गुरुः सर्वगुणैर्गुरुः ॥२३२।। नर: कल्याणकाख्योऽथ वचः कल्याणमूचिवान् । देवाद्यैव मया दृष्टो यादृक् पृष्टो गुरुस्त्वया ॥२३३।। श्रेष्ठिनोऽशोकदत्तस्योद्यानेऽशोकवनाभिधे । पौत्र: समरसेनस्य विभोर्गन्धारनीवृतः ॥२३४|| सूरीविजयसेनाख्यो विकाराद्यभिधोऽपि यः । नैव स्पृष्टो विकारेण मनोवचनकर्मभिः ॥२३५।। विशेषकम् नृपोऽजल्पदहं प्रातर्वन्दिष्येऽर्कनिभं विभुम् । देशनाऽभीषुभिर्विश्वविश्वमोहतमोपहम् ॥२३६।। अथ प्रातः कृतप्रात:कृत्यः कृत्यविदां वरः । उद्याने शिष्यताराढ्यं तं मुनीन्दुमवैक्षत ॥२३७।। भून्यस्तजानुहस्तेन नतस्तेन मुनीश्वरः । सर्वाशी:प्रवरां तस्मै धर्मलाभाशिषं ददौ ॥२३८।। परानपि मुनीनेष ववन्दे च तप:कृशान् । हदि सिद्धिवधूसङ्गचिन्ताचान्ततनूनिव ॥२३९|| उपविष्टो गुरोः पावें पश्यंस्तं स्थिरया दृशा । विस्मितो रूपवृत्ताभ्यां तमूचे रचिताञ्जलिः ॥२४०।। भगवन् ! सर्वसंपत्तौ किं ते निर्वेदकारणम् । यद्राज्यलक्ष्मीमुज्झित्वा प्रतिपेदे महाव्रतम् ॥२४१॥ १. प्रापत्तत्पुरं ख। Page #15 -------------------------------------------------------------------------- ________________ प्रथमो भवः गुरुः प्राह महाराज ! सर्वं निर्वेदकारणम् । चतुर्गतिमयेऽप्यत्र चिन्त्यमानं भवे भवेत् ॥२४२॥ सर्वत्र जन्म मृत्युश्च चपलाचपलाः श्रियः । न ज्ञायते कुतोऽप्येतः क्व वा यास्याम्यहं पुनः ॥२४३।। दुर्लभं मानुषं जन्म चञ्जलं तच्च जीवितम् । भोगिभोगनिभाः कामभोगाः पर्यन्तदारुणाः ॥२४४|| भवे द:खमयेऽमुष्मिन् सति स्थाने च शाश्वते । तस्योपाये जिनोद्दिष्टे यत्नं कुर्यान्न कः सुधीः ॥२४५॥ कलापकम् एवं निर्वेदहेतुर्मे भव एवाभवन्नृप ! । निमित्तमात्रमन्यत्तु तन्मे कथयतः शृणु ॥२४६।। इहैव विजये देशो गान्धारो नाम विश्रुतः । गन्धाराख्यं पुरं तत्र सदा तस्मिन्वसाम्यहम् ॥२४७|| अस्ति सौवस्तिक: सोमवसुनामात्र सोमवित् । तत्पुत्रः पवनस्येव मित्रं मम विभावसुः ॥२४८|| द्वितीयमिव मे चित्तं प्रतिबिम्बमिवात्मनः । स कदाचन नौज्झन्मां मांसं जीवन्नखो यथा ॥२४९॥ अन्यदाऽयं गदाकान्तः कृतैर्जायुशतैरपि । नोऽमन्यत प्रतीकारं प्रभिन्न इव वारणः ॥२५०॥ तेजस्व्यपि स्वयं सोऽयं मित्रे मय्यन्तिकस्थिते । आयुरेधो विना वेगाच्छाम्यति स्म विभावसुः ॥२५१॥ तद्वियोगासहश्चाहं भ्रमन्नप्यभ्रमन्नपि । लभे स्म न रति क्वापि पुण्हीन इव श्रियम् ॥२५२।। समरादित्यसंक्षेपः वियोगे मां दहन्नन्तः स नवीनो विभावसुः । संयोगे हि बहिर्देहमन्यो दहति देहिनाम् ॥२५३|| मम दु:खवतः प्रेष्यश्चतुरश्चतुरो मुनीन् । समागत्य स्थितानाख्यद् गन्धारगिरिगहरे ॥२५४|| तान्निशम्य समायातान् दु:खेऽपि मुदितोऽस्म्यहम् । मुनयो दु:खदग्धानां सुहृदः सुहृदो यतः ॥२५५।। मयाऽथ त्वरितं गत्वा साधवस्ते ववन्दिरे । धर्मलाभाशिषं लब्ध्वोपविष्टः शासितश्च तैः ॥२५६।। सम्यक्त्वं लब्धवांस्तेभ्यः पर्युपासे निरन्तरम् । तस्थुस्ते तु चतुर्मासं नित्यमासोपवासिनः ॥२५७।। तद्विहारनिशान्त्यार्धयामे तान्नन्तुमुत्सुकः । गच्छन्नद्राक्षमुद्योतमश्रौषं च जयध्वनिम् ॥२५८।। गुहासमीपे गन्धाम्बुपुष्पवृष्टिं विलोकयन् । सुरांश्च स्तुवतस्तेषां ज्ञातवानस्मि केवलम् ॥२५९।। रत्नसिंहासनासीनान्नत्वा केवलिनो मुनीन् । सुरासुरनरव्रातचेतः संशयहारिणः ॥२६०|| अपृच्छमहमप्येकं भगवन् क्व सुहृन्मम । उत्पन्नः स कथं चास्ति स्नेह: केनात्र मे महान् ॥२६१।। युग्मम् उवाच केवल्यत्रैव पुर्यास्ते वस्त्रशोधकः । ऊषदत्तः शुनी तस्य नामतो मधुपिङ्गला ॥२६२।। तद्गर्भे शुनकत्वेनोत्पन्न: संमर्दनीतटे । बद्धः खरखुराधातभीतोऽस्ति क्षुधितश्च सः ॥२६३।। भवान्तरे च ते पुष्पपुरे निवसतः सतः । नाम्ना कुसुमसारस्य श्रीकान्ता नामतः प्रिया ॥२६४|| १. गान्धाराख्यं ख घ ङ च । Page #16 -------------------------------------------------------------------------- ________________ प्रथमो भवः असावभूत्ततः पूर्वभवाभ्यासवशेन ते । अस्मिन्नस्ति महास्नेहो न चाद्यापि प्रशाम्यति ॥२६५।। युग्मम् मोहेन प्रेषितास्तत्र तमानेतुं मया नराः । आनिन्युस्तं स दृष्टश्च मक्षिकापशुकावृतः ॥२६६।। तमुग्रीवं सबाष्पं च वीक्ष्य पृष्टो मया पुनः । किमिदं केवली प्राह प्राच्यः प्रणय ओघतः ॥२६७।। भगवन् कर्मणः कस्य विपाकोऽयं मयोदिते । भगवानूचिवाञ्जातिमदस्यैष विजृम्भते ॥२६८।। अनन्तरभवे ह्येष पुरोहितसुतत्वतः । कुलजातिबलैश्वर्यगर्वपूर्णः सुहृत्तव ॥२६९|| वियोगिनां दवः साक्षादिव पुष्पितकिंशुकैः । रतिभर्तुः परं मित्रं वसन्तर्तुस्तदाऽऽगमत् ॥२७०।। शुचीनां मलिनानां च चर्चर्यस्तत्र निर्ययुः । विभावसुः स्वचर्यां खेलन्नस्त्यखिलैनिजैः ॥२७१।। तस्यासन्ने समायाता वस्त्रशोधकचर्चरी । समेति कथमस्माकमासन्ना नीचचर्चरी ॥२७२।। वदन्नित्यभिमानेन रजकानकदर्थयत् । ऊषदत्तं च तन्मुख्यं क्षेपयामास चारके ॥२७३|| युग्मम् मोचितः सजनैरन्त्यैनिवृत्ते मदनोत्सवे । त्वन्मित्रेण तदा कर्म नीचैर्गोत्रमुपाय॑त ॥२७४|| तदा कौलेयकत्वेनाभिमानं दधताऽमुना । कौलेयकत्वमेवेदं कर्मणा हि समजितम् ।।२७५|| समरादित्यसंक्षेपः इति श्रुत्वा मया पृष्टो भाविनस्तद्भवान्विभुः । ऊचेऽस्य रजकस्यैव गृहेऽसौ भविता खरः ॥२७६।। अथोषदत्तसंबद्धो मातृदिन्नाभिधोऽन्त्यजः । तद्भार्यानथिकाकुक्षौ क्लीबत्वेन भविष्यति ॥२७७।। हतः सिंहेन पुत्रीत्वमन्त्यजस्यैव लप्स्यते । बालभावेऽप्यसौ सर्पदष्टा तत्र मरिष्यति ॥२७८।। दास्यामथोषदत्तस्य क्लीबत्वे धक्ष्यतेऽग्निना । पुत्रीत्वे पीठसर्पित्वादिभेनासौ हनिष्यते ॥२७९।। तस्यैवास्त्यूषदत्तस्य कालञ्जन्यभिधा प्रिया । तत्पुत्रीत्वे वयःस्था सा प्रसुवाना मरिष्यति ॥२८०॥ तत्पुत्रत्वे च बालत्वे खेलन्नेष नदीतटे । प्रत्यथिनोषदत्तस्य जलान्तर्मज्जयिष्यते ॥२८॥ भव्य एष गमी सिद्धि कथं न्विति मयोदिते । गुरुः प्राह मृतो नीरे भविता व्यन्तरामरः ॥२८२।। स आनन्दजिनाल्लब्धबोधि: सङ्ख्यातिगैर्भवैः । नृपो भूत्वा व्रतं प्राप्य चारणर्षे: शिवं गमी ॥२८३|| निशम्येति ससंवेग इन्द्रदत्तगणाधिपात् । आत्तव्रतोऽस्म्यहं राजन्निदं संवेगकारणम् ॥२८४|| यत्प्रागुक्तं सति स्थाने शाश्वते जिनभाषिते । तदुपाये च को यलं न कुर्यात्तन्निशम्यताम् ॥२८५।। न जन्म न रुजा यत्र न जरा मरणं न च । यतो न पुनरावृत्तिस्तत्पदं विद्धि शाश्वतम् ॥२८६।। तदुपायश्च सर्वज्ञोपज्ञधर्मो द्विधा स्थितः । साधुश्रावकसंबद्धस्तत्राद्यो दशधा मतः ॥२८७|| १. सजनैरन्त्यै क, read स जनैरन्यैः । २. हीनर्जितं ख, हौसमर्जितं ग घ । Page #17 -------------------------------------------------------------------------- ________________ प्रथमो भवः २७ समरादित्यसंक्षेपः दया सूनृतमस्तेयं ब्रह्म त्यागस्तपस्तथा । सहिष्णुत्वं मृदुत्वं च ऋजुता शौचमित्यमी ॥२८८॥ तमस्ततिहतः साधुधर्मस्य दश वाजिनः । त एते न्यकृतस्वर्गवाजिनो दश वाजिनः ॥२८९।। द्वादशात्मा त्वसौ श्राद्धधर्मः सर्वप्रकाशकः । क्षीणोऽपि साधुधर्मः स्याद्यस्मात्पुष्टः पुनः पुनः ॥२९०।। अणूनि गुणरूपाणि शिक्षारूपाणि चाङ्गिनाम् । पञ्च त्रीणि च चत्वारि व्रतानीत्यर्कसङ्ख्यया ॥२९१।। निषिद्धैः स्युर्वधासत्यस्तेयाब्रह्मपरिग्रहैः । अणुव्रतानि पञ्चापि राजन्महदपेक्षया ।।२९२॥ गुणव्रतत्रयी ज्ञेया दिग्मर्यादानतिकमः । भोगोपभोगमानं चानर्थदण्डनिषेधनम् ॥२९३।। शिक्षाव्रतान्यहो सामायिकं देशावकाशिकम् । पौषधः संविभागश्चातिथीनां समताजुषाम् ॥२९४॥ धर्मयोरनयोरिन्दुसूर्ययोरिव पुष्करम् । सम्यग्दर्शनमेवैकं यत्र सर्वं प्रतिष्ठितम् ॥२९५।। तच्च जीवादितत्त्वौघे जिनोक्ते रुचिरुच्यते । स्वभावादुपदेशाद्वा सुगुरोः सा प्रजायते ॥२९६।। देवेऽर्हति गुरौ साधौ धर्मे सर्वज्ञभाषिते । निश्चलत्वं मतेः सम्यग्दर्शनं दशितं जिनैः ॥२९७|| सम्यक्त्वस्यास्य कः स्तोतु महिमानं महीतले । यद्विनाऽल्पफलं ज्ञानं चारित्रं चाऽतिदुष्करम् ॥२९८।। दुर्भेदग्रन्थिभेदेन सम्यग्दर्शनमाप्यते । पल्योपमपृथक्त्वेन श्राद्धत्वं तदनन्तरम् ॥२९९।। तच्च व्रतानि चैतानि पालयन्स्थिरमानसः । नरो निरतिचाराणि श्रद्धा इत्यभिधीयते ॥३००॥ श्राद्धत्वानन्तरं जीवः सङ्ख्यातैः सागरोपमैः । यतिधर्ममहिंसाद्यं लभते पूर्ववणितम् ॥३०१|| लघुकर्मतया सर्व कश्चित्तत्क्षणमश्नुते । सम्यक्त्वं श्रावकत्वं च यतित्वमपि निर्मलम् ॥३०२।। क्षपकश्रेणिमारूढः प्राप्य केवलमुज्ज्चलम् । प्राग्वणितं महाराज ! लभते शाश्वतं पदम् ॥३०३।। भावपावकनिर्दग्धभूरिकर्मेन्धनस्तदा । गुणसेननृपो वाचमुवाच रचिताञ्जलिः ॥३०४|| धन्योऽस्मि भगवन् कर्णनिपीतत्वद्वचःसुधः । सौमनस्यमवापं त्वां निर्निमेषं विलोकयन् ॥३०५।। तन्मे प्रयच्छ सम्यक्त्वं व्रतानि द्वादशापि च । उक्त्वेति गुरुदत्तं तद्विधिना सर्वमग्रहीत् ॥३०६।। ततः शिक्षामवाप्यैष नत्वा च सपरिच्छदम् । गुरुं पुरं प्रविष्टोऽथ भोजनं विदधे सुधीः ॥३०७|| पुनः समेत्य संध्यायामुपदेशरसायनम् । अपारपारसंसारगदविच्छेदकोविदम् ॥३०८।। इति द्विसंध्यमप्यस्य पर्युपास्ति वितन्वतः । त्रिंशता दिवसैज्ञे श्रावकत्वं सुनिश्चलम् ॥३०९।। मासकल्पेऽथ सम्पूर्णे सूरयः कल्पवेदिनः । विहारं विदधुर्भव्याम्भोजबोधनभानवः ॥३१०॥ गुरौ विहितवीहारे गतैः कतिपयैदिनैः । गुणसेननृपोऽन्येधुः स्वप्रासादतलस्थितः ॥३११।। Page #18 -------------------------------------------------------------------------- ________________ समरादित्यसंक्षेपः प्रथमो भवः दिग्यात्राकरणे नित्योद्यतस्य यमभूपतेः । ढक्कामिव प्रयाणाय जीवलोकरिपुं प्रति ॥३१२॥ अट्टहासं भवाभिख्यरक्षसः खरवक्षसः । निर्घातमिव निर्मन्तुजन्तुष्वपि भयप्रदम् ॥३१३।। हाहाकाररवापूर्ण परिदेवितभितम् । डामरं डिण्डिमध्वानं शुश्राव श्रुतिदुःश्रवम् ॥३१४॥ कलापकम् अद्राक्षीच्च क्षणादेष चतुर्भिः पुरुषैधृतम् । शवं स्वबन्धुवर्गेण कोशता सर्वतो वृतम् ॥३१५।। ततः परमसंवेगभावितात्मा भुवो विभुः । इन्द्रजालनिभं मत्वा जीवलोकं व्यचिन्तयत् ॥३१६।। इत्थं विरसपर्यन्ते भवे धन्यास्त एव हि । त्रैलोक्यबन्धुभूतं ये समासाद्य जिनागमम् ॥३१७|| प्राप्तानगारताः पञ्चमहाव्रतधृतौ रताः । सर्वदोषपरित्यक्तपिण्डतः पिण्डधारिणः ॥३१८।। अष्टभिश्चिन्त्यमानाश्च नित्यं शासनमातृभिः । चतुर्धाभिग्रहांस्तेभ्यो बिभ्राणास्त्रिगुणं तपः ॥३१९।। धृतनिःप्रतिकर्मत्वात् सर्वत्र समताजुषः । कष्टाष्टादशशीलाङ्गसहस्रभरधारिणः ॥३२०॥ प्रशमामृतसम्पूर्ण विहरन्तो महीतले । प्रबोध्य भव्यपद्मानि सद्धर्मकथनांशुना ॥३२१।। प्रान्ते संलेखनापूर्वं जिनोद्दिष्टेन वर्त्मना । पादपोपगमादीनि श्रित्वा देहं त्यजन्त्यदः ॥३२२॥ षड्भिः कुलकम् ततोऽहमपि सम्प्राप्य भवाम्भोराशितारकम् । गुरुं विजयसेनाख्यं मोहसेनाविदारकम् ॥३२३।। समीपेऽस्य समादाय महाव्रतभरं परम् । पूर्वोक्तविधिना देहं त्यक्ष्याम्यक्षामभावनः ॥३२४|| इति ध्यात्वा समाहूय सुबुद्ध्यादिकमन्त्रिणः । तेषां निजमभिप्रायमयमाख्यन्महामनाः ॥३२५॥ तेऽथ तत्सङ्गविज्ञातजैनसारा महाधियः । अन्वमन्यन्त धन्यं तमादरेण व्रताथिनम् ॥३२६।। अथ प्रतत्य चैत्येषु स्पष्टमष्टाहिकामहम् । दीनादीनां महादानं दापयित्वा च सादरम् ॥३२७|| संमान्य प्रणयिव्रातं नागरान् बहुमानयन् । चन्द्रसेनाभिधे ज्येष्ठपुत्रे राज्यं निवेश्य सः ॥३२८।। भावनात्तव्रतः प्रातर्गन्तास्मि गुरुसन्निधौ । ध्यात्वेति विजने तस्थौ निशि प्रतिमया स्थिरः ॥३२९|| विशेषकम् इतः कृतनिदानत्वाद्भरितापः स तापसः । अग्निशर्माऽऽत्तदुष्कर्माऽनशनोज्झितजीवितः ॥३३०॥ जातो विद्युत्कुमारेषु सार्धपल्योपमस्थितिः । सर्वं पूर्वभवोदन्तं परिज्ञाय विभङ्गतः ॥३३१॥ कुपितो गुणसेनाय रभसेनाऽयमागतः । तं तत्राऽप्रतिमक्रोधोऽपश्यत्प्रतिमया स्थितम् ॥३३२।। विशेषकम् प्राच्यक्षुद्वेदनातप्तः सरजस्कभवं निजम् । शंसन्निवाऽस्य तप्तेन रजसा वृष्टवानयम् ॥३३३।। दह्यमानोऽप्यसह्येन रजसा तेन सात्त्विकः । स दध्यौ विशदध्यानसंतानस्थिरमानसः ॥३३४|| शारीरमानसैर्दुःखैः परितः पूरिते भवे । दु:खं हि सुलभं धर्मप्रतिपत्तिस्तु दुर्लभा ॥३३५।। Page #19 -------------------------------------------------------------------------- ________________ प्रथमो भवः धन्योऽस्म्यहं मया येनाऽपारे संसारसागरे । धर्मचिन्तामणिर्लेभे भवकोट्याऽपि दुर्लभः ||३३६|| एतस्य हि प्रभावेण दौर्गत्यं न कदाचन । भ्राम्यतस्तद्भवेऽनादौ सफलोऽयं भवोऽभवत् ||३३७|| यच्चाग्निशर्मणश्चक्रेऽभिभवो नर्मकर्मणा । प्रचुरीकारितः क्रोधस्तन्मां स्पृशति मर्मणि ॥३३८|| मैत्री सर्वेषु सत्त्वेषु प्रतिपन्नाऽधुना मया । पुरात्यन्तं पराभूते विशेषादग्निशर्मणि ॥ ३३९ ॥ इत्थं शुभपरीणामस्तेन तातकिना हतः । मृत्वाऽसौ धर्ममर्मज्ञः कल्पे सौधर्मनामनि ||३४०|| विमाने नामतश्चन्द्रानन एकाब्धिजीवितः । क्षणादेव क्षणातुल्यदिव्यदेहधरोऽजनि ॥ ३४९ ॥ युग्मम् अज्ञानज्ञानयोर्भेदात्तापसस्याग्निशर्मणः । विद्युत्त्वं गुणसेनस्य गृहस्थस्याऽपि नाकिता ||३४२ ॥ तत्र पूर्वजननान्तसंगत श्रीजिनेश्वरवचः प्रभावतः । दिव्यनाट्यरसदिव्यसुन्दरीभूरिभोगभवनं भवेऽभवत् ॥३४३|| इति श्रीहरिभद्रोक्त्या प्रद्युम्नाचार्यगुम्फिते । समरादित्यसंक्षेपे कथितः प्रथमो भवः || ३४४ || ३१ द्वितीयो भवः इहैव जम्बूद्वीपेऽस्ति वसुमत्या विशेषके । क्षेत्रे वरविदेहाऽऽख्ये नाम्ना जयपुरं पुरम् ॥१॥ सुवर्णश्रीभृता नित्यं येन पुण्यजनाऽऽश्रिता । स्वतुल्यत्वधृताशङ्का वार्धी लङ्काऽपतद् ध्रुवम् ॥२॥ क्लीबः परस्य दारेषु गताक्षश्छिद्रवीक्षणे । अवर्णे यत्र मूकश्च नरवर्गे निसर्गतः ||३|| मेरुणा मण्डलाग्रेण निर्मथ्य प्रधनाऽम्बुधिम् । यः स्वायत्तां श्रियं चक्रे प्रत्यक्षः पुरुषोत्तमः ||४|| नृपः पुरुषदत्ताख्यः स तत्र परुषो द्विषाम् । अस्तवामनरूपोऽपि बलिबन्धविधिक्षमः ||५|| युगमम् श्रीकान्ता निजरूपेण कान्ताय सतताऽऽनता । श्रीकान्ता नाम तस्याऽस्ति कान्ता गुणगणाऽन्विता ||६|| छाययेव तया सार्धमवियुक्तस्य गोपतेः । गोपतेरिव तस्याऽगुर्वासराः सुखवासराः ॥७॥ च्युत्वाऽथ गुणसेनः श्रीकान्तायाः कुक्षिमासदत् । तदाऽपश्यच्च सा ज्वालाजालापिङ्गलकेसरम् ॥८॥ १. अवर्णवादे क । Page #20 -------------------------------------------------------------------------- ________________ द्वितीयो भवः स्फटिकाचलचूलावद्धतं विशदां तुनम् । शशिरेखाभनिर्गच्छदंष्ट्रं पिङ्गललोचनम् ॥९॥ पृथु वक्षःस्थले तुच्छं मध्ये वृत्तकटीतटम् । प्रलम्बवालधि सिंहपोतं सर्वाङ्गसुन्दरम् ॥१०॥ स्वप्ने वदनमार्गेण प्रविश्य जठरे स्थितम् । वीक्ष्य प्रबुद्धा कथयाम्बभूव पृथिवीभुजे ॥११॥ कलापकम् नृपः प्राह द्विषद्वर्गद्विपद्विपरिपूपमः । यशःप्रसरवान् देवि ! भविताऽङ्गभवस्तव ॥१२॥ तदाकर्ण्य प्रहृष्टा सा क्रमाद्गर्भानुभावतः । तृतीये मासि संजातदोहदाऽऽख्यन्महीभुजे ॥१३।। जिनार्चा पात्रदानं च दीनानाथाऽनुकम्पनम् । सर्वसत्त्वाऽभयं चेति मम नाथ ! मनोरथाः ॥१४॥ ततोऽभ्यधिकसंजातप्रमोदः पृथिवीपतिः । विदधे तत्तथा सर्वमिष्टवैद्योपदिष्टवत् ॥१५॥ अथ प्रमुदिता देवी परिपुष्टवपुष्टमा । दिनेषु परिपूर्णेषु सुमुहूर्ते शुभे दिने ॥१६॥ सुखेन सुषुवे सूनुमन्यूनतनुतेजसम् । अचिरचिष्मतो दीपमिव स्निग्धदशाश्रयम् ॥१७|| तज्जन्म नृपतेश्चेट्या शुभंकर्यभिधानया । न्यवेदि तेन सा चके दारिद्रयद्वेषिणी क्षणात् ॥१८॥ नृपतिर्मुदितः पुत्रजन्मोत्सवमकारयत् । त्रिंशतं दिवसान् वाद्यगीतनृत्यमनोहरम् ॥१९|| प्रजापाणिधमे तस्मिन् वर्तमाने महोत्सवे । शून्यभावो निराधारः कारागारं समाश्रितः ॥२०॥ समरादित्यसंक्षेपः व्यतीते मासि बालस्य सिंहस्वप्नानुसारतः । सिंह इत्यभिधा चक्रे महोत्सवपुरःसरम् ॥२१॥ क्रमात्कलाकलापेन देहस्योपचयेन च । वर्धमानो रतिक्रीडावनं प्राप स यौवनम् ॥२२॥ अन्यदा पुष्पचापस्य पुष्पकालः परः सुहृत् । उपायनमुपादाय पुष्पबाणान्युपागमत् ।।२३।। दीप्तं दिग्मण्डलं यत्र कुसुमैः किंशुकोद्भवैः । प्रोषितप्रेयसीचित्याज्वलितज्वलनैरिव ॥२४॥ परितः सहकारेषु भ्रान्ता भ्रमरधोरणी । धूम्येव विरहार्चिष्मद्दह्यमानाध्वगावलेः ॥२५।। पुरस्कृतरतिः पुष्पचापे न्यस्तशिलीमुखः । मनो विश्वस्य विश्वास्य मनोभूर्यत्र विध्यति ॥२६|| जगज्जिगीषोः कामस्य स्फुटं जयजयध्वनिम् । कोकिला: कलयाञ्चक्रुः कलं कलकलं किल ॥२७।। एवंविधे वसन्तौ निजैः सहचरैः सह । ययौ कुमार उद्याने क्रीडासुन्दरनामनि ॥२८॥ तत्राऽस्य कुर्वतः क्रीडां दृष्टिगोचरमागता । वेणीभ्रमरमालाभृन्नामतः कुसुमावली ॥२९।। लक्ष्मीकान्ताभिधानस्य मातुलस्य सुता कनी । रम्भास्तम्भायमानोरुयुगा कमललोचना ॥३०॥ सखीजनेन दक्षेण परितः परिवारिता । उद्यान श्रीरिवाध्यक्षा ऋतुलक्ष्मीगणावृत्ता ॥३१॥ विशेषकम् साभिलाषमनेनैषा चिरकालं विलोकिता । तयाऽपि तं चिरं वीक्ष्याऽपसरन्त्या विचिन्ततम् ॥३२॥ Page #21 -------------------------------------------------------------------------- ________________ द्वितीयो भवः कि कीडासुन्दरोद्यानसौन्दर्याद्भगवान् स्वयम् । क्रीडासुखस्यानुभवं तनोति मकरध्वजः ॥३३॥ दूरादपसरन्ती तां प्राह चेटी प्रियङ्करा । अपसर्तुमलं स्वामिन्ययं सिंह: कुमारराट् ।।३४।। सुतः पुरुषदत्तस्य महीभर्तुर्महायशाः । श्रीकान्तायाः समुद्भूतो गर्भे तव पितृष्वसुः ॥३५।। तदयं त्वामदाक्षिण्यां कलयिष्यति मानसे । स्थिरीभूय कुमारस्योपचारः क्रियतामतः ॥३६॥ सोचे सखि ! त्वमेवात्र कुशला कथ्यतां ततः । किं किमस्य करोमीति ततः प्रोचे प्रियङ्करा ॥३७॥ आसनं स्वागतप्रश्नो वसन्तकुसुमैः सह । ताम्बूलं च स्वहस्तेन दीयतामस्य साऽवदत् ॥३८॥ सकण्टकवपुः स्विन्नकम्पमानकरद्धया । नाऽस्य कालोचितं कर्तुमहं किञ्चिदपि क्षमा ॥३९॥ तत्त्वमेव हले सर्वं निवर्तय यथोचितम् । इत्युक्तया तयासन्ने कुमारेऽसज्जि विष्टरः ॥४०॥ ऊचे च स्वागतं रत्या विहीनस्य मनोभुवः । प्रसादः क्रियतामत्राऽऽसने समुपविश्यताम् ॥४१॥ तुष्टो राजाङ्गजः स्मित्वा रत्या हीनोऽभवं पुरा । नाधुनेति वदंस्तत्रोपविष्टो विष्टरे वरे ॥४२॥ प्रियङ्कराऽथ वासन्तीपुष्पमालासमन्वितम् । स्वर्णस्थालेन ताम्बूलमार्पयत्तच्च सोऽग्रहीत् ॥४३॥ समरादित्यसंक्षेपः युक्तं तेन ह्रदि न्यस्ता कुमारी कुसुमावली । तया तु च्छेकयाऽप्यत्र न्यस्तः सिंहस्तदद्भुतम् ॥४४॥ अत्रान्तरे च कुसुमावलीमातुर्निदेशतः । सम्भरायणनामाऽऽगात्कन्याऽन्तःपुरकञ्चुकी ॥४५।। अप्रेक्षमाणमर्धाक्षिप्रेक्षितैर्नृपनन्दनम् । अनुरागेण पश्यन्ती सोऽपश्यत्कुसुमावलीम् ॥४६।। अध्यायच्च समं रत्या मनोभूमिलितश्चिरात् । मानयिष्यति यद्येनं विधि निरुपधिर्विधिः ॥४७॥ ततः समीपमागत्य कुमारमभिनन्द्य च । उवाच वत्से त्वां देवी मुक्तावल्यादिशत्यदः ॥४८।। सुचिरं क्रीडया खेदो मा भूत्तव शरीरके । वत्से तच्छीघ्रमागच्छ यदहं विरहाऽसहा ॥४९|| यदादिशति मेऽम्बेति वदन्ती कुसुमावली । चिरं कुमारमालोकमानोद्यानाद्विनिर्ययौ ॥५०॥ गृहं गत्वा प्रणम्याऽम्बां सदनस्योपरि स्थिते । निषीदति स्म पल्यङ्के कुमारं हृदि बिभ्रती ॥५१॥ सर्वं विसर्जयामास सा सन्मान्य सखीजनम् । ध्यानाऽऽनीतकुमारेणैकान्तवार्ताचिकीरिव ॥५२॥ सा मुक्तदीर्घनि:श्वासा विषमायुधबाधया । चित्ते तमेव पश्यन्ती नाऽपरं चित्रमातनोत् ॥५३॥ तत्प्रेमहुदनिर्मग्ना नामज्जद्दीर्घिकादिषु । कुमारे सानुरागत्वान्नाऽङ्गरागे दधौ मनः ॥५४॥ १. क्रियतामिति क । १. तया चित्तगुहान्तस्तु क । २. यद्येवं क । ३. नागभद्दी ख । Page #22 -------------------------------------------------------------------------- ________________ द्वितीयो भवः समरादित्यसंक्षेपः न क्रीडयति चक्राङ्गान्न कीडति च कन्दुकैः । न च पाठयति प्रीतिकारिकाः शुकसारिकाः ॥५५॥ ताम्बूलं यूषणं देहभूषणं दूषणं परम् । मन्यते सा वियोगेन दूना मलयजं मलम् ॥५६॥ अत्राऽन्तरे च तद्धात्र्या समादिष्टा कृतादरम् । पुत्री मदनरेखाख्या द्वितीयमिव तन्मनः ॥५७|| यदद्योद्यानतः श्रान्ता समेता कुसुमावली । सतालवृन्तकर्पूवीटका व्रज तद्गृहम् ॥५८॥ तत्क्षणं मातुरादेशाद् गतोपकुसुमावलि । सा चिन्तानिस्सहामेनां शून्यचित्तां व्यलोकत ॥५९॥ सोचे स्वामिनि केन त्वमुद्विग्नेवाऽसि हेतुना । पितरौ किं न तुष्टौ ते किं न रक्तः सखीजनः ॥६०॥ मनःसमीहितं किञ्चित् किं न संपद्यतेऽथवा । ममाऽस्ति यदि कथ्यं तत् कथ्यतां भर्तृदारिके ॥६१।। स्वहस्तेनालकांस्तस्याः संयम्य कुसुमावलिः । ऊचे सखि ! तवाऽप्यस्ति किमकथ्यं किमप्यलम् ॥६२॥ तदाकर्णय पुष्पावचयोत्पन्नपरिश्रमात् । ज्वरस्तज्जनितस्तापस्तन्निमित्ता ममाऽरतिः ॥६३।। सख्यूचे तर्हि कर्पूरवीटकस्वादमातनु । खेदजस्वेदविच्छेदं व्यजनेन तनोमि ते ॥६४॥ ऊचेऽथ कुसुमावल्या वीटकव्यजनैरलम् । बालरम्भागृहे यामि तापश्चेत्तत्र शाम्यति ॥६५॥ तत्र गत्वा कृता शय्या सज्जा मदनरेखया । कदलीनां दलैस्तस्यां न्यषीदत्कुसुमावली ॥६६॥ सख्या समर्पयाञ्चके तस्यै कर्पूरवीटकम् । वीजिता व्यजनेनैषा तापनिर्वापणेच्छया ॥६७|| शुन्यचित्ता पुनदृष्टा पृष्टा सख्या त्वया कथम् । गच्छन्त्यागतयोद्याने दृष्टं किमपि कौतुकम् ।।६८।। सोचे सखि ! मयोद्याने रत्या विरहितः स्मरः । रोहिणीरहितश्चन्द्रः कामपाल इवानिरः ॥६९॥ स्वर्णवर्णो नखज्योतिरुयोतिचरणाङ्गुलिः । सुनिगूढसिरासन्धिविशङ्कटकटीतटः ॥७०॥ कृशो मध्ये बृहद्वक्षा उन्नतस्कन्धबन्धुरः । पद्मध्वजाङ्कुशच्छत्ररेखाङ्कितकद्धयः ॥७१॥ अच्छिद्राङ्गुलिराताम्रकरजः कम्बुकन्धरः । पक्वबिम्बाधरः शुद्धदन्तः कमललोचनः ॥७२।। समकर्णः समुत्तुङ्गनासावंशोऽलिके पृथुः । सोष्णीषशीर्षः सुस्निग्धश्यामकुञ्चितकुन्तलः ॥७३|| श्रीचन्दनविलिप्ताङ्गो दुकूलद्वयशोभितः । आमुक्तमुक्तालतिकञ्चूडारत्नविभूषितः ॥७४|| लावण्यस्याऽपि लावण्यं रूपं रूपस्य पश्यताम् । सौन्दर्यस्याऽपि सौन्दर्य यौवनस्याऽपि यौवनम् ॥७५।। श्रीमत्पुरुषदत्तस्य महाराजस्य नन्दनः । दृष्टः सिंहकुमाराख्यः श्रियेव मधुसूदनः ॥७६।। अष्टभिः कुलकम् स्थानेऽनुरागः स्वामिन्या अनुरूपो ह्ययं वरः । इयं तस्यैव योग्येति ध्यात्वा धात्रीसुताऽवदत् ॥७७|| १. विजनेन क । Page #23 -------------------------------------------------------------------------- ________________ द्वितीयो भवः यथाऽद्य सह देवेन सुबुद्धिर्मन्त्रयश्रुतः । देव्यादेशेन गतया मया चेद्भावि तत्तथा ॥७८॥ तत्संगतः स्मरो रत्या रोहिण्या सहितः शशी । इस्या कलितः कामपालो न्यूनं न किञ्चन ॥ ७९ ॥ युग्मम् कुसुमावल्युवाचाऽथ किं श्रुतं सखि साऽवदत् । उवाचार्यसुबुद्धिर्यद्देव ! राज्ञः सुतां तव ॥८०॥ कृते सिंहकुमारस्य निर्बन्धो याचने महान् । वरश्च कुसुमावल्या नापरस्तं विना वरः ॥ ८१ ॥ युग्मम् ऊचे ततः कृतालीकक्रोधा तां कुसुमावली । ब्रवीषि किमसंबद्धं सा प्राह किमसंगतम् ॥८२॥ युज्यते कलहंसेन कलहंसी हि संगतम् । सुबुद्धि प्राह देवोऽथ प्राणेभ्योऽपि प्रभुः प्रभुः ||८३|| इति यावद्वदन्त्यौ स्तस्तावदुद्यानपालिका । चेटी पल्लविका नाम प्रोवाच कुसुमावलीम् ॥८४॥ त्वामादिशति देवीदं त्वं दन्तवलभीं व्रज । देवेनाऽस्ति यदादिष्टं भवनोद्यानसज्जनम् ॥८५॥ अत्र सिंहकुमारेण महाराजस्य सूनुना । आगम्यमिति सा श्रुत्वा देव्यादेशं व्यधात्तथा ॥८६॥ इतश्च भवनोद्याने सज्जितेऽसौ निमन्त्रितः । एतश्च त्वरितस्तत्र कुमारीदर्शनोत्सुकः ||८७|| प्रविष्टो भवनोद्याने भोजनावसरात्परम् । मृद्वीकामण्डपस्तत्र दृष्टस्तेन सुशीतलः ॥८८॥ तत्र कङ्केल्लिमाकन्दपूगनागलतादिकम् । सर्वं निरीक्ष्य वासन्तीलतामण्डपमाश्रयत् ॥८९॥ ३९ ४० समरादित्यसंक्षेपः अत्रान्तरे च कुसुमावली मदनरेखया । ऊचे स्वामिनि संबन्धः स्वाजन्यादेव तिष्ठति ॥९०॥ संभाषपुष्पताम्बूलदानाद्यैस्तं प्रकाशय । किं च हंसोत्सुकां हंसी चित्रे लिख वियोगिनीम् ॥ ९१ ॥ उक्त्वेति वर्तिकावर्णपट्टिकाद्यमुपानयत् । सा विज्ञातसखीभावा यथोक्तामलिखच्च ताम् ॥९२॥ निरीक्ष्य सुचिरं चित्रं ततो मदनरेखया । श्लोकस्तदुपरि न्यस्तस्तदवस्थानिवेदकः ||९३ || "बिसग्रासेऽप्यनाशंसा सोत्कण्ठा प्रियदर्शने । पद्मखण्डमपश्यन्ती बाढं ताम्यति हंसिका ॥९४॥ आदाय प्राभृतं चित्रपट्टिकां च समागता । राजपुत्र्याः सखीत्येषा कुमारेणाऽभिनन्दिता ॥ ९५ ॥ तं नत्वा सादरं प्रोचे राजपुत्राऽवधारय । त्वद्येोग्यं कुसुमावल्या प्रहितं प्राभृतं वरम् ॥९६॥ प्रियङ्गमञ्जरी नव्या कक्कोलकफलानि च । कर्पूरवीटकान्युच्चैश्चित्रस्था राजहंसिका ॥ ९७|| कुमारेण सकक्कोलं ताम्बूलं स्वादितं कृता । प्रियङ्गमञ्जरी कर्णे वीक्षिता कलहंसिका ॥९८॥ शिरो धुनानः सोऽवादीदहो चित्रस्य कौशलम् । तदवस्था द्विरूचे तु श्लोकेनेत्यथ साऽवदत् ॥ ९९ ॥ स्वामिन्या लिखितं वीक्ष्य प्रियोत्कां कलहंसिकाम् । लिखितोऽयं मया श्लोकस्तदवस्थानिवेदकः ॥ १०० ॥ १. यथोक्तम ख । Page #24 -------------------------------------------------------------------------- ________________ द्वितीयो भवः ४१ कुमारः प्राह युक्तं हि रूपे लिखितवीक्षिते । सखीनां हृदयालूनां तत्स्वरूपप्रकाशनम् ॥१०१।। अथैष पत्रच्छेद्येषु निष्णातः पत्रकर्तरीम् । लात्वा नागलतापत्रे हंसं पत्रलमादधे ॥१०२॥ तं न्यस्य पट्टिकायां च तस्यां हंसीपुरस्थितम् । श्लोकत्रयं लिलेखैष श्लोकयोग्यो मनीषिणाम् ॥१०३।। प्राणेषु प्रोषितेषु स्यात्प्रियया नैव संगमः । अनेन हेतुना हंसो न विमुञ्चति जीवितम्" ॥१०४|| "चित्राऽनुरागिणी त्वं चाऽहं च चित्रानुरागवान् । प्रिये पुन: पुनर्जाप्यं तत्त्वया चित्रकौशलम्" ॥१०५।। "इदं तु प्रकृतं मात्राऽधिकं चित्तं विचार्यताम् । स्वयं हि निपुणाऽसि त्वं निपुणस्ते सखीजनः" ॥१०६।। लिखित्वेत्यर्पयित्वा च तस्यै तां चित्रपट्टिकाम् । कण्ठादुत्तार्य हारं चार्पयदिन्दुकरामलम् ॥१०७।। तं नत्वा साऽऽगताऽऽचख्यौ सर्व वृत्तान्तमुज्ज्वलम् । मुदिता सा पुनः श्लोकौ लिखित्वा प्राहिणोदिमाम् ॥१०८।। ततो मदनरेखाऽस्मै गत्वा श्लोकौ समर्पयत् । तावित्थं वाचयामास मुदितो नृपनन्दनः ॥१०९।। "अरं चित्तं विचार्येदं प्रागेव प्रहितं प्रिय ! । अरं सूत्रस्य वृत्तिस्तु तव श्लोकद्वयादभूत्" ॥११०।। "चित्रं चित्तस्थिते सूत्रे वृत्तिर्मतिमता कृता । किं चित्रं पूरयन्त्येव समस्यां चिन्तितां बुधाः" ॥१११।। प्रेयसीत: प्रसूतं स श्लोकतोकद्वयं नवम् । सुधामधुरया वाचा पुनः पुनरलालयत् ॥११२॥ समरादित्यसंक्षेपः ऊचे च पदशय्याऽसौ कर्णपीयूषसारणिः । अर्थदृष्टिश्च गुप्ताऽपि प्रकाशैव प्रकाशते ॥११३।। ज्ञानविज्ञानसौरभ्यसुन्दरा कुसुमावली । उचिता हृदये धर्तुं प्रथिता ग्रथिता गुणैः ॥११४।। इत्थं प्रशस्य तां प्रीतः प्रीतिदानपुर:सरम् । पुनर्विसर्जयामास कुमारः प्रेयसीसखीम् ॥११५।। इत्थं रथाऽङ्गभृङ्गाऽऽदियुग्माऽऽलेखनतो मिथः । तयोः प्रीतिरवर्धिष्ट तटिनीव पदे पदे ॥११६।। अन्यदा च महाराजप्रार्थितेन महीभुजा । कुमाराय ददे लक्ष्मीकान्तेन कुसुमावली ॥११७॥ दत्ते नैमित्तिकेऽनाथ पाणिग्रहणवासरे । सा बन्धुस्त्रीभिरासन्यां प्राङ्मुखी विनिवेशिता ॥११८॥ नखकर्म विधाप्याऽथ कौसुम्भवसनावृता । मेक्षिता सधवस्त्रीभिः स्नपिता कुङ्कुमाम्बुभिः ॥११९॥ ततश्च पूर्णचित्रेणाऽवमिताऽसौ समन्ततः । अक्षताः शिरसि न्यस्ता गुरुभिः परितोषिभिः ॥१२०॥ तस्या वदनवक्षोजकरेषु घुसृणद्रवः । रागेऽधिकेऽपि नीचत्वाद्यावकः पदयोरभूत् ॥१२१॥ विन्यस्तं कज्जलं चक्षुरक्षणायेव चक्षुषोः । मधुश्रिय इवैतस्या विहितस्तिलको मुखे ॥१२२॥ हंसकौ पदयोर्लग्नौ गतिस्वरजिताविव । तदङ्गलीषु विन्यस्ता ऊर्मिका मणिनिर्मिता ॥१२३।। १. धिकोऽपि ख ग घ । Page #25 -------------------------------------------------------------------------- ________________ द्वितीयो भवः नद्धं काञ्चीपदे काञ्चीदाम वल्लभचित्तवत् । अङ्गदे भुजयोर्नद्धे पाशे इव मनोभुवः ॥१२४।। कण्ठस्तननितम्बस्पृक् पद्मरागमणीमयम् । दाम मर्कटबन्धेन न्यस्तं चञ्चलचक्षुषः ॥१२५।। मुक्ताहारोऽपि संजातकामराग इवाधिकम् । तत्कण्ठमवलम्ब्याऽहो नीवीस्पर्श समुद्यतः ॥१२६।। न्यस्तं ग्रैवेयकं कण्ठे कर्णयोः कर्णवेष्टके । शिरोदेशे शिरोरत्नं तस्या गात्रे नवांऽशुकम् ॥१२७|| मां हित्वा पूर्वमप्येषा दृश्यतामेति मत्सरात् । सा रत्नच्छाययाच्छन्ना नूनमाभरणस्थया ॥१२८।। तस्यां प्रसाध्यमानायां कुमारे च प्रसाधिते । राज्ञे व्यज्ञपि दैवज्ञैर्लग्नवेला समीपगा ॥१२९।। अथ तुर्यरवाहूतपौरपूरितदिग्मुखः । श्वेतहस्तिनमारूढः सितच्छत्रेण शोभितः ॥१३०।। प्रतिबिम्बैरिव स्वस्य कुमारैः परितो वृतः । पौरीभिरीक्ष्यमाणोऽग्रे मण्डपद्वारमागमत् ॥१३१।। युग्मम् तत्र श्वश्रूजनाभाव्यमाचारेण स याचितः । दत्त्वा तदधिकं स्तम्बेरमादुत्तीर्णवानयम् ॥१३२। सौवर्णमुसलेनाथ रत्नकाञ्ची द्युतिस्पृशा । श्वश्रूजनेन सानन्दं भग्ना भृकुटिरस्य च ॥१३॥ निरुध्य मण्डपे लोकं नीतो मातृगृहं वरः । यत्राऽस्ति विशदस्वच्छक्षौमच्छन्नमुखी वधूः ॥१३४॥ वदनाऽऽच्छादनस्याऽपनयनाभाव्यमर्थितः । सखीभिः कार्यमेतद्धि ममैवेति हसन्नयम् ॥१३५।। समरादित्यसंक्षेपः तत्तदभ्यधिकं दत्त्वाऽपानाययदयं मुदा । तामपश्यच्च कङ्केल्लिपल्लवोत्तंससुन्दराम् ॥१३६।। परिस्मेरमुखाम्भोजां हर्षसाध्वसनिर्भराम् । वहन्तीं विभ्रमं कञ्चिन्मनोहरमनोहराम् ॥१३७।। विशेषकम् अथ तस्याः कर: कालविलम्बं सोढुमक्षमः । वरस्य मिलितो मन्ये नखचन्द्रकरोत्करैः ॥१३८|| सानुरागे पुरा चित्ते पश्चात्तेन करे धृता । अन्तश्चतुरिकं नीता चतुरा चतुरेण सा ॥१३९।। तारामैत्री पुराऽप्यस्ति तयोविश्वस्तचेतसोः । सा तारामेलके विश्वविदिता समपद्यत ॥१४०|| तदातनस्य ताम्बूलवस्त्रमाल्यविभूषणैः । चके जनस्य सर्वस्योपचारं दुहितुः पिता ॥१४१।। अथो हुताशने सर्पिर्मधुलाजसमाहते । ज्वलति भ्रमितुं लग्नं मङ्गलानि वधूवरम् ॥१४२।। आद्ये वधूपिता स्वर्णभारलक्षं ददौ मुदा । हारकुण्डलकेयूरभूषणानि द्वितीयके ॥१४३।। तृतीये मङ्गले रूप्यस्थालकच्चोलकादिकम् । तुर्ये नानाप्रकाराणि महाय॑वसनानि च ॥१४४|| मुदितं हास्तिकाश्वीयैर्हस्तमोचनपर्वणि । लक्ष्मीकान्तनृपः पुत्रीकान्तमेकान्ततो व्यधात् ॥१४५।। वरस्याऽपि पिता सर्वं यथोचितमुपाचरत् । ददौ वध्वै महामूल्यं वसनाभरणादि च ॥१४६।। १. हस्तिकाश्वीयं क ख ग । Page #26 -------------------------------------------------------------------------- ________________ द्वितीयो भवः इति सम्पूर्णतां याते दारकर्ममहोत्सवे । वर्षलक्षा ययुर्बख़्यस्तयोविषयसेवया ॥१४७॥ कुमारः कौतुकी वाहवाहनाय गतोऽन्यदा । उद्याने नागदेवस्य प्रदेशे प्रासुके स्थितम् ॥१४८।। आवृतं साधुवर्गेण साधुधर्ममिवाङ्गिनम् । सूरि श्रीधर्मघोषाख्यमद्राक्षीद् द्वादशाङ्गिनम् ॥१४९।। तत्र गत्वा च नत्वा च तमपृच्छदतुच्छधीः । आददे भवता दीक्षा कुतो निर्वेदतः प्रभो ! ॥१५०॥ गुरुः प्रोवाच संसारे सर्वं निर्वेदकारणम् । विशेषादवधिज्ञानिचरित्रं यन्मया श्रुतम् ॥१५१|| तथाहि विजयेऽत्रैव पुरे राजपुरे सदा । स्वभावेन भवोद्विग्नचित्त एव वसाम्यहम् ॥१५२।। तत्र जातावधिज्ञानोऽमरगुप्तो गणेश्वरः । बहुसाधुपरीवार उद्याने समवासरत् ॥१५३|| मत्वा तमागतं राजा सपौरोऽप्यरिमर्दनः । आगत्य नत्वा तद्दत्तधर्मलाभ उपाविशत् ॥१५४॥ अपृच्छच्च समुत्पन्नमवधिज्ञानमद्भुतम् । युष्माकं चरितं स्वं तन्ममादिशत बोधितः ॥१५५।। ऊचे ज्ञानी महाराज ! शृणु ते यदि कौतुकम् । नगरं विजयेऽत्रैव चम्पावासाभिधं पुरा ॥१५६॥ आसीद्गृहपतिस्तत्र सुखज्ञ इति नामतः । धनश्रीकुक्षिभूस्तस्य सोमाऽहं तनयाऽभवम् ॥१५७|| तत्र सार्थेशनन्दस्य नन्दनः परिणीतवान् । रुद्रदेवाभिधानो मां भेजे च विषयानयम् ॥१५८|| समरादित्यसंक्षेपः अन्यदा बालचन्द्राऽऽभनिष्कलङ्कचरित्रभूः । गणिनी बालचन्द्राऽऽख्या विहारेण समागमत् ॥१५९।। तामपश्यं पितुर्वेश्म यान्ती श्वशुरमन्दिरात् । श्रद्धाशुद्धाशया भक्त्या प्रणामं च समाहिता ॥१६०॥ धर्मलाभे तया दत्ते पृष्टस्तस्याः प्रतिश्रयः । मध्याह्ने तत्र गत्वा तां पर्युपासिषि सादरम् ॥१६१।। तया मे पूज्ययाऽऽख्यायि कर्मदावदवानलः । निर्वाणसुखकल्पद्रुर्धर्मः सर्वज्ञभाषितः ॥१६२।। बोधि लब्धवती कर्मक्षयोपशमतः पराम् । संसारचारकोद्विग्ना संविग्नाऽस्मि निरन्तरम् ॥१६३।। रुद्रदेवस्तु दुष्कर्मा दोषात्प्रद्वेषमावहन् । ऊचे धर्ममिमं मुञ्च मूढे विषयविघ्नदम् ॥१६४॥ विपाककटुना भोगसौख्येनाऽलं मयोदिते । स प्राह वञ्चिताऽसि त्वमदृष्टसुखवाञ्छया ॥१६५।। पशुक्रियाऽभिधा यस्य तत्कि विषयजं सुखम् । मानुषा तु क्रिया ज्ञेया धर्म एष दयामयः ॥१६६|| मयेत्यक्ते स विद्विष्टो मां हित्वाऽन्यामयाचत । कन्यां नागश्रियं नागदेवसार्थेशनन्दनाम् ॥१६७|| नाऽदात्तां नागदेवस्तु मत्तातबहुमानवान् । रौद्रोऽथ रुद्रदेवो मन्मृत्यूपायमचिन्तयत् ॥१६८।। कुम्भे न्यस्याऽन्यदा नागं तेनोक्ता माल्यमानय । हस्ते न्यस्ते च कुम्भान्तर्दष्टा दुष्टेन भोगिना ॥१६९|| १. परं क । Page #27 -------------------------------------------------------------------------- ________________ द्वितीयो भवः तस्याऽऽख्यं स तु मायावी व्यर्थ कोलाहलं व्यधात् । ततः प्रसप्तः सर्पविषाज्जीवितमत्यजम् ।।१७०॥ सम्यक्त्वस्य प्रभावेण पल्यायुत्रिदशोऽभवम् । अहं लीलावतंसाख्ये विमाने प्रथमद्यवि ॥१७१।। रुद्रदेवस्तु तां कन्यामुपयम्य तया समम् । भोगान्भुक्त्वा ततो मृत्वा पल्यायुर्नारकोऽजनि ॥१७२।। अहं स्वर्गाच्च्युतोऽभूवं सुंसुमारगिरौ गजः । उद्वत्तो नरकादन्यस्तत्रैवाद्रौ शुकोऽभवत् ॥१७३।। दृष्टस्तेन खलेऽनाहं खेलन्सार्धं करेणुभिः । हृदि द्वेषं दधानश्च दध्यौ कि द्वेषकारणम् ॥१७४|| इति चिन्तयतस्तस्य जातिस्मृतिरजायत । भोगेभ्योऽयं कथं वञ्च्य इत्युपायमचिन्तयत् ॥१७५।। जामि मगाइसेनस्य चन्द्ररेखाभिधामथ । हृत्वा विद्याधरो लीलारतिनामा समागमत् ॥१७६|| स शुकं प्राह कुञ्जेऽहं स्थास्याम्यत्राऽन्यखेचरः । आगन्ताऽस्य न कथ्योऽहं त्वया मदुपकारिणा ॥१७७|| इत्युक्त्वाऽद्रिनिकुञ्जान्तमिथुने तत्र तस्थुषि । नारङ्गस्थे शुके विद्याधर आगत्य यातवान् ॥१७८।। तदा मामागतं वीक्ष्य तत्रोद्देशे वशान्वितम् । शुकोऽध्यायदियं वेला स्वमनोरथपूरणे ॥१७९॥ मायावी जायया साधू मन्त्रयित्वैष मेऽन्तिके । आगत्योचे प्रियेऽश्रावि वसिष्टात्स्वगुरोर्मया ॥१८०।। यदत्रास्ति महाशैले पतनं सर्वकामदम् । यो यदिच्छति तत्तस्य तत्कालमुपतिष्ठते ॥१८॥ समरादित्यसंक्षेपः वसिष्ठो भगवान्पृष्ठो मया स्थानं कृपापरः । अस्य शालतरोमिपार्बेनेति समादिशत् ।।१८।। प्रिये तदलमेतेन पशुत्वेन भृगोरितः । कृत्वा विद्याधरत्वस्य प्रणिधानं प्रपत्यते ॥१८३।। प्रिययाऽङ्गीकृते युग्मं प्रणिधाय पपात तत् । आख्यच्च लीलारतये सप्रियः खेन सोऽगमत् ॥१८४|| तद्वीक्ष्य मयकाऽध्यायि प्रभावस्तीर्थजः कियान् । देवत्वप्रणिधानेन तदितो निपताम्यहम् ॥१८५।। ध्यात्वेति पतितोऽमात्रगात्रभङ्गनिपीडितः । शुकयुग्मं तदुड्डीनं तदा नाऽहमलक्षयम् ॥१८६।। अकामनिर्जरायोगाद् व्यन्तरत्वमुपागतः । अहं देशोनपल्यायु रकत्वं शुकः स तु ॥१८७|| च्युत्वाऽहं विजयेऽन्यस्मिश्चकवालाऽभिधे परे । अप्रतिहतचक्रस्य सार्थवाहस्य नन्दनः ॥१८८|| जातः सुमङ्गलाकुक्षौ चक्रदेवोऽभिधानतः । उद्धृत्य सोऽपि तत्रैव नगरे शुकनारकः ॥१८९|| सोमशर्माभिधस्याऽभून्नराधिपपुरोधसः । उदरे नन्दिवर्धन्या यज्ञदेवाख्यया सुतः ॥१९०॥ विशेषकम् मम तेन समं मैत्री सद्भावात्तस्य कैतवात् । गवेषयन्नपि च्छिद्रं मदीयं लभते न सः ॥१९१॥ अथ चन्दनसार्थेशसर्वस्वमपहत्य सः । मुक्त्वा मन्मन्दिरेऽवोचदेतद्यलेन गोपय ॥१९२॥ अकालानयजाज्जातशङ्केनाऽनिच्छऽताऽपि हि । मया दाक्षिण्यबाहुल्यात्तद्रव्यं गोपितं गृहे ॥१९३।। Page #28 -------------------------------------------------------------------------- ________________ द्वितीयो भवः प्रातः प्रवादे संजाते मयाऽप्रच्छि कुतो धनम् । यज्ञदेवोऽवदत्तात ! भियेदमिह गोपितम् ॥१९४|| मा शतिष्ठास्त्वमित्युक्ते नि:शङ्कोऽहं ततोऽभवम् । यावत्तावदिदं राज्ञश्चन्दनेन निवेदितम् ॥१९५|| किं ते हृतं नृपप्रोक्ते स पत्रस्थमदर्शयत् । आघोषणां नराधीश: पटहेनेत्यचीकरत् ॥१९६|| चन्दनस्य हतं द्रव्यं यद्गृहे कथयत्वसौ । ज्ञातेऽन्यथा नृपश्चण्डो महादण्डं विधास्यति ॥१९७।। आघोषणाव्यतिक्रान्तेर्गतेऽथ दिनपञ्चके । यज्ञदेवो नृपस्याग्रेऽवदद्विश्वस्तवञ्चकः ॥१९८|| देव नैवोचितं पुंसां मित्रदोषप्रकाशनम् । राजाऽपथ्यं तु नोपेक्ष्यमिति ध्यात्वा प्रकाश्यते ॥१९९।। राज्ञा कि तदिति प्रोक्ते सोऽवदच्चन्दनालयः । मुषितश्चक्रदेवेन ज्ञातं परिजनान्मया ॥२००।। नृपः प्राह कुलीनेऽस्मिन्नघं न घटते ह्यदः । सोऽथ प्रोवाच किं न स्यात् कुसुमेषु कृमिव्रजः ॥२०१॥ ततः केनाऽप्युपायेन गृहं तस्य निरूप्यताम् । श्रुत्वेति नृपतिः प्रैषीद्दत्त्वा शिक्षा नियोगिनः ॥२०२।। तत्र ते पत्रमादाय नष्टद्रव्यनिवेदकम् । पप्रच्छु किमप्यस्ति पत्रस्थं वस्तु ते गृहे ॥२०३|| निःशङ्केन मया नेति प्रोक्ते ते विविशुगृहम् । यत्नगोपितमाकर्षश्चन्दनद्रव्यवासनम् ॥२०४|| समरादित्यसंक्षेपः तच्च चन्दननामा प्रेक्ष्योचुर्मामिदं कुतः । मयोदितं ममैवेदं किं तु नाम्नि विपर्ययः ॥२०५।। कियत्संख्यमिदं द्रव्यं न वेद्मीति मयोदिते । सहस्रदशकं पत्रे दीनाराणामवाचयन् ॥२०६।। पत्रार्थे मिलिते प्रोचुः पुनस्ते किमिदं ननु । तथैवोक्ते मया कोपात्ते मां निन्युनृपान्तिके ॥२०७।। वृत्तान्तः कथितश्चण्डशासनस्य नरेशितुः । तैः सोऽपि मामुवाचोग्रशासनोऽपि हि सामवाक् ॥२०८।। सार्थवाहसुत ! ज्ञातलोकद्वयपथो भवान् । त्वय्यसंभाव्यमेतत्तत्परमार्थं निवेदय ॥२०९।। इत्युक्तोऽपि नृपेणाऽहं मित्रस्नेहविमोहितः । मौनेन केवलं तस्थौ बाष्पक्लिन्नविलोचनः ॥२१०॥ राज्ञाऽथ शङ्कितेनापि तातस्य बहुमानतः । विरूपकमकृत्वाहं देशत्यागे निदेशितः ॥२११।। पुरदेवीवनासन्नं मां राजपुरुषाः पुरात् । निर्वास्य तत्र मुक्त्वा च निवृत्ता नगरं प्रति ॥२१२।। अचिन्तयमहं माने प्रम्लाने जीवितेन किम् । उद्ध्नामि तदात्मानं वटे देवीवनान्तगे ॥२१३|| प्रवृत्तोऽहं वटं गन्तुं तदा नगरदेवता । अवधेरुपयोगेन मत्वा मयि कृपावती ॥२१४॥ नृपस्याऽम्बामधिष्ठायाख्याय सर्वं यथातथम् । उवाच चक्रदेवं त्वं गत्वा मृत्योर्निवारय ॥२१५।। सन्मानपूर्वकं तं च नगरान्तः प्रवेश्य । नृपोऽथ यज्ञदेवस्य बन्धायाऽऽदिष्टवान्भटान् ॥२१६।। विशेषकम् १. आघोषणे व्यतिक्रान्ते क ङ । २. आगमच्च ख ग ङ । Page #29 -------------------------------------------------------------------------- ________________ द्वितीयो भवः आजगाम ममाऽभ्यणे वायुवाजेन वाजिना । मामपश्यच्च निक्षेप्तुं कण्ठे पाशं समुद्यतम् ॥२१७।। उदस्तहस्तो मां राजा मा साहसमिति ब्रुवन् । आगत्य पाशकं छित्त्वाऽऽरोहयामास वाहने ॥२१८॥ ऊचे सबहुमानं च तव सार्थेशनन्दन ! । युक्तं मयाऽपि पृष्टस्य सद्भावस्याऽनिवेदनम् ॥२१९॥ ममाग्रे हि प्रविश्याऽम्बां देव्या सर्व निवेदितम् । निर्दोषश्चक्रदेवोऽयं यज्ञदेवस्तु दोषवान् ॥२२०।। तत्क्षन्तव्यं त्वयाऽज्ञातपरमार्थेन यन्मया । निदेशितोऽसि देशस्य त्यागे साधुधुरन्धरः ॥२२१।। मयोक्तं नास्ति देवस्य दोषो न्यायगवेषणे । मूलशुद्धिस्तु देवेन विप्रस्याऽपि विधीयताम् ॥२२२॥ राज्ञोचे तस्य देव्यैव मूलशुद्धिनिवेदिता । कृत्वा तेन स्वयं स्तेयं त्वयि दोषोऽधिरोपितः ॥२२३॥ आनीतोऽत्राऽन्तरे बद्धः स विप्रो नृपतेभटैः । नृपस्तदादिशज्जिह्वाछेदलोचनकर्षणे ॥२२४॥ विषण्णे यज्ञदेवेऽथ पतित्वा पदयोर्मया । नृपो व्यज्ञपि देवेन मन्तुर्मे क्षम्यतामयम् ॥२२५।। नृपेणोक्तं न युक्तोऽयं मोक्तुमन्यत्त्वमर्थय । मया प्रोचे न याचेऽन्यदयमेव विमुच्यताम् ।।२२६।। ततो मदीयनिर्बन्धाद्यज्ञदेवं नृपोऽमुचत् । संमान्य मां महद्ध्या च प्राहिणोन्निजवेश्मनि ॥२२७।। समरादित्यसंक्षेपः जनप्रवादमाकर्ण्य यज्ञदेवस्य दुःसहम् । अतीव भवनिर्वेदो बभूव मम चेतसि ॥२२८।। अत्राऽन्तरे पुरोद्याने क्षमाकान्तः समागमत् । दुष्कर्मकक्षदावाग्निरग्निभूतिर्गणेशिता ॥२२९।। बहिर्गतश्च तं वीक्ष्य नेत्वा च समुपाविशम् । तस्माद्धर्ममपृच्छं च सर्वदुःखक्षयावहम् ॥२३०।। क्षान्त्याद्ये दशधा धर्मे प्रथिते कथिते सति । संजाततत्परीणामस्तत्पार्श्वे व्रतमात्तवान् ॥२३१।। प्रपाल्य विधिना तच्च काले त्यक्त्वा शरीरकम् । ब्रह्मलोके सुरोऽभूवं नवसागरजीवितः ।।२३२।। विप्रोऽपि शर्करापृथ्व्यां द्विर्गत्वा श्वभवान्तरः । त्रित्रिवाOयुरत्राऽगादथ तिर्यक्षु नैकशः ॥२३३।। च्युत्वाऽहं तु विदेहेऽस्मिन्पुरे रत्नपुराभिधे । विजये गन्धिलावत्यामिलातलविभूषणे ॥२३४|| रत्नसाराभिधाख्यातसार्थवाहस्य नन्दनः । अभूवं श्रीमतीकुक्षौ चन्द्रसारोऽभिधानतः ॥२३५।। युग्मम् यज्ञदेवोऽपि हि भ्रान्त्वा गृहदास्यामजायत । दारको नर्मदाऽऽख्यायां विहितनहकाभिधः ॥२३६।। मय्येष प्राग्भवाभ्यासाद्वञ्चनापरिणामवान् । इभ्यकन्यां त्वहं चन्द्रकान्ताख्यां परिणीतवान् ॥२३७।। तत्राऽन्यदा समायाते सूरौ विजयवर्धने । गृहीतस्तत्पदोर्मूले श्राद्धधर्मो मयाऽनघः ॥२३८॥ १. सत्यं निवेदितं क । १. नत्वा तं ख । २. आप्तवान् क । Page #30 -------------------------------------------------------------------------- ________________ द्वितीयो भवः अन्यदा तत्पुरं दीर्घदण्डयात्रागते नृपे । गतेष्वस्मासु च ग्रामे नामतो विन्ध्यकेतुना ||२३९ || पल्लीशेन समागत्य हतविप्रहतं कृतम् । कियानपि धृतो बन्दे जनोऽस्माभिश्च तच्छ्रुतम् ॥ २४०॥ युग्मम् आगतैस्तत्पुरं दृष्टं श्मशानागारसोदरम् । मानुषैः शोधितैर्ज्ञातं भिल्लैर्भार्या हृता मम ॥२४१ || अथाऽरतिमताऽध्यायि मया सेयं वराकिका | मद्वियोगे कथङ्कारं प्राणानपि धरिष्यति ॥ २४२॥ तदाऽहं देवशर्माख्यवृद्धविप्रेण भाषितः । सार्थवाहसुत ! स्वान्ते त्वं खेदं मा विधा मुधा ॥२४३॥ देशेऽत्रैव पुरा भिल्लैः श्रीस्थलग्रामतो हृतः । जनोऽखण्डितचारित्रो मुक्तश्चार्थेन भूयसा ||२४४ ॥ ततोऽहमिदमाकर्ण्य गतैः कतिपयैर्दिनैः । गते स्वपल्ली पल्लीशेऽनहकेनानुजीविना ॥ २४५॥ सार्धं शम्बलमादाय सारद्रव्यं च पुष्कलम् । चन्द्रकान्ताविमोक्षाय चलितोऽस्मि तदुत्सुकः ॥ २४६ ॥ युग्मम् द्रव्यं च शम्बलं चापि क्रमेण वहतोरभूत् । वञ्चनायाः परीणामोऽनहकस्य ममोपरि || २४७।। अन्यदा तस्य हस्तेऽस्ति द्रव्यं मम तु शम्बलम् । सन्ध्याकालश्च कूपश्चासन्न एकोऽस्ति वर्त्मनः ॥ २४८॥ तत्र स्थितोऽहं तेनैत्य कूपान्तः प्रेर्य पातितः । लग्नेन प्रतिकूपैकदेशे स्पृष्टं च मानुषम् ॥ २४९ ॥ नमोऽर्हद्भ्य इति प्रोक्ते तेन शब्दोपलक्षणात् । मत्कान्ता चन्द्रकान्तासावित्यज्ञायि मया मुदा || २५०|| ५३ ५४ समरादित्यसंक्षेपः उक्ता च न भयं जैनशासनस्थे जने भवेत् । मच्छब्दं प्रत्यभिज्ञाय प्रवृत्ता रोदितुं च सा ॥२५१ ॥ आश्वासिता मया पृष्टा वृत्तान्तमिति साऽवदत् । शीलभङ्गभयादत्राऽऽर्यपुत्र ! पतितास्म्यहम् ॥२५२॥ तत्पृष्टेन स्ववृत्तान्ते ख्यातेऽनहकनिर्मिते । सावोचद्दुष्टु दासेरश्चके सुष्ठु मयोदितम् ॥२५३॥ उपकारी महात्माऽसौ येन त्वं मम योजिता । अल्पनिद्रतया रात्रिरतीता भानुरुद्गतः ॥ २५४ ॥ मयाथ दत्ते पाथेये सतीपथपथिक्यसौ । बहूनामुपवासानामपि पारणकेऽवदत् ॥ २५५॥ युष्माभिरगृहीतेऽहं कथं गृह्णाम्यतो मया । अकालेऽपि तदा भुक्तं कान्तया तदनन्तरम् ॥ २५६॥ कूपाद्भवादिवागाधादुत्तारोऽस्मात्कथं भवेत् । इति चिन्तयतोः क्षीणं पाथेयं कतिथैर्दिनेः ॥ २५७॥ नष्टायां जीविताशायामिति चिन्ता ममाऽजनि । प्राप्तेऽप्यर्हन्मते किं नु मरिष्याम्यकृतव्रतः ॥ २५८॥ इत्थं चिन्तयतश्चक्षुर्दक्षिणं स्फुरितं मम । तस्याश्च वामं साऽऽचख्यौ ममाहं च स्वचिन्तितम् ॥ २५९ ॥ प्रियेऽनेन निमित्तेन क्लेशोऽयं न चिरस्थिरः । इत्थं यावदहोरात्रमतीतमिदमावयोः ॥ २६० ॥ तावज्जिगमिषुः सार्थः पुरं रत्नपुरं प्रति । नन्दिवर्धनसंज्ञस्य सार्थेशस्य समागमत् ॥ २६१ ॥ १. सोवाच दुष्टु क । Page #31 -------------------------------------------------------------------------- ________________ द्वितीयो भवः उदकाय समायातै त्यैातौ निवेदितौ । सार्थेशायाऽथ तेनेत्योत्तारितौ मञ्चिकास्थितौ ॥२६२।। प्रत्यभिज्ञाय पृष्टेन मयाऽऽख्याते सविस्तरे । मेने सार्थपतिः सत्यं संयोगं युगसम्पयोः ॥२६३।। ममाऽथ वहतः सार्थे व्यतीते दिनपञ्चके । कङ्कालमेकं पञ्चास्यहतस्याऽजनि दृक्पथे ॥२६४|| तद्वीक्ष्य वामपक्षेण स्रस्तद्रविणवासनम् । पर्यज्ञायि मया पाप्मानहको हरिणा हतः ॥२६५।। अहं तद्रव्यमादाय दृढं संवेगवान्हदि । गतो रत्नपुरं सप्तक्षेत्र्यां द्रविणमुप्तवान् ॥२६६।। तस्मिन्नेव गुरौ रत्नपुरं विजयवर्धने । आगते जगृहे दीक्षा नि:स्पृहेण गृहे मया ॥२६७।। मृत्वा षोडशवाOयुर्महाशुक्रे सुरोऽभवम् । तृतीयनरके सप्तवार्ध्यायुरनह: पुनः ॥२६८।। दिवश्च्युत्वाऽहमत्रैव जम्बूद्वीपस्य भारते । रथवीरपुरे नन्दिवर्धनाख्यगृहेशितुः ॥२६९।। भार्यायां सुन्दरीनाम्न्यां तनयत्वेन जातवान् । अनङ्गदेव इत्याख्यां पितृभ्यां मम निर्ममे ॥२७०॥ युग्मम् इतर: प्राप्य सिंहत्वं गत्वा तत्रैव दुर्गतौ । उद्धृत्य नानातिर्यक्षु भ्रान्त्वा तत्रैव पत्तने ॥२७१।। सोमसार्थेशितुर्नन्दिमत्यां तनयतां गतः । धनदेवाभिधस्तेन मैत्री प्रागिव मेऽजनि ॥२७२॥ युग्मम् समरादित्यसंक्षेपः कुमारस्याऽपि मे धर्मो देवसेनगुरोरभूत् । प्राप्तौ द्वावपि तारुण्यं विषयद्रुमकाननम् ॥२७३।। द्वाभ्यामप्यभिमानिभ्यामन्यदा हृदि चिन्तितम् । पितद्रव्यपरीभोगस्तारुण्येऽपत्रपावहः ॥२७४।। ध्यात्वेत्यावां गतौ रत्नद्वीपे रत्नानि लक्षशः । उपाय॑ देशमागन्तुं चलितौ मिलितौ निजम् ॥२७५।। अन्यदा प्राच्यदुष्कर्मदोषान्मद्वञ्चनामनाः । स्वस्तिमत्यां पुरि स्थूलभोज्यार्थं मोदकद्वयम् ॥२७६।। कारयित्वा तयोर्मध्यादेकस्मिन्विषमक्षिपत् । धनदेवो विपर्यस्तमतिरादच्च तं स्वयम् ॥२७७।। युग्मम् तद्दत्तमितरं भुक्त्वोत्थितोऽहं मूर्छितं तकम् । वीक्ष्य किकृत्यमूढोऽस्थां विषादुपरतः स तु ॥२७८।। अहमज्ञाततद्वृत्तः शोकशङ्कसमाकुलः । आगत्य पुरमेतस्य मानुषाणामथाग्रतः ॥२७९।। आख्यायालेख्यशेषत्वं वितीर्य निखिलं धनम् । तदीयं च निजं चापि तानि संबोध्य सादरम् ॥२८०|| ततः प्रभृति संत्यक्तभोग: श्रीदेवसेनतः ।। पखिज्यामुपादाय पालयामि स्म शुद्धधीः ॥२८१|| विशेषकम् काले कालं विधायाऽथ कल्पे प्राणतनामनि । त्रिदशोऽभूवमेकोनविंशत्यम्बुधिजीवितः ॥२८२।। इतरस्तुर्यपृथ्वीत उद्धृत्योरगतां गतः । दवदग्धः पुनस्तत्रोत्पद्य तिर्यक्षु चाऽभ्रमत् ॥२८३।। अहं च्युत्वादिमद्वीपैरवते हस्तिनापुरे । इभ्यलक्ष्मीवतीजानिहरिनन्दिसुतोऽभवम् ॥२८४।। १. स्त्रस्तं ख ग घ । Page #32 -------------------------------------------------------------------------- ________________ समरादित्यसंक्षेपः द्वितीयो भवः चीरदेवाभिधः सोऽपि तत्रैव श्रेष्ठिनः पुनः । इन्द्रनागस्येन्द्रमत्यां बभूव द्रोणकाभिधः ॥२८५।। उभावपि समं वृद्धौ कलाचार्यस्य चार्पितौ । जज्ञे नौ प्राक्तनी मैत्री मयाऽधीतकलेन तु ॥२८६।। मानभङ्गाभिधाद्धर्मो गुरोरग्राहि भावतः । द्रव्यतो द्रोणकेनाऽपि ततो धर्मानुरागतः ॥२८७|| स्थिरप्रीतिरहं तस्मै बहु द्रव्यं समार्पयम् । व्यवसायवता तेन भूरि भूरि समजितम् ॥२८८॥ विशेषकम् अथ प्राकर्मदोषेण मयि चिन्तितवञ्चनः । विदधे मद्वधोपायमपवादविवर्जितम् ॥२८९॥ आवासे कारितेऽत्युच्चैरनियन्त्रितकीलकम् । गवाक्ष कारयित्वा मां भोजनाय न्यमन्त्रयत् ॥२९०।। भुक्ताऽनन्तरमारूढावूर्ध्वभूमावुभावपि । स वातायनमारोहन्मतिस्मृतिपरिच्युतः ॥२९१।। पतितं तं महीपृष्ठे तत्कालं पञ्चतां गतम् । वीक्ष्याऽहं भवनिविण्णः कृत्वा तस्योर्ध्वदेहिकम् ॥२९२।। मानभङ्गगुरोरात्तव्रतोऽभूवं तृतीयके । ग्रैवेयके सुरः पञ्चविंशत्युदधिजीवितः ॥२९३।। युग्मम् द्रोणकोऽपि हि रौद्रेण ध्यानेन कलिताशयः । धूमप्रभायामभवद्द्वादशाम्भोधिजीवितः ॥२९३।। ततश्च्युतोऽहमत्रैव चम्पावासाभिधे पुरे । श्रेष्ठिनो माणिभद्रस्य धारिण्या नन्दनोऽभवम् ॥२९४।। पूर्णभद्राभिधानोऽहं जल्पनाऽवसरे पुनः । प्रागुक्तामरशब्देनाऽमरगुप्तोऽस्मि विश्रुतः ॥२९५।। बाल्यादपि च मे श्राद्धकुलोत्पन्नतया मनः । बद्धानुरागं संजज्ञे धर्मे सर्वज्ञदेशिते ॥२९६।। द्रोणकोऽपि महामत्स्यः स्वयम्भूरमणाम्बुधौ । भूत्वा धूमप्रभां गत्वा भ्रान्त्वा च पशुजन्मसु ॥२९७।। तत्रैव नगरे नन्दावर्त श्रीनन्दयोः सुता । नन्दयन्त्यभिधानेन बभूवोद्यौवना क्रमात् ॥२९८।। युग्मम् उपयेमे पितर्वाचा पितृदत्ता च सा मया । जज्ञे द्विपाक्षिकस्नेहः सुन्दश्चाषपिच्छवत् ॥२९९।। नन्दयन्त्या तया साधं नन्दयन्त्या मनो मम । ययुर्विषयसेवाभिर्वासराः सुखभासुराः ॥३००।। प्रदत्ते दक्षिणे पाणौ पाणिग्रहमहोत्सवे । प्राणा अपि यदायत्तास्तस्याः कि परतः परम् ॥३०॥ तथापि पूर्वकर्मानुभावेन मयि वञ्चनाम् । धत्ते परिजनो वक्ति न तु प्रत्येमि कस्यचित् ॥३०२।। अन्यदा तु स्वयं हृत्वा सा कुण्डलयुगं गतम् । सर्वसारं ममाऽऽचख्यो बाष्पाविलविलोचना ॥३०३|| मयोक्तं तप्यसे सुभ्र ! कुतस्त्वं कुण्डलद्वयम् । कारयिष्येऽपरं प्रोच्य तन्मनोज्ञमकारयम् ॥३०४|| अन्यदाऽभ्यङ्गवेलायां मुद्रारत्नं मयाऽर्पितम् । असौ संगोपयामास निजाकल्पकरण्डके ॥३०५।। स्नात्वा भुक्त्वा समादाय ताम्बूलं सविलेपनम् । नि:शङ्केन मयाऽग्राहि मुद्रारत्नं करण्डकात् ॥३०६।। १. पंकप्रभा ग घ च । २. द्विपाक्षकस्नेहः क, द्विपाक्षिकस्नेहः ग घ च, द्विपाक्षिक: ख ङ । ३. निजकेलिकरंडके ग घ । Page #33 -------------------------------------------------------------------------- ________________ द्वितीयो भवः अद्राक्षं तत्र तत्पूर्वप्रनष्टं कुण्डलद्वयम् । अचिन्तयं कथं लब्धमनया पुनरप्यदः || ३०७॥ तदा ससाध्वसायाता मुद्रारलं करे मम । निरीक्ष्य लज्जिता भावं ज्ञात्वाऽहं निर्गतो गृहात् ॥ ३०८ ॥ सा दध्यौ ज्ञातमेतेन द्विधाऽप्येष गतो मम । यावज्जनो न जानाति तावद्व्यापादयाम्यमुम् ||३०९|| ध्यात्वेति मद्बधायैषा विधायौषधमीलनम् । स्थापयन्त्येकदेशे तद्दष्टा दुष्टेन भोगिना ॥ ३१०|| सा हि दष्टा ममाऽऽख्याता रुद्रदेवपुरोधसा । त्वरितोऽहं समागत्य मान्त्रिकादीनुपानयम् ॥३११॥ कालदष्टेति तैरुक्ते मय्याकन्दपरायणे । विपन्ना सा मया तस्या विदधेऽथोर्ध्वदेहिकम् ॥३१२|| तन्निर्वेदादहं ध्यायन्संसाराऽऽसारतां हृदि । व्रतमादामियं षष्ठ्यां पृथ्व्यां त्वजनि कर्मतः ॥ ३१३|| मुक्ति पृष्टो नरेन्द्रेणाऽमरगुप्तो न्यवेदयत् । अनन्तैर्जन्मभिस्तस्याः स्वस्य तत्रैव जन्मनि ॥ ३१४|| श्रुत्वेत्यहं सपौरोऽपि तस्मादेवाभवं व्रती । अयं विशेषहेतुर्मे निर्वेदे नृपनन्दन ! ||३१५|| ऊचे सिंहकुमारेण युक्तं निर्वेदकारणम् । आख्याहि भगवन् ! किं नु भवः कतिगतिः स्मृतः ॥ ३१६ || कानि कानि च दुःखानि तत्र गात्रे मनस्यपि । कश्च मोक्षयितुं शक्तो धर्मः संसारचारकात् ॥३१७॥ धर्मघोषः प्रभुः प्राह शृणु वत्स ! समाहितः । श्वभ्रतिर्यग्नृदेवत्वैर्भव एष चतुर्गतिः ||३१८|| ६० समरादित्यसंक्षेपः दुःखं जन्म जरा मृत्यू रागद्वेषवशात्मनाम् । किमेकं कथ्यते तथ्यं शृण्वत्राऽर्थे कथानकम् ॥३१९॥ तथाहि पुरुषः कोऽपि दुःखदारिद्र्यतापितः । निजं देशं परित्यज्याऽन्यदेशं गन्तुमुद्यतः ॥ ३२० ॥ स च मार्गपरिभ्रष्टः स्पष्टश्वापदसंकुलाम् । ज्वलद्दवानलज्वालाजालतापितलोचनाम् ॥३२१॥ वहगिरिनदीभीमां विषमां गिरिगह्णरैः । अटन् महाटवीं प्राप सभां प्रेतपतेरिव ॥ ३२२ ॥ युग्मम् तत्र वित्रस्तनेत्रेण दुष्टश्वापददर्शनात् । क्षुधातृषाभिभूतेन स्खलता च पदे पदे ॥३२३|| दृष्टः प्रलयकालोत्थाम्बुदवृन्दसहोदरः । ऊर्जितं गर्जितं कुर्वन्दुष्टस्तेन वनद्विपः || ३२४ ॥ युग्मम् पृष्ठतस्तस्य चात्युग्रकरवालकरामसौ । ददर्श राक्षसीमेकां भीषणेभ्योऽपि भीषणाम् ॥ ३२५ ॥ तं च तां च निरीक्ष्यैष कम्पमानशरीरकः । वटमुच्छ्रितमालोक्य तत्रारोढुमपारयन् ॥३२६|| आगच्छन्तमिभं वीक्ष्य न्यग्रोधव्यधहेतवे । जीर्णकूपं तृणच्छन्नं कान्दिशीको व्यलोकत ॥३२७॥ अशरण्यमरण्यस्थमुच्चं मुक्त्वा महावटम् । अशिश्रियदयं निम्नममुमूर्षुर्महावटम् ॥३२८॥ पतंस्तद्धित्तिसंभूतशरस्तम्बे व्यलम्बत । अपश्यदस्य कूपस्य चतुः कोणस्य भूतलम् ॥३२९॥ स्वपातप्रतिघातेन कुपितान् दष्टुमुद्यतान् । अद्राक्षीत्सर्वकोणेषु सपांश्चतुर आतुरः ||३३०|| Page #34 -------------------------------------------------------------------------- ________________ द्वितीयो भवः निरीक्ष्याऽजगरं मध्ये मध्येकूपं च पञ्चमम् । जीवितेच्छुनिरालम्बः शरस्तम्बमलोकत ॥३३१॥ तस्य मूलानि भिन्दानं शुद्धकृष्णोन्दुरद्वयम् । वीक्ष्य यावच्छरस्तम्बं स्वायुनिरचिनोदयम् ॥३३२|| मातङ्गेन तदप्राप्तिकुद्धेनाथ रदाऽऽहतात् । पपात जीर्णकूपान्तर्यग्रोधान्यधुजालकम् ॥३३३।। स्वस्वे निपतिते तस्मिन् भृङ्ग्य: कलकलाकुलाः । जज्ञिरेऽस्याऽनुयायिन्यो विहितव्याहरा इव ॥३३४|| लम्बमानं शरस्तम्बे स्तम्बेरममधृष्णवः । तमेव तुतुदुः शातैर्वदनैर्विशिखैरिव ॥३३५।। तदा चाऽस्य शिरोभालभ्रूमध्यघ्राणत: कमात् । मधुबिन्दुः पपाताऽऽस्ये तं स स्वादितुमिष्टवान् ॥३३६|| करिरक्षोवधूसजगरोन्दुरभृङ्गिकाः । अविचिन्त्य तदास्वादे वैधेयो विदधे मुदम् ॥३३७।। कथेयं कथिता भव्यमोहद्रोहविधायिनी । अस्या उपनयं सावधानाः शृणुत सज्जनाः ॥३३८|| पुमाञ्जन्तुरटव्येषा चतुर्गतिगतिः स्मृता । मत्तः स्तम्बेरमो मृत्युर्जेया रक्षोवधूर्जरा ॥३३९।। न्यग्रोधो विषयग्रस्तनृणां मोक्षो दुरासदः । तत्राऽऽरूढवतां मृत्युजरादि न भयं भवेत् ॥३४०॥ जीर्णकूपो मनुष्यत्वं सर्पाः क्रोधादयो मताः । यैर्दष्टो मनुजः कृत्याऽकृत्येषु स्यादचेतनः ॥३४१।। समरादित्यसंक्षेपः घोरस्त्वजगरो ज्ञेयो नरकः प्रसरन्मुखः । शरस्तम्बो मनुष्यायुराखू पक्षी सितासितौ ॥३४२।। भ्रमर्यस्तु रुजो ज्ञेया विषया मधुबिन्दवः । यदास्वादेन पाश्चात्यं विस्मरत्यखिलं जनः ॥३४३|| तदहो दारुणे भोगविपाके जीविते चले । नि:सारे यौवने धर्मः कर्तुं युक्तो मनीषिणः ॥३४४।। ततः सिंहकुमारणाऽप्रच्छि धर्मः स कीदृशः । गुरुणाऽऽख्यायि तुष्टेन क्षान्त्यादि दशधाऽपि सः ॥३४५।। क्षमा क्रोधजयो ज्ञेयो मार्दवं मानमर्दनम् । आर्जवं कैतवत्यागो मुक्तिनिर्लोभता मता ॥३४६।। तपो द्वादशधा सप्तदशभेदस्तु संयमः । निरवद्यं वचः सत्यं शौचमिन्द्रियनिग्रहः ॥३४७।। आकिञ्चन्यं नवविधपरिग्रहविमोचनम् । अष्टदशविधाऽब्रह्मवर्जनं ब्रह्म संमतम् ॥३४८।। एतन्निशम्य सिंहेन यतिधर्मः सुसुन्दरः । परं कर्तुमशक्तोऽहमित्युक्ते गुरुरुक्तवान् ॥३४९|| सम्यक्त्वमूलं सुश्राद्धधर्म तर्हि प्रपालय । इत्युक्तस्तं स जग्राह भावतो द्रव्यतोऽपि च ॥३५०॥ कृतार्थं मन्यमानः स्वं पर्युपास्य क्षणं गुरून् । वन्दित्वा विनयेनैतान्प्राविक्षन्नगरान्तरे ॥३५१॥ आख्यच्च कुसुमावल्यै साऽपि धर्म तमग्रहीत् । गुरुशुश्रूषया धर्मे भावितौ तौ बभूवतुः ॥३५२।। नृपः पुरुषदत्तस्तु गुरोरमिततेजसः । धर्म श्रुत्वा ससंवेगः श्रीकान्ताकान्तयाऽन्वितः ॥३५३।। १. स्तम्बरम अधूष्णवः ख ग ङ च । Page #35 -------------------------------------------------------------------------- ________________ द्वितीयो भवः नियोज्य तनयं सिंहकुमारं राज्यसंपदि । आददे शमसाम्राज्यं मन्त्रिसामन्तसंयुतः ॥३५३॥ युग्मम् असमं कुसुमावल्या समं वैषयिकं सुखम् । भुञ्जतः सिंहभूपस्यातीतः कालः कियानपि ॥३५५॥ अन्येधुविद्युतां मध्यात्तापसस्यानिग्नशर्मणः । जीवश्च्युत्वा भवं भ्रान्त्वा देव्याः कुक्षाववातरत् ॥३५६।। स्वप्नेऽपश्यच्च सा सर्प प्रविष्टमदरे स च । निर्गत्य दृष्ट्वा राजानं पातयामास विष्टरात् ॥३५७|| तं वीक्ष्य सहसा बुद्धा सातङ्का कुसुमावली । अमङ्गलमयं तं च नाऽऽचख्यौ मेदिनीभुजे ॥३५८|| प्रवर्धमानगर्भाभूत्तदोषावेषिणी नृपे । ऊचे परिजनेनाऽथ देवि ! चारु करोषि न ॥३५९।। तयोक्तं किं नु तेनोचे न देवं बहु मन्यसे । सा प्रोचे गर्भदोषोऽयं स्यादीहक्कथमन्यथा ॥३६०|| तस्या जज्ञेऽन्यदा पत्युरन्त्रभक्षणदोहदः । अध्यायदथ गर्भेणाऽप्यलमेतेन पाप्मना ॥३६१।। तदेनं पातयामीति सखीनां सा न्यवेदयत् । तासां बहुमतं जज्ञे तच्च कार्यगुरुत्वतः ॥३६२।। बहूनि पातनायाऽस्या भेषजानि चकार सा । न निकाचितकर्मत्वात्पपात स तु पातकी ॥३६३॥ तेन भेषजपानेन दोहदाऽपूरणेन च । भृशं कृशं दधाना सा देहमप्रच्छि भूभुजा ॥३६४।। समरादित्यसंक्षेपः किं न संपद्यतेऽभीष्टं केनाऽऽज्ञा तव खण्डिता । किं मया विप्रियं चक्रे यदेवं देवि ! खिद्यसे ॥३६५।। द्वितीयं हृदयं मत्वा महास्नेहं महीपतिम् । देव्याह जाने सद्योऽहं विपद्ये यदि तद्वरम् ॥३६६॥ कुतो हेतोरिति प्रोक्ते नृपेणाऽऽह नृपप्रिया । पृच्छ मद्भागधेयानीत्युक्त्वाऽजनि सगद्गदा ॥३६७।। तन्निदं दृढं मत्वा नृपस्तद्दुःखदुःखितः । अथो मदनरेखाद्यं सखीजनमवोचत ॥३६८।। कथं शुष्यत्यसौ राज्ञि सकले मयि सत्यपि । दके कैरविणीस्तोक इवांहिकरकैरखा ॥३६९॥ युक्तं किमेतद्युष्माकं परिज्ञाते निबन्धने । कृष्णपक्षेन्दुलेखावत्खिद्यमानामुपेक्षितुम् ॥३७०।। निर्वेदोऽयं न चासाध्यवस्तुन्यस्तीति मे मतिः । तत्कि तत्किञ्चिदप्यस्ति यन्न स्यान्मयि जीवति ॥३७१।। ऊचे मदनरेखाऽथ नाथ वक्षि यथातथम् । परं नारीस्वभावेनाविवेकोऽत्रापराध्यति ॥३७२।। किं च कार्यमनायं तत्किञ्चिदुत्पद्यते क्वचित् । अस्थानव्रणवद्यस्याऽशक्ये गोपनदर्शने ॥३७३।। तदिदं शक्यते नैव देवस्याऽग्रे निवेदितुम् । उपायस्त्वपरः कश्चिन्नास्ति तेन निवेद्यते ॥३७४|| राज्ञोक्तं युक्तमेवेदं यन्नैव स्यादुपायतः । ममाग्रे कथ्यते तद्धि भवती कथयत्वतः ॥३७५।। ततस्तया सभीत्येव गर्भसंभवसंगतः । वृत्तान्तो दोहदद्वेषात्पातनान्तो निवेदितः ॥३७६।। १. दोषिणी क । Page #36 -------------------------------------------------------------------------- ________________ द्वितीयो भवः अहो मय्यसमस्नेहात्पुत्रीयत्यपि न प्रिया । मा भूद्गर्भविपत्तिस्तदसम्पूर्णेऽत्र दोहदे ||३७७ || ध्यात्वेति यदहं वच्मि तत्कार्यं कालसंगतम् । उक्त्वेति नृपतिर्देवीं व्यसृजत्ससखीजनाम् ॥३७८॥ अथ कार्यविदाकार्य मतिसागरमन्त्रिणम् । नृपस्तत्सर्वमाचख्यौ स ध्यात्वा तं व्यजिज्ञपत् ॥३७९ ॥ यद्देव क्षुधिते देवे कृत्रिमान्त्राणि कुक्षितः । कर्तं कर्त वितीर्यन्ते देव्या एव दृशोः पुरः || ३८०|| राज्ञा बहुमते तस्मिन्नर्थे राज्ञीमुवाच सः । कर्तिष्यामि तथाऽन्त्राणि यथा देवो न दूयते ॥ ३८१ ॥ गर्भकूरस्वभावत्वादनयाऽङ्गीकृते सति । नृपकुक्षौ शशान्त्राणि कृत्वा वस्त्रावृतान्ययम् ॥३८२॥ उत्कृत्य तस्याः पश्यन्त्या दत्तवान्मुदिता च सा । पश्चात्पुनर्विषण्णाऽभूदाश्वस्ता नृपदर्शनात् ॥३८३॥ ऊचे च मन्त्रिणा देवि ! देव्या पूर्वं प्रसूतया । गर्भजन्म न देवस्य कथनीयं तु मेऽग्रतः || ३८४|| प्रतिशुश्राव तद्देवी प्राप्ते प्रसववासरे। प्रसूतया तया मन्त्री समाहूतागतोऽवदत् ||३८५|| लक्ष्यते लक्ष्मभिर्गर्भोऽयमक्षेमः क्षमापतेः । अन्यत्र वर्धतां तस्मान्मृतो देवस्य कथ्यते ॥ ३८६ ॥ भवत्वेवमिति प्रोच्य तं माधव्याख्यचेटिका । समर्प्य प्रेषिता राज्ञ्या दृष्टा सिंहमहीभुजा ||३८७॥ किमेतदिति पृष्टा च चेटी प्रोचे न किञ्चन । बालस्तदा रुरोदोच्चैरात्मानं ज्ञापयन्निव ॥ ३८८|| ६५ ६६ समरादित्यसंक्षेपः नृपः कृतकृपस्तत्र बाले चेट्यां तु निःकृपः । प्रोवाच किमिदं पापे विधित्सुः श्वपचाऽधिकम् ॥ ३८९ ॥ निवेदितेऽथ वृत्तान्ते स्त्रीत्वकातरया तया । राज्ञा लात्वाऽथ धात्रीणामन्यासां स समर्पितः ॥ ३९०॥ उक्ताश्च ताश्चेद्वालस्य प्रमादोऽस्य भविष्यति । करिष्यामि ततो युष्मानेतदीयचितेन्धनम् ॥३९१॥ निर्भत्स्य मन्त्रिणं देवीमप्येतदनुरोधतः । प्रच्छन्नं कारयांचक्रे जन्मवर्धापनोत्सवम् ॥ ३९२ ॥ नृपस्तज्जन्मसानन्दस्तमानन्दमभिख्यया । विदधे वर्धमानः सन्नाददे सकलाः कलाः ॥ ३९३॥ प्राक्कर्मदोषतः किं तु नृपे विषममानसः । स्थापितो युवराजत्वे जनकेन ससम्मदम् ||३९४ ।। अन्यदाऽऽटविको दुर्गस्वभूमिबलगर्वितः । उद्वृत्तः सिंहराजस्य सत्यनामा स दुर्मतिः ॥ ३९५ ॥ राज्ञा तस्योपरि प्रैषि सैन्यं जिग्ये च तेन तत् । प्रयाणत्रितयं यातस्ततोऽमर्षादयं स्वयम् ||३९६ ॥ तदा वहन्त्यां वाहिन्यां सिन्धुसिन्धुतटस्थितम् । अहो कष्टमहो कष्टं ब्रुवाणं जनमैक्षत ||३९७|| ग्रस्यमानमपश्यच्च भेकं तत्राऽहिना नृपः । कुररेण च तं तं चाजगरण गरीयसा ॥ ३९८ ॥ सतं व्यतिकरं वीक्ष्य मूढचित्तप्रमोदकम् । सतां निर्वेदहेतुं च हृदये व्यषदन्नृपः ॥ ३९९ ॥ १. ध्यात्वाथ ख ग घ ङ च । Page #37 -------------------------------------------------------------------------- ________________ ६८ समरादित्यसंक्षेपः द्वितीयो भवः अचिन्तयच्च भेकाहिकुररा मोचिता अपि । न जीवन्ति किमेतेनाऽप्रतीकारेण वस्तुना ॥४००|| ध्यात्वेति तर्जयित्वेभं जगाम शिबिरं नृपः । कृत्वा दिनोचितं रात्रौ सुप्तबुद्धो व्यचिन्तयत् ॥४०१॥ ग्रस्यते लोकमण्डूकोऽहितुल्येन नियोगिना । स राज्ञा कुररेणेव कृतान्ताऽजगरेण सः ॥४०२॥ एवंविधेऽत्र संसारे विषयान्विषयी जनः । सुखेच्छु: सेवते बालः कालकूट जिजीविषुः ॥४०३।। दु:खं पापफलं मत्वा दुःखनाशाय दुःखितः । सुखितः कुरुतां धर्म जानन्धर्मफलं सुखम् ॥४०४॥ मानप्राज्येन राज्येन तदेतेन कृतं मम । तद्धि पातालवत्क्षिप्तै१:पूरं पूरणैरपि ॥४०५।। दुरन्तं खलमैत्रीव सभुजङ्गं च नाकुवत् । वेश्याचित्तवदर्थेष्टं सर्पवत्तत्त्यजाम्यदः ॥४०६॥ वस्तुनि प्रस्तुते मे स्याल्लाघवं स्वल्पकं हि तत् । इति चिन्तयतो रात्रिर्वीता सिंहमहीभुजः ॥४०७|| कृते प्राभातिके कृत्ये समेते मन्त्रिमण्डले । राजा विजयवत्याख्यवेत्रिण्या व्यज्ञपीदृशम् ॥४०८।। यद्देव प्रस्थितं मत्वा देवमत्युग्रशासनम् । दुर्मतिः स्वयमेवाऽयं वहन्कण्ठे कुठारकम् ॥४०९|| जनैः कतिपयैर्युक्तो वेत्रिभूमौ समागतः । दिक्षुर्देवमस्त्यत्र प्रमाणं देव एव हि ॥४१०॥ युग्मम् राजा व्यलोकयद्वक्त्रं मतिसागरमन्त्रिणः । स प्रोवाच भवत्वेवं नृपा ह्याश्रितवत्सलाः ॥४११।। प्रविश्य राज्ञानुज्ञातो दुर्मतिस्तं व्यजिज्ञपत् । अयं कण्ठः कुठारोऽयमित्युक्त्वा प्रणनाम च ॥४१२।। तस्याऽभयं वितीर्याऽर्यस्तं सत्कृत्य च कृत्यवित् । प्रस्थाप्य च निजे स्थाने स्वयं जयपरं ययौ ॥४१३।। मन्त्रिमण्डलमाकार्य कथितोऽथ महीभुजा । राज्यत्यागव्रतादानरूपो निजमनोरथः ॥४१४॥ विवेककलितेनाऽथ तेनाऽयं बहुमानितः । दैवज्ञान्दिनमप्राक्षीदानन्दस्याऽभिषेचने ॥४१५॥ पञ्चमे दिवसे नैमित्तिकोत्तमनिवेदिते । राज्याभिषेकमङ्गल्यवस्तून्यानायितान्यथ ॥४१६|| मृत्पिण्डदधिसिद्धार्थमीनचामररोचनाः । सिंहचर्मसितच्छत्रपुष्पभद्रासनादि च ॥४१७|| आनाय्य न्याय्यमार्गस्थो नृपोऽध्यायन्निजं सुतम् । राज्ये विन्यस्य यास्यामि धर्मघोषगुरोः पुरः ॥४१८|| स ध्यायन्निति सद्ध्यानी राज्यदानस्य वासरम् । प्रतीक्षमाण एवाऽस्थान्निराकाङ्क्षो मुमुक्षुवत् ॥४१९|| आनन्दयुवराजस्तु प्राच्यदुष्कर्मदोषतः । घटितो निजदुर्मत्या तेन दुर्मतिना तथा ॥४२०॥ केनाऽपि हि प्रयोगेण विप्रलभ्य कदाचन । अयमालभ्यते भूपस्ताभ्यामिति च मन्त्रितम् ॥४२१।। श्रुतोऽभिषेकवृत्तान्तो विपरीततया धृतः । यदेतेन च्छलेनाहं निहन्तुं चिन्तितोऽमुना ॥४२२।। अस्मिन् सत्येऽपि सत्यर्थे तद्दत्तं मा स्म भून्मम । राज्यं यन्मारयित्वैनं गृह्यते तद्धि सुन्दरम् ॥४२३।। Page #38 -------------------------------------------------------------------------- ________________ द्वितीयो भवः आकारितेऽप्यनायाते कुमारे मारणात्मके । प्रतीहारयुतः कार्यमविचार्य ययौ नृपः ॥४२४|| आत्मद्वितीयमायातं वीक्ष्यं तं स व्यचिन्तयत् । अधुनैव सुसाध्योऽयं साध्यते यदि साधु तत् ॥४२५।। ध्यात्वेत्यसिप्रहारेण प्रतीहारममारयत् । नृपं तु नि:कृपो गाढप्रहारेणाऽक्षमं व्यधात् ॥४२६।। ततः कलकलो जातः पुरक्षोभो महानभूत् । राजगृह्याः कुमारेण समं समरमादधुः ॥४२७|| निवारिताश्च ते राज्ञा निजाज्ञापूर्वकं भटाः । हत एवाहमेतं मा निहतेति प्रजल्पता ॥४२८।। अभिषेकममुष्यैव कुरुध्वं नृप एष वः । इति तेषु निवृत्तेषु कुमारः प्राह दुर्मतिम् ॥४२९।। दृढबन्धैर्बधानैनं स तं निगडितं व्यधात् । न्यषेधत्तुमुलं हत्वा कांश्चिन्निर्भय॑ कांश्चन ॥४३०|| निजविश्वासपात्राणामर्पयित्वाऽथ भूपतिम् । स्वयं राज्यमधिष्ठाय तद्व्यवस्थां विधाय च ॥४३१।। वशे विधाय सामन्तमण्डलं मण्डलं च सः । पितरं चारकेऽक्षप्सीदात्मानमिव नारके ॥४३२॥ अमेध्यमूत्रदुर्गन्धे भित्तिसुप्तसरीसृपे । गृहोलिकासुसंकीर्णे स्वनन्मशकमक्षिके ॥४३३।। प्रलम्बमाननिर्मोकमुक्ताप्रालम्बमालिते । लूतातन्तुवितानाढ्ये दुष्षमावासमन्दिरे ॥४३४|| समरादित्यसंक्षेपः अधर्मलीलामेदिन्यां सीमन्तकसहोदरे । निवासे सर्वदुःखानां मृत्योर्विश्राममण्डपे ॥४३५।। पञ्चभिः कुलकम् तत्र नीतं नृपं श्रुत्वा विमुक्ताकन्दभैरवम् । शीघ्रगत्युदितश्वासमुर:कुट्टनतत्परम् ॥४३६।। निदाधं हृदि विभ्राणं वर्षारात्रं च नेत्रयोः । आगच्छत्कुसुमावल्यादिकमन्तःपुरं तदा ॥४३७॥ युग्मम् वीक्ष्य लोहभृतं भूपं महाकन्दपरायणम् । नृपेणाऽऽरक्षकैश्चापि कथञ्चिदपि वारितम् ॥४३८।। राज्ञा प्रबोधितं चेत्थं शुचाऽऽयासकृता कृतम् । भवो विचित्ररूपोऽयं खेलनं तस्य जन्तवः ॥४३९|| दुर्निवाराणि कर्माणि चपलाचपलाः श्रियः । स्वप्नसाधारणं प्रेम तदलं परिदेवनैः ॥४४०॥ दुर्लभं भगवद्वाक्यं भवतीभिरलाभि च । सर्वदुःखक्षयोपायं तत्कुरुध्वं तदेव हि ॥४४१।। तथेति प्रतिपद्यैतद्बलादानन्दभूपतेः । साध्व्या गन्धर्वदत्ताख्यखेचयाँ व्रतमाददे ॥४४२।। नृपस्तु यात्यमानोऽपि यातनाभिरकोपनः । जग्राहाऽनशनं धीमान्विज्ञाय समयोचितम् ॥४४३।। तत्राऽऽनन्देन विज्ञाते कुपितेन महल्लकः । देवशर्माऽभिधः प्रैषि नृपं भोजयितुं हठात् ॥४४४|| स गत्वा नृपतिं प्राह देव दैववशान्नृणाम् । जायते जगति प्रायः कार्यस्य विषमा गतिः ॥४४५।। दैवो हि न गुणग्राह्यो नाऽऽराध्यो विनयेन च । अनर्थ एव मूर्तोऽयमकालज्ञः समीहिते ॥४४६।। १. नि:कृपं क । Page #39 -------------------------------------------------------------------------- ________________ द्वितीयो भवः स्वच्छन्दो मत्तहस्तीव कुटिल: सिन्धुवाहवत् । कर्माण्येव च दैवोऽयं साध्यः पुरुषकारतः ॥४४७|| विधत्तां भोजनं देवो ध्रुवं जीवन्नरो यतः । उल्लङ्घ्य विपदं धन्यः पुनः प्राप्नोति सम्पदम् ॥४४८।। नृपः प्रोवाच नाऽमोचि सन्मार्गसमयोचितः । मया पुरुषकारो यज्जगृहे भावतो व्रतम् ॥४४९|| न सम्पद्यभिलाषो मे योग्यं त्वनशनं कृतम् । स प्राह देवेऽभुञ्जाने कोपिष्यति महीपतिः ॥४५०॥ तस्य निष्कारणः कोपः सत्यसन्धा हि साधवः । नृपप्रोक्त उवाचैष स प्रमादेऽपि कर्मठः ॥४५१॥ किं नैति देवशर्मेति क्रोधादानन्दभूपतिः । निस्त्रिंशः कृष्ठनिस्त्रिंश एत्य भूपमवोचत ॥४५२।। यदि ग्रहीता नाहारं तदेतेन शिताऽसिना । छेत्स्यामि त्वच्छिरस्तच्च श्रुत्वा भूपतिरूचिवान् ॥४५३।। जीविते मरणान्ते स्यादुद्वेगः कीदृशो मृतेः । गर्भात्प्रतिक्षणं मृत्यौ जीवतीति मृषा वचः ॥४५४|| सार्थात्कश्चित्पुरो याति यदि तस्य भयं किमु । का नाम जीवितव्याशा जन्तोः सूनापशोरिव ॥४५५।। व्याधिबाणान् क्षिपन्नेति वृद्धभावधनुर्धरः । विधिव्याधो मनुष्यैणयूथव्यधनिबद्धधीः ॥४५६|| प्रत्यवायप्रतीकारादिकं न गणयत्ययम् । हरिः प्रहरति स्वैरं जनेषु हरिणेष्विव ॥४५७।। मन्ये त एव निविण्णा जन्ममृत्योः पुनः पुनः । चरन्ति दुश्चरं येऽत्र भवान्तकहरं तपः ॥४५८॥ समरादित्यसंक्षेपः जिनवाक्यसुधां पीत्वा मरणान्न बिभेम्यहम् । यत्र मोक्षोऽथवा स्वर्गः स हि मृत्युर्महोत्सवः ॥४५९|| कृतान्तहस्तिनो मोक्षो न युद्धे न पलायने । हस्तस्तस्य न दृश्येत गृहीतं च न मुञ्चति ॥४६०॥ काले लुनाति सस्यानि यथा पक्वानि कर्षुकः । तथा जातानि जातानि भूतानि प्रेतनायकः ॥४६॥ मृत्युपाशाः पतन्त्येते निर्जरष्वपि दुर्धराः । जराग्रस्तो नरो मृत्युप्रमादादेव जीवति ॥४६२।। स्वयं मयाऽऽहतो मृत्युर्भोजनं न करोमि यत् । मृतमारणमात्रेण कलङ्कस्तेऽवशिष्यते ॥४६३।। श्रुत्वेति कोधरक्ताक्षः कृपाणेन जघान तम् । ब्रुवन्नमो जिनेन्द्रेभ्यो नृपतिः प्राप पञ्चताम् ॥४६४॥ इत्थं हतस्तेन सुतेन सिंह: समत्वमात्रादकृतव्रतोऽपि । नरेश्वरः पञ्चसरस्वदायुः स्वर्गे तृतीये त्रिदशो बभूव ॥४६५।। सानन्दमानन्दनृपस्तु राज्यं विधाय हिंसादिनिबद्धबुद्धिः । उदन्वदायुः प्रथमक्षमायां पितुर्वधान्नारकतामवाप ॥४६६।। इति श्रीहरिभद्रोक्त्या प्रद्युम्नाचार्यगुम्फिते । समरादित्यसंक्षेपे द्वितीयोऽयं भवोऽभवत् ॥४६७॥ Page #40 -------------------------------------------------------------------------- ________________ तृतीयो भवः अस्त्यस्य जम्बूद्वीपस्य क्षेत्रेऽवरविदेहके । नृस्त्रीरत्नभृतं कोशमिव कोशाभिधं पुरम् ॥१॥ तत्रास्त्यजितसेनाख्यः सेनाजितदिगन्तरः । वैरिराजशिरोरत्नद्योतितांह्रिनखो नृपः ॥२॥ व्योमाऽञ्जनवतः शत्रुशलभक्षयकारिणः । यत्प्रतापप्रदीपस्य च्छायेव द्वेषिदुर्यशः ||३|| तस्याऽऽत्मनिर्विशेषोऽस्ति सर्वराज्यस्य चिन्तकः । इन्द्रशर्माभिधो मन्त्री प्रत्तशर्मा जने द्विजः ॥४॥ आनन्दनारकः सोऽथ नरके सागरोपमम् । चत्वार्यन्यानि संसारे भ्रान्त्वा चाऽस्य द्विजन्मनः ॥५॥ शुभङ्कराख्यभार्यायां नारीत्वेनोदपद्यत । जज्ञे च समये पुत्री जालिनीति कृताऽभिधा ॥६॥ अथ तस्यैव राज्ञोऽस्ति सचिवो बुद्धिसागरः । तत्पुत्रो ब्रह्मदत्तस्तामुपयेमे सयौवनाम् ॥७॥ तयोः परस्परस्नेहगुणेनाऽऽनद्धचेतसोः । कियानपि ययौ कालः पञ्चगोचरसेवया ||८|| इतश्चाऽचिन्त्यमाहात्म्यात्कर्मणां कृत्तमर्मणाम् । सिंहदेवो दिवश्च्युत्वा तस्याः कुक्षाववातरत् ॥९॥ ७४ समरादित्यसंक्षेपः स्वप्नेऽपश्यच्च सा स्वर्णपूर्णकुम्भं निजोदरे । प्रविष्टं निर्गतं भग्नं स्वहस्तेन कथञ्चन ॥ १० ॥ ससाध्वसा विबुद्धा सा संकीर्णरसभागभूत् । नाऽख्यत्तु ब्रह्मदत्ताय स्त्रियो हि दृढकैतवाः ॥ ११ ॥ प्रवर्धमानगर्भाऽथ सव्यथाऽङ्गे मनस्यपि । सा गर्भपातनोपायान्निर्ममा निर्ममे बहून् ||१२|| न विपदे स गर्भस्तु प्राच्यकर्मविपाकतः । तत्कान्तो ज्ञातवृत्तान्तोऽवदत्परिजनं निजम् ॥१३॥ तथा यत्यं यथा गर्भः प्रसवे न विपद्यते । वञ्चयित्वा च तच्चित्तं निवेद्यो मे कथञ्चन ॥ १४ ॥ तदाऽस्या दोहद: प्राण्यद्रोहदः समजायत । देवाऽर्चागुरुशुश्रूषाधर्मश्रवणसुन्दरः ||१५|| दोहदे पूरिते पत्या साऽभूद् गर्भप्रभावतः । रमावत्परमानन्ददायिनी जनचेतसाम् ॥ १६ ॥ समयेऽथ प्रसूतेयं तनयं हृद्यचिन्तयत् । कथं व्यापादयाम्येनमियतीनां दृशां पुरः ||१७|| ज्ञाततन्मतया स्मृत्वा ब्रह्मदत्तवचस्तदा । उदिता बन्धुजीवाख्यबालसख्येति जालिनी ॥ १८ ॥ पापः स्वामिन्ययं गर्भः क्लेशदेनाऽमुना कृतम् । करोम्येकान्तगं तस्माद्यद्यादिशि मामिह ॥ १९ ॥ वधे सखीत्रपावत्या कषायायत्तचित्तया । तदा जजल्पे जालिन्या यूयं जानीथ किञ्चन ||२०|| बन्धुजीवापनीयैतं तत्कान्ताय समापर्यत् । तत्कृत्वा सुस्थितं लोके मृतं गर्भमघोषयत् ॥२१॥ Page #41 -------------------------------------------------------------------------- ________________ तृतीयो भवः शिखीत्यभिख्यया बालं तमुवाच पिता मुदा । कलाकलापसम्पूर्णः स सत्यामतनोच्च ताम् ॥२२॥ तं प्रौढं पुत्रकत्वेन ब्रह्मदत्त उपाददे । ज्ञातस्वपुत्रवृत्तान्ता कुधा जज्वाल जालिनी ||२३|| गृहकृत्यं परित्यज्य ब्रह्मदत्तं जगाद च । नैकत्राऽसिद्वयं कोशे गृहेऽयं वाऽहमेव वा ॥ २४ ॥ एतस्मिन्सत्यहं किं च प्राणानपि न धारये । बद्ध्वा शिलां गले कुर्वे जले पतनमप्यलम् ||२५|| स्वप्नादि जलपातान्तं स श्रुत्वा मातृचेष्टितम् । शिखी दध्यौ विरक्तात्मा कषायाणां प्रगल्भताम् ||२६|| अमी कषायाः संसारतरुसेकघनाघनाः । मोक्षार्थमुद्यतैः पुंभिर्वर्जनीयाः प्रयत्नतः ||२७|| कर्मवृद्धिः कषायेभ्यो भवस्तस्यास्ततोऽसुखम् । तस्मादुद्विजमानेन त्यजनीयास्त एव तत् ॥२८॥ उक्तं च वीतरागः सन्कलुषेण न युज्यते । यथा तथा कषायालीं निगृह्णन्नपि तत्समः ॥ २९ ॥ किं च मत्कर्मणः प्राच्याच्चन्द्रादग्निकणावलिः । प्रद्योतनात्तमो जज्ञे कालकूटः सुधारसात् ॥३०॥ अन्नान्मृत्युर्जलात्तृष्णा यन्मातुर्देष एष मे । तस्माच्च दुःखं तातस्य स्थातुं तन्नेह बुध्यते ||३१|| ध्यात्वेति हृदये तातमनापृच्छय विरागवान् । निर्गत्य नगरादेष गतोऽशोकवने वने ॥३२॥ १. मोक्षार्थमुत्थितैः ख ग घ । ७५ ७६ समरादित्यसंक्षेपः तत्राऽशोकतलासीनं बहुशिष्यसमाकुलम् । एकत्र संयमे लीनमपध्यानद्वयोज्झितम् ||३३|| दण्डत्रयेण निर्मुक्तमकषायचतुष्टयम् । खपञ्चकेन चाऽजय्यं षट्काययतनापरम् ||३४|| भयसप्तकहीनं च समुज्झितमदाष्टकम् । नवधा ब्रह्मगुप्तं च दशधा धर्मधारिणम् ||३५|| एकादशाङ्गज्ञातार्थं श्रितं द्वादशधा तपः । सूरिं विजयसिंहऽख्यमद्राक्षीदक्षतं गुणैः ||३६|| कलापकम् वीक्ष्य रूपचरित्राभ्यां तं निर्जितझषध्वजम् । नत्वोपविश्य पप्रच्छ भवनिर्वेदकारणम् ||३७| रूपान्निरूप्यते द्रव्यं तेन च स्वजनो जनः । तत्किं सर्वं परित्यज्य प्रपन्नोऽसि व्रतं प्रभो ! ||३८|| सुगुरुः प्राह किं रूपं देहे मांसास्थिसंचये । कीदृश: प्रतिबन्धश्चाऽस्थिरयोः स्वजनाऽर्थयोः ||३९|| एक: संक्लिश्यते रोगैरेककञ्च विपद्यते । स्वस्वकर्मफलस्याऽनुभवे स्वः कस्य को भवे ||४०|| याति वैर्यपि मातृत्वं पुत्रोऽपि रिपुतां व्रजेत् । तदेवमनवस्थायां स्वाजन्यं मोहवल्गितम् ॥ ४१ ॥ अन्यच्च यन्ममाऽध्यक्षमनुभूतं स्वयं च यत् । आकर्णय महाभाग तन्मे कथयतः सतः ॥ ४२॥ अत्रैव विजये लक्ष्मीनिलयाख्ये पुरे वरे । इभ्यसागरदत्तस्य श्रीमत्यां तनयोऽस्म्यहम् ||४३|| १. धर्मचारिणं क । Page #42 -------------------------------------------------------------------------- ________________ ७७ तृतीयो भवः कुमारत्वे गतो लक्ष्मीपर्वतेऽपश्यमद्भुतम् । नालिकेरीद्रुमं भूमिप्रविष्टाऽऽयतपादकम् ॥४४|| अचिन्तयमहं नायं निर्निमित्तः प्ररोहकः । भवितव्यं तदर्थेन कियताऽप्यत्र निश्चितम् ॥४५।। तदाहं मुदितोऽकस्माज्जृम्भितः सुरभिर्मरुत् । विमुक्तः सहजो वैराऽनुबन्धः श्वापदैरपि ॥४६॥ सश्रीक: पर्वतो जज्ञे सर्वर्तुकुसुमं वनम् । अलिभिर्गुञ्जितं मञ्जु मुदिता विहगा अपि ॥४७|| किमिदं महदाश्चर्यमिति चिन्तयता मया । तरुणार्कनिभं जात्यरत्नकाञ्चनमण्डितम् ॥४८॥ स्फुरज्जयरवाकीर्णं नदन्मङ्गलतूर्ययुक् । पतत्कुसुमवर्ष चाऽनेकत्रिदशसंयुतम् ॥४९॥ प्रतीच्या दिश आगच्छद्धर्मचक्रित्वसूचकम् । अर्हतोऽजितदेवस्य धर्मचक्रमदृश्यत ॥५०॥ विशेषकम् ततश्च साधवोऽनेके विशदाऽम्बरधारिणः । विभूषिताऽन्तरात्मानः सद्गुणैर्भूषणैखि ॥५१॥ अथादर्शि मया श्रीमान् सुरासुरनरस्तुतः । अर्हन्नजितदेवाख्यः समागच्छन्नतुच्छरुक् ॥५२॥ विन्यस्यन्वसुपयेषु नवसु क्रमपुष्करे । जितेष्वनुप्रविष्टेषु सेवितुं शेवधिष्विव ॥५३॥ पापिस्नानजमालिन्यमपनेतुं समेतया । छत्रत्रयच्छलात्सेव्यमानस्त्रिस्रोतसा रसात् ॥५४॥ समरादित्यसंक्षेपः दिवि दुन्दुभिनादेन परितः परिसर्पता । निर्वासनं प्रकुर्वाणो मोहस्य परिमोषिणः ॥५५॥ वीज्यमानः सुराधीशैरभितश्चारुचामरैः ।। लोकद्वितयनैर्मल्यदित्सयेव पुरस्कृतैः ॥५६॥ पञ्चभिः कुलकम् तं वीक्ष्य नष्टमिथ्यात्वः कृतधर्ममनोरथः । अध्यायमिति धन्योऽहं येन लेभे जगद्गुरुः ॥५७।। तदा च नाकिज्योतिष्कभवनाऽधीश्वरा व्यधुः । रत्नचामीकरश्वेतमयं वप्रत्रयं कमात् ।।५८॥ जगत्रयमिहाऽऽयातु स्वाम्यशोकं विधास्यति । अशोकदुरितीवोच्चैरुच्चरत्यलिनिस्वनैः ॥५९॥ अथ रत्नमये सिंहासने संपदविष्टरे । उपविष्टे विभौ रूपत्रितयं व्यन्तरा व्यधुः ॥६०॥ यतिस्व:स्त्रीयतिन्योऽग्नेस्त्रिधा देव्यश्च रक्षसः । तन्नाथा मरुतोऽस्रेऽस्थुरीशस्य स्वर्गिनृस्त्रियः ॥६१॥ अथाऽऽयोजनगामिन्या स्वामिनो देशनाचिषा । का वार्ता मदने यस्य विलीनो मोहपर्वतः ॥६२।। अथाऽऽप्रच्छि मया स्वामी नालिकेरीतरोरधः । अस्त्यर्थो नास्ति यद्यस्ति कियान्यस्तश्च केन सः ॥६३॥ विपाकः कीदृशश्चास्य भगवानवदच्छृणु । लोभदोषादुदीर्णोऽस्याः पादको द्रव्यमस्ति च ॥६४॥ तत्सप्तलक्षदीनारप्रमितं भवताऽपि च । नालिकेर्याच जीवेन न्यस्तं शुभविपाकदम् ॥६५।। युग्मम् १. स्वर्णपद्येषु ख ग घ । १. शुभचामरैः ग घ ङ च, नैर्मल्यैदि क ग च । २. मिथ्यात्वः ग घ । ३. सपदि विष्टरे क ग घ । ४. मरुतोग्ने ग घ । ५. यस्या क । Page #43 -------------------------------------------------------------------------- ________________ तृतीयो भवः ७९ मया तेन च जीवेन न्यस्तेऽहं कथमीदृशः । अयं च कथमीहक्षो मयेत्युक्ते जिनोऽवदत् ॥६६|| अस्यैव विजयस्याऽन्तः पुरेऽमरपुराभिधे । आसीदमरदेवाख्यः पुरा गृहपतिर्धनी ॥६७।। युवां तदङ्गजन्मानौ सुन्दरीकुक्षिसंभवौ । गुणचन्द्रबालचन्द्राभिधौ तारुण्यमीयथुः ॥६८॥ वाणिज्यायाऽन्यदाऽऽदाय वस्त्राद्यं बबिहागतौ । विक्रीतेऽजनि लाभो वां वाञ्छितार्थात्समर्गलः ॥६९॥ सूरतेजा नृपस्तहि लक्ष्मीनिलयनायकः । प्रारब्धो बहुसैन्येन राज्ञा विजयवर्मणा ॥७०|| स न्यस्य नगरे पत्तींलक्ष्मीपर्वतमाश्रितः । सारद्रव्यं गृहीत्वा स्वं तत्राऽऽरूढी युवामपि ॥७१।। तत्र स्थिताभ्यामालोच्य युवाभ्यां न्यासि तद्वसु । गुणचन्द्रेण भागीति विषं दत्त्वा हतो भवान् ॥७२।। ऋजुत्वाद् व्यन्तरोऽभूस्त्वं सोऽपि दष्टोऽहिना मृतः । द्रव्ये तथा स्थिते रत्नप्रभायां नारकोऽभवत् ॥७३|| त्वं देशन्यूनपल्यायुः प्रपाल्य विजये त्विह । ढङ्कनापुरवास्तव्यसार्थेशहरिनन्दिनः ॥७४|| वसुमत्यां सुतो देवदत्ताख्योऽभूः क्रमाधुवा । उद्धृत्य गुणचन्द्रस्तूपनिध्यहिरिहाऽभवत् ॥७५।। अधितस्थौ स तद्रव्यमन्यदा त्वमिहागतः । देव्या लक्ष्मीनिवासिन्या यात्रायां तामपूजयः ॥७६।। दीनाऽनाथाऽऽदिदानं च दत्त्वा विहितभोजनः । भ्रमन्नद्राविहोद्देशे दृष्टो दष्टोऽसि चाऽहिना ॥७७|| समरादित्यसंक्षेपः विषस्योग्रतया पृथ्व्यां पतितोऽसि मृतोऽसि च । त्वद्भूत्यैनिहतः सोऽहि: सिंहस्तत्रैव चाजनि ॥७८॥ भवान्कृतार्गलापुर्यामत्रैव विजयेऽभवत् । सूनुर्यशोधराजानेः शिवदेवस्य गेहिनः ॥७९|| इन्द्रदेवोऽभिधानेन यौवनस्थोऽभवद्भवान् । तत्तेनाऽधिष्ठितं द्रव्यं सिंहेनाऽस्त्योघसंज्ञया ।।८।। अन्यदा वीरदेवाऽऽख्यराज्ञा स्वस्वामिना भवान् । प्रेष्ये तन्नगरस्वामिमानभङ्गस्य संनिधौ ॥८१।। आगच्छन्निह विश्रान्तो जनैः कतिपयैः समम् । दृष्टः सिंहेन तेन त्वं निहतोऽसि स च त्वया ॥८२॥ श्रीस्थले पत्तने यक्षदासाऽऽख्यान्त्यजनन्दनौ । भार्यायां मातृयक्षायां जातौ यमलबान्धवौ ॥८३।। ख्यातस्त्वं कालसेनाऽऽख्यश्चण्डसेनाख्यया परः । वयःस्थौ मृगयायातावत्र कोडं निजघ्नथुः ॥८४।। निध्युद्देशे युवां पक्त्वा तं तस्य पलमादथुः । पृथ्वी शस्त्रया चखानाऽथ चण्डसेनो निरर्थकम् ॥८५॥ ददर्श च निधेः कण्ठं प्रावर्तत च गोपितुम् । लक्षितश्च त्वया स त्वां विश्वस्तं निजधान च ॥८६|| त्वं मृत्वाऽभूस्तृतीयस्यां पृथ्व्यां पञ्चाऽब्धिजीवितः । परस्तथा स्थिते द्रव्ये तत्रैव रिपुणा हतः ॥८७|| षष्ठ्यामष्टादशाब्यायुः पृथिव्यां नारकोऽभवत् । उहृत्य नरकात्तु त्वमत्रैव विजयेऽभवः ॥८८|| श्रीमतीसन्निवेशस्थशालिभद्रस्य नन्दनः । नन्दिन्यां नामतः पल्यां बालसुन्दरसंज्ञया ॥८९।। युग्मम् Page #44 -------------------------------------------------------------------------- ________________ तृतीयो भवः वयःस्थः शीलदेवर्षेः श्राद्धधर्म समासदः । मृत्वा त्रयोदशाब्यायुर्लान्तके च सुरोऽभवः ॥९०|| च्युतश्च विजयेऽत्रैव हस्तिनापुरवासिनः । सुहस्तिश्रेष्ठिनः कीर्तिमत्यां पुत्रतयाऽभवः ॥११॥ नाम्ना समुद्रादत्तस्त्वं परोऽपि नरकादभूत् । सोमिलायां भवत्तातदास्यां मङ्गलकाभिधः ॥१२॥ वयःस्थौ च युवां जातावन्यदा भवता पुनः । गणेरनङ्गदेवस्य पावें श्राद्धत्वमाददे ॥९३।। लक्ष्मीनिलयवास्तव्या बलसार्थेशपुत्रिका । श्राविका जिनमत्याख्या परिणिन्ये च सा त्वया ॥९४|| युतो मङ्गलकेनैतामानेतुं वर्त्मनि व्रजन् । निध्युद्देशे समायातो विश्रान्तः क्षणमत्र च ॥१५॥ निरीक्ष्य प्रपूनाटस्य पादकं जगदे त्वया । द्रव्यमत्राऽस्ति दासेरस्ततः खनितुमुद्यतः ॥९६|| वीक्षिते निधिकण्ठेऽथ दासेरो ह्यद्यचिन्तयत् । महा?ऽयं निधिः स्वामिवञ्चनेनाऽपि गृह्यते ॥९७|| अत्रान्तरे त्वयाप्यैक्षि निधिकुम्भस्य कण्ठकः । अवाचि च किमेतेन गम्यते नगराऽन्तरे ॥९८।। निधिमासाद्य दासेरं हृष्टं वीक्ष्य त्वमब्रवीः । अयं व्यतिकरः कस्याऽप्यग्रे वाच्यो न हि त्वया ॥९९|| न जल्पाम इति प्रोच्य सोऽध्यायदयमेककः । ग्रहीता निधिमेतेन वञ्च्येऽहं किमु बुद्धिमान् ॥१००। नाऽदत्तेऽसौ निधि यावत्तावद्व्यापादयाम्यमुम् । तथा च नगराऽऽरामे स्थित्वाऽभाष्यत स त्वया ॥१०१।। समरादित्यसंक्षेपः मम श्वशुरगेहस्य शुद्धि ज्ञात्वा निवेदय । गन्तुं प्रवर्तमानश्च सोऽध्यायदिति कूटधीः ॥१०२।। अयं गृहे प्रविष्टः सञ्शीघ्रमादास्यते निधिम् । तत्करोमि तथा नैव यथा विशति वेश्मनि ॥१०३।। ध्यात्वेत्येत्य स विच्छायमुखस्त्वामूचिवानिति । लोकद्वयविरुद्धं ते भार्या कृत्वा क्वचिद् गता ॥१०४|| अस्मदागमनं श्रुत्वा लज्जितानि च तान्यलम् । युक्तं नात्रऽप्रवेष्टुं तच्छ्रुत्वेति त्वमचिन्तयः ॥१०५।। धिग्नारी यत्कुलीनाऽपि वासिताऽपि जिनागमैः । यदीदृशमसौ चक्रे महामोहवशंवदा ॥१०६॥ तदलं गृहवासेन गृहामि व्रतमञ्जसा । अनङ्गसङ्गं संत्यज्याऽनङ्गदेवमुनेः पुरः ॥१०७|| ध्यात्वेति स त्वया प्रोचे गच्छ त्वं तातवेश्मनि । स दध्यौ वञ्चयित्वा मां निधिमेष जिघृक्षति ॥१०८।। यथा तथापि हन्म्येनमिति ध्यात्वा जगाद सः । अनुक्त्वा स्थानके त्वां हि क्रमौ मे वहतः कथम् ॥१०९।। त्वयोचे यदि निर्बन्धः पृच्छामस्तर्हि कञ्चन । साधु क्वानऽङ्गदेवर्षिरित्यालोच्य पथि स्थितौ ॥११०॥ अन्यदा विषमाऽरण्ये दिनस्य प्रहरद्वये । हतो मङ्गलकेन त्वं पृष्ठे क्षुरिकया रयात् ॥१११॥ तदा चानऽङ्गदेवस्य श्रमणैरग्रयायिभिः । दृष्टस्त्वं क्षुरिकां हित्वा नष्टो मङ्गलकस्तु सः ॥११२।। त्वयाऽऽदायोपलक्ष्याऽथ क्षरिकां हृदि चिन्तितम् । कुतोऽयमीदृशं चके हुं ज्ञातं निधिलोभतः ॥११३।। Page #45 -------------------------------------------------------------------------- ________________ तृतीयो भवः जिनमत्याश्च वृत्तान्तं मन्ये तेनैव कल्पितम् । सा कुलीना सुलीना च सिद्धान्ते नेदृशी भवेत् ॥११४॥ तदा चाऽनङ्गदेवेन समेतेन ससाधुना । दृष्टस्त्वं प्रत्यभिज्ञातः पृष्टः सद्भूतमाख्यथाः ॥११५॥ समं तेन समेतस्त्वं स्थितः स्थानेश्वरे पुरे । मासकल्पेन ते पृष्ठघातश्च प्रगुणोऽभवत् ॥११६।। प्राप्ता तत्र त्वया शुद्धिर्जिनमत्या यथा स्थिता । ध्यातं चाऽहो कियांस्तस्य प्रकारो वञ्चनाविधौ ॥११७।। अहो मोहस्य वैचित्र्यमहो संसारहेयता । यद्यप्यखण्डशीला सा तथाऽपि कृतमेतया ॥११८।। आत्ते मया व्रते साऽपि ज्ञाततत्त्वा ग्रहीष्यति । व्रतमित्थं भवाम्भोधेरेषाऽप्युत्तारिता भवेत् ॥११९॥ लोकद्वयहितं तस्माधुज्यते व्रतमेव मे । ध्यात्वेत्यनङ्गदेवस्यान्तिके त्वं व्रतमग्रही: ॥१२०।। श्रुत्वा तव व्रतं बाढं संविग्ना जिनमत्यपि । आगत्य त्वामभिष्टुत्य प्रव्रज्यामाददे मुदा ॥१२१॥ दीक्षित्वा गुरुर्ष्यादिस्त्रीस्वभावस्य विद्विषे । सुमत्याऽऽख्यगणिन्यै सा शिष्यात्वेन समर्पिता ॥१२२।। श्रामण्यं निरतीचारं प्रपाल्य विधिना मृतः । पञ्चविंशतिवाायुप्रैवेये त्वं सुरोऽभवः ॥१२३।। स तु मङ्गलको द्रव्यं तदाच्छाद्य शिलोच्चयैः । तन्मोहेन स्थितस्तत्र पिशिताहारमाहरत् ॥१२४|| समरादित्यसंक्षेपः मृत्वा षष्ठ्यामभूत्पृथ्व्यां द्वाविंशत्यब्धिजीवितः । उद्धृत्य विजयेऽत्रैव नगरे राष्ट्रवर्धने ॥१२५।। वेल्लीयकान्त्यजागारे छागत्वेनोदपद्यत । यौवनस्थस्त्वजायूथमध्यस्थः सुखमस्ति सः ॥१२६।। युग्मम् अन्यदा बह्वजान्तःस्थो नीयमानो जयस्थलम् । निध्युद्देशे समायातः स जातिस्मरतामगात् ॥१२७|| लोभान्धोऽयं ततः स्थानात्प्रेर्यमाणोऽपि नाऽचलत् । कुधा वेल्लीयकेनाथ निहतो मूषकोऽजनि ॥१२८।। ओघसंज्ञावशात्तेन प्राग्वद् द्रव्यमधिष्ठितम् । सोमचण्डाऽभिधस्तत्र द्यूतकारोऽन्यदागमत् ॥१२९।। सामर्ष इव तस्याऽग्रे भ्रमंस्तेन हतो वृषः । अकर्णनासिकायां तद्भार्यायां तनयोऽजनि ॥१३०|| तया गुग्गुलिकानाम्न्या रुद्रचण्ड: स कीर्तितः । प्राप्तः खात्रमुखे क्षिप्तः शूलायां नारकोऽजनि ॥१३१।। तत्रातीतत्रिवाायुविजयेऽत्र पुरेऽत्र च । श्रेष्ठिनोऽशोकदत्तस्य पुत्रीत्वेनोदपद्यत ॥१३२॥ पन्यां शुभङ्करानाम्न्यां श्रीर्नाम्ना जातयौवना । व्यूढा समुद्रदत्तेन श्रेष्ठिसागरसूनुना ॥१३३|| भुञ्जतोरनयोर्भोगांस्त्वं ग्रैवेयकतश्च्युतः । श्रीकुक्षौ जज्ञिषे सूनुर्दत्तः सागरपूर्वकः ॥१३४|| यौवने देवशर्माख्यगुरोर्धर्ममवाप्तवान् । नन्दिनीमीश्वरस्कन्दश्राद्धपुत्रीमुपायथाः ॥१३५।। १. कुलीनाकुलीना क । १. हतो मृतः ग घ । Page #46 -------------------------------------------------------------------------- ________________ तृतीयो भवः भुञ्जानस्य तया सार्धं भोगान्पुत्रस्तवाऽजनि । तज्जन्मोत्सवमाधातुमत्रोद्यानिकयाऽऽगमः ॥ १३६ ॥ स्वपुत्रझोलिकान्यासस्थूणार्थं ददता दरम्। निध्युद्देशे निधेः कण्ठस्त्वया दृष्टोऽथ पूरितः ॥ १३७॥ दत्त्वाऽन्यत्र दरं लोकं भोजयित्वा बुभुक्षिते । शब्दं क्षिप्त्वा स्वयं भुक्त्वा पुरेऽगाः स्वजनाऽन्वितः ॥ १३८|| त्वयाऽथ मातृभक्तेन पृष्टाऽम्बा युज्यतेऽत्र किम् । साऽवोचद्दर्शिते स्थाने कथयिष्ये तवोचितम् ॥ १३९ ॥ तत्र प्रदेशे नीत्वाऽम्बां भवतां दर्शिते निधौ । सा दध्यौ लोभतेऽज्ञानात्प्राच्याऽभ्यासवशादपि ॥ १४०॥ कथञ्चिदपि हत्वैनं गृह्णाम्येकाकिनी निधिम् । ध्यात्वेत्युवाच वत्सेदं भूरि भूरि कथञ्चन ॥ १४१ ॥ राजा वेत्ति तदादत्ते सर्वमग्रेतनं धनम् । तदेतत्समये ग्राह्यमधुनैतेन पूर्यते ॥ १४२ ॥ त्वया यदादिशत्यम्बेत्युक्ते पुरमुपागतौ । कियन्तोऽपि व्यतीयुस्ते वासराः सुखभासुराः ॥१४३॥ तस्यास्तु प्राग्भवाऽभ्यस्तलोभसंक्षोभसंजुषः । दुःखेन त्वद्वधोपायचिन्ताव्याकुलचेतसः || १४४|| अङ्गजस्याऽपि ते श्रीरप्यश्रीरिव कृते श्रियः । सा पौषधोपवासस्य पारणे प्रददौ विषम् ॥ १४५ ॥ मूर्छितं वीक्ष्य नन्दिन्या कृतः कोलाहलो महान् । कूजितं त्वज्जनन्याऽपि मिलितो निखिलो जनः ॥ १४६ ॥ सिद्धपुत्रस्तदा तत्राऽऽयातो मन्त्रप्रभावतः । साधर्मिकं भणित्वा त्वां निर्विषं विदधे क्षणात् ॥ १४७॥ ८५ ८६ समरादित्यसंक्षेपः ततस्त्वं जातवैराग्यो मत्वा मर्त्यायुरित्वरम् । देवशर्मगुरोः पार्श्वे सत्त्वरं व्रतमग्रहीः ॥ १४८ ॥ प्रपाल्य निरतीचारं काले कालं विधाय च । ग्रैवेयकसुरोऽभूस्त्वं त्रिंशद्वारिधिजीवितः ॥ १४९ ॥ त्वन्माता तु निधौ पीठं कृत्वा द्रव्ये तथा स्थिते । मृत्वा पञ्चदशाध्यायुः पञ्चम्यां नारकोऽजनि ॥ १५०॥ उद्वृत्य नानातिर्यक्षु भ्रान्त्वा लोभस्य दोषतः । नालिकेरीतरुत्वेनोत्पन्ना तव जनन्यसौ ॥ १५१ ॥ च्युत्वा त्वं श्रीमतीकुक्षौ श्रेष्ठि सागरदत्ततः । सुतोऽभूर्युवयोरेष द्रव्यव्यतिकरस्ततः ॥१५२॥ श्रुत्वेत्यहं ससंवेगो निर्विण्णो भवचारकात् । प्रत्यक्षमर्हतो द्रव्यमनुज्ञाप्य पुराऽधिपात् ॥१५३॥ ग्राहयित्वा समस्तेभ्यो दीनादिभ्यः प्रदाय च । प्रपन्नोऽस्मि व्रतं पार्श्वे सूरेर्विजयवर्मणः ॥१५४॥ ऊचेऽथ शिखिना सत्यं भव ईदृश एव हि । धन्यस्त्वं यः प्रभोः पार्श्वे प्रव्रज्यां प्रतिपन्नवान् ॥ १५५ ॥ अथ धर्मो जिनेनोक्तः कतिधा गुरुरूचिवान् । दानशीलतपोभावैश्चतुर्धा परिकीर्तितः ॥ १५६ ॥ दानं त्रिधाऽभयज्ञानधर्मोपष्टम्भभेदतः । रक्षणं सर्वसत्त्वानामभयं कथितं जिनैः ॥ १५७॥ अपि रङ्कस्य राज्ञोऽपि समानैव जिजीविषा । त्यजत्यपि नृपो राज्यं जीवितव्यस्य लोभतः ॥ १५८॥ रूपवान् रहितो रोगैदीर्घायुः श्लाघ्यजीवितः । भवेदभऽयदानेन जन्तुरुक्तं जिनैरिति ॥ १५९ ॥ Page #47 -------------------------------------------------------------------------- ________________ तृतीयो भवः तज्ज्ञेयं ज्ञानदानं तु येन दत्तेन देहिनः । जानन्त्युपायं बन्धस्य मोक्षस्य च शिवप्रदम् ॥१६०॥ तस्य ज्ञानप्रदानस्य कथं स्यादपरं समम् । येनैकेन प्रदत्ताः स्युः सुरासुरनरश्रियः ॥१६१।। जायते ज्ञानदानेन जन्तुः सर्वज्ञताऽऽस्पदम् । क्रमात् कर्मक्षयं कृत्वा लभते च परं पदम् ॥१६२।। धर्मोपष्टम्भदानं तु कथितं जिनपुङ्गवैः । नवकोटीविशुद्धं यत्साधुलोके वितीर्यते ॥१६३।। तदन्नं पानकं वस्त्रं पात्रं शयनमौषधम् । आसनं च वितीर्येत धर्मोपष्टम्भकं मुनेः ॥१६४|| तच्चतुर्धा परिज्ञेयं दातृग्राहकभेदतः । कालभावभिदाभ्यां च शुद्धं तत्राऽऽदिमं शृणु ॥१६५।। न्यायोपात्तं धनं प्रासु कीर्त्यहङ्कारवर्जितः । श्रद्धाभरेण यद्दत्ते दातृशुद्धं तदीरितम् ॥१६६।। दशभिर्धर्मपात्राय त्रिगुप्ताय यताऽऽत्मने । यद्दानं दीयते तद्धि ज्ञेयं ग्राहकशुद्धिमत् ॥१६७।। यद् गात्रमात्रायात्रार्थमाहरद्भ्यो हितं मितम् । काले दीयेत साधुभ्यः कालशुद्धं हि तन्मतम् ॥१६८|| कृषिकर्म यथा काले विहितं सफलं भवेत् । काले दत्तं तथा दानं दातुः सफलमीरितम् ॥१६९।। भावशुद्धं तु तद्यत्र दाता कालुष्यवर्जितः । रोमाञ्चितवपुर्भक्त्या दत्ते दानं समाहितः ॥१७०॥ समरादित्यसंक्षेपः मोक्षहेतूनिदानेऽसौ विधिरुक्तः पुरातनः । प्रतिषिद्धं दयादानं न कदाऽपि जिनेश्वरैः ॥१७१|| पञ्चास्रवपरीहार: कषायाणां निषेधनम् । संवेगश्च स्थिरश्चित्ते शीलधर्म उदाहृतः ॥१७२।। तपः षोढा भवेद् बाह्यं षोढा चाऽभ्यन्तरं मतम् । कर्मनिर्मूलने शक्तस्तपोधर्मः प्रकीर्तितः ॥१७३।। अनित्यतादिमैत्र्याद्या ध्येयाः षोडश भावनाः । आत्मनिन्दा च गर्दा च धर्मोऽयं भावनामयः ॥१७४।। एतं चतुर्विधं धर्म पालयित्वा जिनोदितम् । प्राप्ता मोक्षं सदासौख्यमनन्ता जन्तवो भवात् ॥१७५।। स्थिरचित्तः शिखी धर्मे प्राह सत्यमिदं प्रभो ! । गृहस्थस्तु न सम्पूर्णे शीलादित्रितये क्षमः ॥१७६।। तदादिश नरः कीदृक् श्रमणत्वोचितो मतः । गुरुराह भवोद्विग्नः कुलीनः शुद्धबुद्धियुक् ॥१७७|| कृतज्ञो विनयी श्रद्धासहितो जनसंमतः । स्थिर: समुपसंपन्नः श्रमणत्वोचितः स्मृतः ॥१७८।। शिखी समुपसम्पन्नोऽस्मीति प्रोचे गुरोः पुरः । प्रमाणं भगवांस्तत्र ततो गुरुरचिन्तयत् ॥१७९।। दक्षः प्रश्नेषु सूक्ष्मेषु प्रशान्तश्चैष लक्ष्यते । यत्तन्मन्ये कुलीनेन भाव्यं भवविरागिणा ॥१८०|| उपसंगृह्यते तस्मादेष ध्यात्वेति तं जगौ । श्राद्ध ! युक्तमिदं किं तु श्रामण्यमतिदुष्करम् ॥१८१।। १. कालदत्तं ख ग घ । १. संजगौ ग घ च । Page #48 -------------------------------------------------------------------------- ________________ तृतीयो भवः सर्वत्र समता कार्या धार्या पञ्चमहाव्रती । निश्याहारो न कार्यश्च ग्राह्यः शुद्धो दिवाप्यसौ ॥ १८२ ॥ अपञ्चदोषं भोक्तव्यं ध्येयाः शासनमातरः । धार्याश्च प्रतिमा भाव्या भावनाः पञ्चविंशतिः ॥ १८३ || द्रव्याद्यभिग्रहाः कार्या भूशय्या स्नानवर्जनम् । लोचो निःप्रतिकर्मत्वं गुर्वादेशविधायिता ॥ १८४॥ परीषहोपसर्गाश्च सह्याः किं बहुनाऽथवा । धार्याष्टादशशीलाङ्गसहस्त्री दुर्वहा सदा || १८५ || मरुद्वस्त्रेण धार्योऽयं तार्या गङ्गा विलोमतः । जेयमेकाकिना सैन्यं मेरुस्तोल्यस्तुलाधृतः ॥१८६॥ राधावेधो विधेयोऽसावगृहीतः पुरा क्वचित् । निरन्तरं ग्रहीतव्यो जगत्त्रयजयध्वजः ॥ १८७॥ मुदा श्रुत्वेति शिख्याह सत्यमेतत्परं प्रभो । भवोद्विग्नस्य नो किञ्चिदुष्करं भवभेदकम् ॥१८८॥ प्रभुः प्राह महामोहः सर्वाऽनर्थनिबन्धनम् । तस्मात्स एव हन्तव्यो लोकद्वयहितैषिणा ॥ १८९ ॥ शिख्यूचे हननोपायस्तस्य श्रमणता मता । कुर्वन्त्वनुग्रहं पूज्या मह्यं तस्याः प्रदानतः ॥१९०|| गुरुः प्राह मया त्वय्यनुग्रहः कृत एव हि । किं तु स्थितिर्नः शास्त्रार्थं कञ्चित्संबोध्य दीक्ष्यते ॥ १९१ || शिख्याह दीक्षितेनाऽपि विधेया समयस्थितिः । तदेवमस्तु तौ यावदित्थं संलपतो मिथः ॥ १९२॥ १. विधायिना क । ८९ ९० समरादित्यसंक्षेपः तावन्मत्वाऽस्य वृत्तान्तमनेकजनसंयुतः । ब्रह्मदत्तः पिता तस्य वशारूढः समागमत् ॥१९३॥ नत्वा गुरुमसौ लब्धधर्मलाभ उपाविशत् । प्रणस्य शिखिना प्रोचे देहि मे तात याचितम् ॥ १९४॥ ब्रह्मदत्तोऽवदद्वत्स ! मत्प्राणा अपि ते वशे । शिख्यूचे ज्ञातवृत्तान्तो भववासे भवानलम् ॥१९५॥ दुर्लभं मानुषं जन्म न नित्याः प्रियसंगमाः । चञ्चला ऋद्धयः पुष्पसारं यौवनमङ्गिनाम् ॥१९६॥ परलोकरिपुः कामो दारुणो विषयव्रजः । दुर्निवारः सदा मृत्युस्तन्मह्यं दापय व्रतम् ॥१९७॥ उवाच ब्रह्मदत्तोऽथ सुतस्नेहेन गद्गदम् । अकालो यतिधर्मस्य शिख्याह न मृतेरिव ॥ १९८ ।। तदा च ब्रह्मदत्ताऽनुजीवी पिङ्गलनामकः । नास्तिक: प्रोचिवान्केन कुमार त्वं प्रतारितः ॥ १९९ ॥ यन्नास्ति पञ्चभूतेभ्यो जीवोऽन्यः परलोकगः । तथाहि भूतसंघातो मिलितो जीव इष्यते ॥ २००॥ पृथग्भूतेषु तेष्वेव नरो मृत इतीर्यते । देहादन्योऽस्ति नैवाऽत्मा घटाच्चटकवद्भवे ॥२०१ || परलोकं विना मिथ्याऽभिनिवेशप्रतिर्भवन् । त्यज भोगसुखं त्वं मा चेतनं दर्शयाऽथवा ॥२०२॥ यत्त्वयोक्तं मनुष्यत्वं दुर्लभं तदसंगतम् । भूतसंघातलभ्येऽत्र का नामाकुलता सताम् ॥२०३॥ यच्चोक्तं प्रियसंयोगा न नित्यास्तदकारणम् । श्रमणत्वेऽपि ते यस्मान्न स्युर्नित्यत्वभाजनम् ||२०४|| Page #49 -------------------------------------------------------------------------- ________________ तृतीयो भवः यच्चोक्तं चञ्चला लक्ष्म्यः स्थिरा: किं श्रमणत्वतः । उपायेन तु रक्ष्यन्ते दक्षतामक्षतां श्रितैः ॥२०५।। यदुक्तं पुष्पसारं तु यौवनं तत्र युज्यते । कर्तुं रसायनं किं नु श्रमणत्वे कृते भवेत् ॥२०६|| यच्चोक्तं परलोकारि: कामस्तदपि नोचितम् । न दत्ते दर्शनं कश्चिद्यदेत्य परलोकतः ॥२०७।। असन्नपि विकल्प्येत परलोक: कथञ्चन । यदि नाम ततो लोकेऽतिप्रसङ्गः प्रजायते ॥२०८।। दारुणा विषया यच्च प्रोक्तं तदपि नोचितम् । विपाकदारुणस्तु स्यादाहारोऽपि कथञ्चन ॥२०९।। मृगाः सन्तीति किं नाम नोप्यन्ते यववल्लयः । विपाकदारुणत्वं च नोपायज्ञे नरे भवेत् ॥२१०॥ दुर्वारो मृत्युरित्युक्तं यच्च तद्बालभाषितम् । श्रमणेनापि मर्तव्यमेव पूर्णे निजायुषि ॥२११।। न च मर्तव्यमस्तीति श्मशाने वास इष्यते । न दुःखसेवया सौख्यं परलोके च सत्यपि ॥२१२।। सदाऽभ्यस्तं समभ्येति सुखं हि सुखसेवया । अभ्यस्तस्य प्रकर्षों हि लोके दृष्टोऽन्यथा न तु ॥२१३।। विरम त्वं तदेतस्माच्छ्रामण्यव्यवसायतः । शिखी प्रोवाच सर्वं तेऽनुचितं वचनं शृणु ॥२१४|| अथवा युज्यते नैव मम वक्तुं गुरोः पुरः । भगवानेव तत्सर्वमत्राऽऽदेशं प्रदास्यति ॥२१५/ गुरुः प्राह महाविप्र ! शृणु प्राग् यत् त्वयोदितम् । केन प्रतारितोऽस्त्येष न केनाऽपि प्रतारितः ॥२१६।। समरादित्यसंक्षेपः किं तु जैनागमोद्भूतक्षयोपशमभावतः । भवस्वभावं विज्ञाय विरक्त: स्वयमप्ययम् ॥२१७|| यच्चोक्तं नास्ति भूतेभ्यो जीवोऽन्यस्तदसंगतम् । अचेतनेभ्यो भूतेभ्यश्चेतनोत्पद्यते कुतः ॥२१८।। यद्यत्र नास्ति प्रत्येकं तद्गणेऽपि न तद्भवेत् । न तैलं पीडितासु स्यात्सिकतासु बहुष्वपि ॥२१९।। अथ प्रत्येकमेतानि चेतनानीति मन्यसे । तत्सिद्धं बहुचैतन्यसमुदायः पुमानिति ॥२२०॥ एकेन्द्रियास्तथा जीवा घटादीनां च चेतना । घटादीनां च चैतन्यं न क्वाऽप्युपलभामहे ॥२२१॥ तस्मादन्योऽस्ति भूतेभ्यश्चेतनः परलोकगः । यच्चोक्तं भूतपार्थक्ये नरो मृत इतीर्यते ॥२२२।। तद्वाग्मात्रं हि जीवस्य भूतपार्थक्यवृत्तितः । प्रत्यक्षलक्ष्यं चैतन्यं केन शक्यं निषेधितुम् ॥२२३।। यदुक्तं दृश्यते देहान्नात्माऽन्यश्चटवद्घटात् । भूतेभ्यश्चेतने भिन्ने कथिते तन्निषेधितम् ॥२२४।। यच्चोक्तं परलोकस्याऽभावे मिथ्याभिमानतः । मा त्याक्षीभॊगर्ज सौख्यमात्मानं दर्शयाऽथवा ॥२२५।। शृणु तत्राऽपि चैतन्यसिद्धौ परभवोऽस्ति हि । तत्सिद्धौ स्यात्कथं मिथ्याभिनिवेशोऽस्य धीमतः ॥२२६।। किं चैषु विषयेषु स्यात्कि सुखं शिवशत्रुषु । पशूनामपि तुल्येषु क्लेशायासघनेषु च ॥२२७।। १. उदीरितः ख ग घ च । Page #50 -------------------------------------------------------------------------- ________________ तृतीयो भवः सूक्ष्मश्चाऽनिन्द्रियश्चात्मा तद्भिन्नोऽङ्गान्न दृश्यते । नित्यं पश्यन्ति तं सिद्धाः केवलज्ञानिनस्तथा ॥२२८|| स्मित्वाऽथ पिङ्गल: प्रोचे सर्वं तेऽनुचितं वचः । अचेतनेषु भूतेषु चेष्टा यानादिका कथम् ॥२२९|| यन्नास्ति यत्र तत्तस्माद्भवेच्छङ्गाच्छरो यथा । अदृश्यपरमाणुभ्यो यथा दृष्टं घटादि च ॥२३०।। किं च प्रत्येकचैतन्ये भूतानां बहुचेतनः । पुमानेकेन्द्रिया जीवा घटादीनां च चेतना ॥२३१।। यदुक्तं तन्न युक्तं यद्भूतानामेव चेतना । तथाविधपरिणामभावात्तस्य त्वभावतः ॥२३२॥ चेतना न घटादीनामित्युक्ते गुरुरब्रवीत् । यत्त्वयोक्तं शरः शृङ्गात्सोऽपि कारणसंनिभः ।।२३३॥ सूक्ष्मत्वमसृणत्वादितत्तद्धर्मस्य संक्रमात् । मन्यसेऽथ विशेषोऽयं न कश्चिदवधार्यते ॥२३४|| नैवमन्यशरेभ्योऽयं यद् दृढो मसृणस्तथा । यत्नः कार्यस्ततो बाढं विशेषस्याऽवधारणे ॥२३५।। न भानोरपराधोऽयं यद् गताक्षो न पश्यति । यच्च दृश्यं घटाद्युक्तमदृश्यपरमाणुतः ॥२३६।। तन्नोचितं यतो योगिगोचराः परमाणवः । कार्यं च दृश्यते तेभ्यश्चेतना न त्वचेतनात् ॥२३७।। सत्तया मन्यसे धर्मसंक्रमं चेन्न तद्वरम् । सर्वसाधारणत्वेन सत्ता हि न नियामिका ॥२३८।। परिणामं विना यच्च घटादिषु न चेतना । यदुक्तं तत्र नैवास्ति प्रमाणं शृणु यत्नतः ॥२३९।। समरादित्यसंक्षेपः भूतव्रातपृथग्भूतपरिणामे त्वयाहते । अपरेणाऽभिधानेनाङ्गीकृतो जीव एव हि ॥२४०॥ स मन्दाक्षं बभाषेऽथ पिङ्गलो भगवन्यदि । अनिन्द्रियगुणो जीवो भिन्नश्चास्ति शरीरतः ॥२४१।। तन्मे पितामहः पाप्मा मधुपिङ्गोऽभिधानतः । त्वन्मतान्नारकः किं मामेत्य बोधयते न सः ॥२४२।। गुरुः प्राह यथा सापराधः कारानियन्त्रितः । निजं न लभते द्रष्टुमपि किं शासितुं पुनः ॥२४३।। नारकोऽपि तथा कर्मनिबद्धो नरके वसन् । निर्गन्तुमपि नो शक्तः किं पुनः शासितुं सुतम् ॥२४४।। पिङ्गलः प्राह यद्येवं सोमपिङ्ग पिता मम । धार्मिकस्त्वन्मताद्देवः किं मां बोधयते न सः ॥२४५॥ प्रभुः प्राह यथा कश्चिद्दुःस्थो देशान्तरं गतः । प्राप्तराज्यस्त्रपाकारिकुपुत्रस्य स्मरेन्न हि ॥२४६।। तथाऽप्तदिव्यदेवर्द्धिर्मग्नचित्तः सुखाम्बुधौ । नायात्यप्यत्र दुर्गन्धिपृथ्व्यां शास्ति कथं ततः ॥२४७|| पिङ्गल: प्रोचिवानस्ति देही देहात्परो यदि । तत्कि निश्छिद्रकुम्भीस्थे मृते स्तेने न वीक्षितः ॥२४८।। गुरुणोक्तं धमशङ्ख सिंहद्वारस्थशाङ्खिकः । श्रुतो वासगृहे नद्धद्वारे पृष्ठश्च भूभुजा ॥२४९।। धमसि क्वेति तेनोक्ते सत्ये कुम्भ्यां निवेश्य तम् । सर्वतो जतुद्धायां धमेत्युक्तस्तथा व्यधात् ॥२५०॥ यथा निश्छिद्रकुम्भीतः शब्दो मूर्तोऽपि निर्गतः । अमूर्तोऽयं तथा जीवः किमत्र तदसंगतम् ॥२५१|| Page #51 -------------------------------------------------------------------------- ________________ तृतीयो भवः पिङ्गः प्राह पुरा स्तेनस्तुलायां तुलितः श्वसन् । मारितः श्वासरोधेन पुनस्तौल्ये तथाविधः ॥ २५२॥ गुरुः प्राह मरुत्पूर्णो हतिर्गोपेन तोलितः । रिक्तोऽपि तोलितस्तादृक् तथा देहो यथा दृतिः ॥२५३॥ पिङ्गलः प्राह चौरस्य शरीरे तिलमात्रया । खण्डितेऽपि हि न क्वापि दृष्टो जीवः कथञ्चन ॥ २५४ ॥ गुरुः प्राहारणे: काष्ठे तिलशः खण्डितेऽपि हि । न दृष्टोऽग्निः स चेन्नास्ति कथमुत्पद्यते ततः ॥ २५५ ॥ निरुत्तरत्वात्सव्रीडं वीक्ष्य पिङ्गं गुरुर्जगौ । जीवोऽङ्गचेष्टया मान्यः शाखाकम्पेन वायुवत् ॥ २५६॥ स्पर्शनेन्द्रियतो वायुर्गृह्यतेऽत्र यथा तथा । चित्तचैतन्यधर्माऽनुभवाज्जीवोऽपि गृह्यते ॥ २५७॥ उक्तं च चित्तचैतन्यसंज्ञाविज्ञानधारणाः । ईहा मतिर्वितर्कश्च विज्ञेयं जीवलक्षणम् ॥ २५८॥ ततोऽस्ति जीवः सत्यत्र परलोकगमोद्यते । नैव भूतपरीणामाल्लभ्यते जन्म मानुषम् ॥ २५९॥ यच्चोक्तं प्रियसंयोगा अनित्यास्ते व्रतेऽपि हि । तन्न प्रियविकल्पोऽपि साधूनां हृदये न यत् ॥ २६०॥ यच्चोक्तं चञ्चला लक्ष्मीरुपायेनैव रक्ष्यते । तत्रापि रक्षणोपायो नान्यो धर्ममृते मतः ॥ २६१ || यच्चोचे यौवने पुष्पसारे युक्तं रसायनम् । तत्रापि परमार्थेन धर्मान्नान्यद्रसायनम् ॥२६२॥ जातिस्मृत्युपलम्भाद्यैः परलोके सुसाधिते । युज्यते परलोकारि: काम इत्यादिकं वचः || २६३ ॥ ९५ ९६ समरादित्यसंक्षेपः दारुणा विषयास्त्याज्य आहारोऽपीति नोचितम् । बन्धुत्यागे हि तेषां न दारुणत्वं प्रजायते ॥ २६४ ॥ उक्तं यच्च व्रतेऽप्येष दुर्वारः शमनो न तत् । व्रते भवक्षये जाते मृत्युर्न प्रभवेद्यतः ॥ २६५ ॥ उक्तं च तत्सुखं नैव चक्रिणो न च वज्रिणः । इहैव त्यक्तसङ्गस्य यत्सुखं जायते मुनेः ॥२६६|| श्रुत्वेति ब्रह्मदत्तेनाऽऽनन्दाश्रुप्लुतदृष्टिना । प्रभोः प्रपेदे सम्यक्त्वं साह्रादेन सुतं प्रति ॥ २६७॥ प्रभुः पिङ्गेन पृष्टश्च विशेषं पुण्यपापयोः । आख्यत्प्रत्यक्षमेवेह सुखिदुः खिविभागतः ॥ २६८ ॥ एके हर्म्ये प्रियायुक्ताः स्वर्णाभरणभूषिताः । कल्पद्रुवद्दरिद्राणां पूरयन्ति मनोरथान् ॥२६९ ॥ जीर्णकुट्यां परे जीर्णवाससो भैक्षभोजिनः । स्वकुक्षिमपि दुःखेन पूरयन्ति परैधिताः || २७० || चक्रिणो वज्रिणस्तीर्थंकराः पुण्यानुभावतः । कुमर्त्यतिर्यग्दौर्गत्यभाजः पापप्रभावतः ॥ २७९॥ पुण्यस्य हेतवः पञ्चव्रती रात्रावभोजनम् । रागादिविजयश्चैतद्विलोमं विद्धि पाप्मनः ॥ २७२ ॥ श्रुत्वेति ब्रह्मदत्तेन समं पिङ्गोऽप्युपाददे । सम्यक्त्वमूलां भावेन श्रावकद्वादशव्रतीम् ॥२७३ || ऊचे च ब्रह्मदत्तेन शिखी मम सुतः प्रभो ! । धन्येऽध्वनि चरन्धन्यः प्रकामं मत एव मे ||२७४ || १. प्रजायते क ख ग घ ङ । Page #52 -------------------------------------------------------------------------- ________________ तृतीयो भवः परं किमस्य योग्योऽयं यतिमार्गस्य विद्यते । प्रभुः प्राह शिरोयोग्यं रत्नं रत्नाकरोद्भवम् ॥२७५।। श्रुत्वेति स मुदा ब्रह्मदत्तेनानुमतः शिखी । तं नत्वोवाच ताताऽनुगृहीतोऽस्मि त्वयाऽधिकम् ॥२७६।। ततो नत्वा गुरुं गत्वा पुरे दत्त्वा च दुःस्थिते । दानमाधोषणापूर्वं कृत्वा चैत्येषु चोत्सवम् ।।२७७।। शुभे मुहूर्तेऽमूर्तश्रीनृपनागरकावृतः । नदद्भिर्मङ्गलातोद्यैरारूढः शिबिकां शुभाम् ॥२७८।। सदु:खं पौरनारीभिरीक्ष्यमाणः क्षमानिधिः । विबुधैः शस्यमानश्च ददद्दानमवारितम् ॥२७९।। शिखी समेत्य गुर्वन्ते याप्ययानादवातरत् । अवन्दत च सानन्दः पूज्यपादानुदारधीः ॥२८०॥ कलापकम् दीक्षितो विधिना सामायिकोच्चारणपूर्वकम् । शिखी शिखां त्रिरुत्पाट्य गुरुणा करुणावता ॥२८॥ यच्चाऽभिनन्दनं तातपौरभूपतिनिर्मितम् । तव्रताल्लिखितादूर्ध्वं शिखेव शिखिनोऽभवत् ॥२८२।। दिनैः कतिपयैः पूर्णे मासकल्प ऋषिः शिखी । समं विजयसिंहेन सूरिणा व्यहरद्भुवि ॥२८३|| घनागमं समासाद्य मुमुदे यदयं शिखी । तत्समञ्जसमेवाभूत्स हि तस्याऽतिवल्लभः ॥२८४|| कर्मेन्धनं तपोज्वालामालाभिरनिशं दहन् । शमप्राज्य: शिखी युक्तमदीपिष्टाऽधिकाधिकम् ॥२८५।। इतश्च जालिनी जाताऽनुतापा हृद्यचिन्तयत् । नेदं भव्यमभूदेष यदव्यापादितो गतः ॥२८६।। समरादित्यसंक्षेपः तस्मान्मृदुवच:पूर्वं प्राभृतं प्रेष्य किञ्चन । इहाहूय च सौख्येन प्रीता व्यापादयामि तम् ॥२८७।। इति ध्यात्वाऽर्पयित्वा च प्राभृते रत्नकम्बलम् । सोमदेवाभिधो विप्रस्तया प्रैषि सुतान्तिके ॥२८८।। स पृच्छन्देशविख्याताचार्यवृत्तान्तमागमत् । तामलिप्त्यामपश्यच्च शिखिनं श्रमणोत्तमम् ।।२८९|| सूत्रार्थमनुजल्पन्तं साधूनां वीक्ष्य तं द्विजः । ननाम प्रत्यभिज्ञाय पृष्टस्तेन कुतो भवान् ॥२९०।। स प्राह कोशादायोतस्त्वन्मात्रा सानुतापया । प्रहितस्त्वत्प्रवृत्त्यर्थं मातृवत्सलताजुषा ॥२९१।। किमर्थमनुतापोऽयं मातुरित्थं शिखीरिते । स प्राह यत्परिव्रज्या भगवन्भवताऽऽददे ॥२९२॥ दध्यौ शिखिमुनिः स्नेहकातरं जननीमनः । भवेच्च परमार्थस्य प्रेक्षकं प्रायशो न हि ॥२९३।। दुःप्रतीकारता चैषां पितॄणां कथिता श्रुते । ध्यात्वेत्याह द्विजं नाहं मातृनिर्वेदतो व्रती ॥२९४।। भवनिर्वेदतो जज्ञे वृथाऽम्बा परितप्यते । सोमदेवोऽवदद्देव ! त्वन्मातेति दिदेश च ॥२९५॥ चञ्चलो मत्सरी तुच्छहदयो निविवेककः । स्त्रीजनोऽनुशयी पश्चादसद्ग्राह्यविमर्शकः ॥२९६॥ विमृष्टकारी गम्भीरः कृतज्ञो विनयी स्थिरः । भवेद् दृढानुरागश्च दीर्घदर्शी च पुरुषः ॥२९७।। अज्ञात्वा हृदयं तन्मे तदिदं विदधे त्वया । किं चाऽहमेकदा प्रेक्ष्या निर्ममेनाऽपि हि त्वया ॥२९८।। Page #53 -------------------------------------------------------------------------- ________________ तृतीयो भवः इदं कम्बलरत्नं चाऽवश्यं ग्राह्यं सुतेन मे । शिख्याह सोमदेवाऽम्बा वृथैव परितप्यते ॥२९९|| किं चाऽवश्यमहं प्रेक्ष्या ग्राह्योऽयं रत्नकम्बलः । सर्वत्र गुर्वधीनस्य प्रमाणं गुरखो हि मे ॥३०॥ सर्वं भगवते तस्मात्सोमदेव ! निवेदय । इत्युक्तोऽयं गुरुं नत्वा सर्वमेव न्यवेदयत् ॥३०१।। कुमारबहुमानेन गृहीत्वा रत्नकम्बलम् । श्रुते समाप्ते शिखिनं प्रहेष्याम्यवद्गुरुः ॥३०२।। सोमदेवो जगादाऽनुगृहीताऽस्य जनन्यलम् । दिनान्कतिपयान्स्थित्वा स त्वगानगरे निजे ॥३०३।। कियत्यपि गते काले ब्रह्मदत्तं दिवं गतम् । श्रुत्वा गुरुभिराख्याय वृत्तान्तं वृद्धसाधुयुक् ॥३०४।। प्रेषितः स्वजनालोकनिमित्तं श्रमण: शिखी । स्थितो मेघवनोद्याने ज्ञातश्च नृपनागरैः ॥३०५।। युग्मम् तैरेत्य वन्दितः श्रद्धाभरप्रणतमस्तकैः । आक्षेपण्यादिकां कुर्वन्कथामावर्जयच्च तान् ॥३०६।। द्वितीयदिवसे गत्वा वेश्मन्यम्बां ददर्श सः । ब्रह्मदत्तमृतेः क्षीणविभवां दीनमानसाम् ॥३०७|| तेनोपलक्षिता नेयं स तया तूपलक्षितः । प्रवृत्ता रोदितुं ज्ञात्वाऽऽश्वासिता शिखिनेति च ॥३०८॥ अर्थेन विक्रमेणापि सैन्येन स्वजनेन च । न धर्तुं शक्यते मातर्मृत्युर्देवासुररैपि ॥३०९॥ अयं व्याधिजरादंष्ट्र: स्फुटव्यसनपाणिजः । हिंसञ्जीवमृगान्मृत्युमृगेन्द्रः केन रक्ष्यते ॥३१०।। समरादित्यसंक्षेपः निर्दयोऽयं दृढप्रेम्णो वियोजयति देहिनः । अनार्यः प्रेक्षते कार्यस्याऽऽयति मत्तवन्न च ॥३११।। मृत्युनाऽभिद्रुतानां हि जीवानां नास्ति किञ्चन । त्रिजगत्यामपि त्राणं हित्वा धर्मामृतं परम् ॥३१२॥ तधुज्यते तवाऽप्यम्ब ! त्यक्त्वा मोहमहाविषम् । धर्मामृतमिदं पातुमत्यन्तसुखकारणम् ॥३१३।। सदम्भया स निर्दम्भस्तयोचे जात देहि मे । गृहस्थत्वोचितं धर्म यतिधर्मे तु न क्षमा ॥३१४॥ छद्मस्थत्वादविज्ञाततद्दम्भः श्रमणः शिखी । सम्यक्त्वमूलां पञ्चाणुव्रतीमाख्यत विस्तरात् ॥३१५।। तद्व्यापादनविश्वासहेतवे च तयाऽऽददे । सा पञ्चाणुव्रती शुद्धचित्तयेव विचित्तया ॥३१६।। अथ गन्तुं प्रवृत्तः सञ्जालिन्या जल्पितः शिखी । वत्साद्यात्रैव भोक्त्व्यं स प्राहाऽम्ब ! न कल्पते ॥३१७।। धर्म दिशत्ययं नित्यं तदने सा तु तद्वधे । ध्यायत्युपायाञ्जन्तूनां ही चित्राश्चित्तवृत्तयः ॥३१८|| अन्यदा च चतुर्दश्यां मत्वा साधूनुपोषितान् । सा दध्यौ यदि कल्येऽसौ न हतस्तर्हि यास्यति ॥३१९|| प्रातः कसारं तत्पक्त्वा कृत्वा च विषमोदकम् । दत्त्वा कसारं साधुभ्यो ददेऽस्य विषमोदकम् ॥३२०।। ध्यात्वेति तत्तथा कृत्वा गतोद्याने दिवामुखे । शिखिनोक्ता किमम्बेदमादायाऽकल्प्यमागता ॥३२१॥ सा प्राह वत्स ! पुण्येच्छर्भोजनं भवतां कृते । आगताऽस्मि गृहीत्वाऽहं शिख्यूचेऽनुचितं ह्यदः ॥३२२॥ Page #54 -------------------------------------------------------------------------- ________________ १०१ १०२ समरादित्यसंक्षेपः ध्यायाम्यथ महामन्त्रं पञ्चानां परमेष्ठिनाम् । नमस्कारं परं तत्त्वं चिन्तया मे किमन्यया ॥३३४|| ध्यायन्पञ्चनमस्कृति सुविशदं भावं दधन्मानसे पञ्चत्वं समवाप्य पञ्चमदिवि श्रीब्रह्मदत्ताङ्गजः । लक्ष्मीरत्यभिधे विमानतिलकेऽभूदिन्द्रसामानिको गीर्वाणो नवसागरायुरसमज्योतिभरैर्भासुरः ॥३३५।। जालिन्यपि समालिन्यमानसाऽमानशात्रवा । सूतेऽजनि द्वितीयस्यां त्र्यब्ध्यायुर्नारको भुवि ॥३३६।। इति श्रीहरिभद्रोक्त्या प्रद्युम्नाचार्यगुम्फिते । समारादित्यसंक्षेपे तार्तीयीको भवोऽभवत् ॥३३७।। तृतीयो भवः अनाचारो हि साधूनाबाधाकर्माहतादने । सा प्राह नान्यथा चित्तनिर्वृतिर्मम जायते ॥३२३|| मन्येऽहं निष्फलं जाताऽऽगमनं भोजनं विना । तद् द्रुतं कार्यमित्युक्त्वा पपात शिखिपादयोः ॥३२४|| दध्यावृजुः शिखी धर्मश्रद्धा स्नेहश्च कीदृशः । तन्मा विपरिणामो ऽभूद्ध्यात्वेत्यूचे स जालिनीम् ॥३२५।। न कार्यः पुनरारम्भस्तयोचे वत्स ! निश्चितम् । शिख्याह तन्मुनेरस्य हस्ते भोजनमर्पय ॥३२६।। तयोचे मे स्वहस्तेन भोजिते त्वयि निर्वृतिः । तेनोचे पूर्यतां प्रत्याख्यानवेलेति सा स्थिता ॥३२७|| तयाऽथ सर्वसाधुभ्यः कसार: परिवेषितः । निदानवशतस्त्वस्य शिखिनो विषमोदकः ॥३२८।। जालिन्यथ गता शीघ्रं मूर्छितस्तु शिखी क्षणात् । सुस्थान्प्रेक्ष्य मुनीन्न स्वं विषावेगं जजल्प सः ॥३२९।। भपष्ठे लठिते तत्र दध्यः साधव आकुलाः । अकार्य किमिदं हा धिग् जनन्या विहितं भवेत् ॥३३०|| जनेन व्यसने माता स्मर्यते देवतेव या । तस्याश्चेद् व्यसनं पुत्रे का तत्र परिदेवना ॥३३१।। शिखी त्वनशनं कृत्वा दध्याविति हहा मया । माता निस्तारिता नैव भवे प्रत्युत मज्जिता ॥३३२।। अविद्यमानमप्यस्या वक्ष्यत्यपयशो जनः । न शोच्येयमथ प्राप्तजिनधर्मा जनन्यपि ॥३३३।। १. तेनोक्तं क। Page #55 -------------------------------------------------------------------------- ________________ चतुर्थो भवः अत्रैव जम्बद्रीपेऽस्ति क्षेत्रे भरतनामनि । सुशर्मजनसम्पूर्ण श्रीसुशर्मपुरं पुरम् ॥१॥ मत्वा जनं पराऽनर्थविमुखं देवदीर्घिका । पावित्र्याऽदानबुद्ध्या यदध्यास्ते कल्किकल्किता ॥२॥ खरायुधोऽप्यरीभाणां मथने नखरायुधः । तत्राऽस्ति सुधनुर्भूपो धनुर्वद्गुणसंगतः ॥३।। यद्यशोधनसारस्य मिलितं वैरिदुर्यशः । रोद:समुद्रे स्थैर्याय कृष्णाङ्गारनिभं बभौ ॥४॥ तस्याऽस्ति संमतः सार्थवाहो वैश्रमणाभिधः । वासवस्येव यः स्थास्नुरुत्तरस्यां सदा दिशि ॥५॥ हृषीकेशस्य तस्याऽस्ति श्रीदेवीव स्वरूपतः । समानकुलशीलाढ्या श्रीदेवी नामतः प्रिया ॥६॥ तयोः परस्परस्नेहप्राप्तसंसारसारयोः । कियानपि गतः कालो विषयाणां निषेवणात् ॥७॥ ताभ्यामथाऽनपत्याभ्यां तत्पुरासन्नवासिनः । धनदेवाख्ययक्षस्य पूजां कृत्वोपयाचितम् ॥८॥ समरादित्यसंक्षेपः भगवन्यदि नौ पुत्रस्त्वत्प्रभावाद्भविष्यति । ततो महामहं कृत्वोत्क्षेप्स्यावस्तस्य नाम ते ॥९॥ अन्यदा शिखिनो जन्तुर्ब्रह्मलोकात्परिच्युतः । श्रीदेव्याः कुक्षिमध्यास्त दृष्टः स्वप्ने तया निशि ॥१०॥ उन्नतः शुभरुग् लीलागामी दानप्रवृत्तिमान् । रोलम्बरोलं बिभ्राणश्चतुर्दशनभासुरः ॥११॥ आरक्ततालुरुत्तालशोणचामरमण्डितः । सुवर्णशृङ्खलानद्धघण्टामालाविभूषितः ॥१२॥ कुम्भन्यस्तसृणिपूंर्णमानचारुविलोचनः । प्रविशन्नुदरे मत्तो हस्ती वदनवर्त्मना ॥१३॥ कलापकम् तथा विबुद्धयाऽख्यायि दयिताय स चावदत् । वणिग् नगरनेता ते भविता नन्दनः प्रिये ॥१४॥ हृष्टा त्रिवर्गसम्पत्तिरता पूर्णमनोरथा । समये प्रसवस्यैषा सुषुवे सुतमद्भुतम् ॥१५|| परितोषाख्यया चेट्याऽऽख्याते सपरितोषया । परितोषयुतस्तस्यै श्रेष्ठ्यदात्परितोषिकम् ॥१६।। दापितेऽथ महादाने कारिते च महोत्सवे । मासेऽतीते युतः पौरैः श्रेष्ठी यक्षाऽऽलये ययौ ॥१७॥ पूजां विधाय यक्षस्य पातयित्वा पदोः सुतम् । यक्षनाम्ना सुतस्यैष धन इत्यभिधां व्यधात् ॥१८|| स बभूव युवतेश्च जालिनीजीवनारकः । उद्धृत्य नरकाद् भ्रान्त्वा भवं तत्रैव पत्तने ॥१९॥ १. नामतः ख ग घ च; कृत्वा क्षे ख ग घ ङ । १. and २. those verses are transposed in ख ग घ च । ३. ताभ्यामप्न ख ग घ च । Page #56 -------------------------------------------------------------------------- ________________ १०५ १०६ चतुर्थो भवः श्रेष्ठिनः पूर्णभद्रस्य गोमत्यां तनयाऽजनि । धनश्रीरिति नाम्ना सा कमादाप च यौवनम् ॥२०॥ युग्मम् अष्टमीचन्द्रभालाऽथाऽष्टमीचन्द्रमहोत्सवे । यान्ती लीलागृहोद्यानाद् गृहं दृष्टा धनेन सा ॥२१॥ सखीजनवृतामिन्दुलेखामिव सतारिकाम् । धनस्तां प्राग्भवाभ्यस्तमैत्र्या चिरमलोकत ॥२२।। तयाऽपि प्राग्भवाऽभ्यस्तमत्सरात्स निरीक्षितः । पुरोहितसुतः सोमदेवो वेद धनाशयम् ॥२३॥ मत्वा वैश्रवणेनाऽस्माद्याचिता पूर्णभद्रतः । धनश्रीस्तेन दत्ताऽस्मै ज्ञातं ताभ्यां मिथोऽपि तत् ॥२४॥ परितुष्टो धनश्चित्ते धनश्रीयंथिता पुनः । महा तु तयोर्वृत्त उपयाममहोत्सवः ॥२५॥ कित्ययत्यपि गते काले धनश्रीदे॒षिणी धने । तस्यैव गृहदासेन नन्दकाख्येन संगता ॥२६।। अग्निशर्मतपस्वित्वे स तस्याः परमः सुहृत् । संगमाख्यः कुलपतेर्बभूव परिचारकः ॥२७|| ततो विडम्बनाप्रायं भोगसौख्यं तया समम् । भुञ्जानस्य धनस्याऽस्य गतः कालः कियानपि ॥२८॥ अथ द्विधाऽस्तपक्षेषु मेघमित्रेषु पक्षिषु । हसन्निव समेत् कासकुसुमैर्जलदाऽत्ययः ॥२९।। स्मेराम्भोजाऽक्षिषु ध्वानिभृङ्गस्वागतवाचिषु । सरस्स्वच्छाऽम्बुचित्तेषु यत्र हंसैः समागतम् ॥३०॥ लोलकल्लोलमालाभिः प्रसारितभुजैरिव । चकेऽभ्यागतहंसानां सरोभिरभिवादनम् ॥३१।। समरादित्यसंक्षेपः भृङ्गीगीतिनदद्वीचिवाद्यनृत्यत्सरोरुहै: । सरोभिर्विदधे साधु हंसाऽऽगममहामहः ॥३२॥ अभ्राणि यत्र शुभ्राणि हित्वाऽम्बु लवणाम्बुधेः । पीतक्षिरोदवारीणि विभान्तीव मनीषिणाम् ॥३३।। रुग्णानि यत्र दृश्यन्ते वनानि मदवारणैः । सप्तच्छदानां कृष्णालिकुलरोषवशादिव ॥३४॥ एवंविधे शरत्काले कार्तिकीपूर्णिमामहे । दृष्टः समृद्धदत्ताख्यः सार्थवाहस्य नन्दनः ॥३५॥ वास्तव्यो नगरेऽत्रैव स्वभुजोपार्जितैर्धनैः । दीनादीनां ददद्दानं दानशौण्डोऽनिवारितम् ॥३६॥ युग्मम् दध्यौ धनोऽथ धन्योऽयं स्वभुजोपात्तवित्तदः । इति ध्यायन्नयं जज्ञे सुमना अपि दुर्मनाः ॥३७॥ नन्दकस्तस्य नेदीयाञात्वा भावमभाषत । सार्थेशपुत्र ! कस्मात्त्वं विमना इव दृश्यसे ॥३८।। धनेनाऽथ निजाकूते कथिते प्राह नन्दकः । तवाऽप्यस्ति बहु द्रव्यं देहि तस्मादितोऽधिकम् ॥३९।। धनः प्राह किमेतेन पूर्वजोपार्जितेन मे। स एव हि नरः श्लाघ्यो यो दत्ते स्वाऽजितं धनम् ॥४०॥ तद्विज्ञपय तातं मे यथा पूर्वजसेवितम् । अहं करोमि वाणिज्यं समयोऽर्थस्य यौवने ॥४१।। श्रेष्ठी तेनेति विज्ञप्तस्तं प्रोचे वद नन्दनम् । त्रिवर्गमूलं बह्वस्ति पूर्वजोपाजितं धनम् ॥४२।। १. दृश्यते ख ग घ च । Page #57 -------------------------------------------------------------------------- ________________ १०७ १०८ चतुर्थो भवः नन्दकः प्राह चैतस्य नान्यथा जायते धृतिः । सार्थेशः प्राह तयेवमस्तु तस्य धृतेः कृते ॥४३।। कथिते नन्दकेनेति धनस्तोषादघोषयत् । इतः पुराद्धनो याता तामलिप्त्यां वणिज्यया ॥४४|| यः कोऽपि तत्र गन्तास्ति स समेतु समीहितम् । यद्यस्य नास्ति तत्तस्य पाथेयादि प्रदास्यति ॥४५॥ युग्मम् यानभाण्डादिकं सर्वं निजं च प्रगुणं व्यधात् । अथ दध्यौ धनश्रीर्यद्भविता सुन्दरं परम् ॥४६|| प्रवासेऽस्य महानन्दं नन्दको यद्विधास्यति । नन्दकः सह यातेति तयाऽऽसन्नदिने श्रुतम् ॥४७॥ युग्मम् ततो दम्भाद्धनं प्राहाऽऽर्यपुत्र प्रस्थितो भवान् । किं कृत्यं मम तेनोक्तं गुरूणां पर्युपासना ॥४८।। साश्रुः सा कैतवादूचे गुरवो हृदये मम । यदि यास्यसि मां हित्वा प्राणान्हास्याम्यहं तदा ॥४९।। उक्त्वेत्यस्यां रुदत्यां द्राग् धनमाता समागता । मातुरभ्युत्थिते पुत्रे धनश्रीनिर्ययौ गृहात् ॥५०॥ मात्राऽज्ञायि तदाकूतमथ पुत्रोऽनुशासितः । वत्स ! देशान्तरं दीर्घ दुर्लभः संगमः पुनः ॥५१॥ अर्थार्जनं च संक्लेशं तन्मूलमविषण्णता । गुण्यगण्योऽसि यत्नस्तु बाद कार्यः क्षमादिषु ।।५२।। प्रवृत्तिमें सदा ज्ञाप्या यत्नः कार्यः शरीरके । विनयाऽऽनम्रगात्रोऽथ धनः प्राह तथेति ताम् ॥५३॥ समरादित्यसंक्षेपः श्रीदेव्यथ गृहे गत्वा वधूमातरमूचुषी । धनेन सह गच्छन्तीमनुजानीहि नन्दनाम् ॥५४॥ साऽथ सुन्दरमित्युक्त्वा तां संवाह्य व्यसर्जयत् । तद्विसृष्टाऽथ हष्टा साऽचलत्सार्थश्च वर्त्मनि ॥५५।। मासद्वयप्रयाणेन तामलिप्तीमवाप्तवान् । धनोऽपश्यन्नृपं तेन वस्त्राद्यैर्बहुमानितः ॥५६॥ भाण्डं नियोजयल्लाभं यथेष्टमनवाप्य सः । दध्यौ कथमसम्पूर्णकामो यामि निजं गृहम् ॥५७|| तरामि सागरं तस्मान्नाऽन्यथा प्रचुराः श्रियः । तेनेति मन्त्रितं साधं कान्तया नन्दकेन च ॥५८।। तदा मज्जनवेलायां जरच्चीराऽन्तरीयवान् । आपाण्डुरकरो घृष्टनखस्ताम्बूलचर्वकः ॥५९॥ प्रम्लानपुष्पधम्मिल्लस्त्रस्तः कितववृन्दतः । पृष्ठं विलोकयन्भीतो द्यूतकारः समागमत् ॥६०॥ युग्मम् ऊचे च रक्ष मामेभ्यो धनः प्रोवाच के त्विमे । निजदुश्चेष्टितं वक्तुं न शक्तोऽस्मीति सोऽवदत् ॥६१॥ कुलीनोऽयमिति ध्यात्वा धनः प्राह भवेऽत्र हि । स्खलितं कस्य नाऽऽयाति ततः कथय कारणम् ॥६२।। स प्राहाऽहं वणिक्पाशो लोकद्वयविरुद्धकृत् । उत्पन्नो रुद्रदेवस्य कुलेऽपि कुलपांसनः ॥६३|| ही महेश्वरदत्ताख्यः पुरा पुष्पपुराश्रयः । द्यूतेन विश्वनिन्द्येन स्वजनेभ्य कृतो बहिः ॥६४॥ युग्मम् १. नन्दके नापि क । १. निजं ख ग घ च । Page #58 -------------------------------------------------------------------------- ________________ चतुर्थो भवः १०९ धनो दध्यौ विवेकेन ध्रुवमेष महामनाः । यदात्मदुःकृतं वेत्ति सानुतापश्च चेतसि ॥६५।। पृष्टे धनेन किं कुर्वे तवेत्यस्मिन्नवाङ्मुखे । प्रेषितो नन्दकः पृच्छ कितवान्कि धरत्ययम् ॥६६|| तैरुक्तान्षोडश स्वर्णान्दापयामासिवान्धनः । अथ संस्नप्य तं क्षौमयुगलं पर्यधापयत् ॥६७।। ऊचे भुक्तोत्तरं किं ते द्यूतेन धनमर्पये । व्यवसायं कुरु द्यूतं लोकद्वयविरोधि यत् ॥६८।। सोऽथ दध्यावधन्योऽहं यतो वात्सल्यतो वदन् । अयं हि रुद्रदेवस्य पितुस्तुल्योऽहमीदृशः ॥६९।। न तथा लाघवं लोके नरस्याऽनुपकुर्वतः । क्रियमाणोपकारस्य यथाऽन्येन कृपावता ॥७०।। ततः पौरुषमालम्ब्य कुर्वे पितृकुलोचितम् । कथञ्चिदात्मनः प्राच्यं वाच्यमुत्तरयामि च ॥७१।। युग्मम् ध्यात्वेत्युवाच धन्योऽस्मि यत्तवाऽजनि दर्शनम् । द्यूतकृत्त्वं मया त्यक्तमाहृतं पुरुषव्रतम् ॥७२॥ हीणोऽस्मि स्वचरित्रेणाऽपवित्रेणाऽमुनाऽधुना । किं बहुक्तैः करिष्यामि सफलं ते परिश्रमम् ॥७३|| वदन्निति तदावासान्नगर्याश्च विनिर्ययौ । ध्यायंश्च निश्चिकायैकं धर्म लोकद्वये हितम् ॥७४।। अथ योगीश्वराभिख्यमहाव्रतभृतोऽन्तिके । दीक्षां जनकमित्रस्य जगृहे धर्मसाग्रहः ॥७५।। इतश्च कथिताऽऽकूतं धनश्रीनन्दको धनम् । ऊचतुः कुरुतामार्यो रुचितं निजचेतसः ॥७६।। समरादित्यसंक्षेपः भाण्डे च वहने चापि सज्जिते परतीरगे । धनश्रीनन्दकं प्राह किं वार्धितरणेन नौ ॥७७|| व्यापाद्याऽमुं धनं लात्वा गच्छावोऽन्यत्र सोऽवदत् । स्वाम्येष न खलु द्रोह: स्वप्नेऽप्यस्य विचिन्त्यते ॥७८|| इत्युक्त्वा सा स्वयं नागदत्ताप्रवाजिकाऽन्तिकात् । आतङ्ककारकं तस्य योगमात्मकरेऽकरोत् ॥७९॥ धनस्तु मुदितो दीनादीनां दत्त्वा धनं मुदा । पूजयित्वाऽम्बुधि पोतमारोहत्सपरिच्छदः ॥८०|| ततः पवनवेगेन पोते गच्छति वारिधौ । दत्तः प्राग्वर्णितो योगो धनस्याऽथ धनश्रिया ॥८१|| सोऽभूत्तस्यानुभावेन शुष्कबाहुमहोदरः । उच्छूनवदनस्त्यक्तः क्षुधा संबाधितस्तृषा ॥८२॥ दध्यौ धनो विषण्णः सन्कि पतामि महोदधौ । एवं कृते हि दुखं स्यादनयो त्यभार्ययोः ।।८।। जनन्या शिक्षितश्चाऽस्मि यद्भाव्यमविषादिना । प्रत्यासन्नं च तत्कूलं यस्मिञ्जिगमिषा मम ॥८४|| पुनश्च किञ्चिन्निश्चित्य धनो नन्दकमूचिवान् । कर्मणः परिणामेन ममाऽवस्थेयमीदृशी ॥८५।। निकटं च तटं स्वामी स्वस्य तत्त्वं भवाऽधुना । मय्युत्तीर्णेऽम्बुधि कुर्या यथोचितमुपक्रमम् ॥८६॥ अपैति यदि रोगो मे तत: सुन्दरमन्यथा । तातस्य सुकृतं भ्रातृस्नेहं च मयि विभ्रता ॥८७|| असौ पित्रन्तिकं प्राप्या धनश्रीभर्तृवत्सला । प्रिये पापं विना सोऽयं द्रष्टव्योऽहमिव त्वया ॥८८।। कलापकम् Page #59 -------------------------------------------------------------------------- ________________ चतुर्थो भवः भृत्यस्तदाऽरुददुः खाद्धनश्रीरपि कैतवात् । कृत्यं कालोचितं कृत्यमित्युक्त्वा तेन बोधितौ ॥८९॥ द्वीपं महाकटाहाख्यं प्राप्तानां नन्दको नृपम् । ददर्श धाम्नि तद्दत्तेऽस्थाच्च वैद्यानुपानयत् ॥ ९० ॥ अजाते च प्रतीकारे नन्दकः स्वपुरोत्सुकः । भाण्डं विक्रीय तत्रत्यं गृहीत्वा चाचलद् द्रुतम् ॥९१॥ सज्जिते वहने वीक्ष्य नृपं तेन प्रपूजितः । गन्तुं प्रवृत्तः स्वं देशं विधित्सुर्नीरुजं धनम् ॥९२॥ अथ दध्यौ धनश्रीर्न विपन्नोऽयं रिपुर्मम । तत्क्षिपामि महाम्भोधौ कायचिन्तास्थितं स्यात् ॥९३॥ ध्यात्वेति तत्तथा कृत्वा चक्रे हाहारवं ततः । किमिदं स्वामिनि प्रोचे नन्दकः सा निजां तनुम् ॥९४॥ अधिकं ताडयन्ती हा नाथ ! नाथ! वदन्त्यलम् । पोतान्तर्न्यपतच्चित्तजाताशङ्कोऽथ नन्दकः ॥ ९५ ॥ शय्यां वीक्ष्य तमप्रेक्ष्य पुनरूचे सगद्गदम् । किमिदं स्वामिन प्राह सोऽम्भोधौ न्यपतद्धनः || ९६ || विशेषकम् साश्रुः श्रुत्वेदमम्भोधौ नन्दको निपतन्ननु । धृतः परिजनेनाऽलं तं सर्वत्राऽगवेषयत् ॥९७॥ तमप्राप्य सदुःखः सन् प्रवृत्तो देशसंमुखः । धनः फलकमेकं तु जीवितव्यमिवाऽसदत् ॥९८॥ नीरधि सप्तरात्रेणोत्तीर्य तीरमुपागतः । शरीरे क्षारपानीयसेवया विगताऽऽमयः ॥ ९९ ॥ पुनर्जातमिवात्मानं ध्यायंस्तिमिरशाखिनः । पार्श्वे निविष्टो दध्यौ स स्त्रीवर्गे कैतवं कियत् ॥१००॥ १११ ११२ समरादित्यसंक्षेपः अहो तस्या नृशंसत्वमहो वैरं ममोपरि । को हेतुर्निर्विवेके वा स्त्रीजने किं स चिन्त्यते ॥ १०१ ॥ स्त्री ह्यलीकच्छलापायदोषसाहसमन्दिरम् । अर्गला कुशलद्वारे सोपानं नरकाऽध्वनि ॥ १०२ ॥ तदस्तु वस्तुनश्चिन्ताऽतीतस्य हि न युज्यते । अध्यात्वेत्युत्थाय भूभागं गतः स्तोकमशोकहत् ॥१०३॥ कलापकम् दृष्टा च तेन श्रावस्तीनृपपुत्र्याः परैधिता । पोतभङ्गे मृता तीरे क्षिप्ता नीरधिवीचिभिः ॥ १०४ ॥ तदुपान्ते च तद्वत्रबद्धा रत्नावली शुभा । नाम्ना त्रैलोक्यसारेति व्यलोक्यत महाद्युतिः ॥ १०५ ॥ तां गृहीत्वा स्वदेशाऽभिमुखं तेन यियासता । दृष्टः स द्यूतकृत्तत्र वसन्नात्तमहाव्रतः ॥ १०६ ॥ धनेन प्रत्यभिज्ञातः स प्राह त्वं कुतो धन ! | कथं चेदृगवस्था ते सोऽवोचत्पोतभङ्गतः ॥ १०७॥ ऋषिराह यथा क्षीणः शशी पूर्णः पुनर्भवेत् । तथा त्वमपि मन्येऽहं पुनर्लक्ष्मीमवाप्स्यसि ॥ १०८ ॥ उपकारकरी चैषा विपन्निकषलाभतः । सदसद्रक्तविरक्तसत्त्वनिः सत्त्वताजुषाम् ॥ १०९ ॥ विनाऽग्नि गन्धमाहात्म्यं न हि कृष्णागुरोर्यथा । सात्त्विकस्य तथा पुंसो दुस्तरामापदं विना ॥ ११० ॥ अधुना त्यक्तसङ्गेऽहं किं तवोपकरोमि तत् । तथाऽप्यधीतसिद्धं मे मन्त्रमादत्स्व गारुडम् ॥ १११ ॥ असंस्तुतमिमं जानन्मन्त्रं जग्राह नो धनः । तेनाऽथ ज्ञापयित्वा स्वं कैतवं ग्राहितो बलात् ॥ ११२ ॥ Page #60 -------------------------------------------------------------------------- ________________ चतुर्थो भवः पनसाद्यैः कृतप्राणवृत्तिस्तत्र दिनं स्थितः । तमापृच्छ्य प्रवृत्तश्च विषयाऽभिमुखो धनः ॥११३॥ त्रातरत्नावलिर्यत्नान्नारङ्गादिकृताशनः । भवितव्यतयाऽऽकृष्टः श्रावस्ती नगरीमगात् ॥ ११४॥ विचारधवलाख्यस्य राज्ञस्तत्र मलिम्लुचैः । मुष्टः कोशस्ततो धृत्वा गृह्यन्ते पथिकादयः ॥ ११५ ॥ । पौरा अपि भुजङ्गाभा नीयन्ते मन्त्रिणः पुरः परीक्ष्य च विमुच्यन्ते तदाकर्ण्यान्यतोऽव्रजन् ॥ ११६॥ धनः प्राप्तो भटैरुक्तः कुतस्त्वं क्व च यास्यसि । तेनोक्तं वारिधेस्तीरात्सुशर्मनगरं गमी ॥ ११७ ॥ विशेषकम् अनिच्छन्नपि तैनत्वा मन्त्रिणो दर्शितश्च सः । तेन पृष्ठस्तदेवाह सत्यानां नाऽन्यथा हि गीः ॥ ११८ ॥ मन्त्र्यूचे किमपि द्रव्यं पाथेयं वाऽस्ति सोऽवदत् । अज्ञानलो भयोर्दोषान्न किञ्चिदपि तादृशम् ॥ ११९ ॥ मन्त्र्यूचे स्फुटमाख्याहि स्फुटमेतद्धनोऽवदत् । तर्हि गच्छेति गच्छंश्च मन्दुराकपिनाऽपि सः ॥ १२० ॥ वस्त्रे च पाटितेऽनेनाऽपतद् रत्नावली भुवि । तं विमोच्य कपेर्मन्त्री स्वयं रत्नावलीं ललौ ॥ १२१ ॥ प्रत्यभिज्ञाय दध्यौ च राजपुत्र्याः शिवं न हि । अन्यथा कथमस्येयं करगोचरमागमत् ॥ १२२॥ ध्यात्वेत्युक्तः कुतस्तेऽसौ स प्राह प्राप्यसौ मया । द्वीपे काहे तस्माच्चाऽऽयातः पोते व्यभिद्यत ॥ १२३ ॥ जातोऽस्मि तदियन्मात्रवित्तस्वाम्यथ मन्त्रिणा । पृष्टः कालं जगादाऽब्दं सचिवोऽथ व्यचिन्तयत् ॥ १२४॥ ११३ ११४ समरादित्यसंक्षेपः वक्ति वर्षमयं मासद्वयं तु समभूदितः । गताया राजपुत्र्यास्तदिदं न हि समञ्जसम् ॥ १२५ ॥ ध्यात्वेति राज्ञे मन्त्र्याख्यत्कोशाध्यक्षाय दर्शिता । रत्नावली महीशेन प्रत्यभ्यज्ञायि तेन सा ॥ १२६ ॥ धनः पृष्टस्तथैवाह ज्ञप्तो वध्योऽथ भूभुजा । मषीविलिप्तसर्वाङ्गो ध्वनद्विरसडिण्डिमः ॥१२७॥ आगो ज्ञापयितुं रत्नावल्या पटलकस्थया । भटैः प्रवर्तितो वध्यभूमिकां प्रति बस्तवत् ॥ १२८॥ युग्मम् हट्टमार्गेऽथ तां रत्नावलीं शोणमणीमयीम् । श्येनो मांसमिति ज्ञात्वा हत्वा नीडे निजेऽनयत् ॥ १२९ ॥ धनोऽथ कुपितैर्नीतः श्मशानं राजपुरुषैः । समर्पितोऽन्त्यजस्यैष वधकस्य वधाय च ॥ १३०॥ दध्यौ निषादो नाकृत्यानयायं कृत्यकृत्यकृत् । किं तया चिन्तया मे स्यादादेश्यस्य प्रशस्यया ॥ १३१ ॥ ध्यात्वेति यमदण्ड्यां तं निवेश्य प्राह बुक्कसः । सुदृष्टं जीवलोकं त्वं विधेह्यन्तो हि तेऽधुना ॥१३२॥ किं च नः सुहृदः श्राद्धास्तत्सङ्गाच्चौरदृष्टयः । न वयं किं तु राजाज्ञा कार्येति तद्विधीयते ॥१३३॥ नृपो व्यज्ञपि चास्माभिर्धार्यो वध्यो मुहूर्तकम् । शुभभावो म्रियेतैष यथाऽमंस्त नृपश्च तत् ॥१३४॥ तदादिशाऽऽर्य किं कुर्वे तवाऽथाऽचिन्तयद्धनः । उपकार्यनुकम्पावान्दीनसत्त्वेषु वत्सलः ॥१३५॥ अयं न कर्मचण्डालो जातिचण्डाल एव हि । सतस्तदस्याप्रस्तावदर्शने किं करोम्यहम् ॥ १३६ ॥ Page #61 -------------------------------------------------------------------------- ________________ चतुर्थो भवः गतं सच्चेष्टितं मे ह्यपुण्यानां स्यान्न चिन्तितम् । ध्यात्वा निःश्वस्य च प्राह विधेहि नृपशासनम् ॥१३७॥ विशेषकम् अदीनमानसः साधुर्वध्यतेऽसौ हहा मया । सगद्गदमिति प्रोचे श्वपचेन धनः पुनः ॥ १३८ ॥ स्मरेष्टदेवतां तर्हि स्वर्गस्याऽभिमुखो भव । परार्थो न कृतो ध्यायन्धनः स्वर्गाभिमुख्यभूत् ॥१३९॥ कृष्ट्वासिमन्त्यजः स्कन्धे वाहयित्वा निजे मनाक् । ऊचे शृणुत हे लोका! वञ्चयित्वा नृपाङ्गजाम् ॥१४०॥ हृता त्रैलोक्यसारख्या रत्नावल्यागसाऽऽमुना । निबध्य बध्यते वध्यस्तेन स्तेन इवासकौ ॥ १४१ ॥ युग्मम् उक्त्वेति खङ्गमुद्यम्यादत्त्वा घातं कृपावशात् । हित्वा खङ्गं पपातैष पृथ्व्यामूचे धनेन सः ॥ १४२ ॥ राजाज्ञां कुरु स प्राह न प्रहतु क्षमस्त्वयि । अकृताऽपकृतौ किं ते देव ! सम्पादयाम्यतः || १४३॥ तदा सुमङ्गलाभिख्यः प्रथमो राजनन्दनः । उद्याने भोगिना दष्टः क्षणेनाऽभूदचेतनः || १४४|| मन्त्रौषधाद्यगम्येऽत्र राजादेशात्पुरेऽखिले । पटहैर्घोषयामासुर्भ्रान्त्वा पाटहिका इति ॥ १४५ ॥ जीवयत्यहिना दष्टं यः कोऽपि नृपनन्दनम् । प्रार्थितं दीयते तस्य वस्तु नास्त्यत्र संशयः ॥ १४६॥ पटहध्वनिमाकर्ण्य धनः प्रोचे जनङ्गमम् । सम्पादयेदं दष्टेऽस्मिन् जीविते हन्तु मां भवान् ॥१४७॥ १. परार्थमकृतं ख ग घ । ११५ ११६ समरादित्यसंक्षेपः स्पृष्टेऽथ पटहे राजनरैर्नीतो नृपान्तिके । वृत्तान्ते कथिते राजा तं प्रोचे जीवयात्मजम् ॥१४८॥ मन्त्रस्य पश्य सामर्थ्यं नरनाथ ! विषीद मा । धनः प्रोच्य स्मरन्मन्त्रं नृपपुत्रमजीवयत् ॥१४९॥ संजाते साधुवादेऽस्य राज्ञा राज्ञीभिरप्यलम् । वृष्टं विभूषणैः प्रोचे धनस्तु किमनेन मे ॥ १५० ॥ राज्ञोक्तं तव किं कुर्वे स प्रोचे कुरु वाञ्छितम् । चण्डालनाम्नोऽचण्डालभावस्य वधकारिणः ॥ १५१ ॥ राजा दध्यावहो सत्त्वमयं नाकृत्यकृद्भवेत् । पृच्छाम्यमुमथेष्टस्याऽनन्तरं प्रच्छनं वरम् ॥१५२॥ राजादेशाद्गतो वेत्री तं प्रोचे खङ्गिलाख्यरे । तुष्ट नरेन्द्रस्तच्चूडामणिर्वास्य सुताऽसुदः ||१५३|| स प्राह किं विमुक्तोऽसौ नरेन्द्रेषु शिरोमणिः । वेत्र्याह नात्र संदेहस्त्वमर्थय समीहितम् || १५४ ।। खङ्गिलः प्राह तद्देवप्रसादादिदमस्तु मे । लोकद्वयविरोधिन्याऽनया जीविकया कृतम् ॥ १५५॥ वेयाह भूरि याचस्व स प्रोचे भूरिभूर्यदः । वेत्र्याख्याते नृपस्तस्याऽस्तौद्विवेकनिरीह ॥१५६॥ धनः प्रोवाच जात्यैव चण्डालः स तदीहितम् । करोतु देवो राज्ञोचे कृतमेवेदमत्र किम् ॥१५७॥ अन्यच्च त्वं स्वहस्तेन स्वर्णलक्षं बहिः पुरात् । सहस्राऽन्त्यजवासाय देह्यूर्वी विन्ध्यवासिनीम् ॥१५८|| अनेनाऽथ नृपादेशे विहिते खङ्गिलस्तथा । नैवाऽतुष्यद्धनप्राप्त्या यथाऽसौ धनजीवितात् ॥१५९॥ Page #62 -------------------------------------------------------------------------- ________________ ११७ ११८ चतुर्थो भवः धनेन गारुडं दत्त्वा जीवितो द्यूतकृत्पुरा । धनस्तेन तथैवाऽहो प्रायो नोपकृतं वृथा ॥१६०।। न ये प्रागुपकारिभ्यः प्रीत्या प्रत्युपकारिणः । पुरुषाः परुषास्तेभ्यो धन्यान्मन्यामहे पशून् ॥१६१। अथ प्रोचे धनो राज्ञा क्रिययाऽज्ञायि ते कुलम् । आख्याहि किनिवासस्त्वं किनामा कीदृशोऽसि च ॥१६२।। नि:श्वस्याऽथ धनः प्राह किमकृत्यकृतः कुलम् । अब्जेषु श्रीनिवासेषु कृमयो न भवन्ति किम् ? ॥१६३|| सुशर्मपुरवासी च धनाख्यो वणिगस्म्यहम् । जात्यैव न तु शीलेन दध्यावथ धराधिपः ॥१६४|| धन्योऽस्मि यन्मयेदृक्षं नृरत्नं न विनाशितम् । ऊचे च त्वयि नाऽकृत्यं तदाख्याहि यथातथम् ॥१६५।। तदा ससम्भ्रमा भूपं वेत्रिण्येत्य व्यजिज्ञपत् । देव देवाङ्गजा पोतभङ्गाद्गतपरिच्छदा ॥१६६।। उद्यानपालिकास्येन देवं विज्ञपयत्यदः । यद्देव गच्छतां मध्येवाधि चण्डाऽनिलाऽऽहतम् ॥१६७|| स्फुटितं यानपात्रं न: स्त्रीचित्तस्थितगोप्यवत् । देवस्य तु प्रभावेण जीवन्त्यस्मि समागता ॥१६८।। विशेषकम् इयं विनयवत्याऽनुप्रैषि मेघवनस्थया । श्रुत्वेति नृपतिर्मेघवनं प्रीतः स्वयं ययौ ॥१६९॥ तां प्रवेश्याऽथ पप्रच्छ नृपो रत्नावली क्व ते । पोतभङ्गदिने चूतलतानिवसने स्थिता ॥१७०॥ समरादित्यसंक्षेपः पश्चात्किमपि संजातं न जानामि तयोदिते । नृपः प्राह धनं भद्र क्व सा त्वत्करमागता ॥१७॥ धनः प्राहाम्बुधेस्तीरे लब्धा स्त्रीशवसंनिधौ । परस्वाऽपहतेः स्वं हि तन्मन्येऽकृत्यकारकम् ॥१७२।। राज्ञोक्तं गृहिणो नेयं परद्रव्याऽपहारिता । अथवाऽलमतीतेन वस्तुना किं करोमि ते ॥१७३|| धनः प्राहाऽन्त्यजेष्टार्थाधिकदानान्न किं कृतम् । देवेन नृपतिः प्रोचे स्तोकं तस्याऽपि तत्किल ॥१७४।। समीक्षितकृतः किं नु प्रोच्यते तव सत्तम । जीविताऽधिकमत्पुत्रजीवितव्यप्रदायिनः ॥१७५।। धनः प्राहा ऽभवत्सर्वं ममेष्टं देवदर्शनात् । दत्त्वाऽथ भूषणं प्रेषि स नृपेण निजैः सह ॥१७६।। दिनैः कतिपयैरेताः पुरं नाम्ना गिरिस्थलम् । तत्राऽपि चण्डसेनस्य मुष्टे कोशे महीपतेः ॥१७७।। वीक्ष्यमाणेषु चौरेषु बद्धेषु नृपवर्त्मसु । उपकारणिकं धृत्वा नीतास्ते तैश्च भाषिताः ॥१७८।। युग्मम् के यूयं क्व च गन्तारः किं च वोऽस्तीति तेऽवदन् । श्रावस्तीनृपनिर्देशात्सुशर्मनगरं प्रति ॥१७९।। अस्त्यस्य सार्थवाहस्य नृपदत्तं च भूषणम् । कीदृशं तदिति प्रोक्तास्तत्ते तेषामदर्शयन् ॥१८०|| गतं कालाऽन्तरे तत्तैः स्वकीयमुपलक्षितम् । धृत्वा नीताश्च राजान्ते क्षेपितास्तेन चारके ॥१८१।। १. सुशर्मपुरखास्तव्यो ख । १. ज्ञेयं ख ग घ च । २. कतिपयैरेयु: ख ग घ च । ३. क्षेपिता ङ च । Page #63 -------------------------------------------------------------------------- ________________ चतुर्थो भवः ११९ उक्तं च राज्ञा मद्राज्ये स कारयति चौरिकाम् । सर्वोऽप्यर्थस्तदेतेभ्यो लभ्यो धार्याः प्रयत्नतः ॥१८२।। यावत्सुदुःखितास्तत्र ते वसन्ति धनादयः । तावन्निशि तलारक्षैः परिव्राजकवेषभृत् ॥१८३॥ सलोवस्तस्करः प्राप्तो मन्त्रिणश्च निवेदितः । तेनापि लिङ्गी चौरोऽयमिति वध्यतयाऽर्पितः ॥१८४|| मषीधातुविलिप्ताऽङ्गः शरावश्रेणिभूषितः । शिर:स्थकरवीरस्रक् छित्तिरच्छत्रराजितः ॥१८५।। डिण्डिमध्वनिनाऽऽहूतलोकेन परिवारितः । खरारूढस्तलारक्षैर्वध्यस्थानमनायि सः ॥१८६।। कलापकम् नि:श्वस्याऽऽलोक्य लोकं च नाऽन्यथा मुनिभाषितम् । द्रव्यस्थानानि लोकानामाख्यामिति 'विचिन्त्य च ॥१८७|| ऊचे नृपनरानेतन्मुष्टं विश्व पुरं मया । द्रव्यं तदस्ति निक्षिप्तं गिरिनद्यादिभूमिषु ॥१८८|| तत्तद्गृहीत्वा पश्चान्मां हतेति तदुरीकृते । द्रव्यं प्राप्तं यथास्थानाऽऽख्यातं तद्रूषणं विना ॥१८९|| विशेषकम् मत्वेति मन्त्री तं प्राह निश्छद्म कथयस्व मे । लिङ्गित्वं तस्करत्वं च परस्परविरोधि ते ॥१९०।। स प्राह पुण्ड्रदेशान्तनगरे पुण्ड्रवर्धने । देवशर्मा द्विजन्माऽभूदग्निवैश्यायनान्वयः ॥१९१|| तस्य नारायणाख्योऽहं पुत्रस्तत्र प्ररूपये । हिंसया भवति स्वर्ग इति लोकस्य नि:कृपः ॥१९२।। समरादित्यसंक्षेपः अन्यदा पुरुषाः केऽपि नीयन्ते वध्यभूमिकाम् । मया प्रोक्तं महाचौरानेतान्धातयतेति च ॥१९३।। श्रुत्वा मद्वचनं तच्चावधिज्ञानी मुनिर्जगौ । अहो कष्टमहो कष्टमज्ञानस्य विजृम्भितम् ॥१९४|| शान्तेनाऽपि किमेतेन बभाषे परुषं वचः । ध्यात्वेति नत्वाऽपृच्छं तं किमज्ञानं मम प्रभो ॥१९५।। स प्राहाऽसदभियोगाद्विरुद्धाच्चोपदेशतः । अचौरानपि यच्चौरानेतान्वदसि कद्वदः ॥१९६।। तत्सत्यमपि नो सत्यं परो येन प्रपीड्यते । श्रुतौ ह्यसत्यसत्युक्ते चौरचौरप्रभाषणे ॥१९७।। उक्तं तत्तुल्यदोषित्वं सत्यसत्यभिलापतः । अचौरचौरजल्पाच्च द्विगुणं दोषमश्नुते ॥१९८॥ युग्मम् विरुद्ध दिशसि स्वर्गो हिंसयेति वदन् यतः । न हिंस्यात्सर्वभूतानि सर्वतीर्थकृतां मतम् ॥१९९।। किं चासदभियोगस्य फलं प्राप्तं पुरा त्वया । लप्स्यसे फलशेषं च दिनैः कतिपयैरपि ॥२००|| श्रुत्वेति मयका पृष्टः प्रभुः प्राह स्फुटाक्षरम् । अस्त्युत्तरपथे ख्यातं गर्जनं नाम पत्तनम् ॥२०१।। तत्राषाढाऽऽख्यविप्रस्याऽनुत्सुका रच्छुका जनी । सोमदेवस्तयोः सूनुस्त्वं वीते पञ्चमे भवे ॥२०२।। पित्रा शास्त्राणि वेदांश्चाध्यापितः साभिमानधीः । श्रितः पुराधिपं वीरसेनं तेन च पूजितः ॥२०३।। १. व्यचिन्त्य । २. तदुदीरिते क । ३. तमाह मन्त्री भगवन् ख ग घ च । १. ते प्रापुः स च तैः समं क । Page #64 -------------------------------------------------------------------------- ________________ १२१ चतुर्थो भवः तत्राऽन्यदा विनीताख्यश्रेष्ठिनो विधवा सुता । नाम्ना वीरमती भक्ता परिव्राजकदर्शने ॥२०४।। मोहाविवेकतारुण्यविषयव्रातपातिता । विह्वला सिंहलाख्येन सार्धं मालाकृता गता ॥२०५।। योगात्मा नाम तत्पूज्यः सदाचारशिरोमणिः । नि:संगत्वान्निजानामप्यज्ञातो यातवांस्तदा ॥२०६।। ततो लोकप्रवादेन ज्ञाता वीरमती गता । त्वया ज्ञातश्च योगात्मा गतः संकल्पितं ततः ॥२०७|| गता योगात्मना साधं भविष्यत्यन्यदा तव । राट्सद:स्थस्य वार्ताऽभूत्सा केनाऽपि समं गता ॥२०८।। भवतोक्तमहं वेद्मि समं योगात्मना गता । राज्ञोचे स्वकलत्रेऽपि भगवानेष नि:स्पृहः ॥२०९।। त्वयोक्तं परदारेषु सस्पृहस्तेन हेतुना ।। एवंविधा इमे पाषण्डिनो नैष्वस्ति वस्तुता ॥२१०॥ श्रुत्वेति विपरीणामं केऽपि धर्मेषु भेजिरे । योगात्मा च परिवाड्भिरन्यैः स्वस्माद्वहिष्कृतः ॥२११॥ त्वयेत्थं निविडं बद्धं कर्म मर्मभिदेलिमम् । जातो मृत्वैलकत्वेन जिह्मव्रणरुजा मृतः ॥२१२।। गोमायुत्वेऽपि जिह्वायाः साटेनैव पुनर्मतः । साकेतभूमिपालस्य सहदेवस्य नन्दनः ॥२१३।। जज्ञे विलासवत्याख्याविलासिन्यां युवा च सन् । मद्यमत्तो नृपस्याऽम्बामाकोशन्नृपसूनुना ॥२१४|| निषिद्धस्तमथाक्रोशञ्जिह्वाछेदेन शिक्षितः । कृत्वाऽनशनमुत्पेदे भवान्ब्राह्मणनन्दनः ॥२१५।। विशेषकम् समरादित्यसंक्षेपः त्वयाऽनुभूतमेतद्धि विरक्तोऽहं ततो भवात् । ज्ञानिनं पुनरप्राक्षं फलशेषं तु कीदृशम् ॥२१६॥ तेनोक्तं लोकप्रत्यक्षा शेषा तव विडम्बना । ततस्तद्वाक्यभीतेन प्रव्रज्या जगृहे मया ॥२१७|| गुरोः स्व:प्रस्थितात्तालोद्घाटिन्याकाशगामिनी । लब्धे विद्ये मया तेन शिक्षितश्चास्मि यत्त्वया ॥२१८।। वाच्यं न मिथ्या प्रोक्ते सत्यष्टोत्तरसहस्रशः । देयो जापो जले नाभिदध्नेऽनुन्मेषचक्षुषा ॥२१९।। कल्ये पृष्टोऽस्मि रामाभिर्ब्रह्मरुद्रादिसेवितम् । हित्वा विषयजं सौख्यं तारुण्ये त्वं कुतो व्रती ॥२२०।। तन्नर्मभावं विज्ञाय मया नर्मोत्तरं ददे । यत्प्रियाया वियोगेन दुष्करं व्रतमाददे ॥२२१॥ मिथ्यावाक्यस्य चैतस्य जापो न विदधे मया । ततो रात्रौ सलोनोऽपि गृहीतोऽस्मि भटैस्तव ।।२२२।। अतः परं महामात्य ! सर्वं विदितमेव ते । मन्त्र्यूचे भूषणं राज्ञो दृश्यतेऽत्र कथं न हि ॥२२३।। स प्राह दत्तं श्रावस्तीस्वामिने मन्त्र्यथावदत् । किनिमित्तमथ प्राह परिव्राजकपुङ्गवः ॥२२४|| श्रावस्त्यामस्ति गन्धर्वदत्तो नाम सुहृन्मम । कन्या तेनेन्द्रदत्तस्याऽन्यस्मै दत्ताऽपि पापिना ॥२२५।। हृत्वा वासवदत्ताख्या व्यूढा रुष्टस्ततो नृपः । तां गृहीत्वा पुरादेनं दूरतो निरवासयत् ॥२२६।। युग्मम् आगतो मेऽन्तमाचख्यौ समागमनकारणम् । मयाऽनय॑मलङ्कारं दत्त्वा प्रैषि नृपान्तिके ॥२२७।। Page #65 -------------------------------------------------------------------------- ________________ चतुर्थो भवः १२३ ततस्तुष्टेन भूपेन महर्या स प्रवेशितः । तेन वासवदत्ता च प्राप्ता कण्ठस्थजीविता ॥२२८।। हेतुनाऽनेन तद्दत्तं मन्त्री प्राह कृतं वरम् । यतो भवन्ति मित्रेषु वत्सला: सज्जना जनाः ।।२२९।। भगवन्भवता कार्यमात्मोचितमतः परम् । उक्त्वेति तं परिवाजं धनादींश्च मुमोच सः ॥२३०।। युग्मम् धनो राजनरान्प्रेष्य श्रावस्त्यां स्वयमेककः । अटन्महाटवीमेकां प्राप कार्पटिकैर्युतः ॥२३१।। ते हस्तियूथमागच्छवीक्ष्य नेशुर्दिशो दिशम् । गजनैकेन धावित्वा धनो धात्र्यां तु पातितः ॥२३२।। करेणाऽऽदाय खे क्षिप्तो वटाग्रे व्यलगद्धनः । गजो वशारुतं श्रुत्वा प्रीतस्तां प्रति यातवान् ॥२३३।। धनः श्येनहतां तत्राऽपश्यद्रनावली पुनः । आदाय दध्यौ श्रावस्त्याः स्वामिनेऽसौ प्रदास्यते ॥२३४।। गजयूथे व्यतिक्रान्ते वटादुत्तीर्य सोऽचलत् । इतश्च गत्वा ते राजनरा राजे व्यजिज्ञपन् ॥२३५|| वृतान्तं निखिलं राज्ञा कुपितेनेति भाषिताः । तादृग्नृरत्नमेकं किं मुक्त्वा यूयमिहागताः ॥२३६।। तदयं भवतां दण्डस्तमानीय ममाऽन्तिके । पुर्यामस्यां प्रवेष्टव्यमिति निर्वासिता इमे ॥२३७।। दरिद्धा इव ते मार्गे मार्गन्तः सर्वतो धनम् । सुखवासाभिधे ग्रामे तं प्रापुरथ तैः समम् ॥२३८।। श्रावस्तीमेत्य भूपालं नत्वा रत्नावलीं पुरः । मुक्त्वा वृत्तान्तमाचख्यौ विस्मितोऽथ नृपोऽवदत् ॥२३९।। युग्मम् समरादित्यसंक्षेपः क्व सनीडं समुद्रस्य क्व नीडं श्येनपक्षिणः । द्विलेभे भवता मर्त्यरत्न ! रत्नावली कथम् ॥२४०।। तत्तुभ्यमेव दत्तेयं न कार्यं मद्वचोऽन्यथा । राज्यमप्यथवेदं ते कि कि सम्पाद्यतां तव ॥२४१।। दिनैः कतिपयैः सार्थं कृत्वोपात्तकयाणकः । राज्ञा प्रेषि धनो दत्त्वाऽनय॑माभरणादिकम् ॥२४२।। कालेन कियताऽप्येष सुशर्मपुरमागतः । ज्ञातो जनेन तुष्टाश्च जननीजनकादयः ॥२४३॥ संमुखायातयोः पित्रोः पदेषु न्यपतद्धनः । ताभ्यामानन्द्य तं पूजा सर्वचैत्येषु निर्ममे ॥२४४।। प्रदत्तं च महादानं नृपेणाऽथ निवेशितः । महा कृतसन्मानो वर्धापनमभूत्ततः ॥२४५।। रह: पितृभ्यां पृष्टोऽथ वृत्तान्तं तं धनश्रियः । कार्मणादिमहाम्भोधिपातनान्तं न्यवेदयत् ।।२४६॥ विस्मिताभ्यामथैताभ्यामभाष्यत कृतं तया । कल्पद्रोः कपिकच्छ्वद् वत्स ! सा तव नोचिता ।।२४७|| द्रक्ष्यावस्त्वत्कृते कन्यामन्यां धन्यां कुलादिभिः । असामान्यां शशी क्वाऽपि ज्योत्स्नया कि विमुच्यते ॥२४८|| न संतापस्त्वया धार्यों धनः प्राह निसर्गतः । ई ईदृशो भवस्तत्र संतापेन कृतेन किम् ॥२४९।। पितृभ्यां धनदेवस्य महिमा विहितो महान् । समित्रस्तत्र गत्वाऽथ धनो यक्षमपूजयत् ।।२५०॥ याचकेषु यथायोग्यं प्रतिपत्ति विधाय सः । भुक्तोत्तरं महोद्यानं सिद्धार्थ नामतोऽगमत् ॥२५१॥ Page #66 -------------------------------------------------------------------------- ________________ चतुर्थो भवः तत्राऽशोकतरोर्मूले मूलोत्तरगुणैर्युतम् । आचार्य कोशलाधीशविनयन्धरनन्दनम् ॥२५२।। अनेकसाधुसंयुक्तं सुधाशुभ्रयशोधरम् । नाम्ना यशोधरं सूरिमद्राक्षीन्मुदितो धनः ॥२५३।। युग्मम् रूपयौवनलावण्यशान्तिसंतोषमार्दवैः । तदीयैर्विस्मितो दध्यौ दृश्यः सेव्यश्च नन्वयम् ॥२५४|| ध्यात्वेति गत्वा वन्दित्वा तं साधुजनसंयुतम् । तद्दत्तधर्मलाभाशीरुपाविक्षत्क्षमातले ॥२५५।। अवोचच्च विभो ! किं ते भवनिर्वेदकारणम् । यद्रूपेण जितकामश्चरित्रेण पुनर्जितः ॥२५६।। प्रभुः प्राह भवादस्मान्नित्यनिर्वेदमन्दिरात् । किमन्यदपि निर्वेदकारणं प्रष्टुमर्हसि ॥२५७।। धनः प्रोवाच भगवन्सर्वसाधारणं ह्यदः । विशेष वद स प्राह चरित्रं निजमेव मे ॥२५८|| धनः प्राह प्रसद्येश निजं चरितमादिश । वीक्ष्याऽमुं शान्तकल्याणाकृति प्राह गुरुः शृणु ॥२५९|| विशालायां पुरि पुराऽमरदत्तोऽभवन्नृपः । देवी यशोधरा तस्य सतीव्रतयशोधरा ॥२६०|| तदङ्गभूर्बभूवाऽहं वीतेऽस्मान्नवमे भवे । सुरेन्द्रदत्तनामाऽस्मि पित्रोरत्यन्तवल्लभः ॥२६१।। मम वक्षोविभूषार्थमपरा मौक्तिकावली । भार्यास्त्युच्छसिताम्भोजनयना नयनावली ॥२६२।। तातः प्रदाय मे राज्यमात्मना व्रतमात्तवान् । अहमप्यात्तसम्यक्त्वो राज्यमस्मि प्रपालयन् ॥२६३।। समरादित्यसंक्षेपः अन्यदा नयनावल्या दासी सारसिकाऽभिधा । ममैतं पलितव्याजाद्धर्मदूतमदर्शयत् ॥२६४|| ततोऽहं भवनिर्विण्णो दध्याविति निजे हृदि । अहो असारं मानुष्यं क्षणादेव विनश्यति ॥२६५।। नित्यं निशादिनव्याजाज्जीवानां यौवनायुषोः । त्रुट्यन्ति खण्डखण्डानि न जानाति जनो जङः ॥२६६।। जनायुर्जलमादाय निशादिनघटीचयैः । अर्केन्दुधुर्यो कालारघट्ट भ्रमयतः सदा ॥२६७|| जीवितव्याम्भसि क्षीणे देहसस्ये च शुष्यति । उपायः कोऽपि नास्त्यस्य तथापि सुखितो जनः ॥२६८।। तत्प्रमादं परित्यज्य प्रपद्ये व्रतमुत्तमम् । ध्यात्वेति नयनावल्या निजाकूतं न्यवेदयम् ॥२६९॥ साऽजल्पच्च मयाऽऽत्मायमार्यपुत्र तवाऽर्पितः । यत्त्वं प्रपद्यसे पूर्वं तत्प्रपत्स्येऽनु नन्वहम् ॥२७०|| अचिन्तयमहं देव्या अहो स्नेहो ममोपरि । चित्तज्ञत्वं विवेकश्च समानसुखदुःखता ॥२७१।। तदा बन्दी पपाठेत्युदयं प्राप्य प्रतप्य च । उद्द्योत्य भुवनं सर्वमस्तमेति दिवाकरः ॥२७२।। ततोऽध्यायमहं सूरस्याऽप्येकत्र च वासरे । इयत्यः स्युरवस्था यज्जीवलोकं धिगस्तु तत् ॥२७३।। कियन्तमपि निर्गम्य सन्ध्याकालं सदस्यथ । ययौ प्रदोषे नीरन्ध्रमणिदीपकमण्डितम् ॥२७४।। १. नास्त्यन्यस्तथापि ख ग घ ङ च । Page #67 -------------------------------------------------------------------------- ________________ १२७ १२८ चतुर्थो भवः 'कलितं नयनावल्या देव्या रत्येव रूपतः । वासावासमहं साक्षाद्विमानमिव नाकिनः ॥२७५।। युग्मम् पल्यतेऽथ निविष्टोऽहं देवी परिजने गते । अशेताऽहं तु ध्यायामि दुर्मोचा नयनावली ॥२७६।। यावत्तावदसौ हित्वा पल्यङ्कं कुट्टिमं गता । निर्ययौ द्वारमुद्धाट्य मेयं प्राणांस्त्यजत्विति ॥२७७।। पृष्ठे लग्नोऽस्म्यहं खड्गसखः कुब्जकयामिकम् । उदस्थापयदेषा तु दध्यौ किमिदमित्यहम् ॥२७८।। विशेषकम् तेनोक्तं किमतिकान्तवेलायां त्वं समागता । सा प्राहाऽद्य नृपः सुप्तश्चिराद्वेला ततोऽलगत् ॥२७९।। अर्थतं संगतं देव्या वीक्ष्य क्रोधधुताधरः । आकृष्टासिरहं दध्यौ हन्मि द्वावपि पापिनौ ॥२८०॥ पुनर्दध्यौ नरश्वाऽयं देवी शीलभृता तथा । अस्मि व्रतं जिघृक्षुश्च स्यात्कुमारस्य लाघवम् ॥२८१|| ध्यात्वेति न्यस्य कोशेऽसिं गतो वासगृहं पुनः । दध्यौ व्याधिविषं रोगो मारिर्मृत्युश्च योषितः ॥२८२।। युग्मम् एतया चिन्तया बालं श्रामण्यं सुन्दरं हि मे । यावद्ध्यायाम्यदस्तावत्तत्र देवी समागता ।।२८३|| चटूनि विदधत्येषाऽवमता सुप्तकैतवात् । स्वनत्सु प्रातस्तूर्येष्वपठन् मङ्गलपाठकः ॥२८४|| विवर्णवदना मुक्ततम:केशा विभावरी । परलोकस्थसूरस्याऽम्बु दातुमिव यात्यसौ ॥२८५।। समरादित्यसंक्षेपः प्रात:कृत्यं विधायाऽथ निविश्य स्थानमण्डपे । मन्त्रगेहे प्रविश्याऽथाऽऽमन्त्र्यं मन्त्रिभिः सह ॥२८६|| स्वाऽऽकूते कथितेऽमात्यैरूचे गुणधरो लघुः । कुमारो देव धर्मस्ते प्रजापालनमप्यतः ॥२८७|| मयोक्तं किं न जानीथ स्थितिरेषा हि नः कुले । धर्मदूते समायाते न स्थातव्यं गृहाऽऽश्रमे ॥२८८।। मन्त्रिणोऽभिदधुः सर्वं जानीते देव एव हि । व्यतिक्रान्ते दिने रात्रौ स्थितः स्तोकं सदस्यहम् ॥२८९।। गतो वासगृहे देव्यवज्ञायां निद्रयाऽऽहतः । सुप्तजाग्रदवस्थायां रात्र्यन्ते स्वप्नमैक्षिषि ॥२९०।। किलोपविष्टः सौधस्योपरि सिंहासनादहम् । अम्बया पातितो लुठ्यन्नधः सप्तमभुव्यगाम् ॥२९१।। तथैवाऽम्बाऽपि मत्पृष्ठेऽहं तूत्थाय कथञ्चन । आरूढो मन्दिरं पश्चान्निरीक्ष्येति विबुद्धवान् ॥२९२।। ध्यातवानिति च स्वप्न: प्रारम्भेऽयं भयानकः । विपाके शुभदस्तन्न जाने किञ्चिद्भविष्यति ॥२९३|| यत्तद्भवतु वा धर्माऽध्वन्यध्वन्यस्य मेऽधुना । धर्मध्यानस्थितस्याऽथ सा विभाता विभावरी ॥२९४|| कृत्वा प्रभातकृत्यानि सदःस्थे मय्यथाऽऽगमत् । अम्बा परिजनाऽऽकीर्णाभ्युत्थिता च मयाऽऽदरात् ॥२९५॥ अङ्गाऽऽरोग्यं तया पृष्टमाख्यं नम्रशिरा अहम् । निविष्टायामहं तस्यां दध्यौ भव्यमभूदिदम् ॥२९६।। यदम्बात्राऽऽगताऽऽकतमस्यै विज्ञपयाम्यहम् । वत्सला मयि धर्मस्य विघ्नमेषा विधास्यति ॥२९७।। १. कालनिवेदक: ख ग घ च । Page #68 -------------------------------------------------------------------------- ________________ चतुर्थो भवः १२९ १३० तत्तथा कथयाम्यस्यास्तं स्वप्नं दारुणं यथा । अनुजानाति मां वेषे ताहगेव भवाम्यथ ॥२९८॥ अम्बा मयाऽथ विज्ञप्ता स्वप्नो दृष्टो निशाऽत्यये । यहत्त्वाऽहं कुमारस्य राज्यं श्रामण्यमाददे ॥२९९॥ सौधान्निपतितश्चाऽस्मि विबुद्धश्च ससाध्वसः । अप्रशस्तं तया मत्वा तं स्वप्नं भयभीतया ॥३०॥ कम्पमानहृदा वामपदाहतभुवोदितं । थूत्कृत्य यच्चिरं वत्स ! जीव पालय मेदिनीम् ॥३०१|| युग्मम् दुःस्वप्नं प्रतिहन्तुं तु राज्यं दत्त्वा स्वसूनवे । इत्वरं साधुलिङ्गं त्वं प्रतिपद्यस्व पुत्रक ! ॥३०२॥ मयोक्तं मातुरादेशः प्रमाणमथ साऽवदत् । सौधपातप्रतीघातहेतवे वेदवाक्यतः ॥३०३।। पुरो व्यापादितैजीवैर्जलस्थलखचारिभिः । पूजया कुलदेवीनां शान्तिकर्म विधेहि च ॥३०४|| युग्मम् श्रुत्वेति श्रवसी बाद स्थगित्वोचे मयाऽम्ब ! किम् । शान्तिकं जीवघातेन भवेद्धर्मो ह्यहिंसया ॥३०५।। मनसाऽपि हते जन्तौ हन्तुम॒त्युरनेकशः । दु:खं परप्रदत्तं हि विशेषादात्मनो भवेत् ॥३०६|| तथाऽम्ब ! शान्तिकं तस्य स्याल्लोकद्वितयोत्तमम् । आत्मवत्सर्वभूतानि यः पश्यति निरन्तरम् ॥३०७।। अम्बाऽऽह पुण्यपापे स्तः परिणामविशेषतः । श्रुतौ यदुक्तं हत्वाऽपि विश्वमेतच्चराऽचरम् ॥३०८॥ यस्य नो लिप्यते बुद्धिर्न स पापेन लिप्यते । मुकुल: कमलस्येव जलेन जलगोऽपि सन् ॥३०९।। युग्मम् समरादित्यसंक्षेपः कार्य पापमपि क्वाऽपि कारणेन मनीषिभिः । विषेण मृत्युदेनाऽपि क्वाऽपि जायते भेषजम् ॥३१०।। मयोचे विदधत्पापं न पुण्यफलमश्नुते । अदन् विषं सुधाबुद्ध्या किं कोऽपि क्वाऽपि जीवति ॥३११।। प्रौढं प्राणाऽतिपाताच्च पापं नान्यज्जगत्त्रये । देहारोग्यं च हिंसाया विपर्यासो मतेरसौ ॥३१२॥ अम्बाऽऽथ कुर्विदं वत्स ! जल्पन्ती न्यपतत्पदोः । दध्यावहमथ व्याघ्रतटीन्यायोऽयमागतः ॥३१३।। एकतो गुरुगीर्भङ्गो व्रतभङ्गस्तथाऽन्यतः । अथवा गुरुगीर्भङ्गाद् व्रतभङ्गोऽतिदारुणः ॥३१४।। ध्यात्वेत्यम्बाऽथ विज्ञप्ता नाऽऽदेष्टव्यमिदं मम । अथवा कुलदेव्यों कुरु मे मांसशोणितैः ॥३१५॥ इत्युक्त्वाऽहं समाकृष्टरिष्टिर्बाहौ धृतोऽम्बया । उक्तश्च मातृवात्सल्यं किं ते न त्वां विना ह्यहम् ॥३१६|| तत्प्रकारान्तरेणाऽयं कृतो मातृवधस्त्वया । विचारय स्वयं वत्स ! यदीदं वाक्यमन्यथा ॥३१७|| अत्रान्तरे निशम्याऽम्बा ताम्रचूडस्य कूजितम् । प्राह मामस्ति कल्पोऽयं प्रस्तावो यदमूदृशि ॥३१८|| श्रूयते शब्दितं यस्य स वाऽन्यो वाऽथ तादृशः । हन्यते वाञ्छितार्थस्य सिद्धिर्भवति निश्चिता ॥३१९॥ सन्तु तस्मात्परे जीवास्त्वं व्यापादय कुकुटम् । मयोक्तं त्वगिराऽपि स्वं विना नाऽन्यं विधातये ॥३२०॥ विशेषकम् अम्बाऽऽह मद्वचस्तहि पिष्टकुक्कुटतः कुरु । ब्रुवाणेत्यसिमाच्छिद्य पपात मम पादयोः ॥३२१॥ Page #69 -------------------------------------------------------------------------- ________________ चतुर्थो भवः तन्मोहपटलच्छन्नज्ञाननेत्रेण तन्मया । प्रतिपेदे परं पश्यन्नेत्रं हि स्वं न पश्यति ॥३२२|| विधाय कुक्कुटं पिष्टमयं माता मया सह । कुलदेवीपुरा मुक्त्वा प्राह देवि सुतस्य मे ॥ ३२३ ॥ दुःस्वप्नप्रतिघाताय कुक्कुटस्तव दीयते । इत्युक्त्वा घातयामास तं मत्करगताऽसिना || ३२४|| सूपकारमथ प्राह मांसमस्य पच क्षणात् । पुत्रस्य मम चाऽप्येषा यथा शेषा प्रजायते ॥ ३२५॥ मयोचेऽम्ब ! तपोज्ञानदान ध्यानविघातिनः । वरं मांसाद्विषं यस्मादेकदा जायते मृतिः ॥ ३२६॥ भेषजेऽपि हि यो मांसभक्षणाऽनुमतिप्रदः । सोऽपि मांसाशिनः पृष्ठलग्नो गच्छति दुर्गतिम् ॥३२७|| तीर्थे स्नानानि दानानि दीक्षा शिक्षाश्च सद्गुरोः । अमांसभक्षिणस्तुल्यान्येतानि न कथञ्चन ॥३२८॥ अम्बाऽऽह किं विचारेण कृतं मद्वचनं त्वया । इदं सत्यं न मांसं च कल्पनामात्रमेव हि ॥ ३२९ ॥ तदपि प्रतिपन्नं च कृतं च मयका तथा । तदा बद्धं मया कर्म परिणामे सुदारुणम् ॥३३०|| द्वितीये दिवसे राज्यं कुमाराय ददे मया । गृह्णन्व्रतं गृहिण्योक्तः श्वः प्रव्रज्याऽस्तु नौ प्रिय ||३३१|| मयाऽध्यायि किमेतस्या विरुद्धं चेष्टितं न्वदः । अथवा चरितं स्त्रीणां वक्रं सर्पगतं यथा ||३३२ || मयोक्तं देवि नाऽहं ते भनज्मि प्रणयं क्वचित् । सा दध्यौ प्रव्रजत्यस्मिन्नप्रव्रज्याऽपवाददा ॥ ३३३॥ १३१ १३२ समरादित्यसंक्षेपः मृते त्वनुमृतौ मन्त्रिवर्गोऽपि हि निषेधति । न तथा लाघवं च स्याद् बालराजप्रपालने ||३३४|| वञ्चयित्वा चकोराणां दृष्टिमद्य कथञ्चन । ददाम्यस्य विघाताय विषं तत्क्षणमृत्युदम् ||३३५ ॥ भोजनावसरे सूदाः सिक्छन्नमुखनासिकाः । ममाऽग्रेऽनेकरूपाणि भोजनान्युपनिन्यिरे ॥३३६॥ देवी मया समाहूताहारस्य परिणामकम् । सा योगवटकं मिथ्या सविषं सममानयत् ||३३७|| चकोरेष्वपनीतेषु सा ममाऽऽचमनक्षणे । तद्ददौ निर्विकल्पं च भुक्त्वाऽपायि जलं मया ॥ ३३८ ॥ प्राग्वद् वासगृहं गत्वा पल्यङ्के न्यषदं क्षणात् । विषावेगेन निश्चेष्टो न्यपतं पृथिवीतले ॥ ३३९ ॥ अपातयद्विषेणैका मामुत्सङ्गेऽपरा दधौ । देवीपृथ्व्योः सपत्नीत्वं तदा प्रकटतां गतम् ॥ ३४० ॥ ज्ञात्वा विषविकारं मे प्रतीहारः समीपगः । तदा विषभिषग्वर्गं यावदाह्वयते किल ॥ ३४१|| तावन्न चार्विदं वैद्याऽऽह्नानं ध्यात्वा ममोपरि । न्यस्योत्तरीयं हाहेति क्रन्दमाना निरश्रु सा || ३४२|| कण्ठसंवाहनव्याजादङ्गुष्ठाऽङ्गुलिपीडनैः । जहार जीवितं जीवितेशवज्जीवितेश्वरी ||३४३॥ युग्मम् तयाऽहं निहतो भद्र प्रालेयाऽचलदक्षिणे । सिलिन्ध्रपर्वते बहित्वेनाऽऽर्तध्यानतोऽभवम् ॥ ३४४॥ हत्वा मन्मातरं बालमपि मां लुब्धकोऽग्रहीत् । अदाच्च सक्तुप्रस्थेन नन्दापाटकवासिनः ||३४५ ॥ Page #70 -------------------------------------------------------------------------- ________________ चतुर्थो भवः तलारक्षस्य संजातपक्षभारः क्रमादहम् । कृमीन्खादन् क्षुधा सेहे तृष्णाशीतोष्णवेदनाः ॥ ३४६ ॥ युग्मम् तैः पापकर्मभिः पीनगात्रः पूर्णकलापयुक् । मत्पुत्रराज्ञस्तेनाऽहं स्वप्रभोः प्राभृतीकृतः ||३४७|| यशोधराऽपि मे माताऽतीसाराऽऽतङ्कृतो मृता । विषये करहाटाख्ये धान्यपूरकनामनि ॥ ३४८ ॥ ग्रामेऽभूत्कुक्कुरो वायुवेगस्तत्स्वामिनाऽपि सः । राज्ञो गुणधरस्यैव प्रहित्य प्राभृतीकृतः || ३४९ ॥ युग्मम् समकालं विशालायामुभावावां समागतौ । प्रवेशितौ सदःस्थस्य राज्ञस्तेन विलोकितौ ॥३५०|| जज्ञे तस्याऽऽवयोः प्रीतिर्मुख्याय श्वानपोषिषु । अकालमृत्युनाम्ने श्वाऽहं पुनः पक्षिपोषिणे ॥३५१|| नीलकण्ठाभिधानायार्पितो राज्ञोदितौ च तौ । त्रिष्वस्म्यहं प्रजात्राणे पापद्ध शकुनेषु च ॥३५२ ॥ रक्ष्यौ तदेतौ यत्नेन तौ प्रपद्यैतदीयतुः । लालयत्यवनीपाल आवां द्वावपि सर्वदा || ३५३ || विशेषकम् आरोहं सौधनिर्यूहं नीलाश्ममयमन्यदा । तत्राऽ श्रौषं गुणनिकास्फुरन्मुरजनिःस्वनम् ॥३५४॥ तमाकर्ण्याऽब्दशब्दाभं नर्तित्वा सुचिरं स्थितः । गवाक्षस्यैकदेशेन चित्रशालास्थितामहम् ||३५५ || अपश्यं तेन कुब्जेन सहितां नयनावलीम् । शय्योत्सङ्गस्थितां तेन परिणीतां वधूमिव ॥ ३५६ ॥ युग्मम् तौ वीक्ष्य ध्यायतो मेऽथ जातिस्मृतिरजायत । अमर्षान्नखचञ्चभिः प्रहरामि स्म तामहम् ॥ ३५७॥ १३३ १३४ समरादित्यसंक्षेपः तया तस्यैव कुब्जस्य लौहमादाय मुद्गरम् । प्रहतः पतितस्तत्र लुठ्यन्सोपानवर्त्मना ॥३५८॥ यत्राऽस्ति नृपतिर्धूतं खेलन्मम च पृष्ठतः । लात लात लपन्नागाद्देवीपरिजनः पुनः || ३५९ || तादृशं तुमुलं श्रुत्वा प्राग्भवाम्बाशुनः सतु । धावित्वा मां गलेऽगृह्णाद्राज्ञाऽथ विहितारवम् ॥ ३६० ॥ हतः पातनकेनाऽयं वमन्नस्त्रं मुमोच माम् । उभौ कण्ठगतप्राणौ पतितौ च धरातले || ३६१ ॥ युग्मम् राजा पुरोधसं प्राह तात ताताऽम्बयोर्यथा । संस्कारो विदधे कृष्णाऽगुरुचन्दनदारुभिः || ३६२ || सुगत्यर्थं च दत्तानि महादानान्यनेकशः । सर्वं तथाऽनयोः कार्यं परलोकमुपेयुषोः ॥ ३६३॥ युग्मम् श्रुत्वेत्यचिन्तयं सूनुर्मम सद्गतिहेतवे । ददौ दानान्यहं तिर्यग्जातौ तु कृमिभक्षकः || ३६४|| भक्षितश्च शुनानेन बाढं तिष्ठामि दुखितः । अहो चित्राणि कर्माणि चिन्तयन्निति संस्थितः || ३६५ ॥ युग्मम् ततश्च भद्र ! तस्यैव गिरेः पश्चिमदिस्थिते । कोलीकरीरवच्छूलखदिरादिवनाकुले ॥ ३६६ ॥ दुःसंचरे महागर्तस्थाणुकण्टककर्करैः । निः फले निर्जले दुःप्रवेशनाम्नि महावने || ३६७|| एकाक्षपृषतीगर्भे कुण्टयत्पृषततोऽभवम् । जातोऽस्मि प्रसवस्याऽहमसम्पूर्णे त्वनेहसि ॥ ३६८|| विशेषकम् १. लुठन् क । Page #71 -------------------------------------------------------------------------- ________________ १३६ चतुर्थो भवः क्षीरे क्षुधा. मन्मातुनष्ट गोक्षुरकण्टकान् । भक्षयामि शरीरं तु प्रवृद्धं तैरपि कमात् ॥३६९|| इतः प्राग्जन्ममातृश्वाऽऽर्तध्यानेन भुजङ्गमः । तत्रैवाजऽनि दृष्टश्च स मयाऽत्यन्तभीषणः ॥३७०|| जलाशयाऽन्ते खादन्तं भेकानेतं क्षुधातुरः । पृच्छेऽहं जगृहे मां स दन्दशूकः पदेऽदशत् ॥३७१।। अहिर्मा तमहिं चाऽहं भक्षयावः परस्परम् । यावत्तावत्कुतोऽप्येत्य पातितोऽस्मि तरक्षुणा ॥३७२।। सशब्दं पाटयंश्चर्म त्रटिति त्रोटयशिराः । गण्डूषैश्च पिबन्नस्रं कटत्कारेण मोटयन् ॥३७३।। ममास्थीनि प्रवृत्तोऽयं खादितुं मां तथा यथा । जीवितेन भयत्रस्तेनेव त्यक्तं शरीरकम् ॥३७४।। युग्मम् ततोऽहं भद्र तत्रैव विशालानगरीतटे । तटिन्यां रोहितो मत्स्यो बभूव भुजगः स तु ॥३७५।। शिशुमारतया जातो दृष्टस्तेनाऽस्मि चान्यदा । गृहीतः पुच्छदेशे च तत्राऽन्तःपुरचेटिकाः ॥३७६।। समाजग्मुश्चिलाठ्याख्या ददौ झम्पां तु चेटिका । साऽऽददे शिशुमारेण ततोऽहं प्रपलायितः ॥३७७।। विशेषकम् हा गृहीता गृहीतेति रटन्ती मत्स्यबन्धकैः । साऽमोचि शिशुमारस्तु दुःखमारेण मारितः ॥३७८।। कियत्यपि गते काले कैवर्तपुरुषैरहम् । आत्तो जीवन्नृपायाऽथ प्राभृते काबिभिः कृतः ॥३७९।। राज्ञा तुष्टेन तत्कार्यं कृत्वोपनयनावलि । मां नीत्वोचेऽम्ब मत्स्यस्याऽतुच्छं छित्त्वास्य पुच्छकम् ॥३८०।। समरादित्यसंक्षेपः पक्त्वा तातार्ययोः श्रेय:कृते देहि द्विजन्मनाम् । ममात्मनश्च भोज्यायोपरिभागं तु पाचय ॥३८१।। इति मे शृण्वतो देवीं वीक्षमाणस्य चाऽभवत् । जातिस्मृतिस्तया पुच्छं छित्त्वा प्रेषि महानसे ॥३८२।। शेषं मदीयगात्रं तु वेषवारं वितीर्य सा । हरिद्रावारिणा सिक्त्वा सर्पिषा तलितं व्यधात् ॥३८३।। छिन्नं भिन्नं च पक्वं च मां खादिष्यति नन्दनः । वेद्यीति वेदनाकान्तो धर्मध्यानं तु नादधे ॥३८४।। पञ्चभिः कुलकम् इतश्च शिशुमारोऽपि मृत्वा स च्छागिकाऽभवत् । तद्गर्भे छागभावनोत्पन्नो जातो युवाऽभवम् ॥३८५।। भजस्तां जननी दृष्टो यूथाधिपतिना हतः । स्वबीजेनैवतद्गर्भे समुत्पन्नो ऽस्मि कर्मतः ॥३८६॥ सेयं मृगव्यव्यावृत्तमत्पुत्रेणेषुणा हता । विलोकिता सगर्भेति ज्ञात्वा तुन्दमदार्यत ॥३८७॥ अजापालार्पितोऽस्म्यन्यस्तन्यपानेन जीवितः । अभवं च युवा चके पूजा मत्सूनुनाऽन्यदा ॥३८८।। कुलदेवीपुर: पञ्चदश व्यापादिता महाः । सुसंस्कृतं कृतं मांसं भोजनाय द्विजन्मनाम् ॥३८९|| युग्मम् स्यात्पवित्रमुखो मेषो लोकवादोऽयमस्ति च । ततो महानसद्वारि बद्धोऽस्याऽऽनाय्य सूनुना ॥३९०|| तत्काकशुनकोच्छिष्टराद्धपक्वविशुद्धये । उच्छिघितं मया भुक्त्वा समुत्तस्थुद्विजातयः ॥३९१॥ ततः सान्त:पुरस्तत्राऽऽगच्छद् गुणधरो नृपः । जातिस्मृत्याऽथ वृत्तान्तं समस्तं ज्ञातवानहम् ॥३९२॥ Page #72 -------------------------------------------------------------------------- ________________ १३७ १३८ समरादित्यसंक्षेपः चतुर्थो भवः राज्ञा पंक्तीनिवेश्याऽथ नत्वा प्रोक्ता द्विजातयः । तातस्योपनमत्वेषा ताताम्बाया असौ पुनः ॥३९३।। एतास्तु कुलदेव्या मे उपतिष्ठन्तु पंक्तयः । तदुक्तेऽङ्गीकृते विप्रैरहं चित्ते व्यचितयम् ॥३९४|| इत्यनेकप्रकारेण मदीये तनुजन्मनि । धर्मार्थं यतमानेऽपि कर्मभिर्दुःखभागहम् ॥३९५।। भोजनाय तदा भूपः सहितः सर्वमातृभिः । उपविष्टो मया दृष्टा देव्यो न नयनावली ॥३९६।। क्व सेति यावद् ध्यायामि तावच्चेटिकयैकया । प्रोचेऽन्यां प्रति हे सुन्दर्यचैव महिषा हताः ॥३९७|| दुःसहः पूतिगन्धोऽयं तत्कुतोऽथाऽवदत्परा । प्रेममञ्जूषिके नैष गन्धो महिषधातजः ॥३९८।। किं त्वयं नयनावल्या रसम्पटताजुषः । मत्स्यभक्षणसम्भूतकुष्ठग्रस्ताङ्गसम्भवः ॥३९९|| इतराऽऽह न मत्स्योत्थः कुष्ठोऽयं सखि ! सुन्दरि ! । किं तु विश्वस्तभूपालविषव्यापादनाघभूः ॥४००|| एतयाऽलं ततो यावोऽन्यतो माऽऽज्ञां दिशत्वसौ । गते चेट्यौ मया सा तु सविशेषं निरीक्षिता ॥४०१॥ दृष्टा चैकेन पार्केनोपविष्टा मक्षिकावृता । बहिविनिर्गताऽऽताम्रनयना नयनावली ॥४०२।। ततोऽहं तीव्रदुःखेन प्रवृत्तः शोचितुं प्रियाम् । ही रूपव्यत्ययादेषा जन्मान्तरमिवाऽसदत् ॥४०३।। ययांऽहिमुखवक्षोजैः पद्मेन्दुकलशा जिताः । शीर्णघ्राणालिः कृम्याकुला सैवेयमन्यथा ॥४०४।। कुन्तलाधरहग्भिर्या मुनीनामहरन्मनः । कामिनामपि निर्वेदं दत्ते सम्प्रति सा हहा ॥४०५|| यावद् ध्यायाम्यदस्तावद्राज्ञाऽऽय निदेशितः । सूदः सैरिभमासं मे रोचते नाऽन्यदानय ॥४०६।। चण्डाऽज्ञं भूपति मत्वा कालक्षेपं तु रक्षितुम् । छित्त्वैकं पार्श्वकं मेऽसौ भटिवीकृत्य च क्षणात् ॥४०७॥ प्रैषीन्नृपाय तेनापि तातस्योपनमत्विति । अग्रासनस्थविप्राऽम्बादत्तशेषमभुज्यत ॥४०८।। विशेषकम् अथ मज्जननीजीवः कलिङ्गविषये महः । युवा विशालामागच्छत्क्रयाणकभरं वहन् ॥४०९।। तेन स्नानाऽम्बुपानार्थमेतो नृपकिशोरकः । समग्रमन्दुराश्रेष्ठः सिप्रानद्यामहन्यत ॥४१०॥ राज्ञा ज्ञात्वा तमानाय्य महिषं प्रोचिरे निजाः । यद्भटिवं विधत्तैनं जीवन्तमपि वेगतः ॥४११।। सर्वदिक्षु ततस्तस्य निखन्यायसकीलकान् । लोहशृङ्खलया बद्ध्वा पातितः पृथिवीतले ॥४१२।। तत्पुरो निहितं हिङ्गुलवणत्र्यूषणाम्भसा । भृतं महाकटाहं च ज्वालितो ज्वलनस्ततः ॥४१३|| परितः खादिरैः काष्ठैस्तदासन्नप्रदीपितैः । शुष्यत्ताल्वोष्ठकण्ठोऽयमाकण्ठं तज्जलं पपौ ॥४१४॥ तेन क्षारेण बाढं स देहस्याऽन्तः प्रदीपितः । पार्श्वकेन द्वितीयेन किल्बिषं निर्गतं ततः ॥४१५।। १. च रक्षितुं ख च । Page #73 -------------------------------------------------------------------------- ________________ १३९ १४० चतुर्थो भवः राजादेशात्ततः पक्वं पक्वं छित्त्वाऽस्य जाङ्गलम् । प्रेषि सूपकृताऽऽगाच्च नृपस्य परिवेषकः ॥४१६।। स प्रोचेऽमुं विजातीयमरे किञ्चिद्भटित्रकम् । समर्पय ततस्तेन कूरदृष्ट्याऽहमीक्षितः ॥४१७|| ततस्त्रस्तस्य मूढस्य मम कण्ठगताऽऽत्मनः । द्वितीये पार्श्वके छिन्ने देहो जीवेन तत्यजे ॥४१८॥ समं सैरिभजीवश्चाऽहं च भद्र गतायुषौ । अभूव कुक्कुटीगर्भे विशालाऽन्त्यजपाटके ॥४१९।। समये प्रसवस्याऽस्मन्माता विशसितौतुना । तेन सा भक्षिता पुञ्जे पतितं त्वण्डकद्वयम् ॥४२०॥ त्यजन्त्याऽन्त्यजया पुजं कयाऽपि स्थगितं च तत् । तदूष्मणा न जीवेन त्यक्तावावां स्वकर्मतः ॥४२१।। स्फुटिताण्डकयोस्ताम्रचूडोऽहं सा तु कुक्कुटी । जातौ दृष्टौ च चण्डालदारकेणाऽथ जीवितौ ॥४२२।। आवयोश्चन्द्रिकाशुभ्रा पिच्छश्रेणिरभूत्क्रमात् । गुञ्जार्धकीरवक्वाऽऽभा बभूव मम मञ्जरी ॥४२३|| गरुत्मच्चक्षुतुल्या च चञ्चरजनि मेऽसिता । अन्यदाऽऽवामपश्यत्तु तत्पार्श्वे दण्डपाशिकः ॥४२४।। योग्यं युग्ममिदं राज्ञः खेलनायेति सोऽग्रहीत् । दीनारेणोपदीचके राज्ञो गुणधरस्य च ॥४२५।। तुष्टो राजा जगादैनं यत्र यत्र व्रजाम्यहम् । आनेयौ तत्र तत्रैतौ तदादेशं च सोऽग्रहीत् ॥४२६।। नृपोऽन्यदा सशुद्धान्तो वसन्तक्रीडया ययौ । कुसुमाकरमुद्यानमक्रीडत्कदलीगृहे ॥४२७।। समरादित्यसंक्षेपः आवाभ्यां सहितो दण्डपाशिकोऽशोकवीथिकाम् । ययौ शशिप्रभं सूरि साधुयुक्तं ददर्श च ॥४२८।। अलीकं वन्दनं कृत्वा तन्मूले न्यषदत्तु सः । शान्तमूतिममुं वीक्ष्य मनाक् शान्त उवाच च ॥४२९।। कीदृशो भवतां धर्मो भगवानाह सुन्दर ! | एक एव भवेद्धर्मो भेदान्मूढस्तु कल्पयेत् ॥४३०॥ संक्षेपात्कथ्यते सैष न कार्य परपीडनम् । नाऽसत्यं भाष्यमादेयं नाऽदत्तं परवस्तु च ॥४३१॥ अब्रह्म वयं स्वर्णाद्यः परित्याज्यः परिग्रह: । भक्तं निशि द्विचत्वारिंशद्दोषाढ्यं च वर्जयत् ॥४३२॥ युग्मम् स प्राह यतिधर्मोऽयं गृहिधर्म निवेदय । गुरुणाऽणुव्रताद्येऽथाऽऽख्याते धर्मे जगाद सः ॥४३३।। करोम्यमुमहं धर्म वेदोक्तविधिना पुनः । त्यजामि पशुहिंसां न प्रभुस्तं प्रत्यभाषत ॥४३४|| यदि त्यजसि नो हिंसामिदं कुक्कुटयुग्मवत् । ततस्त्वमपि संसारसागरेऽनर्थमाप्यस्यसि ॥४३५॥ तेनोक्ते कथमेतेनाऽनर्थः प्राप्तोऽवदद्गुरुः । इयं जनन्ययं सूनुः पिष्टकुक्कुटघातकौ ॥४३६।। शिखिश्वानावभूतां तौ ततः पृषतभोगिनौ । सुंसुमारमहामत्स्यावजामेषौ चतुर्थके ॥४३७।। अभूतां मेषमहिषौ ततः कुक्कुटपक्षिणौ । दु:खजातं तयोर्जातं जन्तुघातजपातकात् ।।४३८।। विशेषकम् तद्दण्डपाशिकः श्रुत्वा प्रोवाचाऽलं वधेन मे । देहि व्रतानि भगवन् ! गृहिधर्मोचितानि तु ॥४३९॥ Page #74 -------------------------------------------------------------------------- ________________ चतुर्थो भवः १४१ १४२ न्यस्य पञ्चनमस्कारं तस्मिन्पञ्चगृहिव्रती । न्यस्ता भगवताऽऽवाभ्यामपि जातिः स्मृता निजा ॥४४०।। ततः सम्पन्नबोधाभ्यामावाभ्यां कूजितं मुदा । दूष्यान्तरस्थितेनेदं श्रुतं गुणधरेण च ॥४४१|| जयावल्या समं देव्या क्रीडां कुर्वन्नयं नृपः । आदाय तीरिकासारमिषुमिष्वासमप्यलम् ॥४४२॥ पश्य मे शब्दवेधित्वं देवीमुक्त्वाऽमुचच्छरम् । हतौ मृतौ जयावल्याः कुक्षावावां बभूविव ॥४४३॥ युग्मम् गर्भाऽनुभावतो जातेऽभयदानस्य दोहदे । नृपः सकलसत्त्वेष्वभयदानमदापयत् ॥४४४|| दारको दारिका चापि जातावावामनेहसि । ममाऽभयरुचिः पुत्र्याः संज्ञाभयमतिस्त्वभूत् ॥४४५॥ पुत्र्या विवाहं मे यौवराज्यं दध्यौ च भूपतिः । अथ पुर्या विनिर्याय पापद्ध्य वनमभ्यगात् ॥४४६।। स्पृष्टः सुरभिवातेन तदुद्यानं विलोकयन् । महामुनि सुदत्ताख्यं ध्यानस्थं नृप ऐक्षत ॥४४७|| तं चापशकुनं ध्यायन्नृपस्तस्य कदर्थनाम् । विधित्सुर्मोचयाञ्चके वकधीर्वक्रवालधीन् ॥४४८|| ते वेगादागतास्तस्य तपसा नि:प्रभीकृताः । औषधप्रभया ध्वस्तविषा विषधरा इव ॥४४९॥ ततः प्रदक्षिणां कृत्वा शुनके: प्रणतो मुनिः । सत्रपोऽथ नृपोऽध्यायद्वरमेते श्वपुरुषाः ॥४५०॥ नमुनः पुरुषश्वाहमस्यापि हि महामुनेः । ध्यान्नकुशलं यावदिति ध्यायति भूपतिः ॥४५१|| समरादित्यसंक्षेपः तस्यैव तावदाबाल्यान्मित्रं जिनवचोरतिः । अर्हद्दत्ताभिधः श्रेष्ठितुग्नन्तुं मुनिमागमत् ॥४५२।। ज्ञात्वोपसर्गबुद्धि तां राज्ञो मुनिपति प्रति । स प्राह किमिदं देव ! राज्ञोचे नृशुनोचितम् ॥४५३।। स प्राह नरसिंहस्त्वं तदुत्तर तुरङ्गमात् । वन्दस्व भगवन्तं च सुदत्ताख्यं महामुनिम् ॥४५४|| अस्य ह्यमरदत्ताख्यकलिङ्गाधीशजन्मनः । यौवने कुर्वतो राज्यमारक्षेण धृतोऽन्यदा ॥४५५।। स्तेनोऽस्याऽन्तिकमानीय प्रोक्तं चैतेन देव यत् । प्रविश्य वेश्म मुष्टं च निहतश्च महानरः ॥४५६।। नि:सरन् विधृतोऽस्माभिः प्रमाणं सम्प्रति प्रभुः । एतेनाह्वाय्य पृष्टाश्च धर्मशास्त्रस्य पाठकाः ॥४५७॥ एतदीयागसः कः स्याद्दण्डस्ते च बभाषिरे । अयं पुरुषहन्ता च परद्रव्यहरश्च यत् ॥४५८|| परितो भ्रमयित्वा तच्चत्वरेषु त्रिकेषु च । जनाऽध्यक्ष महादण्डः क्रियेतेति ऋषेर्वचः ॥४५९॥ पञ्चभिः कुलकम् श्रुत्वेत्यनेन धिग् राज्यं यत्रैतदनुमन्यते । तदलं राज्यसौख्येन विपाककटुकेन मे ॥४६०।। ध्यात्वेत्यानन्दसंज्ञाय राज्यं दत्त्वा स्वबन्धवे । प्रतिपन्नव्रतो गुर्वन्तिकेऽयं वन्द्य एव हि ॥४६१।। ससंभ्रममथो गत्वा राजर्षिमनमन्नृपः । पारयित्वा ततो ध्यानममुना धर्मलाभितः ॥४६२॥ भाषितश्च महाराजोपविशेति सगौरवम् । हृदि सानुशयो दध्यौ धिग्धिग्मामृषिघातकम् ॥४६३।। Page #75 -------------------------------------------------------------------------- ________________ १४३ चतुर्थो भवः शिरश्छेदं विना नान्यत्प्रायश्चित्तं ममास्ति च । धर्तुं न शक्नोम्यात्मानमकृत्याचारदूषितम् ॥४६४।। ततो मे जीवितेनालं कुर्वे हृदि समीहितम् । ध्यायन्निति नृपः प्रोचे चतुर्ज्ञानवताऽऽयुना ॥४६५।। नात्मघातमयं राजन्प्रायश्चित्तं प्रशस्यते । आत्मनोऽपि परस्याऽपि वर्जनीयं हि पीडनम् ॥४६६।। किं चाहद्वाक्यमेवेदमात्मशुद्धिविधायकम् । सम्पादयामि ते किं च श्रीसर्वज्ञस्य शासनम् ॥४६७|| हृदाकूतपरिज्ञानपुष्टो राजा मुनीश्वरम् । नत्वाऽपृच्छदथ प्रायश्चित्तं किं स्याद् गुरुर्जगौ ॥४६८।। विपक्षाऽऽसेवनं प्रायश्चित्तं तच्चाऽनिदानतः । मिथ्यात्वयुक्तमज्ञानं निदानमिति कीर्त्यते ॥४६९|| तच्चान्यथा स्थिते भावे प्रवृत्तिः स्याद्यदन्यथा । त्वयाऽपशकुनत्वेन ध्यातोऽहं हदि यत्किल ॥४७०।। अस्नानोऽयं शिरस्तुण्डमुण्ड: पाषण्डवेषभृत् । भिक्षुश्चेति महाराज ! तत्राऽकर्णय कारणम् ॥४७१॥ युग्मम् कृते स्नाने क्षणं शौचं रागमानौ च चेतसि । स्त्रीजनप्रार्थनीयत्वं ब्रह्मचर्यस्य दूषणम् ॥४७२।। घातो जलस्थजीवानामन्यसत्त्वविबाधनम् । क्षीरक्षालनमगार इवाऽज्ञानप्रकाशनम् ॥४७३।। अस्त्राने तु न दोषास्ते किं च पावित्र्यकारणम् । कृपैव सर्वसत्त्वेषु मनोवचनकर्मभिः ॥४७४|| समरादित्यसंक्षेपः नि:कषायाः सदा गुप्तेन्द्रियाः सुविशदव्रताः । सध्याननिरता नित्यं शुचयो हि मुनीश्वराः ॥४७५॥ संगतं च शिरस्तुण्डमुण्डनं जीवरक्षणात् । पाषण्डमपि सर्वज्ञप्रोक्तं नैव विरुध्यते ॥४७६।। सर्वारम्भनिवृत्तस्य भिक्षा श्लाघ्या हि सन्मुनेः । श्रमणत्वमतो राजन् ! परमं मङ्गलं मतम् ॥४७७|| कुतोऽपशकुनस्तत्ते श्रुत्वेति जगतीपतिः । मिथ्यात्वतिमिरे नष्टे पपात मुनिपादयोः ॥४७८।। उवाच च मया त्यक्तं निदानं तत्क्षमस्व मे । अपराधं मुनिः प्राह क्षमारूपा हि साधवः ॥४७९|| वीतरागवचो ह्येतत्कर्तव्या मुनिना क्षमा । आकोशयातनाघातधर्मभ्रंशकरेष्वपि ॥४८०॥ नृपोऽध्यायद्भगवतो ज्ञानस्याविषयोऽस्ति न । पृच्छामि सविशेषं तत्तातताताऽम्बयोर्गतिम् ॥४८१॥ ध्यात्वेति भूभुजा पृष्टः पिष्टकुक्कुटघातजाम् । केक्यादितदपत्यत्वपर्यन्तां मुनिराख्यत ॥४८२।। युग्मम् राजा दध्यौ भवो निन्द्यः स्त्रीजनश्चानवस्थितः । मोहो महानिहाकृत्यं विपाके दारुणं तथा ॥४८३॥ पिष्टकुक्कुटघातोऽपि यदेवंविधदुःखदः । निर्मन्तुजन्तुहन्तुर्मे लक्षशः का गतिस्ततः ॥४८४॥ गन्ताऽस्म्यहमवश्यं तन्नरके नरकीटकः । उपायः कोऽपि नास्त्यस्याऽपायस्य परिरक्षणे ॥४८५।। अथः प्राच्यैः सुदत्तेन दत्तेन सुकृतैः कृतैः । प्रोचे मनो महाराज ! खेदमेदस्वि मा कृथाः ॥४८६।। १. कीर्तितं ख ग घ । Page #76 -------------------------------------------------------------------------- ________________ चतुर्थो भवः उपायोऽस्ति जिनोक्तस्य प्रतिपत्तिर्निबोधताम् । दुष्कृतेष्वनुतापेन चित्तरत्नस्य शोधनम् ||४८७|| सर्वारम्भपरित्यागश्चारित्रस्योर कृतिः । मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानां च जन्तुषु ॥ ४८८|| प्राक्कर्माणि क्षपन्तीत्थं न बघ्नन्ति नवानि च । ततः क्षपितकर्माणः प्रयान्ति परमां गतिम् ||४८९ ॥ विशेषकम् राज्ञोचे स्वल्पकेनाऽपि पापेन गतिरीदृशी । भवेत्तन्मे महापापकृतः स्यात्सुगतिः कथम् ||४९०॥ मुनिरूचे चरित्रस्याऽसाध्यमस्ति न किञ्चन । कल्पद्रुकामधुक्चिन्तारत्नाऽतीतप्रभावतः ॥४९१॥ विषं यथाप्रतीकारमल्पमप्यसुनाशनम् । पापमप्यप्रतीकारं तथा सौख्यस्य नाशनम् ॥ ४९२ ॥ यथा कृतप्रतीकारा जरयन्ति महाविषम् । चारित्रेण महापापमपि संसारिणस्तथा ॥ ४९३॥ नृपः प्रोवाच भगवंश्चारित्रं कीदृगुच्यते । गुरुः प्राह ज्ञानपूर्व रुच्या दोषनिवर्तनम् ||४९४ ॥ उक्तं च ज्ञानवान् रोचमानो दोषान्निवर्तते । अन्यथा त्वप्रवृत्ताश्चानवृत्तिश्चेव भावतः ||४९५ ॥ इदं सानुभवं कर्मविगमस्य निबन्धनम् । राज्ञोचे सेवमानस्य त्वां मे ज्ञानं न दुर्लभम् ||४९६ ।। ततस्तीव्ररुचिस्तस्या दोषपोषनिवर्तनम् । तद्धन्योऽस्मि त्वया सार्धं दर्शनं यस्य मेऽभवत् ॥४९७|| १. माध्यस्थानि क । २. प्रभामृतः ख । १४५ १४६ समरादित्यसंक्षेपः कदापि दर्शनं दत्ते नाऽधन्यानां महानिधिः । आज्ञां भगवतस्तस्मादनुतिष्ठामि साम्प्रतम् ॥४९८ ॥ किं चास्मि श्रमणत्वस्य योग्योऽहं गुरुरूचिवान् । कोऽन्यो योग्यस्ततो हृष्टो नृपः प्रोवाच मन्त्रिणः ॥ ४९९ || कार्योऽभयरुचे राज्याभिषेकः खेदवर्जितैः । भाव्यं भगवतः पार्श्वे मुदा गृह्णाम्यहं व्रतम् ||५००॥ प्रभोः प्रमाणमादेश इत्युक्त्वा ते ययुः पुरे । निवेदिते च पौराणां श्रुतमन्तः पुरेण तत् ॥५०१॥ हित्वा गुणनिकालेख्यगान्धर्वाद्यसमापितम् । हाहारवं प्रकुर्वाणमन्तः पुरमवाप च ॥ ५०२ || ततश्चरणचारेणाऽभयमत्या युतोऽप्यहम् । समेतस्तत्र दृष्टश्च सर्वैरपि नरेश्वरः ||५०३|| भूमौ निविष्टं संविग्नं तं वीक्ष्यच्छत्रचामरम् । उवाचाऽन्तःपुरं देव किमुद्विग्न इवेक्ष्यसे ॥५०४ ॥ स प्राह भववैराग्याज्जगादाऽन्तःपुरं ततः । कीदृक् ते भववैराग्यं स प्राहाऽथाऽऽवयोः कथाम् ||५०५ ॥ तच्छ्रुत्वा मूर्च्छितावावामसंज्ञौ पतितौ भुवि । हाहेति सर्वदेवीभिर्गदितं च सगद्गदम् ||५०६ ॥ अम्बा बाष्पजलक्लिन्ननेत्रा नौ पतितोपरि । आवाभ्यां लब्धसंज्ञाभ्यां दुःखेनाऽऽश्वसिता ततः ॥ ५०७।। विज्ञप्तोऽथ नृपो राजन्नलं नौ विषयैरिमैः । आवयोरनुजानीहि दुःखौघशमनं व्रतम् ||५०८ || तदनुज्ञाय दत्त्वा च राज्यं विजयवर्मणः । जामेयस्य विधायाऽथ चैत्येष्वष्टाहिकामहम् ||५०९ || Page #77 -------------------------------------------------------------------------- ________________ १४७ १४८ चतुर्थो भवः सान्तःपुरप्रधानोऽयमावाभ्यां सह भूपतिः । व्रत्यभूदथ विज्ञप्तः श्रीसुदत्तमुनिर्मया ॥५१०|| युग्मम् यत्प्रभो नयनावल्या अप्यनुग्रहमातनु । असावप्याहतं धर्म प्राप्नोतु त्वत्प्रसादतः ॥५११|| भगवानाह सा धर्मकथाया न हि गोचरे । कर्मव्याधिः प्रवृद्धोऽस्या अकृत्याऽपथ्यसेवनात् ।।५१२।। बद्धं तृतीयापृथ्व्यां च नरकायुर्न चासकौ । धर्मचिन्तामणि मोहपरायत्ता प्रपद्यते ॥५१३॥ किं च स्नेहं विमुच्याऽस्यां संसारपरिवर्धनम् । त्रैलोक्यदुर्लभं लब्धं व्रतमेव निजं कुरु ॥५१४॥ आवां गुरुप्रसादेन प्रपाल्याऽथ व्रतं चिरम् । उदपद्यावहि स्वर्गे निसर्गसुखशालिनौ ॥५१५॥ ततः कोशलदेशेऽहं साकेतनगरेशितुः । विनयन्धरराजस्य लक्ष्मीवत्यां सुतोऽभवम् ॥५१६।। नाम्ना यशोधर इति पितृभ्यां च प्रतिष्ठितः । वृद्धः कलाकलापेन शरीरोपचयेन च ॥५१७॥ च्युत्वाऽभयमतेर्जीव: पाटलीपुत्रपत्तने । ईशानसेनभूपस्य विजयायां सुताऽभवत् ॥५१८।। असौ विनयमत्याख्या क्रमाद्यौवनमासदत् । पित्रा स्वयंवरा मह्यं प्रेषिता च मनीषिणा ॥५१९|| ससैन्याऽपि समेता सा तुष्टोऽहं हृदयेऽधिकम् । आवासिता बहिर्भागे तातेन बहुमानिता ॥५२०॥ दत्ते मुहूर्ते दैवज्ञैः कृतः स्नानादिकक्रियः । नदद्भिर्मङ्गलातोद्यैर्नृत्यति प्रमदाजने ॥५२१।। समरादित्यसंक्षेपः पठत्सु बन्दिष्वम्बासु गायन्तीषु कलस्वरम् । श्वेतहस्तिनमारूढो राजवृन्देन संयुतः ॥५२२।। ईशानसेनभूपालपुत्रीमुद्बोढुमुत्सुकः । निरीक्ष्यमाणः पौरीभी राजमार्गमुपागमम् ॥५२३|| विशेषकम् अथ मे दक्षिणं चक्षुः स्फुरितं मुदितं मनः । चिन्तितं च मया भाव्यं प्रमोदेनाऽपरेण मे ॥५२४।। तदा गोचरचर्यायां कल्याणश्रेष्ठिमन्दिरे । दृष्टः साधुरमुं वीक्ष्य ममोत्पन्नश्च संभ्रमः ॥५२५।। अभ्यस्तसाधुधर्मत्वाच्चित्रत्वात्कर्मणां गतेः । हस्तिस्कन्धगतस्यैव जातिस्मृतिरभून्मम ॥५२६।। निपतन्तं च मां पार्श्ववर्ती हस्तिपकोत्तमः । रामभद्राऽभिधो दधे हा किमेतदिति ब्रुवन् ॥५२७।। निषिद्धाश्च ततो दूरात्तत्र वादित्रवादकाः । अविषाद्यपि भूपालो विषण्णश्च समागमत् ॥५२८।। अयं मदनितः पूगफलाद्यैरिति सेवितः । श्रीखण्डवारिणा लब्धचेतनः स्मेरलोचनः ॥५२९॥ संसारचारकोद्विग्नः कृतासनपरिग्रहः । प्रोक्तस्तातेन किं वत्स मयोचे भववैशसम् ॥५३०।। युग्मम् तात: प्रोवाच कः कालः साम्प्रतं भववैशसे । मयोचेऽसौ कथाऽऽख्यातुं संक्षेपेण न शक्यते ॥५३१।। क्वचिन्निविश्य तत्तातो मम मातृजनं जनम् । आकारयतु येनाऽहमाख्यामि भववैशसम् ॥५३२।। तथा कृत्वा नृपः प्राह वत्स संसारवैशसम् । निवेदय मया प्रोचे त्वं ममाऽनुभवं श्रृणु ॥५३३॥ Page #78 -------------------------------------------------------------------------- ________________ चतुर्थो भवः १४९ १५० गुणहीनः सदा तात ! भव एष स्वभावतः । स्वरूपमस्य जानन्ति न महामोहमोहिताः ॥५३४।। अकृत्येषु प्रवर्तन्ते समीक्षन्ते च नायतिम् । सुराणामिपि तुल्यास्तु जन्ममृत्युवियोगकाः ॥५३५।। दारुणश्च विपाकोऽस्य भवस्य प्रविजृम्भते । यत्पिष्टकुक्कुटस्याऽपि वधः परिणतः कथम् ॥५३६।। उक्त्वेति निजदुःखाऽनुभवयुक्तं सविस्तरम् ।। आख्यं सुरेन्द्रदत्तादिजातिस्मृत्यन्तमात्मनः ॥५३७|| अकृत्याऽऽचरणस्याहो विपाकः पश्य दारुणः । जल्पन्निति नृपाम्बादिलोकः संविग्नतामगात् ।।५३८।। ततो मयोक्तमीदृक्षं परिणामं निरीक्ष्य मे । विरक्तं भवतश्चित्तं जैनबोधश्च जृम्भितः ॥५३९|| अनुजानातु मां तातो यथा ताताऽनुभावतः । नि:फलं मानुषं जन्म सफलं विदधाम्यहम् ॥५४०।। ततस्तातोऽवदन्मोहात्सफलं तेऽस्तु जीवितम् । परिणीय वधूमेतां प्रजानां कुरु पालनम् ।।५४१॥ मयोचे तात मच्चित्तं विरक्तं भवचारकात् । तद्दारसंग्रहेणाऽलं कोऽत्र दोषो नृपोदिते ॥५४२॥ मयोचेऽसौ मदावास: प्रतिपक्षः शमस्य च । व्याधिनिरौषधो मित्रं व्याक्षेपस्य क्षयो धृतेः ।।५४३|| सध्यानवैरी मोहस्याऽऽयतनं दुःखजन्मभूः । सीदन्ति पुरुषा ह्यत्र पञ्चास्या इव पञ्जरे ॥५४४|| युग्मम् नोचितं किं च सौवर्णस्थालेनाऽमेध्यशोधनम् । विषया हि पुरीषाभाः स्वर्णस्थालं नृजन्म तु ॥५५५।। समरादित्यसंक्षेपः तदलं सर्ववार्ताभिरनुजानीहि मे व्रतम् । राज्ञोचे वक्षि सत्यं त्वं पीड्येऽहं स्नेहकातरः ॥५४६|| मयोक्तं तात सत्यस्य स्नेह एष परो रिपुः । अयमेव प्रधानं च भवबन्धनिबन्धनम् ॥५४७|| भवो दीप इव स्नेहसहितः संसरत्यलम् । निरुपायो न निर्वाणं लभते स कथञ्चन ॥५४८।। नृपेणोक्तमिदं सत्यं खिद्यते किं तु सा वधूः । मयोक्तमल्पकं ह्येतदन्यच्चास्यै निवेद्यते ॥५४९।। कदाऽपि साऽपि श्रुत्वैवं बोधं प्राप्नोति तद्वरम् । तातोऽथ युक्तमित्युक्त्वा प्रजिघाय पुरोधसम् ॥५५०।। एवं स्थिते किमस्माभिः कार्यं गत्वेति तां वद । स शङ्खवर्धनाख्योऽथ गत्वाऽऽयातोऽवदन्नृपम् ॥५५१।। महाराजा सुसम्पन्नाः कुमारस्य मनोरथाः । गतः सन् बहुमानेन वेत्रिणाऽहं प्रवेशितः ॥५५२।। सौवस्तिकस्तवेत्युच्चै राजपुत्र्याऽभिनन्दितः । तद्दापितासने चोपविश्यतामित्यभाणिषम् ।।५५३॥ किञ्चिद्वक्तव्यमस्तीति सा प्राहाऽऽर्यो वदत्विति । मयोक्तमेषा देवाज्ञा सावधाना ततः शृणु ॥५५४|| विधाय साथ नौरङ्गीमासनादवतीर्य च । बद्धाञ्जलिरुवाचेति किमादिशति मे गुरुः ॥५५५।। मया प्रोक्तं कुमारस्याऽऽगच्छतः साधुदर्शनात् । जातिस्मृतौ स्मृताः पूर्वभवास्त्वं तान्निशामय ॥५५६।। १. न्यच्चासौ ख च । Page #79 -------------------------------------------------------------------------- ________________ चतुर्थो भवः विशालायां पुरि पुराऽमरदत्तोऽभवन्नृपः । देवी यशोधरा तस्य सतीव्रतयशोधरा ॥ ५५७॥ तदङ्गभूर्बभूवाऽहं वीतेऽस्मान्नवमे भवे । सुरेन्द्रदत्तनामाऽस्मि मद्भार्या नयनावली ॥ ५५८ ॥ जल्पामि यावदेतावत्तावन्मोहं गता कनी । आकुलोऽभूत्परिजनो विषण्णोऽहं च चेतसि ॥ ५५९ ॥ चन्दनद्रवसंजातचेतना भाषिता मया । किमेतदिति सा प्राह संसारस्य विचित्रता ॥५६०॥ मया कथमिति प्रोक्ते सा प्रोचेऽहं यशोधरा । तन्माता प्राग्भवेऽतीते नवमेऽनवमेऽभवम् ॥५६१॥ जल्पित्वेति तयाऽऽख्यायि सकलं चरितं निजम् । यथाऽऽख्यातं कुमारेण भवतां भवतान्तिदम् ॥५६२॥ मयाऽथ जल्पितं राजपुत्रि व्यतिकरादितः । भवोद्विग्नः कुमारोऽयं जिनदीक्षां जिघृक्षति ||५६३|| एवंविधे किमस्माभिः कार्यमित्यादिशद् गुरुः । तयोदितं महाराजमार्यो विज्ञपयत्विति ॥५६४|| भवोऽयमीदृशस्तात सकर्णानां विरागदः । किं स्नेहेन कुमारस्य कुरुध्वं चित्तवाञ्छितम् ॥५६५॥ भवे विरक्तचित्ताया ममाऽऽप्यादिशत व्रतम् । नृपः श्रुत्वेति वृत्तान्तं परं संवेगमागमत् ॥५६६ ॥ अवोचच्च न पुत्रस्त्वं गुरुर्धर्मनियोजनात् । प्रव्रज्यां प्रतिपद्येऽहमपि तद्भवता सह ॥५६७॥ १. नामा मद्भार्या च क नामाभूद्भार्या च ख । २. व्यतिकरादिमात् ख ग घ च । १५१ १५२ समरादित्यसंक्षेपः अम्बा अप्यूचिरे युक्तमार्यपुत्रेदमस्थ । नटपेटकतुल्येऽत्र किं स्नेहेन कुटुम्बके ॥५६८ ॥ मयोदितं यथा सौख्यं प्रतिबन्धं विधत्त मा । तातेनाऽथ महादानं दापितं दीनदुः स्थिते ॥ ५६९ ॥ पूजा च सर्वचैत्येषु कारिता मानितो जनः । यशोवर्धननामा मेऽनुजो राज्ये निवेशितः ॥ ५७० ॥ युग्मम् मया विनयमत्या च शुद्धाऽन्तेन जनैरपि । युक्तस्तातो व्रतं पूज्येन्द्रभूतेरन्तिके ललौ ॥ ५७१ ॥ तदेतच्चरितं स्वं मे भद्र ! निर्वेदकारणम् । धनः प्राह न कस्येदमन्यस्याऽपि मनोभिदे ॥ ५७२ || ईदृशो ह्येष संसारस्तदादिशतु मे प्रभुः । यत्कर्तव्यं मयाऽऽचार्यः प्रोवाचाऽथ यशोधरः ||५७३ || उत्सर्पिण्योऽवसर्पिण्योऽसंख्याता वसुधादिषु । वनस्पतावनन्तास्तु तास्तिष्ठति शरीरभृत् ॥५७४ || ततस्त्रसत्वं तस्माच्च तिर्यक्त्वं मर्त्यता ततः । आर्यदेशः शुभा जातिः समस्तेन्द्रियपाटवम् ॥५७५॥ जीवितं धर्मबुद्धिश्च जिनधर्मे स्थितिस्ततः । श्रद्धा तस्यां च चारित्रे प्रतिपत्तिः सुदुर्लभाः ॥५७६ || तस्यामपि मनः शुद्धिः साम्यं तत्राऽपि दुर्लभम् । तत्प्राप्तावचिरेणाऽपि लभते परमं पदम् ॥५७७|| कलापकम् तत्प्रपद्यस्व चारित्रं किमन्येन कृतेन ते । अशाश्वता हि संयोगा मृत्युः प्रभवति ध्रुवम् ॥५७८ || एकवृक्षवसत्पक्षिसदृक्षाः स्वजनादयः । ततः सम्पन्नचारित्रपरिणामो धनोऽवदत् ||५७९ || Page #80 -------------------------------------------------------------------------- ________________ समरादित्यसंक्षेपः चतुर्थो भवः १५३ प्रभुणाऽनुगृहीतोऽस्मि निवेद्य जनकाऽम्बयोः । आदास्यामि परिव्रज्यामित्युक्त्वाऽगाद्धनो गृहम् ।।५८०|| न्यवेदयच्च पित्रोस्तौ दध्यतुः किं भवेन नौ । तन्निवेश्य सुते भारं प्रतिपद्यावहे व्रतम् ।।५८१|| ध्यात्वा प्राह पिता सारं मणिमुक्तादिकं धनम् । प्रतिजागृहि वत्स ! त्वं प्रतिपद्ये व्रतं त्वहम् ॥५८२।। धनः प्राहोचितं ह्येतल्लब्धे मानुष्यकेऽनघे । प्राणिना कृत्यमेवेदमादिष्टं यदिदं पुनः ॥५८३।। मणिमुक्तादिकं सारद्रव्यं त्वं प्रतिजागृहि । तस्य का सारता मृत्योः समर्थं रक्षितुं किमु ॥५८४|| किं वा जन्मजराहारि नि:पुण्यं किमु नोज्झति । समग्रस्याऽथिवर्गस्य कि मनोरथपूरकम् ॥५८५|| परलोके गुणः कोऽपि सद्रव्यस्य मृतस्य किम् । पिताऽऽह न धनः प्रोचे किमनेन फलं ततः ॥५८६|| कलापकम् तातोऽनुमन्यतां तन्मे प्रव्रज्यामात्मना सह । श्रेष्ठ्यूचेऽनुमतं किं तु यौवनस्याऽसमा गतिः ॥५८७।। दुर्दमानीन्द्रियाणीह बाद प्रभवति स्मरः । आकर्षन्ति मनोहारिविषयाः पुरुषं मुहुः ॥५८८।। धनः प्रोचेऽथ नो ताताऽविवेकाद्यौवनं परम् । निविवेका हि वृद्धत्वेऽपीक्ष्यन्ते विषयोन्मदाः ॥५८९|| कुर्वन्ति कुन्तलान्कालान्सेवन्ते च रसायनम् । अप्रवृत्तौ प्रवर्तन्ते नेक्षन्ते जीवितं गतम् ॥५९०॥ अन्ये तु यौवनावस्था अपि विद्युल्लताचलम् । जानन्ति जीवितं सौख्यमसारं चेन्द्रियार्थजम् ॥५९१।। विपाकदारुणत्वं च प्रमादस्य विदन्ति ते । पापहेतुपरित्रस्ता: सेवन्ते चरणं परम् ॥५९२।। तस्मादकारणं तात ! यौवनं यद्विवेकिनः । न दुर्दमानि स्रोतांसि दान्तानि स्युः शिवाय च ॥५९३|| स्मरोऽप्यनार्यसंकल्पैः स्यात्तेषां त्यजने कुतः । प्रभवत्यपि न प्रायः शमसातवतां हृदि ॥५९४|| विषयाणां च का नाम स्यान्मनोहरता मता । इमे पुद्गलरूपा हि शब्दाद्यास्तेऽनवस्थिताः ॥५९५।। शुभा अप्यशुभास्ते स्युरशुभाश्च शुभाः क्वचित् । अनर्थभूतैरतैः किं दु:खदै: परमार्थतः ॥५९६।। असंयोगे पुनः स्वस्वरूपे सविधवर्तिनि । मन्वानान्वास्तवं सौख्यं कर्षन्ति विषयाः कथम् ।।५९७।। तत्तातस्य प्रभावेण सर्व निर्विघ्नमेव मे । तत्प्रतिश्रुत्य तेनाऽथ विदधेऽष्टाहिकामहः ॥५९८॥ दापयित्वा महादानं पितृभ्यां स्वजनैरपि । युतो यशोधराऽऽचार्यसमीपे प्राव्रजद्धनः ॥५९९।। कियत्यपि गते काले शुद्धसिद्धान्तबुद्धधीः । ज्ञातक्रियाकलापश्च सम्यग्भावितभावनः ॥६००|| एककप्रतिमां बिभ्रन्नगरे पञ्चरात्रिकम् । एकरात्रं वसन्ग्रामे कौशाम्बीपुरमागमत् ॥६०१।। युग्मम् इतश्च नन्दक: प्रातरप्येतमविलोकयन् । द्विधाऽपि हि धनश्रीयुग्लङ्गयित्वा पयोनिधिम् ॥६०२।। १. संबन्धिवतिति ख ग घ । २. व्रतं निर्विघ्नमेव मे ख ग घ । ३. पञ्चरात्रकं ख ग घ च । Page #81 -------------------------------------------------------------------------- ________________ १५५ समरादित्यसंक्षेपः चतुर्थो भवः विस्मार्य तद्गिरा श्रेष्ठिधनयोः सुकृतं कृतम् । दत्त्वा समुद्रदत्ताख्यां स्वस्य तत्र वसत्यसौ ॥६०३।। युग्मम् धनर्षिरुचिते काले गोचरे प्राविशद् गृहम् । नन्दकस्यैव दृष्टोपलक्षितश्च धनश्रिया ॥६०४।। साऽध्यायन्नायमम्भोधिमध्येऽपि पतितो मृतः । अहो अधन्यता मे यत्पुनरक्षिगतोऽभवत् ॥६०५॥ साम्प्रतं तत्तथा कुर्वे यथा वैरी न जीवति । दोषाकर इवाम्भोधिपतितः पुनरागतः ॥६०६।। धनर्षिस्तु व्यतिक्रान्तं याञ्चाकालं विचिन्तयन् । निर्जगाम धनश्रीस्तु प्रद्वेषमधिकं दधौ ॥६०७।। अयं प्रत्यभिजज्ञे मां वेगतो निरगात्ततः । ध्यात्वेति चेटिकामूचे स्वमनीषितमेषितुम् ॥६०८।। हले क्व श्रमणोऽस्त्येष सम्यग्ज्ञात्वा निवेदय । यदादिशति देवी मामित्युक्त्वा निर्गता च सा ॥६०९।। लग्ना धनस्य पृष्ठेऽसौ धनश्चालब्धभोजनः । पुर्या निर्याय तद्देव्युद्याने व्युत्सर्गमास्थितः ॥६१०॥ कञ्चित्कालं च सा स्थित्वा तं मत्वा तत्र निश्चलम् । आगत्याऽकथयच्चेटी यथावस्थं धनश्रियः ॥६११।। तयाऽथ नन्दक: प्रोचे शरीरेणापटौ त्वयि । मयोपयाचितं पद्रदेव्या निर्व्याजमीदृशम् ॥६१२।। यद् गृहीतोपवासाऽहं कृष्णपक्षाऽष्टमीदिने । तव वेश्मनि वत्स्यामि प्रमादात्त्वष्टमी गता ॥६१३॥ स्वप्नेऽद्य प्रेरिता देव्या सुप्तायास्त्वं ममाऽगमः । प्रात:कृत्याय तत्प्रातः स्वप्नस्ते न निवेदितः ॥६१४|| तन्मामुपोषितां गन्तुमनुजानीहि सज्जय । पूजोपकरणं चास्या इत्युक्तः स तथा व्यधात् ॥६१५।। कलापकम् अथ कर्मकराभ्यां च तया चेट्या च संयुता । तदुद्यानमगादेषापश्यच्च श्रमणं धनम् ॥६१६।। तदा शाकटिकः कोऽपि शकटं सारदारुभिः । परिपूर्यागतस्तत्र गतस्याक्षस्त्वभज्यत ॥६१७|| सूरे चास्तंगतप्राये कः काष्ठानि ग्रहीष्यति । ध्यात्वेति धुर्यावादाय जगाम स निजं गृहम् ॥६१८।। चिराय रुचितं जातं यतः काष्ठैरिमैरिमम् । धक्ष्याम्यद्येति सा ध्यात्वा चण्डी चण्डीगृहं ययौ ॥६१९॥ अचित्वा चर्चिकां दत्त्वा चेटीभृतका भोजनम् । तेषु सुप्तेषु सैकैव गता भगवतोऽन्तिकम् ॥६२०।। प्राग्निदानानुभावेन तया मोहविमूढया । अदविष्ठानि काष्ठानि रचितानि चिता यथा ॥६२१।। गता पापिष्ठकाष्ठां सा ध्यानकाष्ठाजुषो मुनेः । सर्वकाष्ठासु नेदिष्ठे काष्ठानि न्यस्तवत्यलम् ॥६२२।। उभयप्रथमे प्रीतिरित्यभूज्ज्योतिषं मृषा । परितस्तं यतस्तेने तया काष्ठषडष्टकम् ॥६२३|| तेन सद्ध्यानसंलीनमनसा लक्षिता न सा । न च काष्ठानि काष्ठा हि योगसंयोगजेदृशा ॥६२४|| ज्वालितज्वलनज्वालावलीलीढतनुर्धनः । करुणातरुणावस्थाप्रधानोऽध्यायदीदृशम् ॥६२५।। १.ऽन्तिके ख ङ च । Page #82 -------------------------------------------------------------------------- ________________ १५८ चतुर्थो भवः धन्याः सत्पुरुषास्ते ये गता मोक्षमनुत्तरम् । यतो न तेऽन्यजन्तूनां कर्मबन्धनिबन्धनम् ॥६२६।। एष मोहवशः कश्चिद् गन्ता मां प्राप्य दुर्गतिम् । अहो कष्टमहो कष्टं बहुदु:खदुरुत्तराम् ॥६२७|| अहं निमित्तमेतस्य दुर्गतेर्गमने हहा । न कारणं विना कार्यसिद्धिरित्यार्हतं वचः ॥६२८।। न शोचामि निजं देहं शोचाम्येतं तु देहिनम् । जिनवाक्यबहिर्भूतं पतन्तं दु:खवारिधौ ॥६२९।। कियदेतदथ क्लिष्टसत्त्वानां मोहशालिनाम् । एष मोहस्वभावो हि धिग्मे संसारवासिताम् ॥६३०॥ इति ध्यानमपध्यानविधस्तस्य व्यवर्धत । ज्वलत्यग्नौ निमग्नस्य सुवर्णस्यैव वर्णिका ॥६३१॥ इत्थं शुभपरीणाम: स हतः पापया तया । अभूत्पञ्चदशाब्ध्यायुः शुके शकसमः सुरः ॥६३२।। इत: ससाध्वसायाता धनश्रीश्चण्डिकागृहम् । प्रविशन्त्यङ्गचिन्तार्थोत्थितयोचे भुजिष्यया ॥६३३॥ क्व स्वामिनि गताऽसि त्वं तया प्रोचे क्वचिन्न हि । चक्रे निशीथकालस्य भगवत्याः प्रदक्षिणा ॥६३४।। वयुद्द्योतं निरीक्ष्यैषा किमेतदिति चेटिका । चिन्तयन्ती पुनः सुप्ता विभाता च विभावरी ॥६३५।। कृत्वा देव्याः पुनः पूजां संमान्य भृतकानलम् । धनश्रीः प्रस्थिता गेहं दृष्टः प्लुष्टो मुनिः पथि ॥६३६।। चेट्या कर्मकराभ्यां च प्रोचे केनाऽपि कीदृशम् । कर्मेदं विदधे प्राह धनश्रीआयते न सः ॥६३७|| समरादित्यसंक्षेपः चेटी दध्यौ मुनेरन्वेषणाय प्रेषिता ह्यहम् । निर्गता चार्धरात्रेऽसौ प्रेक्ष्युद्द्योतस्तदा मया ॥६३८॥ तत्किमेतन्महापापे मा भूवं योजिताऽनया । ध्यायन्तीति गृहं प्राप सा सहैव धनश्रिया ॥६३९।। इत: शाकटिको दृष्ट्वा प्लुष्टं मुनिमचिन्तयत् । केनाऽपि क्लिष्टसत्त्वेन दुर्गतौ पातितोऽस्म्यहम् ॥६४०।। तदाख्यामि नृपायेदमर्धयामे दिनस्य सः । गत्वा न्यवेदयत्तच्चाकर्ण्य क्रुद्धो धराधिपः ॥६४१।। दण्डपाशिकमादिक्षल्लभस्व मुनिघातकम् । चण्डिकायतने गत्वा तेन पृष्टा तचिका ॥६४२।। अद्यात्र रात्रौ कः सुप्तस्तयोचे कोऽपि नापरः । सुप्ता समुद्रदत्तस्य धनश्रीहिणी पुनः ॥६४३।। तलारक्षोऽवदत्तस्याः किं निवासस्य कारणम् । सा प्राह तन्न जानामि तलारक्षस्ततोऽवदत् ।।६४४|| को हेतुर्नाष्टमी नैव नवमी न चतुर्दशी । उपयाचितकं स्याच्चेत् तत् कीदृग् भौमभद्रयोः ॥६४५।। न दुष्टस्त्रीजनं मुक्त्वा कर्म सम्भवतीदृशम् । गृहं समुद्रदत्तस्य तद्गत्वोपलभे स्वयम् ॥६४६|| युग्मम् गतेन तेन द्वारस्था दृष्टा पृष्टा च चेटिका । गृहेऽस्ति गृहिणी भद्रे ! सार्थवाहस्य नाथवा ॥६४७|| चेट्या प्रोचे स संक्षोभं किं तया ते प्रयोजनम् । ज्ञातभावोऽथ साटोपमवदद्दण्डपाशिकः ॥६४८॥ आ: पापे ! विस्मृतः किं ते वृत्तान्तो मुनिसम्भवः । ततः सा कर्मदुष्टत्वान्नियतेश्च बलित्वतः ॥६४९।। Page #83 -------------------------------------------------------------------------- ________________ १५९ १६० चतुर्थो भवः चेट्याह प्रेषिता साधुं स्वामिन्याऽहं गवेषितुम् । अपरं तु न जानामि स दध्यौ नान्यथा ह्यदः ॥६५०|| युग्मम् ऊचेऽथ भद्रे मा भैषी: किमुद्दिश्य गवेषितुम् । प्रेषिताऽस्यवदच्चेटी कल्ये भिक्षाकृते स हि ॥६५१॥ तृतीयप्रहरेऽविक्षदगृहीत्वा च निर्गतः । निर्गच्छन्तं च तं प्रेक्ष्य स्वामिन्या भणिताऽस्म्यहम् ॥६५२॥ हले मञ्जरिके ! गच्छ क्वायं श्रमणकः स्थितः । इति ज्ञात्वा ममाऽऽख्याहि मया तच्च निवेदितम् ॥६५३॥ विशेषकम् कार्य पुनर्न जानेऽहमथोचे दण्डपाशिकः । किं तया विहितं तत्र सा प्राह प्रणतोऽपि न ॥६५४।। चामुण्डा चर्चिता तत्राऽऽरक्षेणाथ विचिन्तितम् । करदेवीविधानार्थं तया परिजनं निजम् ॥६५५|| विप्रतार्य हतोऽसौ तज्ज्ञास्याम्यास्यविकारतः । गते पार्श्वमिह क्षुब्धा धनश्रीस्तेन लक्षिता ॥६५६।। उक्ता च मां महाराजः प्रैषीदन्वेषणाकृते । ऋषिहत्याकृतस्त्वं च प्रसुप्ता चण्डिकागृहे ॥६५७।। अयं ज्ञातश्च वृत्तान्तो मया तत्त्वं समापत । गच्छामो नरनाथस्य समीपे साऽथ साध्वसात् ॥६५८॥ प्रकम्पमानसर्वाङ्गा पपात धरणीतले । धरणीधवतो रक्षत्यसाविति धिया किल ॥६५९॥ विशेषकम् आरक्षो ध्यातवानेतदवश्यं विदधेऽनया । अन्यथा कथमीदृशं भयं निर्भत्सिता ततः ॥६६०।। मिलितश्च जनः श्रुत्वा नन्दकस्तत्तथाविधम् । ग्रहीष्येऽहमपि ध्यात्वा द्वारादेव पलायितः ॥६६१।। समरादित्यसंक्षेपः नीत्वा नृपतिपार्श्वे तां तद् वृत्तान्तं व्यजिज्ञपत् । तलारक्षोऽथ तां राजा वीक्ष्य चित्ते व्यचिन्तयत् ॥६६२।। आकृत्येक्षया कर्म किमीक्षं विधास्यति । ध्यात्वेत्यूचे नृपः कस्मात्त्वं चण्ड्यायतनं गता ॥६६३।। क्षुब्धा किञ्चिन्न सा प्रोचे साशङ्को नृपतिस्ततः । पुनः पप्रच्छ काऽसि त्वं कस्य पुत्री प्रियाऽसि च ॥६६४।। तयोचे पूर्णभद्रस्य धनश्रीरित्यहं सुता । पत्नी समुद्रदत्तस्य तद्भर्ताऽथ गवेषितः ॥६६५।। तस्मिन्ननुपलब्धेऽथ नृपः शुद्धस्वभावतः । यथास्थितं प्रजापाल इति शब्दं समुद्वहन् ॥६६६।। न शक्नोति वराकीयं पुरो मम निवेदितुम् । प्रयोजनं कदाचित्तु विश्वस्ता कथयिष्यति ॥६६७|| ध्यात्वेति गुप्तिपालेन विदधे तां सुरक्षिताम् । नित्यशः पृच्छयमानाऽपि न सा किञ्चित्तु जल्पति ॥६६८॥ विशेषकम् ज्ञातुं कुलादिकं पूर्णभद्राय प्रेषि भूभुजा । तत्तद् वृत्तान्तलेखेन सनाथो लेखवाहकः ॥६६९|| तद्विज्ञप्तियुतः सोऽयमागात्कतिपयैदिनैः । धनश्री म पुत्र्यासीत्परं सा कुलदूषणा ॥६७०।। तद्वीक्ष्य दध्यौ भूनेता तयेदं विदधे ध्रुवम् । अकृत्याचारशीलेयं महापापा विमूढधीः ॥६७१।। तथापि हि न वध्या स्त्री ध्यात्वेति निवासयत् । स्वराज्यात्तां निजैर्भूत्यैर्दासेरीमिव रोगिणीम् ॥६७२।। युग्मम् व्रजन्ती वासरान्ते सा क्षुत्तृषाभ्यां विबाधिता । ग्रामदेवकुले सुप्ता दष्टा दुष्टेन भोगिना ॥६७३।। Page #84 -------------------------------------------------------------------------- ________________ चतुर्थो भवः कृतान्तस्य भुजेनेव व्याकृष्टा भुजगेन सा । जज्ञे पृथ्व्यां तृतीयस्यां सप्तसागरजीविता ||६७४ | पूर्वं कार्मणकर्मणा निजवपुः पुष्टं दधे कार्मणं पश्चान्नीरधिमज्जनेन च भवाम्भोधौ ममज्ज स्वयम् । प्लोषं च स्वपतेर्यतेर्विदधती स्वप्लोषमेषापुषत् । तां भूमिं समुपागतेति नरकस्योदचिषा पच्यते ||६७५॥ इति श्रीहरिभद्रोक्त्या प्रद्युम्नाचार्यगुम्फिते । समरादित्यसंक्षेपे तुर्योऽयमभवद्भवः ||६७६ ॥ १६१ पञ्चमो भवः अस्यैव जम्बूद्वीपस्य क्षेत्रे भरतनामनि । यत्र लोकः सदानन्दी काकन्दी नाम सा पुरी ॥१॥ अगाधपरिखानीरे या वप्रप्रतिबिम्बतः । जेतुं भोगवतीं प्रत्तप्रस्थानेव विभाव्यते ||२|| ग्रस्तान्यशूरतेजाः श्रीसूरतेजा महीपतिः । समस्ति तत्र विध्वस्तविरोधिध्वान्तसंततिः ||३|| प्रसर्पति प्रतापेऽस्य रिपुस्त्रीजनकानने । नेत्राम्बुसिच्यमानाऽपि चित्रं पत्रलताऽशुषत् ||४|| तस्याऽस्ति निजलीलास्तस्वर्गिलीलावतीजना । नाम्ना लीलावती देवी लीलागतिजितद्विषा ॥५॥ भुञ्जानस्य तया सार्धं तस्य वैषयिकं सुखम् । कियानपि ययौ कालः क्षणवत्क्षणदायकः ||६|| इतो धनमुनेर्जीवः सप्तमस्वर्गतश्च्युतः । लीलावतीमहादेव्याः कुक्षौ समुदपद्यत ॥७॥ स्वप्ने रजन्यां सम्पूर्णमण्डलं कुण्डलं निशः । प्रविशन्तं मुखेनेन्दुमुदरे सा व्यालोक ॥८॥ विबुद्धा दयितस्याऽऽख्यत्स प्राह भविता तव । तेजस्तन्वन्दिशामन्तः सुतः सामन्तचन्द्रमाः ||९|| Page #85 -------------------------------------------------------------------------- ________________ पञ्चमो भवः तत्प्रतिश्रुत्य सा तुष्टा दधे दोहदलक्षणम् । आगात् त्रिवर्गसम्पत्तिसुखिन्याः प्रसवक्षणः ॥१०॥ सुतं सूते स्म सा तं च कथयामास भूभुजे । चेटिका निर्वृतिर्नाम मनसो निर्वृतिप्रदम् ॥११॥ निजाङ्गलग्नमाकल्पं दत्त्वास्यै पारितोषिकम् । अयं व्यधापयद्वर्धापनमृद्ध्यनुमानतः ॥ १२॥ गर्भस्थेऽत्र जयो मातुर्द्यतेऽभूदिति भूपतिः । मास्यतीतेऽस्य बालस्य जय इत्यभिधां व्यधात् ॥ १३॥ कुमारत्वमितो राजकुमारत्वोचिताः कलाः । जग्राह प्राग्भवाभ्यासादयं धर्मानुरक्तधीः || १४ || चन्द्रोदयाSSख्य उद्यानेऽन्यदा प्रासुकदेशगः । दीप्त्या दिवाकरः साक्षात्सोमत्वेन सुधारुचिः ॥ १५ ॥ गम्भीरत्वेन पाथौधिः स्पृहणीयतयाम्बुदः । रमणीयतया स्वर्गोऽनौपम्येन च मोक्षवत् ॥ १६॥ सूरिः सनत्कुमाराख्यः समाराधितसद्व्रतः । दृष्टो जयकुमारेण मारेणेव मधुः सुहत् ||१७|| तं वीक्ष्य जातसंवेगः कुमारो ह्यद्यचिन्तयत् । सम्पूर्णचक्रवर्तित्वलक्षणैरीदृशैरपि ॥ १८ ॥ महापुम्भिः परित्यक्तो भवो निर्गुण एव हि । पृच्छामि तु परित्यागहेतुमस्य विशेषतः ||१९|| युग्मम् ध्यात्वेत्यस्याऽन्तिके गत्वा तं नत्वा सपरिच्छदम् । तद्दत्तधर्मलाभाशीरुपाविक्षद्गुरोः पुरः ||२०|| बद्धाञ्जलिरवोचच्च संसारोऽयमसारकः । कस्य नाम सकर्णस्य न स्यान्निर्वेदकारणम् ॥२१॥ १६३ १६४ समरादित्यसंक्षेपः तथापि प्रायशो न स्याद्विना बाह्यनिबन्धनम् । कृत्वा प्रासादमाख्याहि तन्निर्वेदस्य कारणम् ॥२२॥ किंकुलः किंपिता क्वत्यः किंनामा भगवन्भवान् । दध्यौ गुरुरहो अस्य विवेकः कोऽप्यलौकिकः ||२३|| अहो वचनविन्यासः कथयिष्यामि चेन्न हि । तन्मामलौकिकं चित्ते सैष संभावयिष्यति ||२४|| ध्यात्वेत्याह विभुर्ज्ञातभवभाव ! तवाग्रतः । कथ्यते कौतुकादेव बाह्यं निर्वेदकारणम् ॥२५॥ अल्पस्यापि निदानस्य विपाकमतिदारुणम् । श्रुत्वा चित्राङ्गदाद्दीक्षा चारणर्षेर्मयाददे ||२६|| जयः प्रोचे भगवता श्रुतं किं स जगौ शृणु । श्वेतवी श्वेतवीहारहारिण्यस्ति पुरी वरा ||२७|| तव भिन्नारिवर्माभूद्यशोवर्मा नरेश्वरः । अहं सनत्कुमाराख्यः सुतस्तस्याऽतिवल्लभः ||२८|| बाल्येऽपि मम तातस्य पुरतः परितस्थुषः । विद्याधराधिराजत्वमादिष्टं दिष्टवेदिभिः ||२९|| यावत्कुमारभावोऽस्मि वाहकेल्यां गतोऽन्यदा । तावद्वध्यान्नीयमानानपश्यं पश्यतोहरान् ||३०|| तैरूचे देव रक्षाऽस्मान् शरण्य ! शरणागतान् । मोचितास्ते मयाऽरुष्यंस्तन्मत्वा पौरपूरुषाः ||३१|| आरक्षकैर्महाराजस्याग्रे तच्च निवेदितम् । जनाराधनधीराह धराधीशोऽथ तानिति ॥ ३२ ॥ यत्तस्करान् पुनर्धृत्वा नागराणां निवेद्य च । यथा कुमारो नो वेत्ति व्यापादयत तांस्तथा ॥३३॥ Page #86 -------------------------------------------------------------------------- ________________ पञ्चमो भवः १६५ तांस्तातघातितान्मत्वा रुष्टोऽहं मेदिनीभुजः । प्रधानैर्वार्यमाणोऽपि तामलिप्त्यां समागमम् ॥३४|| तत्पुरीस्वामिना ज्ञातवृत्तान्तेनाऽभियायिना । संमान्येशानचन्द्रेण वत्सलेनेति भाषितः ॥३५॥ वत्सैतदपि ते राज्यं तत्त्वया सुन्दरं कृतम् । यदत्रैवागतोऽसीति प्रोच्य पुर्यां प्रवेशितः ॥३६॥ युग्मम् दिनैः कतिपयैरुक्तो गृहाण ग्रासमीप्सितम् । न मया प्रतिपन्नं तत्तदायत्तत्वभीरुणा ॥३७|| अन्यदा तिष्ठतस्तत्र वसन्ततुरुपागमत् । निविवेकस्य लोकस्य हृदयानन्दकारकः ॥३८।। उद्यानानि प्रफुल्लानि कोकिलैः कूजितं कलम् । प्रवृत्ताः पुरचर्चर्यः प्रसृतो मलयानलः ॥३९॥ तदाऽत्युज्ज्वलनेपथ्यः सवयस्यो गृहादहम् । कीडार्थं गन्तुमुद्यानं चलितोऽनङ्गनन्दनम् ॥४०॥ राजमार्गाऽऽगतो राजपुत्र्या वातायनस्थया । विलासवत्या दृष्टोऽहं दृष्ट्या गाढाऽनुरागया ॥४१॥ तन्मत्तवारणासन्नं व्रजतश्च ममोपरि । स्वहस्तग्रथितामेषा मुमोच बकुलस्रजम् ॥४२॥ लक्षिता च द्वितीयेन मदीयेन हृदेव सा । कण्ठदेशे निपतिता सुहृदा वसुभूतिना ॥४३॥ ऊर्ध्वं विलोकमानेन वातायनविनिर्गतम् । आस्यं तस्या मया दृष्टमिन्दुबिम्बमिवामलम् ॥४४।। तुष्टोऽहं प्रेक्षमाणायास्तस्याः स्वहृदये न्यधाम् । इमां मालां च बालां च बिभ्रतीमन्तरे गुणम् ॥४५॥ समरादित्यसंक्षेपः परितोषविषादाभ्यां गर्भितं हसितं तया । तथा निःश्वसितं चापि संकीर्णरसया तदा ॥४६॥ तमुद्देशमतिक्रान्तो गात्रेण मनसा न तु । अनङ्गनन्दनोद्यानं प्राप्तो मित्राऽनुरोधतः ॥४७|| चित्रक्रीडाप्रवृत्तोऽपि तदीयमुखपङ्कजम् । ध्यायन्स्थित्वा दिनं तत्र निजमावासमासदम् ॥४८॥ शिरो मे दुष्यतीत्युक्त्वा विसृष्टाः सुहृदो निशि । तत्राऽनाख्येयदुःखस्य विनिद्रस्य निशाऽगमत् ॥४९॥ प्रातःकृत्ये कृते प्राप्तैर्वसुभूत्यादिभिः समम् । गतोऽहं भवनोद्यानं क्रीडाभिः क्रीडितं चिरम् ॥५०॥ मच्चित्ताऽन्यतया कामविकारो वसुभूतिना । लक्षितोऽहमथ प्रोक्तः प्रस्तावे भो वयस्य किम् ॥५१।। दिनेन्दुरिव विच्छायः साधुवद्रुद्धचेष्टितः । क्षणं सपरितोषस्त्वं लब्धरेखाक्षधूर्तवत् ॥५२॥ आकारसंवृति कृत्वा मया प्रोचे न किञ्चन । लक्षयामि सुहृत् प्राह हसित्वा लक्षयाम्यहम् ॥५३|| स्रग्व्याजाद्राजपुत्र्या ते चित्तभारोऽधिरोपितः । विद्धः स्मरशरश्रेण्या दृष्टिपातच्छलेन च ॥५४|| तत्संभूतो विकारोऽयं पाण्डुच्छायमुखं ततः । ताम्र दृशावनिद्रत्वान्नि:श्वासाश्चायतायताः ।।५५।। मा संतापं विधाः सा हि तव संगममिच्छति । सस्नेहबहुमानं यत् स्रग्दूती प्रेषिता तया ॥५६।। अन्यच्चावहितो द्वीपादन्यस्मादप्ययं विधिः । अनुकूलो मनोऽभीष्टं घटयत्येव देहिनाम् ॥५७।। Page #87 -------------------------------------------------------------------------- ________________ पञ्चमो भवः उपायमहमप्यत्र करोमीति प्रतिश्रुते । मया वाक्येऽस्य स प्रीतो मित्रकार्यचिकीर्षया ॥ ५८ ॥ विलासवत्या धात्र्याऽस्ति विचारमतिसंज्ञया । तत्पुत्र्याऽनङ्गसुन्दर्या सह स्नेहं ततान सः ॥ ५९ ॥ तयोः परस्परस्नेहजुषोः कतिपयैर्दिनैः । अहं दध्यौ न मित्रस्यादः कार्यं मतिगोचरे ॥ ६० ॥ ततो न विहितं ध्यायन्निति स्मरवशोऽगमम् । तल्पेऽस्थां ग्रहिलत्रस्तमूढमूर्च्छितमूकवत् ॥ ६१॥ युग्मम् इन्द्रियेभ्योऽप्रभुर्यावदित्थं तिष्ठाम्यचेतनः । क्षणेन प्रमनास्तावद्वसुभूतिः समागमत् ॥६२॥ मामूचे च शुचं मुञ्च सम्पन्नं ते समीहितम् । मया कथमिति प्रोक्ते स प्राह मसृणः शृणु ॥६३॥ गतोऽद्यानङ्गसुन्दर्या गृहे दृष्टा च सा मया । प्रम्लानवदना पृष्टा किं तवोद्वेगकारणम् ॥६४॥ सा प्राह दु:खिभिर्दुःखं कथं तस्मै निवेद्यते । न संक्रामति तद्यस्मिन्नादर्शे प्रतिबिम्बवत् ॥६५॥ मयोक्तं विरला एव गुणज्ञाः कविताजुषः । साधारणधना एवं परदुःखेन दुःखिनः ||६६ || तथाप्यस्ति त्वदाशंसाविधाने मन्मनोरथः । तयोक्तं शृणु यद्येवमस्ति मे परमा सखी ॥६७॥ कन्या विलासवत्याख्येशानचन्द्रनृपात्मजा । निर्विशेषात्मनस्तस्या अवस्था पश्चिमाऽधुना ॥६८॥ युग्मम् कुतो हेतोर्मया प्रोक्ते साह स्मरविकारतः । मयोचे मदनस्याज्ञा जिनवत् केन खण्डिता ॥ ६९ ॥ १६७ १६८ समरादित्यसंक्षेपः सा प्राह तन्न जानामि खण्डिता वा न खण्डिता । संतापस्तु महानस्या य आख्यातुं न पार्यते ॥ ७० ॥ मया कथमिति प्रोक्ते सा प्राह शृणु सादरः । कोऽपि वर्वरिकासंज्ञचेटीसहितया तया ॥ ७१ ॥ दृष्टो युवा स्मरो मूर्तः पूजितो बकुलस्रजा । चित्तं तदीयमादाय गतोऽयं तद्दिनादसौ ॥ ७२ ॥ निर्नष्ट सर्वचेष्टाऽस्ति वृत्तान्तोऽयं मयाऽखिलः । ज्ञातो वर्वरिकाख्यानाद्राजपुत्रीमुखादपि ॥ ७३ ॥ उक्ता चाऽलं विषादेन तव स्वामिनि वल्लभम् । सम्पादयामि ज्योत्स्ना स्यान्न दूरे कौमुदीशितुः ||७४ || इत्युक्त्वा चारनेत्रैः स मया सर्वत्र वीक्षितः । नोपलब्धश्च तेनाऽद्य निराशा सा गवाक्षगा ॥७५॥ तं राजमार्ग पश्यन्ती बाप्पाविलविलोचना । अपहत्य सखीवर्ग मूर्छिता न्यपतद्भुवि ॥ ७६ ॥ षड्भिः कुलकम् ससंभ्रममथोत्थाय वसुभूतिर्मयोदितः । क्व सा मित्र ममाग्रे तां दर्शय स्नेहलां मयि ॥७७॥ तस्या अत्याहिते हन्त जीवितेनापि किं मम । वसुभूतिस्ततः प्राह देव वृत्तमिदं खलु ॥७८॥ सत्रपेऽथ मयि स्मित्वा निविष्टे सुहृदूचिवान् । अनङ्गसुन्दरीप्रोक्तं तल्पं नीता सखीजनैः ||७९ || मया बाष्पाऽम्बुसिक्तेन तालवृन्तेन वीजिता । दत्तो मृणालिकाहारः सश्रीखण्डद्रवो हृदि ||८०|| १. पि च for हृदि ख ग घ ङ च । Page #88 -------------------------------------------------------------------------- ________________ १६९ १७० पञ्चमो भवः कथञ्चिल्लब्धचैतन्या प्रोक्ता किं ते विबाधते । सोवाच दर्शनं तस्य मयाऽलीकमथोदितम् ॥८१।। लब्धा प्रवृत्तिस्तस्यास्ति कथयिष्यामि तामहम् । ततः शुचिस्मिता स्मित्वा कटिसूत्रमदान्मम ॥८२।। अथैत्य तज्जनन्योचे वत्से ! सारय वल्लकीम् । कार्यों वीणाविनोदोऽद्य महाराजस्य शासनात् ॥८३॥ तस्यामाहृतवैणिक्यां गुरुवर्गत्रपावशात् । किंकर्तव्यविमूढाऽहमविसृष्टा तयाऽऽगमम् ॥८४|| किं नु विज्ञपयिष्यामि तत्प्रवृत्तिमजानती । चिन्तापिशाच्यालीढाहमिदमुद्वेगकारणम् ॥८५॥ मयोक्तं चिन्तयाऽलं ते तं जानेऽहं ततस्तथा । करिष्यामि यथा सुस्था स्वामिनी ते भविष्यति ॥८६॥ तनयः श्वेतवीस्वामियशोवर्मनरेशितुः । नाम्ना सनत्कुमारो हि मम स्वामी सुहृच्च सः ॥८७।। तयोचे सदृशः कस्य तव स्वामी सुहच्च सः । य एवं स्वामिनी चित्तं विज्ञायाऽपि निरुद्यमः ॥८८|| मयोचेऽनुद्यमो नायमुपायं चिन्त्यत्यलम् । अनिन्द्यविधिना केन प्राप्येयमिति चेतसि ॥८९।। सा प्राह निन्द्यो नैषोऽपि विधिविधिनिदेशितः । तुल्यरूपकुलप्रेमवती कन्या ह्रियेत चेत् ॥९०।। क्वानयोर्दर्शनोपायो मयेत्युक्ते जगाद सा । स्वामिनी मन्दिरोद्यानमानेष्यामि त्वयाऽपि तत् ॥९१॥ कुमारेण सहाऽऽगम्यं मयाऽप्यङ्गीकृतं च तत् । सम्प्रति त्वं प्रमाणं तु तच्छ्रुत्वाऽहं ससम्मदः ॥९२।। समरादित्यसंक्षेपः दत्त्वाऽस्मै कटकद्वन्द्वमद्वन्द्वसुखमन्दिरम् । ययौ तेन सहोद्यानं सर्वर्तुकुसुमाकरम् ॥९३।। विशेषकम् लवलीमण्डपान्त:स्थां तामैक्षिषि सखीयुताम् । जनचित्तभिदे हस्तभल्लीमिव मनोभुवः ॥९४|| समुत्थितासनादेषा तदुक्तो न्यषदं त्वहम् । ढौकितं कनकस्थाले ताम्बूलं च समाददे ॥९५।। अनुज्ञाता मया सापि यावदासन्युपाविशत् । उपवीणयितुं तावत्तामाह्वास्त महल्लकः ॥९६।। अप्रेक्षमाणं मां प्रेक्षमाणा वलिततारकम् । जगाम साऽहमप्युक्तः सुहृदा वसुभूतिना ॥९७|| किं स्थितेऽनात्र निर्यावो यावदुद्यानमध्यतः । अनङ्गवत्या भूपालपल्या तावन्निरीक्षितः ॥९८।। तस्यास्तदाऽभिलाषोऽभून्मयि तु स्वगृहं गते । अनङ्गसुन्दरी सन्ध्याक्षणे सप्राभृताऽगमत् ॥९९|| ऊचे स्वहस्तब्धाऽसौ माला ताम्बूलमप्यदः । कुमार ! प्रेषितं देव ! त्वत्कृते च विलेपनम् ॥१००।। श्रुत्वाऽहं तदिति न्यास्थं ताम्बूलं वदनाम्बुजे । अङ्गरागं व्याधामङ्गे न्यधां च शिरसि स्रजम् ॥१०१।। मन्मित्रमूचे तां पश्य कुमारस्य विनीतताम् । सोचे किमत्र चित्रं यदीदृशेषु विनीतता ॥१०२।। मया प्रोचेऽयमावासो वसुभूतियुतोऽपि हि । तवैव तदिहागम्यं सदा नत्वाऽथ साऽऽगमत् ॥१०३|| इति प्रीतिरवधिष्ट सखीमित्रगतागतैः । आवयोरन्यदा राजसदनाच्च विनिर्गतः ॥१०४|| Page #89 -------------------------------------------------------------------------- ________________ पञ्चमो भवः १७१ १७२ अनङ्गवत्या राज्याश्च दास्याहूतः समागतः । तां नत्वोपाविशं मातरादिशेति जगाद च ॥१०५॥ सोवाच निर्यानुद्यानाद्यदादि त्वमसीक्षितः । ततः प्रभृति मामुच्चैः पञ्चबाणो विबाधते ॥१०६|| तस्मादशरणां दीनां शरण्य शरणागताम् । रक्ष सर्वाङ्गचङ्ग ! त्वमङ्गसङ्गेन मामतः ॥१०७।। अहो स्त्रीनिविवेकत्वमिति चिन्तयता हृदि । मयोक्तं सुतयोग्यं मे देह्यादेशं जनन्यसि ॥१०८।। तयान्त:क्रोधवत्याऽपि विलक्षहसितस्पृशा । प्रोचे यद्वत्स ! गच्छ त्वं मया सत्त्वं परीक्षितम् ॥१०९|| राज्ञी पुनः प्रणम्याऽहमागमं सदने निजे । कियत्यामपि वेलायां पुरारक्षः समागमत् ॥११०॥ नृपतेरपरं चित्तं विनयन्धरसंज्ञया । स प्राह वक्तुकामोऽस्मि किञ्चिदेकान्तमादिश ॥१११।। मयाथ वसुभूत्याद्या वयस्या वीक्षिता गताः । स प्रोचे सावधानस्त्वं कुमार ! शृणु मे वचः ॥११२॥ अस्ति स्वस्तिमती नाम पुरी भुक्तौ पितुस्तव । वीरसेनोऽभिधानेन तत्राऽस्ति कुलपुत्रकः ॥११३।। दानी मानी गभीरश्च शरण्यः करुणापरः । परोपकारी तस्यैवं ययौ काल: कियानपि ॥११४|| युग्मम् सोऽन्यदापन्नसत्त्वायाः स्वपल्याः पितृमन्दिरे । जयस्थले पुरे गच्छन्नागतः श्वेतवीपथि ॥११५।। बहिरावासितो भृत्यवर्गेण परिवारितः । तदा च तस्करः कश्चित् त्रस्तस्तं शरणं श्रितः ॥११६॥ समरादित्यसंक्षेपः कान्तयोक्तः किमेतेन सागसा रक्षितेन ते । स प्रोवाच प्रियेऽवश्यं वातव्यः शरणागतः ॥११७|| अथो हत हतेत्युच्चैर्वदन्तो नृपपूरुषाः । समेयुस्तैरयं प्रोक्तस्तस्करं नः समर्पय ॥११८।। स प्राह शरणायातं जीवन्नाहं समर्पये । तैस्तु तत्र स्थितैरेव ज्ञापितं तन्महीपतेः ॥११९।। सशरण्यं हत स्तेनमिति राज्ञा नियोजिताः । सैनिका रुरुधुस्तस्यावासमासन्नवर्तिनः ॥१२०।। संनद्धैः स्वभटैर्वीरसेनस्तैः सैनिकैः सह । युध्यते यावदायातस्तावत्तत्र नृपात्मजः ॥१२१।। वाहवाहनभूमेः स व्यावृत्तः सादिसंयुतः । निजान्पप्रच्छ कि न्वेतत् तैराख्याते यथातथे ॥१२२॥ कुमारः प्राह को नाम शरण्यं मयि जीवति । हन्तीत्याख्यात तातस्य तैर्गत्वाऽस्य निवेदितम् ॥१२३।। राज्ञा निषेधिते युद्धे कुमारः कुलपुत्रकम् । विससर्ज स च स्तेनं संमान्य वसनादिभिः ॥१२४॥ नयस्थलं समायाते वीरसेनेऽस्य गेहिनी । असूत तनयं सोऽहं विनयन्धरसंज्ञया ॥१२५।। त्वत्तातस्तद्यशोवर्मा जयवर्मनृपात्मजः । मत्तातस्य मदम्बाया उपकारी ममापि च ॥१२६।। रात्रिन्दिवं गुणग्रामं पितरौ मे पितुस्तव । नैव विस्मरतश्चित्रं तामलिप्तीस्थितावपि ॥१२७|| किं चाद्य नृपतिः प्रापाऽनङ्गवत्या निकेतनम् । दृष्टा च रुदती तेन सा नखोल्लिखिता हृदि ॥१२८|| १. प्राप्तोऽनङ्गवत्या क । Page #90 -------------------------------------------------------------------------- ________________ पञ्चमो भवः १७३ १७४ राज्ञा पृष्टा बलात्कारकारिणं त्वां शशंस सा । ततः क्रुद्धः समादिक्षत्प्रच्छन्नं त्वद्वधे स माम् ॥१२९|| निःसृतोऽहं नृपादेशात्तोरणेऽशृणवं क्षुतम् । स्थितो नैमित्तिकेनोक्तः क्षुतमेतद्धि सुन्दरम् ॥१३०।। ततो गतो गृहं मात्रा पृष्टः कालुष्यकारणम् । ततश्चाकथयं तस्यै रुदती साप्यदोऽवदत् ॥१३१।। हा वत्स ! मा वधीरेनमुपकारिसुतो ह्ययम् । इत्यागतोऽहमत्रातः परं यत्कृत्यमादिश ॥१३२।। ततो दध्यावहं स्त्रीणामहो मायाविता परा । स्वभावः कथ्यते राज्ञो यदि सा क्लिश्यते ततः ॥१३३।। तलारक्षोऽवदद्देव ! शाधि मां करवाणि किम् । मयोचे कष मां पापं जिनकृद्वंशपांसनम् ॥१३४|| अत्रान्तरे क्षुतं मार्गे कैरप्युक्तं च पूरुषैः । विशुद्ध एष गङ्गाम्बुसंनिभः किं बहूदितैः ॥१३५।। स प्राह त्वां हि निर्दोषं वक्तः क्षुतमुपश्रुतिः । तदाख्याहि यथा दुष्टां तामेवाख्यामि भूपतेः ॥१३६।। मयोक्तं सा हि माता मे तत्को गुरुषु मत्सरः । स प्राह त्वत्कृते तस्याः स्थाने कूपं खनाम्यहम् ॥१३७।। सोऽथ व्रजन्भुजे धृत्वा मयोचे यदि यास्यसि । ततः स्वं घातयिष्यामि स प्रोचे तत्करोमि किम् ॥१३८|| मयोचे नृपतेराज्ञां स प्राह बहुनाऽत्र किम् । यदि रक्षसि तां रक्ष स्वं च मां च कथञ्चन ।।१३९|| ध्यात्वा मयोचे तदिदं भवेद्देशान्तरे कृते । स प्राह स्वर्णभूमौ तत्पोतेऽद्यैव प्रयास्यति ॥१४०॥ समरादित्यसंक्षेपः वसुभूतितलारक्षयुतोऽहमगमं ततः । गुप्तं मामार्पयत्पोतपतेः ससुहृदं च सः ॥१४१|| कुमार खेदितोऽसि त्वं क्षन्तव्यमिति साश्रुहक् । मां संभाष्य च नत्वा च व्यावत्तो विनयन्धरः ॥१४२।। समित्रेऽथ समारूढे मयि यानमपूर्यत । दिनैः कतिपयैः स्वर्णभूमिकामाजगाम च ॥१४३।। समुद्रदत्तं पोतेशमापृच्छयोत्तीर्य पोततः । समित्रः प्रविवेशाऽहं श्रीपुरं नामतः पुरम् ॥१४४|| श्वेतवीतः समायातं सिद्धदत्तवणिक्सुतम् । सुमनोरथदत्ताऽऽख्यं तत्राद्राक्षं सुहृत्तमम् ॥१४५।। असंभाव्यं स मां प्रेक्ष्य नत्वाऽनैषीन्निजे गृहे । पृष्टो भुक्तोत्तरं तेन तस्याऽऽख्यं सरलं वचः ॥१४६।। तातरोषेण याताऽस्मि सिंहलं मातुलान्तिके । तत्त्वं मे सिंहलद्वीपगामिपोतं निवेदय ॥१४७।। तदाख्यातेऽथ पोते मे व्रजतोऽयमढौकयत् । अदृश्यीकरणे हेतुं पटं नयनमोहनम् ॥१४८।। मया पृष्टस्तदुत्पत्ति स आख्यत्सुहृदा मम । आनीय मण्डले यक्षकन्याऽध्यक्षीकृता पुरा ॥१४९।। तया मे तुष्टया दृष्टिममोघां कर्तुमात्मनः । कुमार मह्यं दत्तोऽयं पटः प्रकटकौतुकः ॥१५०|| ततः पटं गृहीत्वाऽहं समित्रस्तेन संयुतः । उपपोतं ययौ तेन बभाषे पोतनायकः ॥१५१॥ कुमारोऽयं मम स्वामी सर्वस्वं च किमुच्यते । स प्राह यादृशस्तेऽसौ मम तादृश एव हि ॥१५२।। Page #91 -------------------------------------------------------------------------- ________________ पञ्चमो भवः भालयित्वेति मां मय्यारूढे यानमसौ गतः । नावर्गलान्समुत्पाट्य यानपात्रमपूर्यत ॥ १५३॥ अकाले कालरूपोऽथ मेघकालः समापतत् । ततो वातेरितः पोतः खमारुह्याऽपतन्मुहुः || १५४॥ उत्पत्तोत्पत्य तन्मध्येवार्धि भूधरमूर्धनि । पोतोऽभज्यत निर्भाग्यनरस्येव मनोरथः || १५५ ॥ अहं तु फलकं प्राप्याऽहोरात्रात्तीरमागतः । सबाष्पाणीव वस्त्राणि निश्चोत्याऽशोषयं तटे ॥१५६॥ हग्मोहनपटः स्वानुभावात्तीमित एव न । मद्दुःखक्षपणे दक्षः स किं जाड्येन पीड्यते ॥ १५७ ॥ अहं पटस्याभेदेन विस्मितात्मैकया दिशा । जम्बूतरोरधः श्रान्तो विश्रान्तः सन् व्यचिन्तयम् ॥१५८।। एवंविधां दशां प्राप्य जीव्यते यत्तदद्भुतम् । किं वा मे जीवितेनापि तेन वसुभूतिना || १५९ ॥ यद्वा कृतं विषादेन विचित्रा कर्मणां गतिः । यथाहं जीवितः सोऽपि यदि क्वापि भवेत्तथा ॥ १६० ॥ ध्यात्वेति क्षुत्तृषार्तोऽहं व्रजामि स्मोत्तरामुखः । नदीमेकामपश्यं च वनराजीविराजिताम् ॥ १६१ ॥ कृत्वा फलजलाहारं तत्र प्रेक्ष्य ससम्मदम् । सारसं सारसीयुक्तं निजचेतस्यचिन्तयम् ॥१६२॥ पक्षिणोऽमी वरं येऽत्र रमन्ते पुष्करे द्विधा । स्वकीयप्रियया युक्ता न त्वहं तद्वियोजितः ॥ १६३॥ इति ध्यायन्नहं सन्ध्याक्षणे स्मृतनमस्कृतिः । शिलाशय्यामवष्टभ्य सुप्तो वन्य इव द्विपः ॥ १६४॥ १७५ १७६ समरादित्यसंक्षेपः निशाप्रान्ते विबुद्धोऽहं विहङ्गकलकूजितैः । कृतदेवगुरुध्यानो गच्छामि स्म वनाद्वनम् ॥ १६५ ॥ ततो गिरिसरित्तीरसोमालसिकतातले । अपश्यं रमणीयाभां रमणीपदपद्धतिम् ॥१६६॥ गच्छंस्तदनुसारेण कल्कवल्कलवाससम् । तप्तस्वर्णसवर्णाङ्गीमुद्भिन्ननवयौवनाम् ॥१६७॥ चित्तान्निर्वासितेनाऽपि रागेणाध्यासितां पदोः । करभोरुं नितम्बाढ्यां मध्येऽतिकृशतास्पृशम् ॥१६८॥ गभीरनाभीमुत्तुङ्गवक्षोजां मृदुवाहिकाम् । कम्बुकण्ठीं जपापुष्पाधरामच्छां कपोलयोः || १६९ || उत्तुङ्गनासिकावंशां त्रस्तसारङ्गलोचनाम् । अधिज्यचापभ्रूवल्लिमष्टमीन्दुनिभालिकाम् ॥१७०॥ पृष्ठदेशनिलीनेन वदनेन्दुद्युतिव्रजत् । भीतेनेवाऽन्धकारेण केशभारेण शोभिताम् ॥ १७१ ॥ तपस्विकन्यकामेकां वामहस्तात्तछाज्जिकाम् । पुष्पाणि पाणिनाऽन्येनोच्चिन्वतीं च व्यलोकयम् ॥ १७२॥ षड्भिःकुलकम् दध्यौ च तां विलोक्याऽहं किमियं नृपकन्यका । सा विलासवती यद्वा क्वासौ क्व च वनस्थितिः ॥ १७३ ॥ मयीदं चिन्तयत्येव सा कृत्वा कुसुमोच्चयम् । यावद् बाला चचालाऽऽत्मतपोविपिनसंमुखी ॥१७४॥ स्मारं विकारं संगोप्य तावत्तामुपसृत्य च । प्रणम्य च जजल्पाऽहं तपस्ते वर्धतां शुभे ॥ १७५ ॥ श्वेतवीवास्यहं तामलिप्त्या यान् प्रति सिंहलम् । अन्तराभग्नपोतत्वादेकाकीह समागमम् ॥ १७६ ॥ Page #92 -------------------------------------------------------------------------- ________________ पञ्चमो भवः १७७ १७८ तन्मे भगवती शंसत्विदं किं जलधेस्तटम् । को द्वीपः कः प्रदेशश्च कुत्राश्रमपदं च वः ॥१७७।। मां वीक्ष्य वक्रदृष्टिः सा क्षणं तस्थौ ससाध्वसा । अदत्तप्रतिवाक्यायां गच्छन्त्यां तु व्यचिन्तयम् ॥१७८।। तापसीयं तरुण्येका पृच्छाम्यन्यं ततो नरम् । व्यावृत्तः पुनरप्येतां प्रष्टुं यावदवस्थितः ॥१७९।। तावत्करण्डकं मुक्त्वा वल्कं सा पर्यधात्पुनः । बभञ्जाऽङ्गं जजृम्भे च बबन्ध कबरी पुनः ॥१८०॥ तन्निरीक्ष्य किमेतेन विरुद्धालोकनेन मे । ध्यात्वेति तटिनी गत्वा फलाहारो मया दधे ॥१८१।। कालेनाथ नभोवृक्षफले कवलिते खौ । सुप्तोऽहं यामिनीशेषे स्वप्नमीदृक्षमैक्षिषि ॥१८२।। कयापि काञ्चनतरोरन्तिकस्थस्य मे स्त्रिया । दत्त्वा पुष्पस्त्रजं व्यक्तमित्युक्तं पुरतो मम ॥१८३।। यदियं पूर्वनिर्वृत्तोपनीता भवतः पुनः । गृहाण सा गृहीत्वाऽथ मया कण्ठे निवेशिता ॥१८॥ तदा सारसनादेन विबुद्धोऽहं व्यचिन्तयम् । नूनं स्वप्नोऽयमासन्नकन्यकालाभसूचकः ॥१८५॥ स कथं स्याद्वने मेऽथ दक्षिणं चक्षुरस्फुरत् । ततश्चेतसि निश्चिक्येऽवश्यमेष भविष्यति ॥१८६।। विलासराजधानी तु तां विलासवती विना । न मेऽन्यकन्यकालाभो बहुमानाय मानसे ॥१८७।। स्वप्नोऽपि पूर्वनिर्वृत्ता स्रगिति स्पष्ट एव मे । सा विलासवती मन्ये तापस्यां हि क्व विभ्रामाः ॥१८८।। समरादित्यसंक्षेपः इति मे ध्यायतः पुण्यमिव सूर्यः समुद्ययौ । वीक्षमाणोऽथ बभ्राम तापसी तां वने वने ॥१८९|| माधवीश्लिष्टमाकन्दतलेऽन्येधुरहं स्थितः । इम ध्यायन्नशृणवं मसृणं मुर्मुरध्वनिम् ॥१९०।। ततो विवलितग्रीव आगच्छन्ती व्यलोकयम् । जरन्तीं तापसीमेकां तपःकृशतमामहम् ॥१९१।। नता सा सुचिरं जीव राजपुत्रेति मां जगौ । अहं दध्यौ कथं वेत्ति मां ज्ञानी वा मुनिर्जनः ॥१९२।। मत्प्रमार्जितभूमौ सोपविष्टा मामुवाच च । कुमार श्रूयतामस्ति वैताढ्यो नाम पर्वतः ॥१९३।। तत्र गन्धसमृद्धाख्ये पुरे विद्याधरेश्वरः । सहस्रबल इत्यासीत्तत्प्रिया तु शुभाभिधा ॥१९४।। तयोरेका बभूवाहं सुता मदनमञ्जरी । उदूढा पवनगतिनाम्ना खेचरभूमुजा ॥१९५।। गताभ्यामन्यदावाभ्यां नन्दने क्रीडितं चिरम् । मद्भर्ता तत्र विध्यातः क्षीणतैलप्रदीपवत् ॥१९६।। ततोऽहं तमसाक्रान्ता भ्रमन्ती भूतलेऽपतम् । उत्पतन्ती पुनविद्याभ्रंशादुदपतं न हि ॥१९७|| स्वापराधं स्मरन्त्यस्मि यावत्तावत्समाययौ । देवानन्दाऽभिधो विद्याधरः सत्तापसव्रतः ॥१९८|| स प्राह किमिदं वत्से मयोचे दैवचेष्टितम् । तेनोक्तं किं मयाप्युक्तमार्यपुत्रो व्यपद्यत ॥१९९|| १. मया प्रोक्तमार्यपुत्र ख ग घ । Page #93 -------------------------------------------------------------------------- ________________ १७९ १८० पञ्चमो भवः विद्या च विस्मृता सोऽथ प्राह कि परिदेवितैः । चलं वैभवमायुश्च धर्म एक: स्थिरः परम् ॥२००॥ किं च शोकार्तया वत्से सिद्धकूटमलयत । तत्रापतच्च त्वन्माल्यं विद्याभ्रंशस्ततोऽभवत् ॥२०१।। अथो मयोचे भगवन्व्रतमेव ददस्व मे । इहलोकोपकारिण्या विद्यया सर्वथाऽप्यलम् ॥२०२।। ततो भगवताऽऽख्याय तापसाचारमात्मनः । आपृच्छय पितरौ श्वेतद्वीपेऽत्रानीय दीक्षिता ॥२०३।। कियत्यपि गते कालेऽन्यदाऽहं समिदाहृतौ । गताऽम्भोधितटेऽद्राक्षं कन्यां फलकसंगताम् ॥२०४।। मूर्छितामपि जीवन्ती मत्वा लावण्यतो द्रुतम् । अभ्यषिञ्चमहं वारि समादाय कमण्डलौ ॥२०५॥ दृशावुन्मीलयन्ती सा समभाषि मया ततः । वत्से ! धीरा भवाऽहं यदस्मि ते तापसी पुरः ॥२०६।। ततोऽश्रुमिश्रनेत्राऽसौ नत्वा मामुपविश्य च । दीर्घमुष्णं च नि:श्वस्य चित्ते चिरमखिद्यत ॥२०७।। आकृत्या ज्ञातवत्येनां महाकुलसमुद्भवाम् । बलादपि फलैः प्राणवृत्ति वत्स ! व्यधापयम् ॥२०८।। नीताऽऽश्रमे कुलपति नता तेनाऽभिनन्दिता । पृष्टा च वत्से काऽसि त्वं कुतश्चाऽसि समागता ॥२०९।। तामलिप्त्याः समायातेत्युक्त्वा सा तु निरश्वसीत् । मयाऽध्यायि कुलपतिः प्रष्टव्योऽस्याः कुलादिकम् ।।२१०।। स हि ज्ञानेन विज्ञाततत्त्वः सर्व प्रवक्ष्यति । सन्ध्याकृत्ये कृते नत्वा पृष्टोऽथ भगवान्मया ॥२११।। समरादित्यसंक्षेपः भगवन्कन्यका केयं कथं प्राप्तेदृशीं दशाम् । काऽवस्था भाविनी चाऽस्या ममाऽऽख्याहि प्रसादतः ॥२१२।। ज्ञानदत्तोपयोगोऽथ भगवानूचिवान् शृणु । इयं हि तामलिप्तीशेशानचन्द्रनृपात्मजा ॥२१३।। भर्तृस्नेहपरायत्तत्वादवापेदृशीं दशाम् । कि कन्याऽसौ मया प्रोक्ते द्रव्यतो भगवान् जगौ ॥२१४।। ततश्च श्वेतवीत्यागतामलिप्त्यागमादिकः । स्वर्णद्वीपगतिप्रान्तो वृत्तान्तो मे निवेदितः ॥२१५।। इयं तु तं हतं श्रुत्वा निशीथे निर्गतैकिका । प्राणांस्त्यक्तुमवाप्ता च स्तेनैर्नृपपथस्थितैः ॥२१६।। गृहीत्वाऽऽभरणान्युच्चैः सार्थवाहाचलस्य तैः । दत्ता बर्षरकूलाभिगामिनस्तत्क्षणादियम् ॥२१७।। अचलेन ततो यानं निजमारोप्य चालिता । स्फुटितं यानमेतस्य फलकं चेयमासदत् ।।२१८।। इदं कूलं त्रिरात्रेण ततः प्रापाऽम्बुधेरियम् । इदं वीतं भविष्यत्तु भर्ता सोऽस्या मिलिष्यति ॥२१९।। प्राप्य विद्याधरैश्वर्यं भुक्तभोगोऽनया सह । परलोकहितेनेहलोकं सफलयिष्यति ॥२२०।। श्रुत्वेत्यपृच्छं भगवन्किमस्या न हतः पतिः । नेति प्रोक्ते भगवता हृदि प्रीतिमधामहम् ॥२२१।। श्यामास्या सा मया प्रोचे राजपुत्रि ! विषीद मा । भवे क्लेशमये ह्यत्र सुलभा क्लेशसंहतिः ॥२२२।। सोचे भगवती दत्तां सुप्रसन्ना मम व्रतम् । मयाऽवादि ततो वत्से ! पूर्यतां व्रतवार्तया ॥२२३।। Page #94 -------------------------------------------------------------------------- ________________ पञ्चमो भवः पृष्ठश्च तव वृतान्तं दिव्यज्ञानी मुनिर्मया । श्वेतवीशसुतालोकादिकं सर्वं न्यवेदयत् ॥ २२४ ॥ मा संतप ततो वत्से जीवत्येव तव प्रियः । तेन दीर्घायुषा भावी भूयोऽपि तव संगमः ॥ २२५ ॥ श्रुत्वेति तुष्टा संकल्पादुत्तार्याऽऽभरणं ददौ । लज्जिताऽथ यया प्रोक्तमीदृग्दानोचिताऽसि यत् ॥२२६॥ व्रताग्रहेण तदलमिति मद्वचनादियम् । तुष्टा जगाद युष्माकमादेशो मेऽस्तु मूर्धनि ॥ २२७॥ अथ तापसकन्यार्हवेषेणैषा चिरं स्थिता । ययौ कुलपतिस्तीर्थं प्रणन्तुं सिद्धपर्वतम् ॥२२८॥ इतः कतिपयातीतदिनेभ्यः परतो वने । समित्कुशकृते गत्वाऽगता स्विन्ना सबाष्पदृक् ॥२२९॥ पृष्टा च किमिदं वत्से बन्धूनां स्मृतमाह सा । मयोचे भगवानेतु स त्वां नेष्यति बन्धुषु ॥ २३० ॥ तदेतत्प्रतिश्रुत्याऽस्थात्पञ्चषाणि दिनानि सा । देवातिथ्यक्रियाऽमन्दादरा स्मारविकारयुक् ॥२३१॥ मरालं बारलायुक्तं चूतं नागलताश्रितम् । सबाष्पं वीक्ष्य निश्वस्याऽन्येद्युरेषा श्रमाऽऽद्ययौ ॥ २३२॥ तस्याः पृष्ठे गता गुप्तमहं सा त्वकरण्डका । पुष्पोच्चयावनौ याता वीक्षामास दिशोऽखिलाः ॥२३३॥ ततोऽध्यायि मया किं नु पश्यत्येषा गता तु सा । अशोकवीथिकारम्भावनं तत्र रुरोद च ॥ २३४॥ विललापेति हा तत्रभवत्यो वनदेवताः । स्थानं तदेतद्यत्राऽऽर्यपुत्रो ऽभ्यागात्कुतश्चन ॥ २३५॥ १८१ १८२ समरादित्यसंक्षेपः तापसीति धिया तेन विनीतेन नताऽस्मि च । उक्ता च मृदुलाऽऽलापं तपस्ते वर्धतां शुभे ॥ २३६ ॥ श्वेतवीवास्यहं तामलिप्त्या यान् प्रति सिंहलम् । अन्तराभग्नपोतत्वादेकाकीह समागमम् ॥२३७॥ तन्मे भगवती शंसत्विदं कि जलधेस्तटम् । को द्वीपः कः प्रदेशो वा कुत्राऽऽश्रमपदं च वः ||२३८|| अदत्तोत्तरया स्तोकं भूभागं गतया मया । धैर्यमालम्ब्य पश्यन्त्या स दृष्टः पृष्ठमापतत् ॥२३९॥ तन्न जाने स एवायं किं वा मे निर्गतो हृदः । कोप्यार्यपुत्ररूपोऽथ विप्लावयति मां सुरः ॥ २४०॥ स्वमुद्बध्नामि वासन्त्यामहं तद्विरहासहा । आर्यपुत्रस्य गात्रे तु त्राणं कुर्यात सर्वथा ||२४१|| भगवत्यो ममेदृक्षं वृत्तान्तं कथयेत च । अहं तु शंसितुं नेशेऽमन्दमन्दाक्षमन्दिरा ||२४२ || इत्युक्त्वाऽऽरुह्य वल्मीकं पाशे न्यस्य शिरोधराम् । यावद्विमुञ्चत्यात्मानं तावदस्मि प्रधाविता ॥ २४३ ॥ अपास्य पाशमित्युक्त्वा वत्से नाऽप्रच्छनं मयि । कार्यस्या कथनं चापि वत्सलायां तवोचितम् ॥२४४|| ततो हि सर्वमनया श्रुतमित्याहितत्रपा । सोचे प्रसीद भगवत्यत्र लज्जाऽपराध्यति ॥ २४५ ॥ अथाऽभाषि मया वत्से सत्यगीर्भगवान्खलु । मन्ये त्वत्प्रियमायातमतो यावश्चलाश्रमम् ॥ २४६ ॥ इत्यागत्याऽऽश्रमं स्थित्वा पार्श्वेऽस्याः प्रयता स्वयम् । त्वां गवेषयितुं प्राहिणवं मुनिकुमारकान् ॥२४७॥ Page #95 -------------------------------------------------------------------------- ________________ पञ्चमो भवः १८३ १८४ तैरदृष्टमहं द्रष्टुं वत्स ! त्वामुत्सुकागमम् । भवितव्यतया नित्योद्यतया दशितोऽसि च ॥२४८|| तदेहि दर्शनं देहि देहसंदेहसंयुजः । स्मरज्वरजुषस्तस्या जीवसंजीवनौषधम् ॥२४९।। तया समं समाजग्मिवानस्म्यथ तदाश्रमम् । तां पद्मवदनां पद्मनस्तरस्थामलोकयम् ॥२५०।। तापस्या गौरवेणाऽहमासने विनिवेशितः । साऽपि सापत्रपेवाशु प्राविशन्मम मानसम् ॥२५१॥ तापसीवचसा चासावर्षपाद्यादिकं व्यधात् । तदा माध्यन्दिनीं सन्ध्यामध्यास्त च दिनाधिपः ॥२५२।। आतिथ्यं पनसैः कृत्वा तापसी साश्रु मां जगौ । किमातिथ्यं विधत्तां ते निःसङ्गो मादृशो जनः ॥२५३|| तद्विलासवती सेयं धात्रा सम्पादिता पुरा । पुनः सम्पाद्यते तुभ्यं जीविताऽभ्यधिका मम ॥२५४।। इत्युक्त्वा रुदती वल्कपिहितास्यामहं जगौ । इदं भगवति त्यक्तसंसारायाः किमद्य ते ॥२५५।। ततस्तापसकन्याभिरुपनीतेन पाथसा । सा प्रक्षाल्य मुखं वल्कान्तेन निर्मार्थे चोत्थिता ॥२५६।। स्वालङ्कारयुतामेतामदान्मेऽनलसाक्षिकम् । पर्यणैषमहं स्विन्नकराङ्गलिमिलत्करम् ॥२५७|| वने रन्तुं गतावावामवाचिन्व कुमोत्करम् । मयोक्ताऽप्याश्रमं गन्तुं नैच्छत्सा पुष्पलोभतः ॥२५८।। वञ्चिताऽथ मयाऽवृत्य पटं नयनमोहनम् । मामनालोक्य साऽकस्मान्मूर्छिता न्यपतद्भुवि ॥२५९।। समरादित्यसंक्षेपः हा किमेतदुपक्रान्तमित्यहं संत्यजन्पटम् । तां समाश्वासयामास कदलीदलवीजनैः ॥२६०।। स्वस्थीभूता जगादैषा नाथ दृष्टोऽसि नो मया । मयोचे नाऽगमं क्वापि साऽऽह तत्कि न वीक्षितः ॥२६१|| तदप्रत्ययभीतेन पटव्यतिकरो मया । निवेदितः समस्तोऽपि तं परीक्ष्य च साऽग्रहीत् ॥२६२।। इति प्रीतिमये काले कियत्यपि गते प्रिया । मयोक्ता देशयानाय साऽमन्यत च मद्वचः ॥२६३।। तापस्यनुज्ञया भिन्नपोतसंसूचनं ध्वजम् । तीरे नीरेशितुः प्रांशुतरे वंशे व्यधामहम् ॥२६४|| तत्र स्थितं च नौकास्था निर्यामा एत्य मां जगुः । भग्नवाहन हे भानुदेवेन प्रहिता वयम् ॥२६५॥ महाकटहवास्तव्यः स गच्छन्मलयाचलम् । भग्नपोतध्वजं दृष्ट्वा त्वामाह्वयति संचर ॥२६६।। मयोचे मम कान्ताऽस्ति ते प्रोचुः साप्युपैतु तत् । अथावां दम्पती तापस्यादीनापृच्छय जग्मिव ॥२६७।। सप्रियः सार्थवाहस्य बहुमानेन वाहनम् । आरूह्याऽहं प्रिया पाश्र्वात्पटरत्नमुपाददे ॥२६८।। सार्थवाहसुतेनाऽथ प्रस्रवन्पातितोऽम्बुधौ । सम्प्राप्तफलक: पञ्चरात्रान्मलयमासदम् ॥२६९।। दध्यौ च वणिजा तेन कुतोऽहं पातितोऽम्बुधौ । हुँ विलासवतीलोभान्मूढोऽयं वेत्ति तां न हि ॥२७०।। जीवनं मां विना सा यच्छफरीव न जीवति । पटाऽवगुण्ठनाज्ज्ञातमिति पुष्पोच्चयक्षणे ॥२७१।। Page #96 -------------------------------------------------------------------------- ________________ पञ्चमो भवः १८५ १८६ तरौ क्वाऽपि समुद्बन्ध्य तत्त्यजाम्यहमप्यसून् । इति पश्यन् दिशोऽपश्यं नीपमेकं समीपत: ॥२७२।। स्थलमौलिस्थिते तस्मिन् गतोऽहं विगतोत्सवः । ससरोजं सरोऽद्राक्षं सनक्षत्रमिवाऽम्बरम् ॥२७३॥ हंसं विरहिणं वीक्ष्य तत्र हंसीयुतं पुनः । अहं दध्यौ ममाऽस्येव प्रियाऽवश्यं मिलिष्यति ॥२७४॥ अन्यच्च मुनिनाऽप्यस्ति कथितं यदियं पतिम् । प्राप्य विद्याधरीत्वं चोत्तमार्थं साधयिष्यति ॥२७५।। तन्न स्वं घातयिष्यामि विचित्रा कर्मणां गतिः । प्राप्तकालं ममाऽप्येतत्तस्या एव गवेषणम् ॥२७६।। चिन्तयित्वेति नारङ्गः कृतनारङ्गभोजनः ।। तामन्वेष्टुं प्रवृत्तोऽब्धेर्यावत्तटमटाम्यहम् ॥२७७॥ अपश्यं तावदाश्लिष्टफलकामात्मनः प्रियाम् । रुरोद सापि मां वीक्ष्याऽपृच्छमाश्वास्य तामहम् ॥२७८।। सोचे त्वयि तदा नाथ पतिते मन्दभाग्यतः । सार्थेशपोत: पोतश्चोत्पथेनाऽभजतां गतिम् ॥२७९।। त्वद्वियोगेन मे कन्दमानाया इव पीडया । विलीने रजनी नौश्च द्राग्निमीलिततारके ॥२८०|| ततः फलकमासाद्य निजं पुण्यमिवाञ्जसा । लक्षितो दु:खवद्वांधिदृष्टश्च त्वं तदन्तवत् ॥२८१|| तत्पृष्टेन मयाऽप्यूचे प्रमादात्पतितोऽस्म्यहम् । प्राच्यनौफलकं प्राप्यात्रागतस्त्वामलोकयम् ॥२८२।। समरादित्यसंक्षेपः सोचे नाथ तृषार्ताऽहं मयोक्तं निकटं सरः । सा तु नाशकदागन्तुं खिन्ना मृद्वी नितम्बिनी ॥२८३।। मयोचे तावदत्रैव देवि ! तिष्ठ लतागृहे । पद्मिनीपुटके तोयं यावत्त्वद्योग्यमानये ॥२८४।। तयोचे तोयतृष्णा मां न तथा नाथ बाधते । यथा त्वद्वदनाम्भोजतृष्णाऽथ जगदे मया ॥२८५।। तावद्धीरा भवेदानीं यावत्पानीयमानये । इत्युक्त्वा पल्लवेः कृत्वा स्रस्तरं तामशाययम् ॥२८६।। पटं चास्या समोचे विघ्नव्यूहघने वने । पटेन च्छन्नया स्थेयं त्वया यावदिहैम्यहम् ।।२८७|| तया मदीय आदेश: प्रत्यगृह्यत मौलिना । गत्वाऽहं तु सरो नीरं फलानि च समानयम् ॥२८८॥ आगच्छन्वामहक्स्पदन्दसाशङ्कस्त्वहमूचिवान् । दृग्मोहनपटं मुञ्च जलं देवि ! गृहाण च ॥२८९॥ अलब्धप्रतिवाचा च तदेवोचे पुनर्मया । तथैव पुनरप्राप्तोत्तरः स्रस्तरमस्पृशम् ।।२९०।। अलब्धायां ततो देव्या हा हतोऽस्मीति जल्पतः । पपात मे विलक्षस्य बलं चित्ताज्जलं करात् ॥२९१।। विलपन्देवि देवीति परितः पदपद्धतिम् । वीक्षमाणोऽजगरस्य घर्षणी च व्यलोकयम् ।।२९२।। तां दृष्ट्वा हा हता हन्त कान्ता मेऽजगरेण किम् । इति शोकार्णवे मज्जन्निव मूर्छामुपागमम् ॥२९३॥ ततोऽम्भोधितटाऽऽसन्नसशीकरसमीरणैः । मूर्छाव्यपगमे जाते चिन्तयामासिवानहम् ॥२९४|| १. मन्दभाग्यतः क । Page #97 -------------------------------------------------------------------------- ________________ पञ्चमो भवः १८७ १८८ यावन्नाजगरो दूरं याति तावद्विशाम्यहम् । मुखेऽस्य संमतो मृत्युरपि देव्या समं मम ॥२९५।। ध्यात्वेत्यहं समीपेऽस्य गत्वा कोपयितुं च तम् । न्यहनं मूनि पादेन पटस्तेनोदगीर्यत ।।२९६।। ततः कुण्डलिताङ्गेऽस्मिन्नहं पटमुपाददे । हृद्य, हृद्यमाधायोद्बन्धनं च व्यधां वटे ॥२९७|| रक्षितुं मां समुल्लासिशाखामिषभुजस्तदा । वनदेवी: खगारावैरिवाढत महावटः ॥२९८।। ममाऽथ लम्बमानस्य पश्यतो भ्रमतस्तरून् । मूर्छाऽतुच्छा समागच्छत्रुटितः पाशकस्तु सः ॥२९९|| अत्राऽन्तरे मुनिः कश्चिदकस्मादेत्य सत्वरः । कमण्डलुजलैर्गात्रं सिञ्चति स्म ममोच्चकैः ।।३००।। मूर्छाव्यपगमे चाऽहमालोक्य स्वं भुवि स्थितम् । अचिन्तयं कथं मन्दभाग्योऽहं न मृतोऽस्मि हा ॥३०१॥ मुनिर्मदीयमङ्गं च मृदुना पाणिना स्पृशन् । मयोचे किमिदं चके भगवन्भवता मम ॥३०२।। मुनिरूचे मया वीक्ष्य त्वामात्मनिधनोद्यतम् । चिन्तितं कुरुते कर्म कोऽपि कापुरुषोचितम् ॥३०३।। ध्यात्वेति शीघ्रमायामि यावत्तावदमुच्यत । त्वयाऽऽत्मात्राऽऽगतश्चाऽहं पाशश्च त्रुटितस्तव ॥३०४।। मूर्छितः पतितः सिक्तः कमण्डलुगतै लैः । लब्धसंज्ञः परामृष्टः पाणिनेति कृतं मया ॥३०५।। तदाचक्ष किमीक्षमृत्योस्तव निबन्धनम् । न किञ्चन मया प्रोचे लज्जासज्जात्मना मनाक् ॥३०६।। समरादित्यसंक्षेपः मनिरूचे मुनिजने जननीजनसन्निभे । का त्रपाऽत्र ततः सत्यं वृत्तान्तं मे निवेदय ॥३०७।। ततोऽहं पुरतस्तस्य सर्वं वृत्तान्तमात्मनः । श्वेतवीतः समारभ्योद्बन्धनान्तं न्यवेदयम् ॥३०८॥ अथाह मुनिरीदृक्ष एवायं दुःखभूर्भवः । तद्विषादनिषादं मा स्पृश मालिन्यकारणम् ॥३०९।। सर्वदुःखक्षयोपायं धर्मकर्म समाश्रय । यद्विनाऽन्यभवेऽप्यङ्गी सुखमङ्गीकरोति न ॥३१०।। मयोचे सत्यमेवेदं भगवन्भवतो वचः । अहं कान्तावियोगातॊ धर्तुं प्राणान्न तु क्षमः ॥३११।। तदुपायं समाख्याहि मुमूर्षोस्तादृशं मम । प्राप्नोमि प्रेयसीं येन परलोकगतामपि ॥३१२॥ मनिः प्रोवाच यद्येवं तदस्त्यत्र महीधरे । तीर्थभूतं तटं यस्मात्पतनं सर्वकामदम् ॥३१३।। ततो मुनिसमादिष्टवर्त्मनाऽगां त्रिभिर्दिनैः । तत्राऽऽरुह्य प्रियाप्राप्तिकामः कामं पपात च ॥३१४|| एकेन खेचरेणाऽहं दृष्टश्च निपतस्ततः । हहा प्रमाद इत्युच्चैर्वदता विधृतोऽस्मि च ॥३१५।। श्रीखण्डद्रुमखण्डेऽहं नीत्वा तेनाऽस्मि भाषितः । किं ते साहसिकोत्तंस कर्मेदं प्राकृतोचितम् ॥३१६।। किं चाऽत्र कारणं भ्रान्त कथ्यं चेत्कथयस्व मे । मयोचे किमकथ्यं स्यात्त्वादृशामीदृशां सखे ॥३१७।। प्रियावियोगतो मर्तुकामस्य मुनिना मम । कथितो भृगुपातोऽयं परत्राऽपीष्टमेलकृत् ॥३१८।। Page #98 -------------------------------------------------------------------------- ________________ १८९ पञ्चमो भवः श्रुत्वा स्मित्वा च सोऽवादीन्नास्ति स्नेहस्य दुष्करम् । अयं हि मूलमाध्यातिनिविवेकत्वभूरुहाम् ॥३१९॥ स्नेहमोहमहो हित्वा बोधदीपेन पश्य तत् । कर्माधीनाङ्गिनामेका क्व गतिः क्व च संगतिः ॥३२०।। सर्वकामप्रदं तीर्थं नान्यदस्ति जगत्त्रये । श्रीसर्वज्ञसमादिष्टं विना धर्म चतुर्विधम् ॥३२१।। संरभ्भेण तदेतेन कृतं किं तु निवेदय । कथं कदा वियोगस्ते जायया समजायत ॥३२२।। अथाऽजगरवृत्तान्तमहं तस्मै महात्मने । त्रिदिन्याः परतः पंक्तियोजनान्ते न्यवेदयम् ॥३२३|| स प्रोचेऽलं विषादेन तर्हि जीवति ते प्रिया । मयोचे कथमित्याह खेचरः शृणु बान्धव ! ॥३२४॥ चक्रसेनाऽभिधानोऽस्ति विद्याधरधराधिपः । तेन चाप्रतिचकायाः समाराध्यत साधनः ॥३२५।। पूर्वसेवा कृता चास्यास्तेन द्वादशमासिकी । अधुनोत्तरसेवायां सप्तलक्षी जपत्यसौ ॥३२६।। तद्विधिश्चाष्टचत्वारिंशद्योजनभुवोऽन्तरे । क्षेत्रशुद्धि विधायात्र सप्ताहोरात्रमङ्गिनाम् ॥३२७।। रक्षणं च समादिश्य राज्यं न्यस्य च मन्त्रिषु । पौषधस्थैरिव स्थेयं मलयाद्रिगुहान्तरे ॥३२८।। युग्मम् मन्त्रजापं च तस्याऽद्य कुर्वतः साप्तलाक्षिकम् । सप्ताऽहोरात्रमापूर्ण सहाऽस्माकं मनोरथैः ॥३२९।। समरादित्यसंक्षेपः इयन्मात्रे ततः क्षेत्रे वेद्मि ते न मृता प्रिया । यतो विद्याधराः स्वामिकार्येऽभूवन्कृतोद्यमाः ॥३३०|| अचिन्तयमहं युक्तियुक्तमस्य वचः खलु । तत्प्रावृतपटस्यैवोद्गिरणं कथमन्यथा ॥३३१।। कथं वा ग्रस्तसत्त्वस्य तस्याहे: कुण्डलकिया । इति ध्यात्वा मया प्रोचे मुदितेन स खेचरः ॥३३२।। युग्मम् महापुरुष ! यद्येवं तत्ते भवतु मङ्गलम् । भवताऽऽश्वासितो मृत्योनिवृत्तोऽस्मि सुहत्तमः ॥३३३।। तत्तिष्ठ त्वमिहैवाऽहं याम्यन्वेष्टुं पुनः प्रियाम् । खेचरोऽभिदधे मा गा विधास्ये सर्वमप्यहम् ॥३३४।। मयाथ वचनं तस्य तथेति प्रत्यपद्यत । सह मच्चित्ततापेन तपनोऽस्तमितस्तदा ॥३३५।। अर्धरात्रे ततोऽमानप्रोच्यमानजयध्वनिः । विद्याधरविमानः खे द्योतमानः समागमत् ॥३३६।। ससंभ्रममथोत्थाय स मां विद्याधरोऽवदत् । स्वामिनोऽत्यद्भुतामृद्धि सिद्धविद्यस्य पश्य भोः ॥३३७|| पश्यतोरावयोश्चकसेनविद्याधरेशितुः । सैन्यं बहु वहव्योममार्गेणाऽऽगाद्यथेप्सितम् ॥३३८॥ विभाते स समादाय मां निर्वृतिकरे तटे । गत्वा विद्याधरोऽनंसीच्चक्रसेनं निजेश्वरम् ॥३३९।। स स्वस्मै स्वामिने विश्वं मवृत्तान्तं न्यवेदयत् । विद्याधराधिराजस्तं श्रुत्वा मामिदमभ्यधात् ॥३४०।। महापुरुष मा भूस्त्वं मनागपि हि दुर्मनाः । अद्य सम्पादयिष्यामि नियतं दयितां तव ॥३४१।। १. विधायाथ ख ग घ । २. साप्तलक्षिकं ख ग घ, सप्तलक्षिकं च । Page #99 -------------------------------------------------------------------------- ________________ पञ्चमो भवः १९१ खेरचद्वयमागत्य तदा चामुं व्यजिज्ञपत् । देवादेशादहिसार्थमावां ययिव कानने ॥३४२॥ अद्राक्ष्वाऽजगरत्रस्तामसंव्यानां वराङ्गनाम् । हहार्यपुत्र ! हाहार्यपुत्रेति च विलापिनीम् ॥३४३।। तद्विपत्तिभियावाभ्यामानीता शिखरेऽपि सा । हहार्यपुत्र ! हाहार्यपुत्रेति प्रालत्पुनः ॥३४४|| ततश्च भणितावाभ्यामलमार्ये भिया तव । क्वार्यपुत्रस्तवेत्येषाऽऽचख्यावस्ति गतोऽम्भसे ॥३४५।। गवेषयद्भयामावाभ्यां न स दृष्टः कचित्पुनः । सा तु तन्नामलग्नाऽस्ति तदादि त्यक्तभोजना ॥३४६।। इति श्रुत्वा तयोर्वाचं विद्याधरपुरन्दरः । मामभाषत भद्र ! त्वं जानीहि तव सा किमु ॥३४७|| विद्याधरद्वितीयोऽहमथ तत्र प्रयातवान् । लतामिवाब्दः स्वाभावक्लान्तां कान्तां च दृष्टवान् ॥३४८।। आश्वास्य प्रीणयित्वाऽऽत्मदर्शनेनाशनेन च । तामानयमवक्रस्य चक्रसेनस्य सन्निधौ ॥३४९।। चक्रसेनोऽभ्यधाद् भद्र ! किं ते कुर्वे प्रियं पुनः । अहं जजल्प देवातः परमप्यस्ति किं प्रियम् ॥३५०॥ चक्रसेनः पुनः प्राह तथाप्यातिथ्यमस्तु ते । विद्याजितबला नाम साधिता खेचरत्वदा ॥३५१|| ततोऽध्यायि मया नैमित्तिकदृष्टमिदं पुरा । निरुपाध्युपकारी च मान्य एव महामनाः ॥३५२।। चिन्तयित्वेति तद्दत्तां विद्यामहमुपाददे । साधनोपायमाख्याय खेचरेन्द्रो जगाम च ॥३५३|| समरादित्यसंक्षेपः तां सिसाधयिषुर्विद्यां दध्यावुत्तरसाधकम् । वसुभूति तदा यावत्तावदागात्कुतोऽप्ययम् ॥३५४।। अहो विधिपरीणाम इत्यनेन प्रजल्पता । एत्य तापसवेषेण सुदृढं पर्यरम्भ्यहम् ॥३५५।। किमेतदिति साकूतावावां नेमिव तं ततः । आवयोः स यथौचित्यमाशीर्वादमदान्मुदा ॥३५६।। मया स्वरेण विज्ञातो वसुभूतिरसाविति । हर्षाश्रु मुञ्चताऽस्मै च मुमुचे पल्लवासनम् ॥३५७।। चक्रे विलासवत्याऽथ क्षालनं तस्य पादयोः । भोजनाऽनन्तरं चैष सतोषं भाषितो मया ॥३५८।। सखे कथय पाथोधिः कथं तीर्मस्त्वया तदा । तापसत्वं कथं प्रापे सांप्रतं च कुतो भवान् ॥३५९।। वसभतिरथोवाच प्राप्यकं फलकं मया । तेनाऽब्धि पञ्चरात्रेण ती| मलयमासदम् ॥३६०।। दृष्टस्तपस्विनाऽऽनीतोऽनमं कुलपति वने । भोजनान्तेऽमुना पृष्टः सर्वं तस्मै न्यवेदयम् ॥३६१।। ततः कुलपतिः प्राह वत्सेहविप्लवं भवम् । विचिन्त्य मुनयो भेजुस्तदातङ्कावनं वनम् ॥३६२।। स मया याचितो दिक्षां प्राह जीवति ते सखा । मिलिष्यति च शुश्रूषापरः साधुषु तिष्ठ तत् ॥३६३|| ज्ञानिनोऽस्य गिरा जातप्रत्याशस्तव दर्शने । अस्थामहमिहैवेयत्कालं सालम्बनव्रतः ॥३६४|| इतोऽतीते तृतीयेऽहन्येकेनाऽहं तपस्विना । तव वृत्तान्तमश्रौषं कथ्यमानं गुरोः पुरः ॥३६५।। Page #100 -------------------------------------------------------------------------- ________________ पञ्चमो भवः कथाऽन्ते मे सखा सैष इत्यापृच्छय मुनीश्वरम् । अगां मनोरथापूरं शिखरं त्वत्प्रवृत्तये ॥ ३६६ ॥ दृष्टो विद्याधरस्तत्र पृष्टोऽशंसत्कथां तव । त्वामन्विष्यंस्ततोऽप्यत्राऽऽगमं मित्राऽसि वीक्षितः || ३६७|| अहं दध्यौ ध्रुवं विद्यासम्पदा भाव्यमेव मे । वसुभूतिरकाण्डेऽसावागतः कथमन्यथा ॥३६८|| ततो न्यवेदयं विद्यासम्पदं वसुभूतये । स प्रीतः प्राह सपदि सम्पादय समीहितम् ॥ ३६९|| ततस्तत्रैव षण्मासं पूर्वसेवां व्यधामहम् । देवीमूचे च सिद्धि मे विद्ध्यहोरात्रमध्यतः || ३७० ॥ तत्त्वया नातिदूरेऽत्र स्थेयं गिरिगुहागृहे । विषोढकष्टयाऽद्यैकं कष्टं सोढव्यमस्ति ते ॥ ३७१ ॥ युग्मम् तदुभाकणि चाकर्ण्य सा विलासवती सती । उवाच तव पूर्यन्तामार्यपुत्र मनोरथाः ||३७२ || न्यस्यैतां स्थानके कृत्वा मित्रमुत्तरसाधकम् । पूजयित्वाऽजितबलामूर्ति च स्थण्डिलस्थिताम् ||३७३|| होमकुण्डं प्रचण्डाग्नि मण्डयित्वा च मण्डले । आत्मरक्षां दधल्लक्षहोममारब्धवानहम् ||३७४ ॥ युग्मम् तदा क्रमेण मत्तेभपिशाचीप्रलयाऽम्बुदैः । वेतालराक्षसीवृन्दैर्ममाभूवन् विभीषिकाः ॥ ३७५ ॥ ताः स्वर्गिगिरिणा वात्या इवोच्चैर्भैरवारवाः । असह्या अप्यसह्यन्त मया निश्चलताजुषा ॥ ३७६ ॥ त्रियामायां ततो यामशेषायां पवनो ववौ । होमे समापितप्राये कुसुमामोदमेदुरः ||३७७ || १९३ १९४ समरादित्यसंक्षेपः पुष्पगन्धाऽम्बुवृष्टिश्च जज्ञे जयजयध्वनिः । प्रकाशश्च शरज्ज्योत्स्नासनाभिरभवत्परः ॥ ३७८ ॥ स्तूयमानाऽमरीवर्गैर्गीयमाना च किन्नरैः । राजमानाऽऽतपत्रेण वीज्यमाना च चामरैः ॥ ३७९ ॥ पीयूषवृष्टिवष्टिममलां मयि तन्वती । किलाऽजितबला देवी ततः प्रत्यक्षतामिता ॥ ३८० ॥ युग्मम् होमशेषं समाप्याऽऽशु प्रणनाम च तामहम् । देवी तु प्राह मां वत्स ! यच्छ मे यत्समीहितम् ॥ ३८२॥ व्यजिज्ञपमहं देवि किं तद्भूयोऽपि साऽवदत् । द्वात्रिंशल्लक्षणजुषो नार्या नुर्वाऽथ जाङ्गलम् ||३८२|| मयोचे विदधे नाऽहं मातः स्त्रीघातपातकम् । मनसाऽपि निशुम्भामि नरं न च निरागसम् ॥ ३८३ ॥ द्वात्रिंशल्लक्षणोऽहं चेत्तदादिश यथेप्सितम् । किमनेन शरीरेण रक्षितेन विनाशिना || ३८४॥ एवमस्त्विति देव्याऽऽहमुक्तो रोमाञ्चमुद्वहन् । होमकुण्डे पतन् देव्या स्वेनाऽह्नाय भुजे धृतः ||३८५ ॥ अहमूचेऽथ मां मुञ्च मुञ्च देवि ! महाबले । असारेण शरीरेण यश: सारं यथाऽर्जये || ३८६ ॥ अथाऽजितबला देवी प्रोचे विरम साहसात् । परीक्षितोऽसि धर्मे त्वं निर्व्यूढोऽसि च वत्स ! यत् ॥ ३८७|| अहो धैर्यमहो वीर्यमहो स्थैर्यमहो महः । अहो ते वत्स ! गाम्भीर्यमहो ते धर्मशीलता ॥ ३८८ ॥ तवाऽहं भक्तितः सत्त्वशक्तितः सुकृतोक्तितः । तुष्टाऽस्मि सर्वथेत्युक्त्वा ततो देवी तिरोदधे ॥ ३८९ ॥ विशेषकम् Page #101 -------------------------------------------------------------------------- ________________ पञ्चमो भवः अथाश्रौषमहं व्योम्नि भेरीभाङ्कारभासुरम् । किङ्किणीकणितं हस्तिबंहितं हयहेषितम् ॥३९०॥ यावत्पश्यामि विस्मेरदृगहं विस्मितो नभः । तावद्विद्याधरचमूमागच्छन्तीमलोकयम् ॥३९॥ चत्वारः पुरतः कान्तिहृद्या विद्याधरास्ततः । आगत्य मां नमस्कृत्य कृत्यमित्यभ्यधुः स्फुटम् ॥३९२।। देव सद्गुणवित्ताढ्यं(?) वैताढ्यगिरिभूषणम् । समस्ति दक्षिणश्रेण्यां पुरं गगनवल्लभम् ॥३९३।। तत्र विद्याधराधीशः पुराऽऽसीत्कनकध्वजः । अपुत्रः प्राप पञ्चत्वमेष दैवप्रपञ्चतः ॥३९४|| ततो राज्यप्रधानान्नः स्वामिशोकविसंस्थुलान् । एत्याऽजितबला देवी स्वप्नान्तरिदमादिशत् ॥३९५।। सनत्कुमारनामाऽयं यशोवर्मनृपात्मजः । मलयेऽस्ति स वः स्वामी प्रदत्तस्तुष्टया मया ॥३९६।। देव्यादेशेन तद् देव मुदिता वयमागताः । राज्यं वैद्याधरं चैतत् तवायाति स्वयंवरम् ॥३९७|| अत्रान्तरे परेऽप्येत्य मां नमन्ति स्म खेचराः । ऊचे विद्याधरै राज्याभिषेकाय च तैरहम् ॥३९८।। तदा वामभुजादण्डस्पन्दमन्दमना अपि । अवोचं धैर्यमालम्ब्य तानहं सुमना इव ॥३९९।। भवत्वेवं पुनर्मित्रं वसुभूति: समेतु मे । सोऽथ तैः शब्दितो नोचे नालक्ष्यत च दीक्षितः ॥४००॥ मयाऽथ तं स्वयं द्रष्टुमुत्पेते सह खेचरैः । ततो दृष्टः स दृष्ट्वा तु साक्षेपं खेचराजगौ ॥४०१॥ समरादित्यसंक्षेपः खेटखेटा मदीयस्य सुहृदो हृदयेश्वरीम् । हा विलासवतीं हत्वा क्व प्रयास्यथ सम्प्रति ॥४०२।। तन्निशम्य मयाऽचिन्ति किं केनाऽपि हृता प्रिया । निष्फलो मन्दभाग्यस्य प्रयासस्तोसौ मम ॥४०३|| मया नीचेन भूत्वाऽथ वसुभूतिरभाष्यत । स तु मां विटपेनाऽहन् मया घातोऽस्य वञ्चितः ।।४०४|| आच्छिद्य विटपं हस्तात्पुनरप्येष भाषितः । प्रत्यभिज्ञाय मां विज्ञस्त्यक्त्वा संरम्भमब्रवीत् ॥४०५।। देव ! त्वया समारब्धे विद्यासाधनकर्मणि । प्राप वैद्याधरं वृन्दं मया तदवधीरितम् ॥४०६।। क्षणार्धेन ततोऽश्रौषं देव्याः कन्दितमुच्चकैः । सशङ्कस्तामपश्यं च विद्याधरविमानगाम् ॥४०७।। हहाऽऽर्यपुत्र ! हा तस्य मित्र त्रायस्व मामिति । निशम्य कन्दितं तस्या गुहां गत्वा न्यभालयम् ॥४०८।। तामदृष्ट्वाऽनुधावंश्च विमानं न व्यलोकयम् । तन्न वेद्मि हृता देवी केनाऽपि क्वाऽपि तिष्ठति ॥४०९|| ततोऽहमवदं मित्र वसुभूते विषीद मा । ममाऽजितबला देवी तुष्टाऽस्ति किमिदं ततः ॥४१०॥ अथो मलयशैलस्य शृङ्गे तत्रैव तस्थुषा । मयाऽऽत्मसेवकैः सार्धममन्त्र्यत नभश्चरैः ॥४११॥ तेऽप्यूचुः खेचराः स्वामिन् ! देवी येन हृता यदि । सोऽपि विद्याधरस्तन्न भक्ष्यते नखिभिनखी ॥४१२।। विग्रहीष्यामहे तं च विज्ञायेति निगद्य माम् । शुद्ध्यै पवनगत्याख्यं प्राहिण्वन् खेचरं च ते ॥४१३॥ युग्मम् Page #102 -------------------------------------------------------------------------- ________________ पञ्चमो भवः त्रिभिर्दिनैरसौ सर्व विज्ञो विज्ञाय मूलतः । एत्य विज्ञपयाञ्चक्रेऽप्राकृतः प्रकृताञ्जलिः ॥ ४१४॥ स्वामिन्! समस्ति वैताढ्योत्तरश्रेणिविभूषणम् । चक्रवालोत्तरपदं पुरं श्रीरथनूपुरम् ||४१५ || देवी तत्पतिनाऽनङ्गरतिना खेचरेन्दुना । जानकीव दशास्येनाऽपहृता निहतात्मना ॥ ४१६ ।। देवी तु तद्गृहोद्यानमध्ये विद्याधरीवृता । अस्त्यखण्डितचारित्रा सहकारलतागृहे ||४१७|| मयाऽदृश्यत सा स्वामिगोत्रमन्त्राक्षरावलीम् । जपन्ती निजमोक्षाय योगिनीव वियोगिनी ||४१८ || तन्निशम्य मया वक्त्रं वसुभूतेर्व्यलोक्यत । स त्वभाषत दूतोऽस्य प्रेष्यते प्रथमं प्रभो ! ॥ ४१९ ॥ अथ विद्याधराः प्राहुरस्मानेवादिश प्रभो ! । यमदूता वयं तस्य दूतेनाऽन्येन किं ततः ॥ ४२० ॥ मयाऽथ जगदे दूतप्रेषणं नयभूषणम् । पश्चादपि हि हे वीरा युष्माभिर्जेस्यते पुनः ॥४२१|| मयैवं बोधयित्वा ताञ्शिक्षयित्वा च तत्क्षणात् । दूतः पवनगत्याख्यः स एव प्रैषि विद्विषे ||४२२ || स गत्वाऽनङ्गरतये कथयामास तत्तथा । यत्त्वां सनत्कुमाराऽऽख्यो वक्ति विद्याधराधिपः ॥४२३|| अज्ञानाद्यदसावस्मत्परोक्षे भवता हृता । तद्विलासवत मुञ्च नैतद्धि पुरुषव्रतम् ॥४२४|| १. येस्यते पुनः क । १९७ १९८ समरादित्यसंक्षेपः अथाधिपत्यवैयात्यवशो नोज्झसि मे प्रियाम् । तत्कृतान्तनिशान्तस्य प्रवेशे प्रगुणो भव ॥ ४२५ ॥ अथाऽनङ्गतिः प्राह सोपहासं तदेव हि । मदीयशिक्षया पूर्वं यद् दूतेन किलोदितम् ॥४२६ ॥ अब्रवीच्चेति कस्कोऽत्र ब्रुवन्तं खेचरब्रुवम् । गले गृह्णीत दूतत्वं भूचरस्याऽऽचचार यः ||४२७॥ तदात्वेनाऽथ पवनगतिः कुद्धोऽस्य दुर्धियः । अंह्निप्रहारतो दन्तान्पातयन्नुत्पपात खे ॥ ४२८ ॥ आगत्य सत्यमेतत्स शशंस पुरतो मम । तमहं क्षयकालाऽब्द इव भीमोऽभ्यषेणयम् ॥४२९ ॥ मां निशम्य समायान्तमनङ्गतिना निजः । सेनानीः प्रैषि संख्यार्थं दुर्मुखो नाम संमुखः ॥४३०|| चण्डसिंहाऽभिधेनैष पातितो मम पत्तिना । सदैन्यमनशत् सैन्यमस्य त्रस्तैणयूथवत् ॥४३१|| मया द्वौ खेचरौ प्रेष्य द्विट् प्रोक्तो गच्छ वा वनम् । नो वा मदीयशस्त्राग्रप्रदीपे शलभो भव ॥ ४३२ ॥ ताभ्यामित्युदितोऽनङ्गरतिर्भेरीमवादयत् । एकोऽप्यनेकधा तस्याः सैनिकैः शुश्रुवे रवः ॥ ४३३|| प्रथमं भयवित्रस्तनयनैः कातरैर्नरैः । सैन्यस्त्रीभिः पुनर्भाविवियोगस्रवदश्रुभिः ||४३४|| भटैः कण्टकितै रूढस्फुटितव्रणकन्दरैः । स्वस्वामिसुकृताऽनृण्यसम्पदा संमदाकुलैः ||४३५|| Page #103 -------------------------------------------------------------------------- ________________ १९९ २०० पञ्चमो भवः द्रष्टुं प्रथमसंग्रामं धृतोत्कण्ठैः कुमारकैः । नियोगकारिभिः स्वस्वनियोगकरणोद्यतैः ।।४३६।। कलापकम् अथ दुर्जनवाणीव भेदिकास्तीक्ष्णभल्लयः । ढौक्यन्ते स्वर्णसंनाहाश्चेद्धौषधिगिरिप्रभाः ॥४३७|| महिषध्वजजिह्वाभाः प्रकट्यन्तेऽसियष्टः । सगुणा अपि वेश्यावद्वक्त्राश्चेष्वासवल्लयः ॥४३८|| दुर्जनालापवन्नर्मोद्घटनप्रवरा: शराः । इत्थमानीयमानेषु युद्धोपकरणेष्वलम् ॥४३९।। केनचिद्दयितास्पर्शरोधकं वर्म नादधे । केनाप्यशब्दं स्थूलाश्रु रुदत्यवमता वधूः ॥४४०॥ परेण विगलत्काञ्चीकङ्कणाश्रुजलाविला । एषोऽहमागतोऽस्मीति वदताऽऽश्वासिता प्रिया ॥४४१॥ अन्येन गच्छता पीतोद्धृताऽम्बु जलभाजनम् । अर्पितं काचिदस्राम्भ:पूर्णं चक्रे पिबन्त्यपि ॥४४२।। आपृच्छ्य गच्छति प्रेयस्यन्यया संज्ञया विना । अतुच्छमूर्छयाऽदशि स्वाऽनुरागस्य चेष्टितम् ॥४४३|| अनङ्गरतिसैन्यस्य वृत्तो वृत्तान्त ईदृशः । विद्याधराभ्यामागत्य ताभ्यां मम निवेदितः ॥४४४॥ अष्टभिः कुलकम् अथ भेरी ममादेशात्ताड्यमाना जगर्ज सा । स्फूर्जथुप्रलयाम्भोदयमहुङ्कारसोदरम् ॥४४५|| ततोऽङ्गरागताम्बूलमाल्यदानादिसोद्यमम् । पीयमानासवं मान्यमानयममहाभटम् ॥४४६।। समरादित्यसंक्षेपः सज्ज्यमानविमानं च वर्ण्यमानविपक्षकम् । उदस्यमानकेतूच्चैदीयमानपताकिकम् ॥४४७।। निनदत्किङ्किणीजालमालं विचरचामरम् । रच्यमानमहाव्यूह मण्ड्यमानाऽतपत्रकम् ॥४४८।। उद्घष्टजयशब्दं च गीयमानोरुमङ्गलम् । भवत्पुण्याऽहनिर्घोषं संनद्धं च बलं मम ॥४४९॥ कलापकम् उत्पेतुः खेचरा: पेतुर्विमानानि समन्ततः । निवेशितो मया पद्मव्यूहश्च कटके निजे ॥४५०॥ अग्रतश्चण्डसिंहोऽभूद्वामे समरसेनकः । देवौषधो दक्षिणेन मतङ्गः पश्चिमेन च ॥४५१।। मध्ये पिङ्गलगान्धारौ स्थितोऽहं तु विहायसि । वायुवेगादिभिर्विद्याधरैर्युक्तो विमानगः ॥४५२।। अथाऽऽसन्ने रिपोः सैन्ये पृष्टोऽमितगतिर्मया । नामानि शकटव्यूहेऽरिभूपानां शशंस सः ॥४५३।। तुण्डे काञ्चनदंष्ट्रोऽयमशोको वामपार्श्वगः । दक्षिणे कालजिह्वाऽऽख्यो विरूपो मध्यतः स्थितः ॥४५४|| पृष्ठेऽनङ्गरतिर्देव ! दैवेन प्रत्यदुर्मतिः । इत्थं विरोधिनामानि ममाख्याति स्म खेचरः ॥४५५।। अथ जज्ञे रणं चण्डसिंहकाञ्चनदंष्ट्रयोः । नदत्संग्रामवादि बन्दिघोषितपूर्वजम् ॥४५६।। वल्गद्विद्याधरं मुच्यमानक्ष्वेडाभयङ्करम् । पतन्ति भल्लयो यत्र खलद्धिवदसौख्यदाः ॥४५७।। नाराचनिचयाः कालरात्रिनेत्रवर्तिदाः । यमसैरिभशृङ्गाभा गदा हृतमदा द्विषाम् ॥४५८।। १. “शुद्धौषधि ख ग घ । Page #104 -------------------------------------------------------------------------- ________________ २०२ पञ्चमो भवः २०१ उत्पातमण्डलानीव च्छवाण्यर्धेन्दुभेदतः । बाधाविधायिनो यत्र मुद्गरा वज्रसोदराः ॥४५९।। यत्र शोणितकुल्याऽभूच्छिर: कमलमालिनी । पतन्ति यत्र शस्त्राणि कबन्धानि च पृष्ठतः ॥४६०|| अष्टभिः कुलकम् अथ काञ्चनदंष्ट्रेण चण्डसिंहोऽसिना हतः । भाले तदक्षराणीव लिखितानि निरीक्षितुम् ॥४६१।। हतेऽत्र भग्ने तत्सैन्ये रिपुसैन्ये प्रधाविते । अहं समरसेनेन सहास्याभिमुखोऽभवम् ॥४६२॥ गगने सर्वतश्छन्ने शरैर्जलधरैखि । शस्त्रास्फालस्फुलिङ्गौघैस्तदा विद्युल्लतायितम् ॥४६३॥ तदा हंसैरिवोड्डीनं विमानधवलध्वजैः । किं च कीलालपूरेण तटिन्यजनि दुस्तरा ॥४६४।। एवं भवति संग्रामे दृष्टोऽनङ्गरतिर्मया । इत्युक्तश्चाऽऽवयोः किमेभिनिहतैरतः ॥४६५।। स प्राह कीदृशं वैरं हन्त सिंहशृगालयोः । मयोचे क्रिययैवेदं ज्ञातव्यं किं बहूदितैः ॥४६६|| युयुत्सुरेष मायास्त्रैर्मयोचे युध्यतां बलात् । तत्प्रपद्य हतः शक्त्या तेनाऽहं पतितो भुवि ॥४६७|| ततः सरोषमुत्थाय मयाऽपि गदया हतः । स विभिन्नशिरस्त्राणः पपात पृथिवीतले ॥४६८॥ उत्थापितो मयाऽश्वास्य स नियुद्धेऽप्यढौकत । आवां युध्यावहे बाहूबाहव्यथ तलातलि ॥४६९।। कथञ्चित्स मया जिग्ये तन्न जानामि किञ्चन । सिद्धविद्याधरैः किं तु ममाऽघोषि जयध्वनिः ॥४७०॥ समरादित्यसंक्षेपः जज्ञे कुसुमवृष्टिश्च जयतूर्यं समाहतम् । निःस्पृहः स तु संत्यज्य राज्यं यातस्तपोवनम् ॥४७१।। ततः पुरे प्रविष्टोऽहं विद्याधरचमूवृतः । दृष्टा देव्यथ देहेन द्वितीयेन्दुकलातुला ॥४७२।। सर्वविद्याधरेन्द्रैः सा प्रणता देवता यथा । कृतो राज्याभिषेको मे श्रेणिद्वितयखेचरैः ॥४७३।। कियत्यपि गते काले गजेन्द्रस्वप्नसूचितम् । देव्यसूत सुतं राजलक्षणैरखिलैर्युतम् ॥४७४|| तुष्टाऽजितबला देवी ददौ राज्यं सुतं च मे । तेनाजितबलः पुत्रो विदधेऽभिधया मया ॥४७५॥ तत्र प्राप्ते कुमारत्वं मया पित्रोस्थ स्मृतम् । पर्यालोच्य समं देव्या खेचरेन्द्रश्च तैर्मतः ॥४७६।। दुर्गपालं विधायाऽत्र नृपं देवौषधाभिधम् । दिव्यं विमानमारूढः समं देव्या सुतेन च ॥४७७|| श्वेतवीमागतः पित्रोपियामासिवानहम् । निजमागमनं ताभ्यामभ्युद्गम्य प्रवेशितः ॥४७८॥ विशेषकम् महामहोत्सवस्तत्र स कोऽपि समभूत्तदा । कवीनामपि यः कामं वचनस्य न गोचरः ॥४७९|| कालेन कतिथेनाऽपि पित्रोः पञ्चत्वमीयुषोः । श्रीकान्तिनिलयाऽऽभिख्यं राज्ये न्यास्थं निजानुजम् ॥४८०|| स्वयं गतस्तु वैताढ्यनगरे रथनूपुरे । कुर्वे तत्रोत्तरश्रेणिराज्यं प्राज्यं स्वपुण्यतः ॥४८१।। अथ चित्राङ्गदो नाम चारणश्रमणः प्रभुः । भव्याम्बुजविबोधैकवासर: समवासरत् ॥४८२।। Page #105 -------------------------------------------------------------------------- ________________ पञ्चमो भवः तं चतुर्ज्ञानिनं श्रुत्वा बाह्योद्याने समागतम् । निर्गतो वन्दनायाऽहं देवीसुतयुतस्ततः ॥४८३|| तं प्रणम्याऽथ लब्धाशीरुपाविक्षमहं पुरः । उक्तो भगवता भो भो विद्याधरधराधिप ||४८४ ॥ पूर्वपुण्यफलं मत्वा पुनः पुण्यं समर्जय । मयोचे तदुपायं तद्वद सद्यः प्रसद्य मे ||४८५|| गुरुणादेशितं धर्मं सम्यक्त्वाऽऽणुव्रतात्मकम् । अस्माभिरात्मसात्कृत्वा पृष्टोऽथ भगवानिति ॥ ४८६ ॥ भगवन् ! किं पुरा कर्म मर्माविद्विदधे मया । प्रियावियोगसंतापाऽनलेन प्लोषितोऽस्मि यत् ||४८७|| गुरुः प्रोवाच भरतश्रेष्ठे काम्पील्यनामनि । पुरे त्वं रामगुप्ताख्यश्चन्द्रगुप्तनृपात्मजः ||४८८|| इयं तव प्रियतमा तारापीडनृपात्मजा । नाम्ना हारप्रभा हारप्रभाताररदद्युतिः ॥ ४८९ ॥ अन्यदा सुरभी पुष्पसमूहसुरभौ युवाम् । ययथुर्भवनोद्याने पुष्पावचयलीलया ॥४९० ॥ क्रीडावाप्यां च मज्जित्वा सुचिरं सारसाविव । तत्तीरसंस्थिते हृष्टौ निविष्टौ कदलीगृहे ॥ ४९१|| तत्कारिकोपनीतेऽथ कुङ्कुमस्य विलेपने । युवाभ्यामनुरागिभ्यामङ्गरागः कृतो मिथः ||४९२ || अथ तत्राऽऽगतं हंसमिथुनं पृथुनर्मणा । भवता जगृहे हंसी कुङ्कुमाक्तेन पाणिना ||४९३ ॥ 1 हंसस्तव गृहिण्या तु रञ्जित कुङ्कमेन त अन्योऽन्यं विरहक्लान्तौ मुक्तौ च स्तोकवेलया ॥ ४९४॥ २०३ २०४ समरादित्यसंक्षेपः हंसेन चक्रवाकीति हंस्या चक्र इति भ्रमात् । परस्परपरित्यक्तौ दर्शनेऽपि न संगतौ ॥ ४९५ ॥ ततो व्यवसितौ मृत्यै गृहवाप्याममज्जताम् । स्थितौ निरुद्धनिःश्वासौ वेलां च महतीमपि ॥ ४९६॥ असूनां दुस्त्यजत्वेन भावित्वेन च संगतेः । कर्मणोऽचिन्त्यशक्तित्वाद्धौतकुङ्कुमवर्णौ ॥४९७|| ततः कण्ठगतप्राणान्मग्नौ दीर्घिकाजलात् । स्वयं च प्रत्यभिज्ञाय मिलितौ कलितौ मुदा ॥ ४९८ ॥ षड्भिः कुलकम् असमाद्व्यतिकरात्कर्म युवाभ्यां यदबध्यत । तदीयपरिणामस्य दुस्तरो विस्तरो हासौ ॥ ४९९ ॥ ततोऽचिन्ति मयाऽल्पस्य निदानस्य महानहो । विपाको दुस्सहस्तत्किं प्रयासेनाऽमुनाऽधुना ॥ ५०० ॥ ततो नत्वा मया प्रोचे भगवन्कुर्वनुग्रहम् । उत्तारय भवाटव्या देहि श्रामण्यमुज्ज्वलम् ॥ ५०१ ॥ अनुज्ञातस्ततस्तेन दत्त्वा राज्यं स्वसूनवे । समं मित्रेण देव्या च श्रामण्यं प्रत्यपादिषि ॥ ५०२|| इदं मम व्रतप्राप्तौ तद्विशेषनिबन्धनम् । प्रोचे जयकुमारेण सुन्दरं भगवन्नदः ||५०३ || तद्धन्योऽसि प्रभो ! किं तु कथमुत्तीर्यते जनैः । असौ भवाटवी तस्या उत्तीर्णैः क्व च गम्यते ॥ ५०४ ॥ गुरुः प्राहाऽटवी द्वेधा द्रव्यभावविभेदतः । तदुदाहरणं द्रव्याऽटव्या मे वादिनः शृणु ॥ ५०५ ॥ कुतश्चिन्नगरात्कश्चित्सार्थवाहः पुरान्तरम् । यियासुर्घोषयत्येवमागच्छत यियासवः ||५०६ ॥ Page #106 -------------------------------------------------------------------------- ________________ पञ्चमो भवः निजादेशकरं मर्त्यं प्रापयामीहितं पुरम् । तच्चाकर्ण्य सहानेन प्रचेलुः सार्थिका घनाः ||५०७|| तेषां च कथयत्येषोऽध्वनो दोषान् गुणानपि । द्वौ मार्गों गच्छतामत्र ऋजुराद्यः परोऽनृजुः ||५०८|| योऽनृजुर्गम्यते तेन कालेन बहुना सुखात् । पर्यन्ते चावतीर्यज गम्यते पुरमीप्सितम् ॥५०९ || ऋजौ तु गम्यते दुःखात् प्राप्यते तु पुरं लघु । निःसत्त्वानां यतोऽतीव विषमः सङ्कटच सः ॥५१०॥ यत्तत्र द्वार एव स्तो व्याघ्रसिंहा भयावहौं । तौ सत्त्वेन परिध्वस्याऽवर्तर्यं तत्र वर्त्मनि ॥ ५११|| तत्राऽपि चानुवर्तेते तावीप्सितपुरावधि । हतश्चोन्मार्गगं जन्तुं न तु प्रभवतः पथि ॥ ५१२ ॥ वृक्षाश्च तत्र सन्त्येके पत्रपुष्पफलान्विताः । अन्ये शटितपत्रास्तु फलपुष्पविवर्जिताः ॥५१३|| तत्राऽऽदिमानां छायाऽपि मृत्यै भोगे तु का कथा । ततस्तेषु न विश्रम्यं विश्रम्यमपरेषु तु ॥५१४॥ तटस्थास्तस्य मार्गस्य रम्यवेषधरा नराः । वदन्त्याहूय मार्गेणाऽनेनास्मिन् गम्यते पुरे || ५१५॥ न श्रोतव्यं वचस्तेषां न मोक्तव्याः सुसार्थिकाः । एकस्य नियमेन स्याद् भयं नाऽत्र विचारणा ॥ ५१६|| दवः स्तोकोऽपि निर्वाप्यो दहत्यपरथा त्वयम् । उच्चोऽद्रिरुपयुक्तैश्च लङ्घ्यो मृत्युरलङ्घने ॥५१७|| १. समं तेन क । २०५ २०६ समरादित्यसंक्षेपः उल्लंघ्या वंशजाली च महोपद्रवकारिणी । मार्गेऽस्ति च लघुर्गर्तस्तस्य पार्श्वे द्विजोऽस्ति च ॥५१८॥ मनोरथाऽभिधः सैष वक्ति पूरय गर्तकम् । न श्रोतव्यं वचस्तस्य गन्तव्यमवमत्य च ॥५१९ ॥ पूर्यमाणो हि गर्तोऽयं भवत्यतितरां महान् । मार्गाच्च भ्रंशयत्येव सर्वस्वं स्रंसयत्यपि ॥५२०|| फलानि पञ्चधा सन्ति रम्याणि सुखदानि च । किम्पाकानां न दृश्यानि न भोक्तव्यानि तानि च ॥५२१॥ तत्र द्वाविंशतिर्घोराः पिशाचाश्च क्षणे क्षणे । अभिद्रवन्ति ते नैव गणनीया मनागपि ॥ ५२२ ।। दुर्लभे विरसे चाऽन्नपाने भाव्यं न खेदिना । उत्प्रयाणं न कर्तव्यं निशायामद्वयेऽपि हि ॥ ५२३|| इत्थं व्रजद्भिः सा शीघ्रं लङ्घ्यते च महाटवी । दौर्गत्यादिविहीनं च प्राप्यते वाञ्छितं पुरम् ॥५२४|| न क्लेशोपद्रवाः केऽपि जायन्तेऽत्र समीयुषाम् । दृष्टान्तोऽयं तवाऽख्यातोऽधुना तूपनयं शृणु ॥ ५२५ ॥ सार्थवाहो जिनाधीशो घोषणा धर्मदेशना । ज्ञेया भावाटवी सोऽयं चतुर्गतिमयो भवः ॥ ५२६ ॥ यतिधर्म ऋजुः पन्थाः श्राद्धधर्मोऽनृजुः पुनः । सोऽप्यन्ते साधुधर्मेण युतः शिवपदप्रदः ॥ ५२७॥ भावतः प्रतिपन्ने हि यतिधर्मे गतिः शिवे । जन्मादिक्लेशहीनं च ज्ञेयमिष्टपुरं शिवम् ॥ ५२८ ॥ १ इत्थं व्रजद्भिः सा द्रव्याटवी शीघ्रं विलङ्घ्यते ख ग घ । Page #107 -------------------------------------------------------------------------- ________________ पञ्चमो भवः २०७ २०८ समरादित्यसंक्षेपः व्याघ्रसिंहौ तु विज्ञेयौ रागद्वेषौ यदेतयोः । भयान्न प्रतिपद्यन्ते श्रामण्यं शिवसाधकम् ॥५२९।। यावत्केवलमेतौ च नरानात्तव्रतानपि । न मुञ्चतः पथस्थांस्तु नैवाऽभिभवतः क्वचित् ॥५३०॥ रम्यवृक्षाः पुनः शय्याः स्त्रीषण्ढपशुसंगताः । ता एव निरवद्यास्तु शुष्कद्रुमसमा मताः ॥५३१|| तटस्थापयका ज्ञेया ये विरुद्धोपदेशकाः । धृताऽष्टादशशीलाङ्कसहस्राः स्युः सुसार्थिकाः ॥५३२।। ज्ञेयो दवानल: क्रोधो मानस्तूच्चो महीधरः । माया वंशकुडङ्गी च लोभो गर्त इतीरितः ॥५३३।। ज्ञेय इच्छाविशेषस्तु मनोरथ इति द्विजः । पूर्यमाणश्च गर्तोऽयं लोभाल्लोभः प्रवर्धते ॥५३४।। किम्पाकफलतुल्यास्तु विज्ञेया विषया अमी । परीषहाः पिशाचास्तु पानाऽन्नं चैषणीयकम् ॥५३५।। प्रयाणमप्रमादश्च रात्रियामयुगेऽपि यः । इत्थं भावाटवी लङ्ख्या प्राप्यते च शिवं पुरम् ॥५३६|| तस्माज्जयकुमारोऽथ गृहीतश्रावकव्रतः । प्रविष्टो नगरं पित्रा यौवराज्येऽभिषेचितः ॥५३७|| नित्यं सनत्कुमारं च गुरुमेष निषेवत । मासकल्पे तु सम्पूर्णे विजहाराऽन्यतः प्रभुः ॥५३८|| इतश्च नरकोवृत्तो धनश्रीजीवनारकः । भ्रान्त्वा सुबहु संसारं विधायाऽकामनिर्जराम् ॥५३९।। जज्ञे जयकुमारस्य समानोदर्यभावतः । पितृभ्यां विजयो नाम तस्य चापि प्रतिष्ठितम् ॥५४०।। युग्मम् प्राप्तः कुमारभावं स जयस्य त्वतिवल्लभः । प्राच्यकर्माऽनुभावेन जयस्त्वस्य न वल्लभः ॥५४१।। अन्यदा दैवयोगेन पितर्युपरते सति । राज्ये जयकुमारोऽथ न्यस्तः सामन्तमन्त्रिभिः ॥५४२।। विजयो जयराजस्योपरि विद्वेषमावहन् । पलायमान आदाय निबद्धो राज्यचिन्तकैः ॥५४३॥ जज्ञे शोकश्च तन्मातुरास्थानस्थेऽन्यदा नृपे । कृताञ्जलिः समागत्य वेत्रिणीति व्यजिज्ञपत् ॥५४४।। द्वारि त्वज्जननी देव तिष्ठत्यथ ससम्भ्रमम् । तामेत्य नृपतिर्नत्वा प्रोचेऽहं किं न शद्वितः ॥५४५।। अत्र चाऽऽगमने किं वा कियद्वाऽम्ब ! निबन्धनम् । ततः सा रुदती प्राह देहि मे पुत्रजीविकाम् ॥५४६|| ततो जयनृपः प्राह कुमारस्य कुतो भयम् । तयोचे स्थितिरेवैषा यद्विपक्षो नियन्त्र्यते ॥५४७|| नपतिः प्राह यद्येवं क: सपक्षस्ततो मम । उक्त्वेत्याऽऽनीय तामन्तरासनेऽथ न्यवेशयत् ॥५४८।। कुमाराऽऽनयने प्रेष्य मन्त्रिणोऽथ व्यचिन्तयत् । धिग् राज्यमीदृशं मातृबन्धुवर्गस्य दुःखदम् ॥५४९|| तत्किमेतेन संक्लेशायासमात्रफलेन मे । तद् दत्त्वेदं कुमाराय मातृशोकं हराम्यहम् ॥५५०।। तदा वधपरीणामं दधत्तं प्रति तल्लघुः । आनीतो मन्त्रिभी राज्ञा भद्रपीठे निवेशितः ॥५५१।। अभिषिक्त: स्वयं राज्ये समं सामन्तमन्त्रिभिः । उद्धृष्टं च समस्तानां भवतामेष भूपतिः ॥५५२।। Page #108 -------------------------------------------------------------------------- ________________ पञ्चमो भवः २०९ ततः स्वयं ससामन्तमन्त्रिणा च प्रणम्य तम् । प्रोचेऽम्ब ! विगतः शोकस्तव सा त्वाह विस्मिता ॥५५३|| यत्कृते विदधत्यन्ये विरोधं बन्धुभिः सह । लीलया तत्त्यजन् राज्यं तन्महापुरुषो भवान् ॥५५४|| न तादृशस्तव भ्राता न्यायधर्मपरस्ततः । राज्यं वत्स ! विधेहि त्वं युवराजमिमं कुरु ॥५५५।। उवाच जयभूपालः पालयिष्यत्यसौ प्रजाः । कृतराज्याऽभिषेकस्य यौवराज्यं न युज्यते ॥५५६।। मम चित्तं विरक्तं च तत्प्रसादं विधेहि मे । येनाऽऽददामि प्रव्रज्यामित्युक्त्वा न्यपतत्पदोः ।।५५७।। तयोचेऽथ त्वया सार्धं ममाऽपि व्रतमस्तु तत् । स प्राह युज्यते ह्येतत्प्रकृत्या निर्गुणे भवे ॥५५८॥ बन्धवेऽथ ददौ शिक्षा पालनीयाः प्रजाः सुखम् । यशः पोष्यं सुलब्धश्च विधेयो मानुषो भवः ॥५५९।। उक्ताश्च मन्त्रिणस्तेन युष्माभिः कुलसम्भवैः । प्रजाप्रजापयोरिष्टं चिन्तनीयं सदा हितेः ॥५६०॥ तदा सनत्कुमारश्च पुनः प्रभुरुपागतः । विज्ञप्तं च नृपायेदं सिद्धार्थेन द्विजन्मना ॥५६१|| नष्टकष्टोऽथ सप्ताष्ट पदान्यभिमुखो व्रजन् । गुरुं ननाम तत्रस्थः प्रचचाल च तं प्रति ॥५६२।। विज्ञप्तो मन्त्रिसामन्तैर्जज्ञे देव तवेहितम् । प्रव्रज्या तदिहैवाऽस्तु मुहूर्ते सुन्दरे प्रभो ! ॥५६३।। प्रतिश्रुत्येति भूपालो ययौ गुरुपदाऽन्तिके । मन्त्रिभिस्तु महादानं दापितं नृपतेर्नवात् ॥५६४।। समरादित्यसंक्षेपः ततः समस्तचैत्येषु पूजायाः समनन्तरम् । रथारूढश्चचालैष राजलोकेन संयुतः ॥५६५।। दानं ददानो दीनानां शस्यमानश्च नागरैः । अहो अस्योत्तमं वृत्तं कीदृक्षमिति वादिभिः ।।५६६।। काकन्द्यनाथा क: कालो व्रतस्याऽस्येति साश्रुभिः । नागरीभिर्वदन्तीभिः कथञ्चिदपि वीक्षितः ॥५६७॥ जनन्या च प्रधानैश्च सार्धमुद्यानमागतः । गुरोः सनत्कुमारस्य समीपे व्रतमाददे ॥५६८।। कलापकम् वन्दित्वाऽथ निरानन्दाः काकन्दी विविशुर्जनाः । मासकल्पे व्यतीते च भगवानन्यतो ययौ ॥५६९।। ततोऽधीतश्रुतः शुद्धं श्रामण्यमनुपालयन् । निःसङ्गो विजहारेष गुरुणा करुणामयः ॥५७०|| कियत्यपि गते काले विजयोऽथ दधौ हृदि । अहतोऽयं व्रती जज्ञे हन्यते यदि तद्वरम् ॥५७१।। ध्यात्वेति प्रेषयामास स्वप्रत्ययितपुरुषान् । तं हन्तुं ते तु दध्यु: कि वधोऽयमनिबन्धनः ॥५७२।। अहत्वा तं हतं तस्याऽऽचख्युरेष तुतोष तु । अन्यदा जयराजषिर्गुरुमाह कृताञ्जलिः ॥५७३।। बोधः कस्यापि मां वीक्ष्य स्यात्काकन्दी व्रजाम्यतः । गुरुणाऽनुमतो भाव्याकृष्टस्तत्राऽऽपपात सः ॥५७४।। तच्छ्रुत्वा नृपतिः कुद्धो घातकानवदच्च रे । मद्वैरी न हतः सैष यदस्ति बहिरागतः ॥५७५।। तैरूचे गतकेशोऽयमस्माभिर्नोपलक्षितः । पृष्टोऽन्यपार्वे भ्रान्त्या तत् कोप्यन्यो निहतो भवेत् ॥५७६॥ Page #109 -------------------------------------------------------------------------- ________________ पञ्चमो भवः अधुनाऽपि विनष्टं किं हनिष्यामस्तवाऽहितम् । प्रतिश्राव्येति तानेष तं नन्तुं कैतवादात् ॥ ५७७॥ तद्दत्तधर्मलाभाशीर्निषसाद तदग्रतः । मुनिना देशितो धर्मो न त्वस्य मनसि स्थितः ॥ ५७८ मुनिरूचे पुना राजन् समग्रसुखभूरुहाम् । धर्म एव दृढं मूलमवलम्बस्व तं ततः ॥ ५७९ ॥ मैत्रीं सत्त्वगणे धेहि दानं देहि दयां कुरु । नृपो दध्यौ भयान् मृत्योरिदं वक्त्येष मेऽग्रतः ॥ ५८० ॥ क्व पुनर्यास्यति ध्यात्वा प्रोवाच विजयो नृपः आरभ्य त्वद् व्रतात् सर्वमिदं हि विदधाम्यहम् ॥ ५८१ ॥ । भव्यमेतन्मुनिप्रोक्ते पर्युपास्य समुत्थितः । बद्धबुद्धिर्वधे तस्थौ स्वसौधे सकलं दिनम् ॥ ५८२॥ मृगाङ्केऽस्तं गते रात्रौ पूर्वसङ्केतितैः सह । गतश्च विजयस्तत्र दृष्टश्च मुनिपुङ्गवः ||५८३|| तं वीक्ष्याऽतीवतीव्रकुत्कृष्टरिष्टिरसौ जवात् । पुराकृतनिदानोत्थकर्मबन्धाऽनुभावतः ||५८४ ॥ एकेनैव प्रहारेणाऽस्योत्तमाङ्गमपातयत् । तदीयवधनिर्माणादात्मानमिव दुर्गतौ ॥ ५८५ ॥ युग्मम् अहो विजय एवैष मत्वेति श्रमणाः परे । चित्रं चरित्रं जन्तूनां चिन्तयन्तोऽन्यतो ययुः || ५८६ ॥ देहे निर्ममतावशेन मनसः स्थैर्येण धृत्या धृतेमोक्षासन्नतया समाहिततया सद्ध्यानसंधानधीः । १. थोवाच ख । २११ २१२ समरादित्यसंक्षेपः तेनाऽयं तरवारिणा विनिहतो भव्यानतस्त्वानतस्वर्गेऽभूद् द्विनवाम्बुराशिगणनायुः स्वर्गिणामग्रणीः ||५८७ इतरोऽपि महाव्याधिवेदनाग्रस्तविग्रहः । मृत्वा दशजलध्यायुस्तुर्योर्व्या नारकोऽभवत् ॥५८८|| इति श्रीहरिभद्रोक्त्या प्रद्युम्नाचार्यगुम्फिते । समरादित्यसंक्षेपे पञ्चमोऽयं भवोऽजनि ॥ ५८९ ॥ Page #110 -------------------------------------------------------------------------- ________________ २१४ षष्ठो भवः इतश्च भरतेऽत्रैव माकन्दी नामतः पुरी । माकन्दी भूविशेषेण यत्र सर्वो वनव्रजः ॥१॥ समदप्रमदालीलागतिक्वणितनूपुरैः । यत्र हंसा विडम्ब्यन्ते क्रीडावापीगता अपि ॥२॥ कालमेघो नृपस्तत्र कालमेघ इवापरः । शस्यवृद्धिविधाताऽपि जलपङ्काश्रयो न यः ॥३॥ यदसेर्जलदश्यामात् प्रतापाग्निः समुत्थितः । ततः स्पृष्टमदीपिष्ट शत्रुस्त्रीनेत्रवारिभिः ॥४॥ तत्र धर्मार्जने लुब्धः परलोके च भीरुकः । बन्धुदत्तोचितः श्रेष्ठी बन्धुदत्तोऽस्ति विश्रुतः ॥५॥ तेन प्रावृडिवाऽब्देन चन्द्रेणेव शरन् निशा । चूतेनेव वसन्तश्रीनगरी सा व्यभूष्यत ॥६॥ तस्य हारप्रभा नाम्ना प्रिया हाखभाऽस्ति च । दधानाऽन्तर्गुणं दोषवजिता विशदाशया |७|| तस्य चाऽभग्नधर्मार्थप्रसरं सममेतया । इन्द्रियार्थभवं सौख्यं भजतो यान्ति वासराः ॥८॥ समरादित्यसंक्षेपः अथ हारप्रभाकुक्षौ जयजीवो दिवश्च्युतः । अवतीर्णो महालक्ष्मीस्वप्नसूचितवैभवः ॥९॥ दयिताय तयाऽऽचख्ये स्वप्नस्तेन व्यचार्यत । असमश्रीनिवासस्ते प्रिये पुत्रो भविष्यति ॥१०॥ कियत्यपि गते काले समये प्रसवस्य सा । सुषुवे दारकं पुण्यधारकं सुखकारकम् ॥११॥ वर्धापिकां च संतोष्य कृत्वा वर्धापनादिकम् । चक्रे धरण इत्यस्य नाम पैतामहं पिता ॥१२॥ समये च कलाचार्यस्याऽपितः सकला: कलाः । पदानुसारिप्रज्ञोऽसौ जग्राह लसदाग्रहः ॥१३।। इतश्च नरकोवृत्तः सोऽयं विजयनारकः । भवं भ्रान्त्वा चिरं चक्रे किञ्चिन् मर्त्यभवोचितम् ॥१४|| ततस्तत्रैव माकन्द्यां कार्तिकश्रेष्ठिमन्दिरे । जयाऽभिधानजायायां सुतात्वेनोदपद्यत ॥१५॥ लक्ष्मीरिति कृताऽभिख्या यौवनं प्राप सा कमात् । भवितव्यवशात्तेन व्यूढा च धरणेन सा ॥१६॥ अमुष्यां धरणस्याऽस्ति प्रीतिप्रीतिरत्र तु । तस्या ध्यायति सा चैवं वैरी मे संगतः कुतः ॥१७॥ लक्ष्मीर्लक्ष्मीयते तस्य धरणस्य मनस्यलम् । उद्वेगकारी तस्याऽस्तु धरणो धरणायते ॥१८॥ ततो विडम्बनाप्रायं तयोर्वैषयिकं सुखम् । भुञ्जानयोयंतीयाय समयस्तु कियानपि ॥१९॥ यथाकालमथाऽमुष्यां पुरि शृङ्गारजीवितम् । प्रावर्तत वसन्तर्तुर्नर्तयन् कामिनां मनः ॥२०॥ १. भूतेनेव क ख ग घ ङ । Page #111 -------------------------------------------------------------------------- ________________ षष्ठो भवः २१६ यत्राम्राः पल्लवाताम्रा मञ्जरीजालमालिताः । बाणपूर्णा बभुः पुष्पबाणबाणधयोऽरुणाः ॥२१॥ एवंविधे वसन्ततौ धरणो रथमास्थितः । गन्तुं प्रावर्ततोद्यानं नाम्ना मलयसुन्दरम् ॥२२।। पुरगोपुरमायाते तत्र रन्त्वा समागतः । पञ्चनन्दिसुतो देवनन्दिनामा रथस्थितः ॥२३॥ तयोनिरवकाशत्वाद्द्वयोरपि बलिष्ठयोः । शक्यते न पुरस्कर्तुं पश्चात्कर्तुं न कश्चन ॥२४॥ रथस्थेन ततः प्रोक्तो धरणो देवनन्दिना । पश्चात्कुरु रथं तावद्यावद्विशति मे रथः ॥२५।। हसित्वा धरणेनाऽपि देवनन्दीति भाषितः । पश्चात्कुरु रथं तावद्यावन्निर्याति मे रथः ॥२६।। रुद्धप्रवेशनिर्याणौ ज्ञातावेतौ महत्तमैः । तत्प्रेषितैश्चतुर्भिश्च प्रधानैरिति बोधितौ ॥२७॥ को गर्वो भवतोरेष पितृवित्तेन वित्तयोः । केन किं दानधर्माढ्यं विदधे निजवित्ततः ॥२८॥ इत्युक्ते मुदितो देवनन्दी भव्यमिति ब्रुवन् । लज्जितो धरणस्त्वेन्न सुन्दरमिति ब्रुवन् ॥२९।। ऊचे च भवतां वाक्यादात्मानं गर्भरूपवत् । मान्येऽहमर्जयिष्यामि ततो द्रव्यं निजैर्भुजैः ॥३०॥ यः कश्चिदधिको नौ स्यान्निर्यातु प्रविशत्वथ । रथस्तस्य त्रयोदश्यामस्यामेष्यति वत्सरे ॥३१॥ समरादित्यसंक्षेपः अलं तेऽभिनिवेशेन प्रधानैरिति भाषिते । धरणः प्राह नैव स्यादन्यथा मम निर्वृतिः ॥३२॥ पौराणां संमतेऽत्राऽर्थे शब्दितौ जनको तयोः । उक्तौ सशपथं चैतौ कार्या संवाहना न यत् ॥३३|| धरणो देवनन्दी चाहूतावथ महत्तमैः । दीनाराः पञ्च लक्षाणि नीवी प्रत्येकमर्पिता ॥३४॥ इदं न लिखितं पत्रे योऽब्दान्तेऽधिकपौरुषः । प्रविशत्वथ निर्यातु तस्याऽमुष्यां तिथौ रथः ॥३५॥ कोशे न्यस्तं च तत्पत्रमेतावथ विनिर्गतौ । उदीच्यां धरण: प्राच्यां देवनन्दी च साथिनौ ॥३६।। लक्ष्म्याऽथ चिन्तितं पल्या धरणस्य रिपुर्मम । अहतोऽयं गतो देशान्तरे क्व नु मिलिष्यति ॥३७॥ ध्यात्वेति त्यक्तभोज्या सा स्थिताऽनुप्रेषिता ततः । बन्धुदत्तेन मिलिता समेत्य धरणस्य च ॥३८॥ नित्यप्रयाणैश्चाह:सु व्यतीतेषु कियत्स्वपि । धरणेन पुमान् दृष्ट उत्पतन्निपतन्नपि ॥३९।। पृष्टश्च चेन्ममाख्येयं तदाख्याहि कथं भवान् । उत्पातं च निपातं च कुरुते पक्षिपोतवत् ॥४०॥ सो प्रोचेऽहं हि वैताढ्यस्थिताऽमरपुरेऽस्मि भोः । खेटो विद्यास्वनभ्यासी नामतो हेमकुण्डलः ॥४१॥ तातस्य त्वन्यदा मित्रं विद्युन्माली नभश्चरः । आगतोऽप्रच्छि तातेन कुतस्त्वं विमनाः कथम् ॥४२॥ स प्राह विन्ध्यतोऽस्म्येतो दौर्मनस्ये तु कारणम् । निर्वेदकारणं दृष्टमवन्त्यां वैशसं मया ॥४३॥ १. दानधर्माद्यं क च । Page #112 -------------------------------------------------------------------------- ________________ २१७ २१८ समरादित्यसंक्षेपः षष्ठो भवः तत्कीगिति तातेन प्रोक्तः प्रोवाच तत्सखा । अवन्त्यां श्रीप्रभो राजा जयश्री म तत्सुता ॥४४॥ तेन सा याचतोऽप्युच्चैः कुङ्कणाधीशजन्मनः । न दत्ता शिशुपालस्य बालस्यैकावली यथा ॥४५।। सदा परोपकारैकरसिकाय महात्मने । वत्सेश्वरस्य पुत्राय दत्ता श्रीविजयाय तु ॥४६।। ततो विवाहे प्रारब्धेऽभ्येते श्रीविजये तथा । कन्या कामाऽर्चने यान्ती शिशुपालेन सा हता ॥४७|| गत्वा श्रीविजयः पृष्ठे शिशुपालं विजित्य च । गाढप्रहारविधुरो द्वेधाऽनैषीज्जयश्रियम् ।।४।। स तु श्रीविजयः प्राणसंशये वर्ततेऽधुना । जयश्रीरपि चैतस्मिन्न भुङ्क्ते नात्ति किञ्चन ॥४९॥ तदिदं वैशसं मेऽत्र वैमनस्यस्य कारणम् । तातः प्राह सदाऽप्येष भव ईदृश एव हि ॥५०॥ मयाऽथ चिन्तितं कल्पे गन्धर्वरतिना मम । गन्धर्वककुमारेण कथिताऽस्त्यौषधी वरा ॥५१।। हिमाद्रिगह्वरस्था सा दर्शिता च यदेतया । खड्गघातान् पृथग्भूतं भग्नं सन्धीयतेऽस्थ्यपि ॥५२॥ प्रक्षालनजलेनाऽस्यास्तत्क्षणाद्गतवेदनः । रुह्यते च प्रहारोऽतस्तामानेतुं गतोऽस्म्यहम् ॥५३॥ विशेषकम अत्रायातश्च विश्रान्तः क्षणं कुरुबके तरौ । चलितस्य नभोगामिविद्याया विस्मृतं पदम् ॥५४॥ पक्षिपोत इवोत्पातनिपातौ तत्करोम्यहम् । धरणः प्राह कोप्यस्त्युपायो नास्तीति सोऽवदत् ॥५५।। अतोऽहं राजपुत्रासुशया व्यषदं दृढम् । धरणः प्राह विद्या किं पुरतोऽन्यस्य पठ्यते ॥५६।। स प्राह पठ्यते तर्हि पठेति धरणोदिते । सोऽपाठीद्धरणस्तस्य पदं चाऽऽख्यत विस्मृतम् ॥५७|| पदानुसारिप्रज्ञोऽयं धरण: खेचरस्य यत् । पदमाख्यत विद्यायाचित्रमत्र न किञ्चन ॥५८|| प्रज्ञप्त्याद्या महाविद्या युगाद्यजिनभृत्ययोः । पुरा नमिविनम्योरप्यमुनैव प्ररूपिताः ॥५९।। स तस्मै मुदितो दत्त्वौषधीवलयमञ्जसा । जगामोज्जयिनीं सार्थे धरणस्तु समाययौ ॥६०॥ अन्यदाऽद्रिनदीतीरस्थिते सार्थे किरातकान् । रुदतो वीक्ष्य पप्रच्छ धरणस्तन्निबन्धनम् ॥६॥ ते प्रोचः कालसेनाऽऽख्यः पल्लीनाथोऽस्ति नः प्रभुः । नृसिंहः सिंहमभ्येतं ससत्त्वः स त्वधावत ॥६२।। तं वटाऽन्तरितः सिंहोऽग्रहीत्पृष्ठेऽमुना पुनः । स शस्त्रया निहतोऽमुष्याऽत्रोटयच्छीर्षखण्डकम् ।।६३॥ नास्ति मे जीवितं मत्वा स वह्नि प्रविविक्षति । गुर्वी तद्गृहिणी तं चानुयान्ती न निवर्तते ॥६४|| तद्बोधनाय तद्वस्तुः समीपे प्रहिता वयम् । असमर्थाः प्रतीकारे बालका इव रोदिमः ॥६५|| तं दर्शयत जीवन्तं धरणेनेति भाषितम् । तेऽप्यूचुस्तर्हि वेगेन प्रसादं कुरु नायक ! ॥६६।। अथ वेगसरारूढः सौषधीवलयश्च सः । गतस्तत्र चितान्ते तं सकलत्रं व्यलोकत ॥६७|| Page #113 -------------------------------------------------------------------------- ________________ २१९ षष्ठो भवः 'पद्मिनीपुटकाऽऽनीतनीरेऽक्षिप्तौषधीमिमाम् । शिर:खण्डं शिरोदेशे न्यस्य सिक्तं तदम्भसा ॥६८|| अचिन्त्यौषधिमाहात्म्यात्सज्जशीर्षः स उत्थितः । तुष्टा च गृहिणी तस्य सर्वः परिजनोऽपि च ॥६९।। पल्लीपतिरथोत्थाय पतितस्तस्य पादयोः । उवाचेति मम प्राणास्तवायत्ताः परं किमु ॥७०॥ सर्वसाधारणाः प्राणाः सत्पुंसां किं ममाऽधिकम् । इत्युक्तो धरणेनैष कालसेनो जगाद तम् ॥७१।। तथाऽप्यादिश मां प्राह धरणो रक्ष देहिनः । स प्राह प्रोज्झिताऽऽजन्म त्वगिरा मृगया मया ॥७२॥ धरणस्तं प्रशस्याऽथ कृतार्थः सार्थमागमत् । व्यतीतैश्च दिनैः कैश्चित्पक्षसन्ध्युपवासवान् ॥७३।। अपश्यद्बद्धमारक्षरचौरं चौरशङ्कया । अन्त्यजं मौरिकं नाम्ना नीयमानं वधावनौ ॥७४।। सार्थं निरीक्ष्य स प्राह निर्दोषो वध्यभूमिकाम् । नीयेऽहं साथिकास्तन्मां हन्त रक्षत रक्षत ॥७५|| वाग्भङ्ग्या धरणः शुद्धं तं मत्वा रक्षकाञ्जगौ । तावत्प्रतीक्ष्यतां यावन्नृपं विज्ञपयाम्यहम् ॥७६।। तैरुक्तमेहि वेगेन धरणोऽथ नृपं ययौ । दीनारायुतमूल्यं द्राग् हारमादाय ढौकते ॥७७॥ नृपस्तुष्टः सदूतं तं प्रेष्य स्तेनममोचयत् । धरणस्तु तलारक्षं संमान्य व्यसृजत्ततः ॥७८॥ समरादित्यसंक्षेपः चण्डालः शम्बलं दत्त्वा प्रहितो धरणं जगौ । मा ते भवतु साऽवस्था यस्यां कार्य मया भवेत् ॥७९।। उक्त्वेति नत्वा साष्टाङ्ग तत्समीपाद् गतोऽन्त्यजः । धरणस्तु ससार्थोऽपि प्रापाऽचलपुरं पुरम् ॥८०॥ तत्र स्वभाण्डे विक्रीतेऽस्य लाभोऽष्टगुणोऽभवत् । अथ मासचतुष्केण द्रव्यकोटिरजायत ॥८१।। तत्रत्यं भाण्डमादाय चलितः स्वपुरीं प्रति । ससार्थो धरणः प्रापाऽटवीं कादम्बरीमथ ॥८२।। अपप्तत्सौप्तिकं सुप्ते सार्थे शबरसंहतेः । सहस्त्रैः शबरैः सार्थभटास्त्वल्पे विजिग्यिरे ॥८३।। गृहीत्वा सार्थसारं च धृत्वा वन्दे च मानुषान् । कालसेनं ययुः सर्वे वृत्तान्तं च न्यवेदयन् ॥८४|| कालसेनोऽथ धरणानुचरं संगमाभिधम् । बन्दस्थमुपलक्ष्याऽह तस्य त्वं भद्र ! नाऽनुगः ॥८५|| येनोत्तरापथं याता घातरोधेन जीवितम् । दत्तं मे सार्थवाहेन परोपकृतिशालिना ॥८६॥ युग्मम् स प्राह तस्य सार्थोऽयं श्रुत्वा पल्लिपतिस्तु तत् । निजान्धरणमन्वेष्टुं प्रेषीत्प्राप्तस्तु नैव सः ॥८७|| मूर्छितः कालसेनोऽथ नीतः सौस्थ्यं किरातकैः । विललापेति तेनाऽहं सकुटुम्बोऽपि जीवितः ॥८८|| मया तु तस्य सर्वस्वं गृहीत्वा स प्रणाशितः । धिग्मामहिमिव क्षीरपायिणोऽपि हि घातकम् ॥८९।। विलप्येति प्रतिज्ञां स व्यधात्तं योजये न चेत् । द्रव्येण पञ्चरात्राऽन्तस्तद्विशामि हुताशने ॥१०॥ १. पद्मिनीपत्रका, न्यस्यसिक्तस्त ग घ । २. ff. मौरिक also speet मोरिक । Page #114 -------------------------------------------------------------------------- ________________ षष्ठो भवः स्वगोत्र देवतायाश्च स जजल्पोपयाचितम् । तत्प्राप्त्यै तव दास्ये यद्दशभिः पुरुषैर्बलिम् ॥९१॥ कृत्वेति शबरान् प्रैषीद्धरणस्य गवेषणे । दिश्येकस्यां स्वयं चैष प्रवृत्तस्तं गवेषितुम् ॥९२॥ धरणस्त्वौषधीमात्रद्रव्यः पल्या सह व्रजन् । पिलिन्धिनिलयं नाम गिरिं प्रापाऽतिभीषणम् ॥९३॥ फलादि तत्र न प्राप्तं द्वितीयदिवसे तु सा । क्षुधिता तृषिता पत्नी पपात भुवि मूर्च्छिता ॥९४॥ वस्त्राऽन्तवीजिताऽऽश्वस्ता सा प्राह तृषिताऽस्म्यहम् । धरणोऽथ द्रुमारूढोऽदृष्टवारिर्व्यचिन्तयत् ॥९५॥ ऊरोर्मासं सिरातोऽस्रमाकृष्य प्रीणयाम्यमूम् । अन्यथा न भवत्येषा विनैतां जीवितेन किम् ॥९६॥ ध्यात्वेति स तथा कृत्वा पलाशपुटकद्वये । व्रणं संरोह्य चौषध्या विदधे सुस्थितामिमाम् ॥९७॥ ततो महासरोनाम्नि पुरे सन्ध्याक्षणे गतौ । न प्रविष्टौ पुरस्याऽन्तर्बहिर्यक्षालये स्थितौ ॥९८॥ व्यतीते यामिनीयामे तृषिताऽस्मीति सावदत् । स लात्वा करकं नद्यां भृत्वाऽपीप्यच्च तां जलम् ॥९९॥ प्रसुप्ते धरणे लक्ष्मीर्विबुद्धेति व्यचिन्तयत् । अनुकूलो विधिर्मे यदसौ प्रापेदृशीं दशाम् ॥१००॥ इतोऽप्यभ्यधिकां केनाऽप्युपायेन दशामसौ । लभते यदि तच्चारु यावद् ध्यायत्यसाविति ॥ १०१ ॥ तावदारक्षकव्रातत्रस्तस्तेनः सलोप्त्रकः । चण्डरुद्राऽभिधस्तत्र प्राविशद्यक्षवेश्मनि ॥ १०२ ॥ २२१ २२२ समरादित्यसंक्षेपः क्व यास्यत्येष जल्पन्तस्तद्द्द्वारं रुरुधुर्भटाः । श्रुत्वेति लक्ष्मीरध्यायद्धेतुं पृच्छाम्यमुं नरम् ॥१०३॥ वैरिणोऽस्य वधाच्चेन्तु पूर्यन्ते मे मनोरथाः । ध्यात्वेति तं ससूत्कारं गत्वा पप्रच्छ को भवान् ||१४|| क एते च वदन्तीहक् स प्राहाऽलं मया शुभे । जलमत्राऽस्ति सा प्राह किं तेनाऽऽख्याहि कारणम् ॥१०५॥ स दध्यौ साहसं धैर्यं गीश्च कीहगहो स्त्रियः । पात्रभूता तदेषा मे ध्यात्वेति स जजल्पताम् ॥१०६॥ महती मे कथा भद्रे । संक्षेपात् कथ्यते पुनः । मया चौरेण सौवान्ताद् रत्नसर्वस्वमाददे ॥ १०७॥ निस्सरन् नगराल्लब्धस्तलारक्षैरनुद्रुतः । श्रान्तोऽत्र प्राविशं ते च द्वारं रुद्ध्वा व्यवस्थिताः ॥ १०८ ॥ सा तु भर्तृवधं सिद्धं मत्वा तं प्राह तस्करम् । त्वां जीवयामि वाक्यं चेन् मदीयं कुरुषे श्रुतौ ॥ १०९ ॥ स प्राहाऽऽदिश सा प्राह प्राग्भवाऽरिर्धवो मम । सुप्तोऽस्त्यत्र तदुच्छीर्षे मुञ्च मोषं गृहाण माम् ॥ ११०॥ म्रियतामेषकल्ये तु त्वां वक्ष्यामि निजं प्रियम् । नैनं तु नृपतेरग्रे तद्भाव्येष यमाऽतिथिः ॥ १११ ॥ स प्रोचेऽहमिहत्योऽस्मि महिला विदिता च मे । सर्वलोकस्य सा प्रोचे कश्चोपायस्ततो भवेत् ॥ ११२ ॥ स प्रोवाचाऽस्त्युपायोऽत्र यदि स्तोकं जलं भवेत् । तयोचे किं भवेत्तेन स प्राह शृणु मे वचः ॥११३॥ प्रदत्ता स्कन्दरुद्रेण गुरुणा गुटिकाऽस्ति मे । तयाञ्जितदृशं मत्यं देवोऽपि हि न पश्यति ॥ ११४॥ Page #115 -------------------------------------------------------------------------- ________________ २२३ २२४ षष्ठो भवः सा प्राह गुटिका क्वाऽस्ति सोऽवोचत ममाऽञ्चले । तत्कि नाऽनक्षि लक्ष्म्योक्ते स प्राह जलमस्ति न ॥११५|| तयाऽपिते जले जल्पञ्जीवितोऽस्मि त्वया शुभे । स निजे च तदीये चाऽनक्ति स्म नयने क्षणात् ॥११६|| विमुच्य धरणोच्छीर्षे लोप्वमेतौ स्थितौ तटे । प्रातरारक्षकैदृष्ट: सलोनो धरणो धृतः ॥११७।। बद्धश्च दध्यौ दैवे हि विलोमे स्यात्सुधा विषम् । रज्जुः सर्पः सुतो वैरी जलं वह्निः प्रियोरगी ॥११८।। चिन्तयन्नित्ययं नीतस्तलारक्षैर्नृपाऽजिरे । नृपाऽप्रस्तावतस्तस्य धृतस्य दिवसोऽगमत् ।।११९।। प्रस्तावे कथितो राज्ञो वध्यस्तेन निदेशितः । अन्त्यजानां वधादेशकारिणामपितो भटैः ॥१२०॥ ययुस्तेऽन्त्यजमुख्योऽथ प्राह रे कस्य वारकः । वधेऽद्य श्वपचाः प्रोचुमौरिकस्येति तं ततः ॥१२१॥ आहूय सोऽवदच्चौरो देवेन प्रेषितो ह्ययम् । नीत्वा श्मशाने जह्येनं मा प्रमादो भविष्यति ॥१२२॥ तथेत्युदित्वा तेनैष गृहीतश्चोपलक्षितः । मम जीवितदाताऽसावस्याऽपि हि दशेदृशी ॥१२३।। अथवा विपदकॅन्द्वोरपि स्याद् राहुत: क्षणम् । ध्यात्वेति नीत्वैकान्ते तं बन्धांश्छित्त्वाऽपतत्पदोः ॥१२४।। ऊचे चाऽऽर्य स्मरसि मामचौरं चौरवद् धृतम् । वधाय नीयमानं द्राग् नृपाद् द्रव्येण मोचितम् ॥१२५।। समरादित्यसंक्षेपः तेन स्तोकमिदं प्रोक्ते पुनः प्रोवाच मौरिकः । आर्यस्य कि दशेक्षा दैवं पच्छेति सोऽवदत् ॥१२६।। अथोचे मौरिकः शीघ्रं गच्छाऽऽर्य धरणो जगौ । परप्राणैनिजप्राणान्नाहं रक्षामि हिन्धि माम् ॥१२७|| स प्राह सागरोऽप्यस्मान्विनाशयति नो नृपः । त्वय्यगच्छत्यहं तु स्वं हनिष्यामि ततो व्रज ॥१२८।। धरणः प्राह तद्यामि स प्रोचेऽनुग्रहो महान । ततो मुक्त्वा पथे नत्वा तं न्यवर्तत मोरिकः ॥१२९।। धरणोऽथ प्रयान् दध्यौ क्व सा सारङ्गलोचना । तां विना विफलं मन्ये जीवितं सा हि जीवितम् ॥१३०॥ ध्यायन्निति प्रवृत्तस्तां गवेषयितुमादरात् । प्रातः स तटिनीं गत्वाऽऽमज्जच्च ऋजुपालिकाम् ॥१३१।। अथ चौरोऽपि स प्रातर्गतो यक्षालयान् नदीम् । दध्यौ हित्वा पति ही मां भेजेऽसौ कुलपांसना ॥१३२।। विषव्याघ्राहिसिंहेभ्यश्शरभार्कजरक्षसाम् । हेलयाऽपि महेलाभिश्चरितं त्वरितं जितम् ॥१३३|| अलं तदेतया मामप्यनर्थे पातयिष्यति । ध्यात्वेति स्वर्णमादाय तां तत्याजोरगीमिव ॥१३४|| गते चौरेऽथ सा दध्यौ सुन्दरं समभूदिदम् । यदयं निहतो वैरी गच्छामि त्वधुनाऽन्यतः ॥१३५।। व्रजन्ती धरणेनेयं दृष्टा मुदितचेतसा । पृष्टा प्रिये कुतोऽसि त्वं कैतवेन रुरोद सा ॥१३६।। तां संबोध्य जगादैष त्वं सुन्दरि ! विषीद मा । धन्योऽस्मि येन जीवन्ती भवती ददृशे पुनः ॥१३७।। १. क्षणं ख ग घ च । Page #116 -------------------------------------------------------------------------- ________________ २२६ षष्ठो भवः सोचेऽथ लघुनीत्यर्थमुत्थितां मां मलिम्लुचः । जग्राह व्याहृतं किञ्चिन्न मया स्त्रीस्वभावतः ॥१३८।। स्नेहात्तथाऽऽर्यपुत्रस्य स मुषित्वा मुमोच माम् । अनिच्छन्ती बलान्नैव गृह्यते स्त्रीति कारणात् ॥१३९।। किं च मेऽर्तिकरी तादृग् न तस्करकदर्थना । यादृशीयं तवाऽवस्था विकल्प्यं नाऽन्यथा ततः ॥१४०।। विशेषकम् धरणः प्राह वीक्ष्य त्वां नावस्थेयं दुनोति माम् । सा तु दध्यौ कृतान्तस्य मुखादप्येष जीवितः ॥१४१।। अथ गन्तुं प्रवृत्तौ तौ विज्ञातपुरमागतौ । विनिद्रो धरणश्चिन्तामिति चेतसि निर्ममे ॥१४२॥ अमूं दन्तपुरे स्कन्ददेवमातुलमन्दिरे । विमुच्याऽथ यथायुक्तं करोमीति विमृश्य सः ॥१४३।। आख्याय तस्यै प्राचालीत्तत्पुरं स तया सह । मार्गे च गच्छतस्तस्य यज्जातं तन्निबोधत ॥१४४|| पल्लीश: कालसेनः स्वप्रतिज्ञापूरणोन्मुखः । बालेयमानानेतुमप्रैषीत्परितो भटान् ॥१४५।। स्नात्वा च कारयित्वा च दारुभिर्निचितां चिताम् । कात्यायन्या गतो वेश्म प्रणम्याऽपूजयच्च ताम् ॥१४६।। युग्मम् ततश्च कालसेनस्य भटैर्दन्तपुरं व्रजन् । सस्त्रीको धरणः प्राप्तो बद्धो वल्लीगुणेन च ॥१४७|| आनीतश्चण्डिकापार्श्वप्रदेशमतिभीषणम् । नीतश्च चण्डिकावेश्ममध्यमध्याममानसः ॥१४८।। उत्तोरणं नृमुण्डैर्यत्सोल्लोचं चित्रकत्वचा । दन्तिदन्तसमुद्भूतभित्त्युत्कीर्णत्रिशूलकम् ॥१४९॥ समरादित्यसंक्षेपः कात्यायन्या महारौद्रदृशाऽध्यासितमन्तरे । धृतकोदण्डघण्टाऽसिमहिषाऽसुरपुच्छया ॥१५०॥ विशेषकम् दध्यौ च पन्नगान् मत्ताद् द्विपात् पञ्चाननादपि । शक्यते नष्टुमुद्दामाद्दुष्कृतात्सुकृतान्न तु ॥१५१।। कालसेनः प्रणम्याऽथ चचिकामिदमूचिवान् । देवि ! त्वया प्रसादो मेऽधुना यद्यपि नादधे ॥१५२।। तथापि हि यथेदृक्षदुःखभाग् न भवाम्यहम् । भवान्तरेऽपि तद्देवि ! त्वया कार्य प्रसन्नया ॥१५३।। उक्त्वेत्युक्तः कुरङ्गाख्यो नरं बालेयमानय । तेनाऽथ केशेष्वाकृष्य क्षिप्तो अग्रे (प्तोऽग्रे ?) बस्तवन्नरः ॥१५४।। दुर्गिलो लेखवाह्येष कुङ्कमेनाऽथ चर्चितः । कोशादसिं समाकृष्य कालसेनेन भाषितः ॥१५५॥ सुदृष्टं कुरु लोकं त्वं गन्तव्यं हि त्वया दिवि । विमुच्य जीवितं किं ते वद सम्पाद्यते परम् ॥१५६।। भीतो न किञ्चित् स प्रोचे पुनरुक्तोऽपि नाऽवदत् । अपूर्णकामो नो वध्यस्तत्पल्लीशो विषण्णवान् ॥१५७|| धरणोऽथ सुरुङ्गः सन्कुरङ्गमिदमूचिवान् । आख्याहि निजनाथस्य यथा प्राक् स निहन्ति माम् ॥१५८॥ तदाख्यातेऽथ पल्लीश: प्रोचे सार्थेशजन्मनः । निजप्राणैः परप्राणत्राणकृत्तस्य सन्निभः ॥१५९।। इत्युक्त्वा मूर्छितः पल्लीपतिल्केन वीजितः । किशोरकाख्यभिल्लेनाऽऽश्वस्तस्तं प्रोचिवानिति ॥१६०।। क एष सदृशस्तस्य परोपकरणोद्यतः । स प्रोवाच स्वयं स्वामी निरूपयतु तं नरम् ॥१६१।। Page #117 -------------------------------------------------------------------------- ________________ षष्ठो भवः सहर्षखेदस्तं वीक्ष्योपलक्ष्य च किरातराट् । पतित्वा पादयोः प्राह ममागः क्षम्यतां त्वया ॥ १६२ || धरणोऽवददिष्टाऽर्थदानान्नागो गुणस्त्वयम् । पल्लीशेन किमिष्टं ते प्रोक्ते स प्राह मारणम् ॥१६३|| पल्लीशः प्राह ते मृत्यौ कि निर्वेदस्य कारणम् । स प्राहैषा कथा गुर्वी त्वं विधेहि निजेहितम् ॥१६४॥ न मां वेत्त्येष पल्लीशो ध्यात्वेति तमभाषत । सार्थवाहसुत ! त्वं मां न वेत्सि स्वेन जीवितम् ॥१६५॥ यस्त्वया जीवितः सिंहात् कृतघ्नः सोऽस्म्यहं खलु । प्रागप्राप्तां मया येन लम्भितोऽसीदृशीं दशाम् ॥१६६॥ धरणोऽथ त्रपानम्रवदनस्तमभाषत । कोऽहं जीवयितव्ये ते स्वपुण्येनाऽसि जीवितः ॥ १६७॥ कृतघ्नश्च कथं यस्त्वं क्षणमात्रेक्षिते जने । अज्ञानादीदृशं कृत्वा खिद्यसे हृदयेऽधिकम् ॥१६८॥ किं वादः प्रस्तुतं लज्जमानो नोवाच पल्लिप: । संगमाख्यादि मृत्यन्तमाख्यताऽस्य किशोरकः || १६९ ।। ध्यायंस्तस्याऽथ माहात्म्यसस्नेहत्वकृतज्ञताः । स प्राह क्रियते पूजा पुष्पाद्यैर्न तु हिंसया ॥ १७० ॥ भवेद् गोः शृङ्गतः क्षीरं जलाच्च ज्वलनो भवेत् । विषादपि सुधा नैव हिंसातः सुकृतं पुनः ॥ १७१ ॥ तदेनं व्यवसायं त्वं मुञ्च दुर्गतिकारणम् । प्रतिपेदे गिरं सोऽथ धरणस्य गुरोरिव ॥ १७२ ॥ अन्नाऽभावेऽथ भक्ष्यार्थं विना हिंसां मुमोच सः । कादम्बरीप्रविष्टस्य सार्थस्य च विसूत्रणाम् ॥ १७३॥ २२७ २२८ समरादित्यसंक्षेपः चर्चित्वा चर्चिकां सोऽथ सुमकुङ्कुमचन्दनैः । सर्वबन्दयुतं गेहे निनाय धरणं निजे ॥ १७४॥ भुक्तोर्ध्वमुपनीयाऽस्मै तद्द्रव्यं प्राभृते व्यधात् । मुक्ताफलानि दन्तांश्च चामराणि च लक्षशः ॥ १७५ ॥ परेऽपि किञ्चन द्रव्यं दत्त्वा तेन विसर्जिताः । ययुर्यथासखं बन्दा बन्धमुक्ताः खगा इव ॥ १७६ ॥ कालं कियन्तमप्येष कालसेनगिरा स्थितः । तद्विसृष्टः ससार्थोऽपि माकन्दीं धरणो ययौ ॥ १७७॥ तुष्ट गुरुजनः सर्वोऽभ्येयुः पौरमहत्तमाः । सपादा कोटिरस्याऽभूद् द्रव्यसंख्या कृता च तैः ॥ १७८ ॥ पश्चात्तस्याऽर्धमासेन देवनन्दी समागतः । तद्रव्यमपि संख्यातमर्धकोटिर्महत्तमैः ॥ १७९ ॥ दत्त्वा च द्विगुणां नीवीमर्थिसार्थमनोरथान् । तस्य पूरयतोऽनङ्गत्रयोदश्यागमच्च सा ॥१८०॥ उक्तो महत्तमैः सोऽथ निस्सारय रयाद् रथम् । स प्राह बालकेल्याऽलं श्लाघितोऽथ महत्तमैः ॥ १८१|| अन्यदा धरणो दध्यौ नियोज्य द्रव्यमर्थिषु । त्रिवर्गों गृहिणाऽऽराध्योऽर्थादेव स्याद् द्वयं परम् ॥ १८२ ॥ अर्थो हि जनयत्येष सौभाग्यं गौरवं कुलम् । रूपं मति महार्घत्वं श्लाघां च प्रार्थनीयताम् ॥१८३॥ स यद्यपि प्रभूतोऽस्ति मम पूर्वनराऽर्जितः । तथाऽपि स्वभुजोपात्तवित्ताच्चित्ते धृतिर्मम ॥ १८४॥ ध्यात्वेति स वणिज्याऽर्थं द्राक् समुद्रतटे गतः । वैजयन्त्यां पुरि प्राप लाभं तु न तथाविधम् ॥ १८५ ॥ Page #118 -------------------------------------------------------------------------- ________________ २२९ २३० षष्ठो भवः भूरि भाण्डमथाऽरोह्याऽरोहत्पोतेऽर्थलिप्सया । भग्नेऽत्र फलकं प्राप्य स्वर्णद्वीपमवाप सः ॥१८६।। विधाय कदलैः प्राणवृत्ति भीतः स शीततः । पातयित्वाऽरणेः काष्ठैर्वह्नि चिरमसेवत ॥१८७।। प्रातस्तद्भूमिखण्डं तु स्वर्णीभूतं विलोक्य सः । स्वर्णद्वीपममुं मत्वा विदधे बहुधेष्टिकाः ॥१८८।। कृत्वा धरणनामाङ्कास्ताश्चाऽऽर्द्राः सम्पुटे व्यधात् । एवं दशसहस्राणि सम्पुटानां चकार सः ॥१८९॥ भिन्नपोतध्वजं कृत्वा स्थितेऽत्राऽऽययुरन्यदा । निर्यामाः प्रोचुरेनं ते भग्नपोतवणिग्वरम् ॥१९०॥ चीनवासी व्रजन् देवपुरं सुवदनाभिधः । यानपात्रस्थितः प्रैषीदस्मानागच्छ तल्लघु ॥१९१॥ धरणः प्राह वित्तेन पोतः पूर्णोऽस्ति कीदृशा । ते प्रोचुरल्पवित्तत्वादसारेणाऽस्ति पूरितः ॥१९२।। धरणः प्राह तमुत्र सार्थवाह: समेतु सः । कथिते तैः समेतोऽयं धरणेनेति भाषितः ॥१९३|| तव प्रवहणे भाण्डं द्रव्यस्य कियतः सखे । सुवर्णैकसहस्रस्येत्येवं सुवदनोऽवदत् ॥१९४॥ प्रोवाच धरणस्तर्हि तदसारं परित्यज । मदीयेन सुवर्णेन यानपात्रं च पूरय ॥१९५|| दास्यामि स्वर्णलक्षं ते वहने तीरमागते । स प्राह स्वर्णलक्षेण किमस्माकं भवान्बहुः ॥१९६।। पूर्वभाण्डं ततस्त्यक्त्वा स्वर्णस्य वहनं भृतम् । संख्या च स्थापिता रूढो धरणस्तरणीमथ ॥१९७।। समरादित्यसंक्षेपः इतश्च धरणे भिल्लैर्धते लक्ष्मी: पलायिता । क्वाऽपि द्वीपे समारूढा तत्रैवाऽस्ति वहिबके ॥१९८॥ एतां निरीक्ष्य तत्रैष मुदितो व्यथिता तु सा । आख्यत्सुवदनायैष बाढमानन्दितः स च ॥१९९|| पञ्चयोजनमात्रं तु भूभागं वहने गते । तद्द्वीपस्वामिनी पृष्ठे सुवर्णाऽऽख्याऽऽगतावदत् ॥२००॥ अरे रे दुष्टसार्थेशसुताऽनुज्ञां विना मम । गृहीत्वा द्रव्यमकृतोपचारः क्व नु यास्यसि ॥२०१।। कम्पयन्त्यम्बुधि वेगगत्या गगनगामिनी । नृबलि दत्त सारं मे गृहीतं मुञ्चताऽथवा ॥२०२॥ विशेषकम् शौल्किक्येव तयेत्युक्त्वा तत्रैव वहने धृते । धरणो ध्यातवानेष मोचितो द्रविणं निजम् ॥२०३।। उपकारी च मे लक्ष्मीपत्नीसम्पादनादयम् । तदिदं प्राप्तकालं मे नृबलीभवनं स्वयम् ॥२०४।। ध्यात्वेति व्यन्तरीमाह नैतज्ज्ञातं मया पुरा । तन्मामेव प्रतीच्छ त्वमहमेव बलिः पुमान् ॥२०५।। देव्यूचे पत तद्वाधौं यथा त्वां घातयाम्यहम् । लक्ष्मीर्दध्यौ भगवत्या महान् मेऽनुग्रहः कृतः ॥२०६।। पोतेशं धरणः प्राह लक्ष्मीः प्राप्या गुरूंस्त्वया । उक्त्वेत्यक्षिपदब्धौ स्वं भिन्नः शूलेन चैतया ॥२०७|| स्वर्णद्वीपे च तं नीत्वा शान्ता सा वहनं ययौ । तं कण्ठस्थासुमद्राक्षीत्खेचरो हेमकुण्डलः ॥२०८।। सुवेलाद् व्रजता रत्नद्वीपं तेनोपलक्षितः । पुरा परिचयाद्देवी मुपरुध्य स मोचितः ॥२०९।। १. "मुपरोध्य क । Page #119 -------------------------------------------------------------------------- ________________ षष्ठो भवः २३१ २३२ दिव्यौषध्या कृतः सज्जः प्रत्यभिज्ञाय तं जगौ । सखे ! श्रीविजयोऽजीवत् खेचरः प्राह जीवितः ॥२१०|| श्रुत्वैतद्धरणस्तुष्टस्तं लात्वा हेमकुण्डलः । गन्तुं प्रावर्तत प्रीतो रत्नद्वीपं विहायसा ॥२११।। गन्धर्वस्त्रीजनाऽऽरब्धगीतस्थिरमृगव्रजम् । नागवल्लीसमाश्लिष्टपूगपूगमनोरमम् ॥२१२।। तीरस्थिततमालगुन्यकृताऽम्बुधिसंवरम् । सिद्धविद्याधराकीर्णं रत्नद्वीपमवाप सः ॥२१३।। युग्मम् यः कल्लोलभुजैः श्लिष्टो विष्वक्कल्लोलमालिना । प्रियसारङ्गशावाक्षीमनोहरशरीखत् ॥२१४॥ स तत्र फलशाखाभिर्नम्यमान इव द्रुमैः । पूज्यमान इव मरुत्पातितैः कुसुमोत्करैः ॥२१५।। विहितस्वागतप्रश्न इव भ्रमरनि:स्वनैः । विश्रम्य दीर्घिकातीरे सहकारफलानलात् ॥२१६।। युग्मम् खेचरो धरणं क्लृप्तस्नानभोजनमूचिवान् । क्व प्राप्तोऽस्यनया सोऽथ सर्वं वृत्तान्तमाख्यत ।।२१७|| खेचर: प्राह किं कुर्वे तवाऽथ धरणोऽब्रवीत् । कृतं कृत्यं त्वया किं तु मां संयोजय जायया ॥२१८।। स प्राहाऽत्र रत्नगिरौ किन्नरोऽस्ति सुहृन्मम । सुलोचनाख्यस्तं प्रेक्ष्य त्वां हि देवपुरे नये ॥२१९॥ गतस्य तत्र तेऽवश्यं तया योगो भविष्यति । आमेति धरणेनोक्ते जग्मतू रत्नपर्वतम् ॥२२०।। तत्राऽऽरुह्य महारम्ये सुलोचनगृहे गतौ । गन्धर्वदत्तया सार्धं स दृष्टश्चोपवीणयन् ॥२२१॥ समरादित्यसंक्षेपः हेमकुण्डलमाश्लिष्यदभ्युत्थाय सुलोचनः । अप्राक्षीच्च कुतोऽसि त्वं कुतश्चैष महापुमान् ॥२२२।। किं चागमनकार्य तेऽथ प्रोचे हेमकुण्डलः । अहं सुवेलान् मन्मित्रं स्वर्णद्वीपादसौ पुनः ॥२२३।। अस्मै दापयितुं रत्नान्यागतोऽस्मि तवान्तिके । ततः प्रत्यशृणोत् फुल्ललोचनस्तत्सुलोचनः ॥२२४।। विशेषकम् दिनैः कतिपयैर्जात्यरत्नदानपुर:सरम् । धरणः खेचरेणाथ मुक्तो देवपुराद् बहिः ॥२२५॥ जायामिह प्रतीक्षस्वेत्युक्त्वाऽयासीच्च खेचरः । क्षणं स्थित्वा पुरस्याऽन्तर्धरणः प्रविवेश च ॥२२६।। टोपाख्यश्रेष्ठिना दृष्टः संभाष्याऽनायि मन्दिरे । पृष्ठो भुक्तोत्तरं वत्स ! कुतस्त्वमिति सादरम् ॥२२७।। पितृतुल्यस्य तस्याऽग्रे माकन्दीनिर्गमादिकम् । तत्पुरागमवृत्तान्तावसानं च स आख्यात ॥२२८|| अर्पयित्वाऽथ रत्नानि धरणः श्रेष्ठिनं जगौ । तात संगोपयैतानि ततो गोपयति स्म सः ॥२२९|| इत: सुवदनो लक्ष्मी तामाश्वासयति स्म सः । भव ईदृश एवाऽयं गतोऽयं मम तेन तु ॥२३०|| भवत्या नैव सन्तप्यमथ सा कैतवाज्जगौ । त्वयि जीवति सन्तापो न कोऽपि मम मानसे ॥२३१।। पोतेशो जातरूपं तज्जातरूपनिभा च ताम् । विधातुमात्मसात्तस्याश्चित्तमावर्जयद् दृढम् ।।२३२।। तेन सा गृहिणी चके जातरूपमधिष्ठितम् । दिनैः कतिपयैः कूलं यानपात्रमथाऽऽगमत् ॥२३३।। Page #120 -------------------------------------------------------------------------- ________________ २३३ २३४ षष्ठो भवः यानं चीनागतं श्रुत्वा धरणोऽथ समाययौ । दृष्ट्वा सुवदनं लक्ष्मीसहितं तुष्यति स्म सः ॥२३४|| लक्ष्मी: सुवदनश्चैतौ जातौ कुवदनौ पुनः । दत्तासनोपविष्टोऽयं पृष्टः सुवदनेन तु ॥२३५।। आख्याति स्म यथावृत्तं ततः सुवदनोऽवदत् । त्वं जीवितोऽसि तज्जातं भव्यं स्वं स्वं गृहाण तत् ॥२३६।। धरणः प्राह पोतेश मत्प्राणा अपि ते वशे । लक्ष्मीसंगमकर्तुः का वार्ता स्वर्णादिवस्तुनः ॥२३७।। जगाद धरणश्चैतौ पुरमध्ये प्रविश्यते । आर्यपुत्र ! त्वमप्यत्र वसेत्यस्य प्रियाऽवदत् ॥२३८।। अभ्यक्तोऽयमथालोचि ताभ्यामद्यैव निश्यसौ । कथञ्चिदपि हन्तव्यः कृतपानाऽशनो रिपुः ॥२३९|| ध्यात्वेति मज्जयित्वाऽसौ पायितः कापिशायनम् । भुक्तः सुप्तश्च शय्यायां रजन्यामथ योषिता ॥२४०॥ कण्ठे पाशः प्रदत्तोऽस्य पोतेशेन दृढीकृतः । ततो मृत इति त्यक्तस्ताभ्यां जलनिधेस्तटे ॥२४१॥ युग्मम् तयोश्च गतयोर्याने समुद्रतटवायुना । शीतलेन समाश्वस्तो धरणो हृद्यचिन्तयत् ॥२४२।। किमिन्द्रजालं किं स्वप्नः किं वा मे मतिविभ्रमः । सत्येनैवाऽथ पाथोधितटमभ्यागतोऽस्म्यहम् ॥२४३|| जातेऽथ निश्चये दध्यावहो दुश्चरितं स्त्रियाः । अहो सुवदनस्यापि कीदृशं पुरुषव्रतम् ॥२४४।। जलज्वलनवायूनामस्ति वायुभुजामपि । प्रतीकारो न कोऽप्यस्ति महिलामनसः पुनः ॥२४५।। समरादित्यसंक्षेपः इदं सुवदनेनाऽपि विषयाऽऽमिषगृधुना । अहितं विहितं मन्ये लोकयोरुभयोरपि ॥२४६|| इति ध्यायन्नयं श्रेष्ठिपुरुषैः साश्रुलोचनैः । प्रातदृष्टश्च पृष्टश्च किं त्वं निश्यपि नागतः ॥२४७|| विधुतातिना तेन प्रेषितास्त्वां गवेषितम् । तद्देहि दर्शनं देहि तापनिर्वापणौषधम् ॥२४८।। स ध्यायन्नन्तरं नृणां श्रेष्टिनो गृहमागतः । पृष्टो वत्स ! कृतोऽसि त्वं हेतुना केन दुर्मनाः ॥२४९।। न किञ्चिदिति तेनोक्ते श्रेष्ठी प्राह श्रुतं मया । यानं चीनात्समायातमुपलेभे त्वया न वा ॥२५०॥ सबाष्पं तं च पप्रच्छ भार्या जीवति ते न वा । धरण: प्राह शीलेन मृता देहेन जीवति ॥२५१।। कथं वेत्सीति तेनोक्ते स प्रोचे तात कार्यतः । पृष्टोऽथ श्रेष्ठिना सत्यं सर्वं वृत्तान्तमाख्यत ॥२५२।। तादृशं वैशसं श्रुत्वा ततः सुवदनं प्रति । कोपाटोपयुतष्टोपश्रेष्ठी व्यजिज्ञपन्नृपम् ॥२५३॥ ततः पोतेशमाकार्य कार्यवेदी नृपेश्वरः । उवाच श्रूयते स्वर्ण घनं तत्कथमर्जितम् ॥२५४|| स प्रोवाच क्रमायातमियं भार्या कुतस्तव । स प्राह गुरुभिर्दत्ता राज्ञा श्रेष्ठ्यथ वीक्षितः ॥२५५॥ प्राह देवाऽनृतं सर्वं ततः सुवदनोऽवदत् । किं पुनः सत्यमत्रेति श्रेष्ठी प्रोचेऽथ धीरधीः ॥२५६॥ वर्णिनी च सुवर्णं च धरणस्येति सूनृतम् । ऊचे सुवदनोऽपूर्वदैवज्ञ ! प्रत्ययोऽत्र कः ॥२५७।। Page #121 -------------------------------------------------------------------------- ________________ षष्ठो भवः २३६ इदं राजकुलं श्रेष्ठी प्राह साधारणं हि तत् । धरणे विद्यमाने च प्रत्ययस्तु निरत्ययः ॥२५८|| ऊचे सुवदनो देव ! धरणस्याऽभिधाऽपि न । श्रुता मयाऽग्रे तद्देवः स्वयमेव परीक्षताम् ॥२५९।। नृपः श्रेष्ठिनमादिक्षद्धरणं त्वं समानय । त्वं च तां महिलां ताभ्यां प्रेषिताः स्वे नरास्ततः ॥२६०॥ अनिच्छन्नपि तैनिन्ये धरणो धरणीधवम् । भयत्रस्ता च सा लक्ष्मीरलक्ष्मीरिख जङ्गमा ॥२६॥ नृपस्तौ द्वावपि प्रेक्ष्य प्राह सुन्दर्ययं त्वया । सार्थवाहसुतो दृष्टो न दृष्ट इति साऽभ्यधात् ॥२६२।। पृष्टोऽथ धरणो भार्या तवाऽयं धरणोऽवदत् । देव पृष्टेन कि देवः शुश्रावाऽस्या वचः स्वयम् ॥२६३।। राज्ञोचे तेन पृच्छामि धरणः प्राह देव तत् । पुरा भवति भार्याऽसौ न सम्प्रति पुनः प्रभो ! ॥२६४।। धरणं प्राह राजाऽथ दृष्टः सुवदनस्त्वया । धरणः प्राह जानाति देव ! तच्चैष एव हि ॥२६५।। प्रोचे सुवदनो नाऽयं दृष्टः क्वाऽपि मया पुरा । नृपो द्वावप्यथाऽपृच्छदिहाऽस्ति द्रविणं कियत् ।।२६६।। ऊचे सुवदनः स्वर्णेष्टिकानां सम्पुटायुतम् । धरणेन तथेत्युक्ते प्राह सर्वसहापतिः ॥२६७|| सम्पुटानि कियत्तौल्यान्यथाऽऽह धरणः प्रभो ! । तथा तानि व्यधां नैव तौल्यं विज्ञायते यथा ॥२६८।। पृष्टः सुवदनः प्राह वेद्मि नाऽहमपि प्रभो ! । नृपः प्रोवाच सत्येवं किं कर्तव्यं मया ननु ॥२६९।। समरादित्यसंक्षेपः धरणः प्राह नैवाऽहं घातकोऽस्याऽऽददात्वयम् । ऊचेऽन्यो यत्त्वया दत्तं नालं मे तव तद्बहुः ॥२७०|| अरणद्धरण: ख्यातो ह्यहमालप्रदायकः । ऊचे सुवदनश्चेन्न प्रस्तुतं किमिदं ततः ॥२७॥ ततस्तमाह साटोपष्टोपश्रेष्ठी विलज्ज रे । कृत्वैवमपि ही जल्पमनल्पं जल्पसीदृशम् ॥२७२।। महाराज ! बहूक्त्या किं काञ्चनं नास्य चेदिदम् । तद्दिव्यमस्तु मे प्राणाः सर्वस्वसहिताः पणः ॥२७३॥ धरणो ध्यातवाश्रेष्ठी स्नेहेनाऽपहतो मम । औदासीन्यमतः कर्तुं साम्प्रतं नैव साम्प्रतम् ।।२७४।। ध्यात्वेत्युवाच तातस्य देव ! यद्ययमाग्रहः । तत्कि दिव्यैरुपायोऽन्योऽप्यस्ति राजाऽऽह तं वद ॥२७५।। स प्राह सम्पुटेष्वस्ति नाम मे नृपतिर्जगौ । नाम किं तव स प्राह धरणोऽप्रच्छयथेतरः ॥२७६।। किं ते सुवदनो नाम तेनोक्ते प्राह भूपतिः । छिन्नो हि व्यवहारोऽयं सम्पुटेरेव तैस्ततः ॥२७७|| आनाय्य वीक्षितेष्वेषु नाऽलक्षि धरणाभिधा । राज्ञा प्रोक्तेऽथ नामाऽस्ति न ते सुवदनोऽवदत् ॥२७८।। प्रमाणं दैव एवाऽत्र देवस्याऽपि पुरोऽनृतम् । जल्पित्वाऽद्यापि हि प्राणान्धत्तेऽथाऽवादि भूभुजा ॥२७९।। किमिदं धरण प्राह धरणो नैतदन्यथा । सम्पुटं स्फोटयित्वाऽन्तर्नरनाथ निरूपय ॥२८०।। १. ददात्ययं-नालमेव च क । Page #122 -------------------------------------------------------------------------- ________________ षष्ठो भवः २३७ २३८ हष्टष्टोपः परः क्षुब्ध आहूताः स्वर्णकारकाः । सम्पुटस्फोटने दृष्टा स्फुटा च धरणाभिधा ॥२८१|| कुद्धः सुवदनायाऽथ लक्ष्म्यै च नृपतिर्जगौ । हतैनं वणिज स्तेनं निर्वासयत चाऽसतीम् ॥२८२।। इमामलक्ष्मी मे राज्याधरणस्य च काञ्चनम् । सर्वमर्पयतान्यच्च किं कुर्वे तव सार्थप ॥२८३।। युग्मम् स प्राह वसुनाऽलं मे प्रसादं कुरुतां पुनः । देवः सुवदनस्याऽस्य जीवितव्यप्रदानतः ॥२८४॥ अहो महानुभावत्वमस्य ध्यात्वाऽऽह भूपतिः । न युक्तं सार्थवाहेदं परं वेद पुनर्भवान् ॥२८५।। धरणोऽथावददेव प्रसादोऽयं महान् मयि । राज्ञोक्तस्त्वं गृहाण स्वमादेश इति सोऽवदत् ॥२८६॥ राजपञ्चकुलेनैष समं सुवदनेन च । गतः स्वर्णेऽपिते प्राह धरणः पोतनायकम् ॥२८७|| परित्यज विषादं त्वमालम्बस्व स्वपौरुषम् । कस्य वा स्खलितं नैति पुरुषस्येह दैवतः ॥२८८।। अन्यच्च भवतः स्वर्णलक्षो मे भणितस्तदा । त्वया बहूकृतोऽहं तु तत्तेऽनर्ध्यमिदं वचः ॥२८९।। तद् गृहाणेप्सितं स्वर्णमित्युक्त्वाऽस्मै त्रपावते । अष्टौ सुवर्णलक्षाणि धरणो दत्तवान्मुदा ॥२९०।। नृपति पूजयित्वाऽथ भाण्डं सुस्थं विधाय च । गतो गृहमथ स्नात्वा बुभुजे श्रेष्ठिना सह ॥२९१।। समरादित्यसंक्षेपः भुक्तोत्तरं पतित्वांऽयोर्धरण: श्रेष्ठिनं जगौ । याचे किमपि ताताऽहं तातो मां यदि मन्यते ॥२९२।। श्रेष्ठी प्रोवाच वत्स ! त्वं यदि दासीकरोषि माम् । सकुटुम्बं तथाप्युच्चेर्याञ्चां ते न भनज्म्यहम् ॥२९३|| धरणः प्राह यद्येवं देहि वाचां त्रयं निजम् । स प्रोवाचैकगीर्लोपी त्रिगीर्लोपे न कि क्षमः ॥२९४|| उक्त्वेति श्रेष्ठिना वाचां त्रितये विहिते सति । सोऽथ प्रागपितं रत्नसहस्रं तदयाचत ॥२९५।। कृत्वा पूजां तदर्धेन धरणः श्रेष्ठिनः पदोः । उवाच प्रार्थना सेयं मदीया तात मन्यताम् ।।२९६।। अनेन च्छलितोऽस्मीति श्रेष्ठी ध्यायन्नमन्यत । सम्मान्य च सुसार्थेन प्रेषयन्नगरी निजाम् ॥२९७|| बहिरावासितो राज्ञा विज्ञातोऽभ्युद्गतश्च सः । प्रवेशितो महद्धर्या च नीतो निजनिकेतने ॥२९८।। स्नपितो भोजितः स्वाङ्गभूषणैश्च विभूषितः । प्रेषितः पितरौ नन्तुं ताभ्यामाशीभिरेधितः ॥२९९।। वितीर्णं च महादानं सर्वचैत्याऽर्चनं कृतम् । निमन्त्र्याथ महाराजो धरणेन प्रपूजितः ॥३००।। सर्वे सम्मानिताः पौरा मन्त्रिणश्च यथोचितम् । सर्वैरामन्त्र्य गेहेषु तैरपि प्रतिपूजितः ॥३०१॥ पितृभ्यामन्यदा पृष्टः क्व वत्स ! गृहिणी तव । अलं तत्कथयेत्युक्त्वा धरणस्ताववारयत् ॥३०२॥ राजाऽथ कतिचिद् द्रङ्गशासनाऽर्पणहेतवे । धरणस्य गृहेऽभ्येतः स्वयं तेन न पूजितः ॥३०३।। १. राज्ञोक्तः स्वं क ख ग घ, राज्ञाक्तत्युं च । २. लक्षा मे भणिता तदा क । Page #123 -------------------------------------------------------------------------- ________________ षष्ठो भवः २३९ २४० पृष्टश्चागमने कार्य नृपतिः सत्यमाख्यत । उवाच धरणो द्रङ्गशासन: पूर्यतं मम ॥३०४|| माननीयस्तु देवो मे प्रार्थयामि किमप्यतः । बन्दिमोक्षाऽभयदानान्निजराज्ये प्रसीद मे ॥३०५।। अहो महानुभावत्वमहो अस्य महात्मता । ध्यायन्निति नृपो द्वास्थमादिदेश सदेशगम् ॥३०६॥ अभयं सर्वसत्त्वानां बन्दिमोक्षं च सर्वतः । कारयोद्घोषणापूर्वमखिले मम मण्डले ॥३०७।। प्रतीष्य शिरसा तत्स विदधे नृपशासनम् । पितरौ नितरां तुष्टौ चेष्टितेनाऽस्य तेन च ॥३०८।। युज्यतेऽभयदः श्राद्धोऽभयदानमदापयत् । चित्रं तु धरणान्येष धरणो यदमोचयत् ॥३०९॥ मन्ये स्वं धरणं ध्यायन् मोहभूपतिचारके । अन्यान्यमोचयत्तानि स्वं मोचयितुमुत्सुकः ॥३१०॥ ताभ्यां मुदितचित्ताभ्यां नृपतेरुचितं कृतम् । धरणेन समं स्थित्वा मुहूर्तं नृपतिर्ययौ ॥३११|| धरणोऽपि चिरायातमित्रवर्गसमन्वितः । मुदा जगन्वानुद्यानं नाम्ना मलयसुन्दरम् ॥३१२।। दृष्टः कोऽपि युवा तेन नागवल्लीगृहस्थितः । प्रसादयन् प्रियां रुष्टां तत्र क्रीडितुमागतः ॥३१३|| स्मृत्वा लक्ष्मीमयं दध्यावित्थं कामिमनांस्यलम् । भवन्त्यपरमार्थज्ञानीति संवेगमागतः ॥३१४|| गतश्चाशोकवीथ्यां स प्रदेशे प्रासके स्थितम् । अपश्यच्छिष्यसंयुक्तमहद्दत्ताऽभिधं गुरुम् ॥३१५।। समरादित्यसंक्षेपः ज्ञान्यपि च्छिन्नकामोऽपि यो विशुद्धमना अपि । तप:शोषितगात्रोऽपि सिद्धिसंगमसस्पृहः ॥३१६|| तं प्रेक्ष्य धरणो दध्यौ धन्यो जीवत्ययं खलु । गृहवासं परित्यज्य य: संयममुपात्तवान् ॥३१७|| पिता माता गृहिण्यर्थस्तनुजाः स्वजना जनाः । इन्द्रजालनिभं सर्वं जनस्तु न विरज्यते ॥३१८|| ध्यायन्निति समित्रोऽपि सशिष्यं गुरुमानमत् । धर्मलाभाऽऽशिषं प्राप्योपाविशच्च महीतले ॥३१९॥ कुतो यूयमिति प्रोक्ते गुरुणा धरणोऽवदत् । इत एव वयं किं तु गृहत्यागेऽस्ति मे मतिः ॥३२०॥ तदादिशत किं कार्यं मया गुरुरथो जगौ । तदाशयपरीक्षार्थं भद्र ! त्यक्तगृहेण हि ॥३२१।। विषयांश्च कषायांश्च जित्वा कार्यः सुसंयमः । त्यक्तमप्यन्यथा गेहमत्यक्तमविवेकिनः ॥३२२।। प्रपद्य दुष्करं केऽपि संयम पालयन्ति न । मुह्यन्ति कार्ये कुर्वन्ति चासदालम्बनान्यलम् ॥३२३।। विमुक्तसंयमास्तेन गृहिणो व्रतिनो न च । नाशयन्ति मनुष्यत्वं लोकद्वयबहिष्कृताः ॥३२४|| तस्मादज्ञातहेयोपादेयस्याऽतुलितात्मनः । गृहवासपरित्यागः कर्तुं समुचितो न ते ॥३२५॥ धरणः प्राह भगवन्नादेशः सत्य एव च । किन्तु स्वमतिमानेन किञ्चिद्विज्ञपयाम्यहम् ॥३२६॥ हेयो गृहनिवासः स्यादुपादेया च साधुता । विवेकस्तुलना ज्ञेया जन्तूनां क्लेशशालिनाम् ॥३२७।। Page #124 -------------------------------------------------------------------------- ________________ षष्ठो भवः २४१ भगवानाह धन्योऽसि ज्ञेयं ज्ञातं त्वया ननु । बोधो यथास्थितो लब्धस्तदेनं सफलीकुरु ॥३२८।। भवन्त्यपरमार्थज्ञा जना विषयलोलुपाः । अत्र व्यतिकरे त्वं मे चरितं शृणु सादरः ॥३२९॥ क्षेत्रेऽत्रैवाऽचलपुरे जितशत्रुर्नरेश्वरः । पुत्रोऽपराजितस्तस्य युवराजपदस्थितः ॥३३०॥ द्वितीयः समरकेतुः कुमारोऽवन्तिनायकः । प्रत्यन्तनृप उवृत्तोऽन्यदा समरकेशरी ॥३३१।। तं संसाध्य समागच्छन् युवराजोऽपराजितः । धर्मारामनिवेशस्थमाचार्य राहुमैक्षत ॥३३२॥ तं वीक्ष्य जातसंवेगः साग्रहो व्रतमाग्रहीत् । अन्यदा विहरन्नेष नगरान्नगरीमगात् ॥३३३।। तत्राऽवन्त्याः समायाताः पृष्टाश्च मुनयोऽमुना । उपसर्ग विना साधुविहारस्तत्र वर्तते ॥३३४|| प्रोचुस्ते भद्रकौ तत्र पुत्रौ राजपुरोधसोः । उपसर्गयतः साधूश्रुत्वेत्याख्यद् गुरोरयम् ॥३३५।। गतो गुरुगिराऽवन्तीमार्यराहुगणे स्थितः । भिक्षाकाले व्रजन्नेष स्थापितस्तैरुवाच च ॥३३६।। अहं स्वलब्धिकस्तन्मे दर्श्यतां स्थापनाकुलम् । प्रेषितः क्षुल्ल एकस्तैः कुलदर्शनहेतवे ॥३३७॥ प्रत्यनीकगृहं गच्छन्निषिद्धः क्षुल्लकेन सः । निवृत्ते क्षुल्लकेऽविक्षत्कुमारस्यैव मन्दिरे ॥३३८।। समरादित्यसंक्षेपः शब्देन महता धर्मलाभितोऽन्तःपुरीजनः । गच्छेति संज्ञया प्राह तमवाजगणत्तु सः ॥३३९।। धर्मलाभवचः श्रुत्वा कुमारौ तु तमागतौ । द्वारं पिधाय वन्दित्वा प्रोचतुर्नृत्य भिक्षुक ! ॥३४०|| स प्राह गीतवादित्रे विना नृत्यं कुतो भवेत् । तावूचतुर्गीतवाद्ये करिष्याव: प्रनृत्य तत् ॥३४१॥ भवत्वेवं मुनिप्रोक्ते गीतवाद्ये वितेनतुः । तावेष विषमे कुद्ध इव साधुरभाषत ॥३४२।। विज्ञानेनाऽमुना गोपपुत्रौ मां नर्तयिष्यतः । श्रुत्वेति कुपितौ साधुवधायैतावधावताम् ॥३४३|| नियुद्धकुशलः सोऽथ साधुस्तौ सर्वसन्धिषु । वियोज्य द्वारमुद्घाट्य गत्वा च ध्यानमास्थितः ॥३४४।। तौ निश्चेष्टौ च दृष्टौ स्वैः सिक्तौ वारा न तूचतुः । तत्पित्रोः साधुवृत्तान्ते कथिते तावुपागतौ ॥३४५।। वीक्ष्य राजा ययौ सूरिमार्यराहुं ननाम च । ऊचे च भगवन् बालापराधः क्षम्यतामयम् ॥३४६|| सूरिणोचे न जानामि तदेवाऽस्य च साधुभिः । मुनिनाऽऽगन्तुना स्याच्चेत्कृतमित्यथ ते जगुः ॥३४७।। तं दर्शयत राज्ञोक्ते दर्शितो ध्यानवानिमैः । राज्ञाऽथ प्रत्यभिज्ञातः सत्रपेण नतश्च सः ॥३४८।। वितीर्य धर्मलाभं स प्राह श्रावक ! युज्यते । त्वद्राज्ये वेदनर्षीणामुल्लुण्ठत्वं कुमारयोः ॥३४९।। नृपः प्राह प्रभोऽनेन प्रमादेनाऽस्मि सत्रपः । विधायाऽनुग्रहं तौ तु संयोजयत सन्धिषु ॥३५०।। १. स्वलब्धक क । Page #125 -------------------------------------------------------------------------- ________________ २४३ २४४ षष्ठो भवः मुनिरूचे व्रतं चेत्तौ गृह्णीतो योजयामि तत् । राज्ञोक्तं संमतं मेऽद: प्रष्टव्यौ तु कुमारकौ ॥३५१।। वक्तुं न शक्तौ तौ साधुरूचेऽहं जल्पयामि तौ । गत्वा गीर्मात्रतः सज्जीकृत्योक्तौ मुनिना स्वयम् ॥३५२।। साधुबाधालतापुष्पमेतद्वां दुर्गतिः फलम् । समस्ति पश्चात्तापश्चेत्तद् गृह्णीतं व्रतं युवाम् ॥३५३।। तावूचतुश्च नौ पश्चात्तापश्चाऽपत्रपाऽस्ति च । प्रतिपत्स्यावहेऽवश्यं प्रव्रज्यां गुर्वनुज्ञया ॥३५४॥ गुरुभ्यां तावनुज्ञातौ योजितौ साधुना ततः । अङ्गैरपि व्रताङ्गैश्च प्रपन्नौ विधिना व्रतम् ॥३५५।। द्विजस्तु ज्ञाततत्त्वोऽपि बलात् प्रताजितोऽस्म्यहम् । इति द्वेषं गुरौ बिभ्रदनालोच्य दिवं ययौ ॥३५६।। ईशाने भुञ्जतस्तस्य भोगांश्चिह्नानि जज्ञिरे । च्यवनस्य विषण्णोऽसौ देवीपरिजनान्वितः ॥३५७।। त्यक्तमोहोऽथ गत्वा द्राग् विदेहे स जिनेश्वरम् । नत्वाऽपृच्छत्पद्मनाभं क्वोत्पत्स्येऽहं दिवश्च्युतः ॥३५८|| सुप्रापबोधिर्वा नो वा तीर्थनाथस्ततोऽवदत् । जम्बूभरतकौशाम्ब्यामुत्पत्तिस्ते भविष्यति ।।३५९।। भावी दुर्लभबोधिश्च गुरुप्रद्वेषतो भवान् । तस्य प्राग्भववृत्तान्तं कथयामास तीर्थकृत् ॥३६०।। स दध्यावल्पके द्वेषे विपाको दारुणः पुनः । स्वाम्याह बहुमान्यः स्यादिहलोकोपकार्यपि ॥३६१।। गुरुस्तु मिथ्याज्ञानानि निघ्नशुद्धकियां दिशन् । भवात्कर्षशिवं यच्छन्परलोकोपकारकः ॥३६२।। समरादित्यसंक्षेपः तद्वेषजनितं कर्माऽनल्पमल्पमपीरितम् । स दध्यौ कर्मणः प्रान्तः कदा मेऽस्य भविष्यति ॥३६३|| भगवानाह ते भाविभवे मूकापराभिधात् । बन्धोरशोकदत्ताख्याद् बोधिलाभो भविष्यति ॥३६४|| सुरः प्राह कुतो हेतोरस्य नामद्वयं प्रभो ! । भगवानाह कौशाम्ब्यां श्रेष्ठ्यासीत्तापसाभिधः ॥३६५।। स सवित्तोऽपि सारम्भ उदारोऽपि प्रमादवान् । नागदत्तः सुतस्तस्य स्नुषा वसुमतीति च ॥३६६।। स चार्तध्यानदोषेण मृत्वा सूकरतां गतः । पूर्वभुक्तप्रदेशाऽवलोकनाज्जातिमस्मरत् ॥३६७|| अन्यदा नागदत्तेन प्रारब्धे दिवसे पितुः । परिवेषणवेलायामोतुनाऽपहते पले ॥३६८॥ सूपकार्या गृहपतेर्वेलाऽतिक्रमभीतया । छन्नं विशसितो मृत्वा क्रुधाऽजनि भुजङ्गमः ॥३६९।। तत्राऽपि हि भवे तस्य जातिस्मृतिरजायत । अकषाय्यनुकम्पावान्कर्मवैचित्र्यतस्तु स ॥३७०॥ तं निरीक्ष्याऽन्यदा सूद्या सर्पः सर्प इतीरिते । एत्य कर्मकरैरात्तमुद्गरैर्विनिपातितः ॥३७१।। अकामनिर्जरायोगात्स्नुषागर्भे सुतोऽभवत् । जातस्य तस्य चाऽशोकदत्त इत्याह्वयोऽजनि ॥३७२।। तस्य चैकाऽब्ददेश्यस्य पश्यतो जनकादिकम् । अचिन्त्यकर्मसामर्थ्याज्जाता जातिस्मृतिः पुनः ॥३७३॥ दध्यौ च तनयं तातं स्नुषामपि च मातरम् । कथं वक्ष्यामि मूकत्वमेव श्रेयस्ततो मम ॥३७४।। Page #126 -------------------------------------------------------------------------- ________________ २४५ २४६ षष्ठो भवः ततः स लोकवाक्येन मूकनाम्नैव पप्रथे । द्वादशाऽब्दे तु तत्राऽऽगाच्चतुर्ज्ञानी महामुनिः ॥३७५|| मेघनादाऽभिध: सैष नागदत्तगृहे मुनिम् । प्रवाचं प्रेषयाञ्चके शिक्षां दत्त्वा गतश्च सः ॥३७६|| तमूचे कुहनामूकं कुमारक ! गुरुर्मम । प्रेषीत्तव समीपे मां तन्मुखेनेति वक्ति च ॥३७७|| अलं तापस मौनेन ज्ञात्वा धर्म समाचर । मृत्वा कोलश्च सर्पश्च जातः पुत्रस्य पुत्रकः ॥३७८।। नत्वा हित्वा च मूकत्वं स प्राह क्व नु ते गुरुः । चक्राऽवतारचैत्येऽस्ति ऋषिणोक्ते सहैदसौ ॥३७९।। गुरुं नत्वाऽवदद् वृत्तं वेत्सि मे भगवन्कथम् । ज्ञानेनेति गुरुप्रोक्तेऽशोकदत्तो विसिष्मिये ॥३८०॥ धर्मेऽथ कथिते बुद्ध: पूर्ववासनया तु सः । मूक इत्युच्यते लोकैद्वितीयं नाम तत्ततः ॥३८१।। देवो व्यजिज्ञपन्नाथमहं भोत्स्ये कथं प्रभो ! । भगवानाह वैताढ्ये स्वकुण्डलयुगेक्षणात् ॥३८२॥ देवोऽथ गत्वा कौशाम्बी स्वबोधं मूकमार्थयत् । यतिष्येऽहं यथाशक्ति तेनेति गदिते सति ॥३८२।। वैताढ्यं तं सुरो नीत्वाऽवदद् द्वे एव वल्लभे । सिद्धायतनकूटं च कुण्डलद्वितयं च मे ॥३८३।। इदं रत्नावतंसाख्यं कुण्डलद्वितयं मम । दर्शनीयं तदा नाऽहं यदा बुध्ये कथञ्चन ॥३८५।। उक्त्वेति तत्र तं न्यस्य चिन्तारत्नं समय॑ च । आख्यद्यदिहलोकस्थकार्यस्यैकस्य कार्यदः ॥३८६।। समरादित्यसंक्षेपः तदेतेन त्वया कार्य वैताढ्यगमनं सखे !। प्रतिपन्नमनेनेदं कौशाम्बी च समागतौ ॥३८७।। दिवं देवो गतश्च्युत्वा वसुमत्युदरेऽभवत् । बभूव च शरद्यस्याः सहकारेषु दोहदः ॥३८८।। अप्राप्तौ सा सगर्भाऽपि व्यथिताऽथ जनोऽवदत् । न जीवति ततो मूको मातृस्नेहविमोहितः ॥३८९।। दध्यौ जिनोक्ते सत्यत्वादन्यथापि भविष्यति । वैताढ्यगमनं मातुर्दोहदं पूरयामि तु ॥३९०॥ ध्यात्वेत्यचिन्तयच्चिन्तारत्नादाम्रफलानि सः । श्रद्धामपूरयच्चास्याः क्रमेण तनयोऽजनि ॥३९१।। नागदत्तः पिता तस्यादऽत्त नाम कृतोत्सवं । अर्हद्दत्तः स चाऽशोकदत्तस्यातीव वल्लभः ॥३९२।। वर्षैकदेश्यं तं बन्धुनिन्येऽर्हद्गुरुवेश्मसु । तान् ननाम न नामैष रुरोद तु हतोदरः ॥३९३॥ अस्य द्विः कथितो धर्मो बन्धुनाऽबुद्ध न त्वयम् । गुरुद्वेषस्फुरत्कर्मपरिपाकविपाकतः ॥३९४|| अग्रजेन ततः प्राच्यभवेऽस्य कथिते सति । स प्राह प्रलपस्युच्चैः किमसम्बद्धमीदृशम् ॥३९५।। ज्येष्ठस्तत्कर्मसामर्थ्यं चिन्तयन्नजनि व्रती । अनुजेनेभ्यपुत्र्यस्तु चतस्रः परिणिन्यिरे ॥३९६॥ अथो विषयिणस्तस्य गते काले कियत्यपि । विपन्नेऽशोकदत्तर्षों श्रुते शोकः प्रचुर्यभूत् ॥३९७।। तस्योर्ध्वदेहिकं चक्रऽनुजो ज्येष्ठस्तु पञ्चमे । स्वर्गे स्वयंवधिज्ञानाद् बोधोपायमचिन्तयत् ॥३९८|| Page #127 -------------------------------------------------------------------------- ________________ २४७ २४८ षष्ठो भवः चके जलोदरव्याधि ततः सोऽजनि तत्क्षणात् । परिशुष्कभुजः श्यूनपदः प्रम्लानलोचनः ॥३९९|| गजजिो विनिद्रश्चाऽरतिमान् गाढवेदनः । प्रत्याख्यातोऽगदंकारैर्विविक्षुचलनेऽभवत् ॥४००॥ युग्मम् श्रुत्वेति स्वजना म्लाना मूर्छिताः प्राणवल्लभाः । खिन्नः परिजन: सर्वो विलापं विदधेऽधिकम् ॥४०१।। तदा शबरवैद्यत्वं दधद्देवस्तदोकसः । उदघोषयदासन्नः सर्वव्याधीन्हराम्यहम् ॥४०२।। स्वजनैर्भणितो भद्राऽपनयाऽस्य महोदरम् । दयो यथेष्टं स प्राह धर्मवैद्योऽस्म्यहं ननु ॥४०३।। व्याधिस्तु कुच्छ्रसाध्योऽस्य नाऽपयाति यथा तथा । निदानं परिहर्तव्यं सेव्यस्तत्परिपन्थिकः ॥४०४|| निदानं द्विविधं तच्चैहिकाऽऽमुष्मिकभेदतः । ऐहिके त्यज्यतेऽपथ्यं धातुक्षोभस्य कारणम् ॥४०५।। आमुष्मिके तु मिथ्यात्वं हेयं सेव्ये च सर्वदा । विशुद्ध दर्शनज्ञाने सूत्रार्थों पौरुषीद्वये ॥४०६।। त्रिधाऽपि षड्वती पाल्या वर्जनीयाः कुधादयः । भ्रम्यमप्रतिबद्धन स्थातव्यं काननादिषु ॥४०७|| कुर्वाणस्येति किं त्वेतद्याता भवजलोदरम् । ततः परिजनेनोचे मरणाद्रुचिरं ह्यदः ॥४०८| स मृत्योरधिकं ह्येतद् ध्यात्वेत्यूचे भवत्विदम् । वैद्यः प्रोचेऽथ शक्ति मे पश्य क्लेशापहां क्षणात् ॥४०९।। निश्चितेन त्वया भाव्यं मोहो हेयश्च सर्वथा । न कर्तव्यः कुसंसर्गो नाऽऽज्ञा खण्ड्या च मे क्वचित् ॥४१०।। समरादित्यसंक्षेपः ततो मण्डलमालिख्याऽर्हद्दत्तं न्यस्य तत्र च । अभिमन्यौषधं दत्तं छन्नश्च श्वेतवाससा ॥४१२|| दिव्यशक्त्याऽथ तस्याङ्गाद्विमुक्ताकन्दभैरवः । अङ्गोपाङ्गमहाभङ्गपूर्वं रूपेण भीषणः ॥४१२।। दुर्गन्धोऽश्रव्यगीरात्मतुल्यसाष्टशतान्वितः । मूर्तो व्याधिः समाकृष्टस्तेन पापविपाकवत् ॥४१३॥ युग्मम् विस्मितोऽथ जनः सर्वस्तस्य निद्रा समागमत् । प्रबोध्य भिषजा प्रोक्तो व्याधिस्तेऽपगतो ननु ॥४१४|| तत्तथा भवता कार्यं यथा नायं पुनर्भवेत् । कमेणाऽप्राप्तपूर्वं चाऽऽरोग्यसौख्यमवाप्स्यसि ॥४१५॥ अनेन व्याधिना ग्रस्तोऽहमप्यस्मि भवानिव । काचिन्मात्राऽपनीता च रोगस्याऽस्य मयाऽपि हि ॥४१६|| शेषाऽपनयनोपाये तूत्तमे नाऽधुनोचितः । ततस्त्वमुत्तमोपायं भजाऽथ मम चेष्टितम् ॥४१७।। उत्तमः क उपायोऽत्र लोकपृष्टो भिषग्जगौ । जिनदीक्षाग्रहस्तस्माद् व्याधिः सर्वोऽप्यपेत्ययम् ॥४१८।। मज्जातौ तु न दीक्षा स्यात्त्वं तु जात्युत्तमत्वतः । दीक्षां गृहाण वा साधं मया वा विहराऽन्वहम् ॥४१९॥ लोकः प्रोवाच ते भ्राताऽपि हि प्रव्रजितोऽभवत् । तदिदं सुन्दरं कर्तुमुचितं च कुरुष्व तत् ॥४२०॥ अनिच्छन्नपि चित्तेन प्रतिपेदे स तगिरा । कस्मिन्नप्यागते साधौ जग्राह द्रव्यतो व्रतम् ॥४२१।। गते शबरवैद्येऽसौ समुत्पन्नाऽरतिः पुनः । द्रव्यलिङ्ग परित्यज्य निजं गृहमुपागतः ॥४२२।। Page #128 -------------------------------------------------------------------------- ________________ षष्ठो भवः गतैश्च दिवसैः कैश्चिदवधेरुपयोगतः । ज्ञात्वा देवेन सव्याधिः कृतो लोकेन नन्दितः ॥४२३|| तद्बन्धुभिस्तु सोऽन्विष्टो वैद्यः प्राप्तः कथञ्चन । उक्तः प्रशमने व्याधेर्व्रतमग्राहयत्पुनः ॥४२४ || पुनस्त्यक्तव्रते तस्मिन्महाव्याधिं सुरो व्यधात् । उक्तोऽथ बन्धुभिर्वेत्सि नात्मानमपि मूढधीः ||४२५॥ म्रियस्व तस्य वा वाक्यं कुरु स प्राह साम्प्रतम् । तं प्रेक्षे यदि तत्तस्य वचनं विदधाम्यहम् ||४२६ || गवेषितोऽथ तैर्दृष्टो वैद्यः प्रोक्तश्च सत्रपैः । तदेव तव पुत्रेण कृतं व्याधिर्महानभूत् ॥४२७|| ततः कोऽप्यस्त्युपायोऽत्र वैद्यः प्राहैष लम्पटः । निःपौरुषश्च दौर्गत्ये बह्वीः प्राप्स्यति वेदनाः ||४२८ ॥ आयुष्मतां तु युष्माकमुपरोधात्तमेकदा । तच्चिकित्सामि चेत्सार्धं मयैव हि स हिण्डति ॥ ४२९|| प्रतिपद्य तदेतैश्चाऽर्हद्दत्ताय निवेदितम् । नान्या गतिरिति ध्यात्वा प्रत्यपद्यत सोऽप्यदः || ४३०|| तैरानीतो भिषक् प्राह क्रीडेयं पश्चिमा ननु । त्वया भव्येन तद्भाव्यं तत्कार्यं यत्करोम्यहम् ||४३१ || अहं न क्वापि मोक्तव्योऽर्हद्दत्तस्तत्प्रपन्नवान् । चिकित्सित्वा च स प्रोक्तो मा भूः कापुरुषोऽधुना ॥ ४३२ ॥ देवेन तस्य चाऽगौणं गोणत्रितयमर्पितम् । नगरीतो विनिर्गत्य गतौ ग्रामान्तरे ततः ॥ ४३३|| देव: स्वमायया ग्रामं तं ज्वलन्तमदर्शयत् । विध्यापनाय तृण्यां च गृहीत्वा स्वं प्रधावितम् ||४३४|| २४९ २५० समरादित्यसंक्षेपः अर्हदत्तोऽवदद् दीप्तं किं विध्याप्यते तृण्यया । किं वेत्सीदं सुप्रोक्ते किं ज्ञेयममिह सोऽवदत् ॥४३५|| देव: प्रोवाच चेद्वेत्सि तत्क्रोधाऽनलदीपिते । गृहे गृहीतदेहैधः कथं विशसि बालक ! ||४३६ ॥ स्थितस्तूष्णीं न बुद्धस्तु ततः कण्टकसंकुले । देव: पथि व्रजन्नुक्तस्तेन त्यजसि किं समम् ॥४३७॥ देव: प्रोवाच वेत्सीदं यदि तत्किं शिवाध्वनः । रागादिकण्टकाकीर्णे भवमार्गे व्रजस्यहो || ४३८ ॥ स्थितस्तूष्णीं न संबुद्धो देवेनाथाऽस्य दर्शितः । जनैः प्रपूजितो यक्षः पुनः पुनरधः पतन् ॥ ४३९ ॥ निर्भाग्यो यक्ष इत्युक्ते तेन देवो जगाद तम् । यदीदं वेत्सि तत्किं त्वं प्रयासि नरकं प्रति ॥ ४४०|| स्थिते तूष्णीमसंबुद्धे तत्र कोलोऽथ दर्शितः । हित्वा धान्यतुषान्स्वादमानोऽमेध्यममेध्यधीः ||४४१ ॥ तेनोक्ते निर्विवेकोऽयं सुरः प्राहेति वेत्सि चेत् । तत्किं श्रमणतां हित्वा विषयान्बहुमन्यसे ||४४२ ॥ स्थिते तूष्णीमसंबुद्धे तत्र देवो वृषं व्यधात् । क्षेत्रमध्याविदूरस्थत्यक्तजञ्जमचारिकम् ||४४३|| शुष्ककूपैकदेशस्थदूर्वालेशाभिलाषुकम् । पतितं कूपके चूर्णीभूताङ्गोपाङ्गदुः स्थितम् ||४४४॥ युग्मम् अर्हद्दत्तस्तु तं वीक्ष्य प्राहाऽहो अस्य मूढता । देव: प्रोवाच जानाति यदीदं तत्कथं भवान् ॥४४५ ॥ हित्वा जञ्जुमचार्याभं क्षेत्रस्थं स्वर्गिणां सुखम् । दूर्वाभमर्त्यभोगेषु लुब्धः पतति दुर्गतौ ॥४४६॥ युग्मम् Page #129 -------------------------------------------------------------------------- ________________ २५१ २५२ षष्ठो भवः श्रुत्वेति विगलत्कर्मा स दध्यौ कोऽप्ययं खलु । अमानुषो वदत्येवं भ्रातेव मयि वत्सलः ॥४४७|| ऊचे चाऽशोकदत्तस्य तुल्यः कोऽपि भवान्मयि । स प्राहाऽहं स एवाऽस्मि पर्यायाऽन्तरितः पुनः ॥४४८।। कः प्रत्ययोऽत्र तेनोक्ते देवः प्रोवाच यत्त्वया । भणितोऽहं हि वैताढये स्थगितं कुण्डलद्वयम् ॥४४९।। दर्शयित्वा प्रबोध्योऽहं तस्मात्तद्दर्शयामि ते । प्रत्ययेन किमन्येन तच्च प्रत्यशृणोदसौ ॥४५०॥ युग्मम् दिव्यरूपेण भूत्वाऽथ नीतो वैताढ्यपर्वते । सिद्धायतनकूटे तद्दर्शितं कुण्डलद्वयम् ॥४५१॥ स तद् रत्नावतंसाऽऽख्यमीक्षित्वा जातिमस्मरत् । प्रतिबुद्धः प्रपन्नश्च तत्क्षणं भावतो व्रतम् ॥४५२।। क्षमयित्वा गतो देवः सोऽहं सौवस्तिकाङ्गजः । विराधकानां तबुद्धिर्धर्मशीले न जायते ॥४५३।। जितमोहरिपूणां च निर्वहत्येव संयमः । नान्यच्च रम्यं तत्तेन नृजन्म सफलं कुरु ॥४५४|| धरणः प्राह भगवंस्तवाऽदेशोऽस्तु मेऽनघः । पित्रोराख्यामि किं त्वेतद्भवेद् बोधस्तयोरपि ॥४५५।। गुरुणा युक्तमित्युक्ते विबुद्धसुहृदन्वितः । गृहं गत्वा व्यतिकरं पित्रोराख्यातवांश्च तम् ॥४५६|| ततस्ताभ्यां प्रबुद्धाभ्यां वयस्यैश्च समन्वितः । अर्हद्दत्तगुरोः पार्श्वे कृतकृत्योऽग्रहीद् व्रतम् ॥४५७।। श्रुतेऽधीती समाम्नाती क्रियास्वेष क्रमादभूत् । एकत्वप्रतिमायोग्यो जातोऽपृच्छद् गुरूनयम् ॥४५८।। समरादित्यसंक्षेपः गुरुणाऽनुमतः सोऽथ प्रपन्नः प्रतिमामिमाम् । अलिप्तस्तामलिप्त्याः स्वैस्तस्थौ प्रतिमया बहिः ॥४५९॥ इतो देवपुरान्निर्वासिता लक्ष्मीर्गवेषिता । दृष्टा सुवदनेनैषा निवेशे नन्दिवर्धने ॥४६०।। घटिता च समं तेन तामादाय गतोऽथ सः । चीनद्वीपेऽथ कालेन तामलिप्त्यां समाययौ ॥४६१।। युग्मम् तस्थौ बहिर्निवासे च तया लक्ष्म्या समन्वितः । अथोद्यानं गता लक्ष्मीर्धरणर्षिमवैक्षत ॥४६२।। तमेष प्रत्यभिज्ञाय गुरुकर्मत्वजाड्यतः । क्रोधानलमसेविष्ट तापायेव समुद्यता ॥४६३।। अचिन्तयच्च मत्पापपरिणामो महानहो । यद् दृष्टः पुनरप्येष कथं व्यापाद्यते पुनः ॥४६४।। प्राप्तकालमिदं छिन्नकङ्कणं कण्ठभूषम् । स्थापयित्वा समीपेऽस्य मुष्टा मुष्टेति पुष्टगीः ॥४६५।। करोमि तुमुलं येनोद्यानस्यैकान्तभावतः । ग्रैवेयकस्य रम्यत्वाच्चौरसम्भावना भवेत् ॥४६६।। तच्चण्डाज्ञेन राज्ञासौ सुखं व्यापादयिष्यते । कल्ये ह्याददिरे स्तेनाः सलोप्ता भिक्षुरूपिणः ॥४६७|| लिङ्गिनोऽपि हि कुर्वन्ति चौरिकामिति चाऽभवत् । प्रसिद्धिस्तदुपायोऽयं भव्योऽस्तीति व्यधात्तथा ॥४६८|| कलापकम् प्राप्तो मुनिरथाऽऽरक्षैर्जल्पितश्च न जल्पति । वीक्षमाणैस्तदासन्नं दृष्टं ग्रैवेयकं पुनः ॥४६९।। १. छिनं ख ग घ । २. प्राप्तोपि मुनिरार ख ग घ च, प्राप्तोथ मुनिरार ङ । Page #130 -------------------------------------------------------------------------- ________________ षष्ठो भवः २५३ २५४ तच्छिन्नकङ्कणं वीक्ष्य मतं जनपदैरिदम् । आख्यातं नृपतेदेवाऽपूर्वः प्राप्तो मलिम्लुचः ॥४७०|| विस्मितो नृपतिः प्राह निरूप्य हत तं शठम् । तलारक्षेण पृष्टोऽथ न किञ्चिदपि जल्पति ॥४७॥ अहो धूर्तत्वमस्येति कुपितैरधिकं च तैः । नीतो वध्याऽवनीं तत्र निखाता शूलिकोच्छ्रिता ॥४७२।। उत्क्षिप्तश्च मुनिः क्षेप्तुं चण्डालेनोदघोषि च । अहो लोकाः कृतं स्तैन्यं साधुवेषभृताऽमुना ॥४७३।। ततोऽसौ वध्यतेऽन्योऽपि यः कोऽप्येवं विधास्यति । राजा सुतीक्ष्णदण्डस्तमित्थं व्यापादयिष्यति ॥४७४|| इत्याघोष्य विमुक्तोऽयं तपसस्तु प्रभावतः । शूलिका तूलिका जज्ञे न विद्धो मुनिपुङ्गवः ॥४७५।। जज्ञे कुसुमवृष्टिश्च देवसान्निध्यतो मुनौ । धर्मो जयति पूज्योऽयमिति कलकलोऽजनि ॥४७६|| पञ्चभि: कुलकम् आख्यातं नृपतेर्जातप्रमोदः स समाययौ । नत्वा सविस्मयं पृष्टो न किञ्चिदपि सोऽवदत् ॥४७७|| मन्त्रिणाऽथ नृपः प्रोक्तो देव व्रतविशेषवान् । अधुनाऽपि कुतो हेतोस्तवाग्रे मन्त्रयिष्यति ।४७८|| तामेव सार्थवाहस्य तदाह्वयत गेहिनीम् । प्रेषिताश्च तलारक्षाः सा श्रुत्वेति पलायिता ॥४७९॥ अदृष्टायां तलारक्षः क्षितीशाय निवेदितम् । नष्टा सा देव नष्टा न सदनादिषु दृश्यते ॥४८०।। नृपः प्रोवाच यत्नेनाऽन्वेष्याऽऽनयत तामिह । बाढं गवेषितोद्यानादिषु दृष्टा तु तैर्न सा ॥४८१॥ समरादित्यसंक्षेपः तन्निशम्य जनान् नश्यन् दृष्टः सुवदनस्तु तैः । धृत्वाऽऽनीय तलारक्षैर्नृपायेति निवेदितम् ॥४८२।। देव पुर्या न साऽस्त्यस्यां तस्याः पतिरयं पुनः । प्रणश्यञ्जगृहे देवः प्रमाणमिह साम्प्रतम् ॥४८३॥ नृपो निरूप्य तं प्राह क्व ते भद्र नितम्बिनी । न जानामीति तेनोक्ते राज्ञोचे तत्कुतोऽनशः ॥४८४।। स प्राह भीत्या राज्ञोचे का भीतिः स्यान्निरागसः । तेनोचे देव मेऽस्त्यागो नृपतिः प्राह कीदृशम् ॥४८५॥ स प्रोवाच तथारूपपरिग्रहपरिग्रहः । राज्ञोचे ते भयं तस्या यतेश्चाख्याहि मे कथम् ॥४८६।। निरीक्ष्य धरणं साधुमुपलक्ष्य च बाष्पभृत् । विस्मितस्तच्चरित्रेण नृपं सुवदनोऽवदत् ॥४८७।। न वृत्तान्तं यतेरस्य वक्तुं देव ! क्षमोऽस्म्यहम् । नृपः प्राह वदाऽवाच्यं किमप्यस्तीह किं भवे ॥४८८|| ततः सुवदनः प्राह देवैकान्तं समादिश । राज्ञा निरीक्षितः सर्वोऽपसृतश्च परिच्छदः ॥४८९।। धरणर्षिमयं वीक्ष्य संजाताऽनुशयोऽवदत् । देवाऽहं पापकर्माऽस्मि नरश्वा न पुनः पुमान् ॥४९०।। नरो हि विरतोऽकृत्यात् कृतज्ञः सत्यसंगरः । उपकारी भवाद्भीर्यथेष भगवानिह ॥४९१|| नृपः प्राह नरश्वा स्यात् कथमेवंविधो भवान् । प्रस्तुतं वद तद्भद्र ! ततः सुवदनोऽवदत् ॥४९२।। आरभ्य स्वर्णद्वीपस्य दर्शनान्नृपतेः पुरः । अष्टलक्षस्वर्णदानावसानामस्य तां कथाम् ॥४९३।। युग्मम् Page #131 -------------------------------------------------------------------------- ________________ २५५ २५६ षष्ठो भवः तुष्टेन भूभुजा मुक्तो नत्वा सुवदनो मुनिम् । आर्यमवन्तिके धर्म श्रुत्वा श्रामण्यमाददे ॥४९४|| धरित्रीशश्चरित्रेण धरणर्षेश्चमत्कृतः । तं नत्वा सपरीवार: ससार नगरी निजाम् ॥४९५।। लक्ष्मीरपि भयत्रस्ता तामलिप्त्याः पलायिता । यथाजातीकृता चौरैः प्राप्ता रात्रौ कुशस्थले ॥४९६।। चरुकर्मास्ति चारब्धं तस्यां निशि पुरोधसा । नृपाग्रमहिषीसूतिविघ्ननिर्धातनाविधौ ॥४९७।। ज्वालितो ज्वलनः कामं पुरबाह्यचतुष्पथे । दिशामारक्षकाः कृष्टासयो न्यस्ताश्च सर्वतः ॥४९८|| आरोपितश्चरु: स्नेहभिन्नतण्डुलसंयुतः । प्रस्तुतो मन्त्रजापश्चासाध्वसेन पुरोधसा ॥४९९।। तदा सा ज्वलनं वीक्ष्य सार्थभ्रान्त्या समागता । दृष्टा शिवारवस्याऽनन्तरमुत्तरसाधकैः ॥५००|| राक्षसीति भयत्यक्तासयः संस्तम्भितोरवः । कम्पमानभुजास्त्यक्तजीविता इव तेऽपतन् ॥५०१।। अहं स्त्रीति वदन्ती सा समेता तु पुरोधसम् । संवीक्ष्याऽवसनामेनां मेने मनसि राक्षसीम् ॥५०२॥ आगते हि भये कार्य पुरुषेणेह पौरुषम् । ध्यात्वेति गाढं हस्तेन केशहस्तेऽग्रहीत्स ताम् ।।५०३।। मा भैष्टेति वदन्नेष दिशापालानबोधयत् । तैरुत्थाय निबद्धाऽथ पुरे प्रैषि पुरोधसा ॥५०४॥ निवेदितं नृपस्याऽग्रे स च क्रोधप्रबोधितः । तदूरुबाहुमांसानि खादयित्वा तयैव हि ॥५०५।। समरादित्यसंक्षेपः विष्टया लेपयित्वा च नानारूपं विडम्ब्य च । निर्भय॑ च सरोषं तां स्वदेशान्निरवासयत् ॥५०६।। ग्रामेऽप्राप्तप्रवेशाऽथ भ्रमन्त्यटविमध्यतः । प्राच्यकर्मपरीणामेनेव भीषणमूर्तिना ॥५०७|| निहता मृगराजेन जज्ञे धूमप्रभाभुवि । सा सप्तदशवाायु रकः स्फारकल्ममषः ॥५०८।। युग्मम् निर्ग्रन्थो धरणोऽपि चारुचरण: संसूत्र्य संलेखनां पर्यन्ते कृतपादपोपगमनो गत्वा यश:शेषताम् । स्वर्गेऽथाऽऽरणनाम्नि तारणमतिः श्रीचन्द्रकान्ताभिधो देवो विंशतिसागरायुरसमद्योतिर्विमानेऽजनि ॥५०९।। इति श्रीहरिभद्रोक्त्या प्रद्युम्नाऽऽचार्यगुम्फिते । समरादित्यसंक्षेपे षष्ठ एष भवोऽभवत् ।।५१०|| Page #132 -------------------------------------------------------------------------- ________________ सप्तमो भवः इतश्च जम्बूद्वीपस्य भरतेऽस्त्युच्चवप्रतः । कृतशत्रुजनाऽऽकम्पा चम्पा नाम पुरी परा ॥१॥ यस्यां विनयलावण्यरूपमन्मथचेष्टितैः । संसारस्याऽपि सारत्वं स्त्रीजनो जनयत्यलम् ॥२॥ महासेन इव ध्वस्तरिपुसेनः स्वतेजसा । विष्वक्सेनः श्रिया तत्राऽमरसेनः क्षमापतिः ॥३॥ गाढोपमूढं यं लक्ष्मीन कदाचिद्विमुञ्चति । मन्त्रैर्वशीकृतदिशं तत्प्रवेशभयादिव ॥४॥ सर्वान्तःपुरसाराऽस्य देव्यस्ति जयसुन्दरी । जिगाय या स्वरूपेण देवानामपि सुन्दरी: ॥५॥ नृपस्य हरिषेणाख्यो युवराजोऽस्ति चानुजः । तस्य तारप्रभा हारप्रभा नाम कुटुम्बिनी ॥६॥ इतश्च धरणश्च्युत्वाऽरणस्वर्गादवातरत् । उदरे जयसुन्दर्या दृष्टः स्वप्नस्तया निशि ||७|| स्वर्णदण्डो देवदृष्यपताकाऽञ्चलचञ्चलः । मुखाऽध्वना ध्वजः प्रांशुः प्रविशन्नुदराऽन्तरे ।।८।। तया विबुद्धयाऽऽख्यातो दयितायाऽथ सोऽवदत् । नरेन्द्रकेतुभूतस्ते देवि सूनुर्भविष्यति ॥९॥ समरादित्यसंक्षेपः तत्प्रतिश्रुत्य तुष्टायास्त्रिवर्गफलमीयुषः । कालेऽस्याः प्रसवस्याऽभूद्दारक: पुण्यधारकः ॥१०॥ हर्षमत्याख्यया चेट्या नरेन्द्राय निवेदिते । स पारितोषिकं तस्यै दत्त्वा वर्धापनं व्यधात् ॥११॥ अतुच्छ उत्सवे जाते षष्ठीजागरणादिके । मास्यतीतेऽस्य भूनेता सेन इत्यभिधां व्यधात् ॥१२॥ अथैकहायने तस्मिन् स लक्ष्मीजीवनारकः । उढत्य भवमाहिण्ड्य तादृक्कर्माऽनुभावतः ॥१३॥ युवराजप्रियाकुक्षौ विषेणाऽऽख्यः सुतोऽजनि । वृद्धः कलाकलापेन सेनः स्वाङ्गेन च क्रमात् ॥१४॥ युग्मम् तस्य प्रीतिविषेणेऽस्ति सेने न त्वस्य पूर्ववत् । इक्षुर्विषं च तादृक्षे एवाऽन्यत्रोद्गते अपि ॥१५॥ अन्यदा पुर्यपर्यन्तो जज्ञे जयजयारवः । सुरविद्याधरैश्चक्रे पुष्पवृष्टिर्नभस्तलात् ॥१६॥ भूनेत्रा प्रेषितो वेत्री मत्वा भूपं व्यजिज्ञपत् । देवाऽभूत्केवलज्ञानं साध्व्यास्तन्मुदिता पुरी ॥१७॥ निरविद्यामिमा विद्याधरा धरणिगोचराः । सुराश्च स्तुवते देव ! सेवका देवतामिव ॥१८॥ श्रुत्वेति मुदतो नन्तुं प्राचालीदचलापतिः । धर्मन्यस्तमनास्तस्याः समेतश्च प्रतिश्रयम् ॥१९॥ यः स्वच्छस्फटिकच्छायः स्वर्णवर्णवितर्दिकः । स्फुटसौदामिनीदामशरदम्बुधरप्रभः ॥२०॥ तत्र सोमाकृतिः सोमा नाम दृष्टा प्रवर्तिनी । यतिनीभिर्युता तारानुकारोभिस्तपोरुचा ॥२१॥ Page #133 -------------------------------------------------------------------------- ________________ सप्तमो भवः प्रावृताऽङ्गी पटेनोच्चैः शुभ्रेण शरदभ्रवत् । मनसः सर्वतः शुक्लध्यानेनेव प्रसर्पता ||२२|| युग्मम् नेत्वा भगवतीमेतां पुष्पवृष्टि विधाय च । धूपमुत्क्षिप्य चिद्रूपस्ततो भूपः पदोर्नतः ||२३|| निविष्टो भूतले धर्मकथा च प्रस्तुता तया । दानशीलतपोभावभेदरूपप्रकाशिका ||२४|| अत्रान्तरेऽत्र सस्त्रीको समायातौ ससंमदौ । सार्थवाहसुतौ बन्धुदेवसागरनामकौ ॥२५॥ नत्वा भगवतीं प्राह सागरो नृपतिं प्रति । कार्यः खेद: कथाच्छेदप्रभवो देव न त्वया ||२६|| अत्यद्भुतमसंभाव्यं दृष्टं वस्तु मया विभो ! । विस्मितोऽज्ञाततत्तत्त्वः स्थातुं तत्पारयामि न ॥ २७॥ राज्ञा किं तदिति प्रोक्ते स प्राहाऽऽकर्णय प्रभो ! । मदीयपत्नीहारस्य प्रनष्टस्य व्यतीयिवान् ||२८|| बहुः कालस्ततः सैष मनसोऽपि हि विस्मृतः । अद्य भुक्तोत्तरं यावच्चित्रशालां गतोऽस्म्यहम् ||२९|| तावच्चित्रगतः केक्युच्छ्रस्योन्नम्य च कन्धराम् । विधूय पक्षौ विस्तार्य बनवततार सः ||३०|| कौसुम्भवसनच्छन्नपटल्यां च विमुच्य तम् । हारं ययौ निजस्थानं तथारूपः पुनः स्थितः ||३१|| कलापकम् विस्मितोऽहमिह श्रुत्वा जातं जयजयारवम् । मत्वा केवलमुत्पन्नं भगवत्याः समागतः ||३२|| १. तुत्वा क । २५९ २६० समरादित्यसंक्षेपः अत्यद्भुतमसम्भाव्यं सत्येन भगवत्यदः । किमिति क्ष्मापतिप्रोक्ते बभाषे भगवत्यथ ||३३|| सौम्य नाऽत्यद्भुतं नैवाऽसम्भाव्यं चाऽस्ति कर्मणः । अशुभेऽत्र जलं वह्निचन्द्रो ध्वान्तं नयोऽनयः ||३४|| अर्थोऽनर्थः सुहृद्वैरी पतिः पतति च क्षणात् । शुभे त्वत्र पुनः सर्वं विपरीतमिदं भवेत् ||३५|| युग्मम् राज्ञोचे कस्य जीवस्य कर्मेदृक्परिणामकृत् । तया प्रोचे ममैवेदं कर्म खेदं ददौ बहुम् ||३६|| प्रोवाचाऽमरसेनोऽथ रसेनोद्भिन्नकण्टकः । कथं वा किंनिमित्तं वा तत्कर्मेत्यथ सा जगौ ||३७|| इहैव भारते शङ्खवर्धनं नामतः पुरम् । शङ्खोज्ज्वलयशास्तत्र शङ्खपालः क्षमापतिः ||३८|| तत्रेभ्योऽस्ति धनो धन्या जानिर्धनपतिः सुतः । आढ्यो धनावश्चान्यो गुणश्रीश्चाहमात्मजा ॥ ३९ ॥ विवोढा व्यूढमात्रायां मयि यातो यमालयम् । निर्वेदेन रता धर्मे विशेषेण तपोमये ॥ ४० ॥ अन्यदा चन्द्रकान्ताख्या गणिनी गुणिनीतमा । समागता ममाख्याता सखीभिः ख्यातसंयमा ॥४१॥ तां नन्तुं गतय चैत्ये ससख्या सा मयेक्षिता । श्राविकाणां पुरो धर्मं कथयन्ती यथातथम् ॥४२॥ विस्मिताऽहं च तां दृष्ट्वा प्रविष्टा जिनमन्दिरे । चालयित्वा ततो घण्टां चक्रे दीपकमालिकाम् ||४३|| १. पविः पतति क । Page #134 -------------------------------------------------------------------------- ________________ सप्तमो भवः २६१ मुक्त्वा कुसुमवृष्टिं चाऽचिताः सर्वज्ञमूर्तयः । ततश्च धूपमुत्क्षिप्य वन्दिताः परमेष्ठिनः ॥४४॥ गणिन्यथ नताऽऽगत्य तयाऽहं धर्मलाभिता । उपविष्टाऽथ पृष्टा च कुतो यूयमिहाऽऽगताः ॥४५॥ इत एव मया प्रोक्ते सखी मवृत्तमाख्यत । गणिन्योचे कृतं साधु यद्वत्सेऽत्र समागता ॥४६।। भव ईदृश एवाऽत्र देहिनो दुःखभाजनम् । इत्युक्त्वा कथितो धर्मः श्रावकाणां मयाऽऽदृतः ॥४७|| कियत्यपि गते काले पित्रोः पञ्चत्वमीयुषोः । व्रताय भ्रातरौ पृष्टावूचतुर्भक्तिनिर्भरम् ॥४८॥ स्थिता गृहस्थधर्मेऽपि त्वं स्वसः स्वसमीहितम् । विधेहि धर्ममित्युक्ते कारितं जिनमन्दिरम् ॥४९॥ प्रतिमाः कारिता बढ्यः पूजायां च महाव्ययम् । कुर्वन्त्यां मयि खिद्यते भ्रातृजाये निरन्तरम् ॥५०॥ मयाऽचिन्ति किमताभ्यां प्रेक्षे सोदरयोर्मनः । यदि तावपि न स्थाने स्थाने तन्मे व्रतक्रिया ॥५१|| अन्यदा याममात्रायां यामिन्यामागतेऽग्रजे । स शृणोति यथा प्रोचे भ्रातृजाया तथा मया ॥५२॥ धर्मोपदेशव्याजेन मायाबहुलया हृदि । किं सुन्दरि ! बहूक्तेन रक्षितव्यैव सायिका ॥५३॥ युग्मम् एवमेतदिति प्रोच्य साऽविशद्वासवेश्मनि । तद्भ; चिन्तितं नूनमसत्येषा किमन्यथा ॥५४॥ समरादित्यसंक्षेपः एवं जल्पति मे जामिर्मम तत्कृतमेतया । ध्यात्वेति कैतवात्सुप्त उपविष्टा च सान्तिके ॥५५॥ तदीयपादौ संवाह्य दीपमुत्क्षिप्य पाणिना । ताम्बूलं पटलाल्लात्वा शयनात्तेन वारिता ॥५६॥ सा दध्यौ हन्त नर्म स्यादिति सुप्ता स उत्थितः । ततस्तं कुपितं मत्वा संक्षुब्धा प्राह किन्वदः ॥५७।। स प्राह नाऽपरं किञ्चित्कि तु निस्सर मे गृहात् । ध्यायन्ती दुष्कृतं शय्यामुत्सृज्याऽजनि दूरतः ॥५८|| ततः स शयितश्चिन्ताप्रान्ते निद्रामुपागतः । इतराऽप्युपविष्टा स्वं दोषं कमपि नाऽस्मरत् ॥५९।। दध्यौ च को गुणोऽनेन भर्तुरप्यतिकारिणा । जीवितेन त्यजाम्येतदथवा दुर्जनो जनः ॥६०॥ इत्थमप्यार्यपुत्रस्य लाघवं सम्प्रदास्यति । इदं च दुःसहं दुःखं न जाने किं ममोचितम् ॥६१।। यद्वा सद्भाविनी बुद्धियुक्ता च मम नन्दिनी । तत्तां पृष्ट्वा यथायुक्तं कुर्वे निरचिनोदिति ॥६२|| रुदती सुदती सर्वां रजनीमजनीदृशी । परिम्लानमुखाम्भोजा यथा सेति न लक्ष्यते ॥६३|| नारीणां दिनकृन्नेतुः स्नेह एव हि नेतरः । तेन तेन विना जज्ञे मन्ये म्लानमुखाऽम्बुजा ॥६४|| सा प्रातर्निर्गता वासगृहाद् दृष्ट्वा मयोदिता । अल्पाऽम्बुबिसिनीवत्त्वं किं शुष्का दृश्यसे ननु ॥६५॥ १. यत्कुतो ख ग घ ङ । २. प्रेक्ष्य ख ग घ च । १. मन्ये म्लाण ख ग घ ङ । Page #135 -------------------------------------------------------------------------- ________________ सप्तमो भवः सा प्राह रुदती नाहमागो वेद्मि बभाण तु । भर्ता निस्सर मद्गेहाद्धलिष्येऽहं मयोदिता ॥ ६६ ॥ प्रतिश्रुते तया भ्राता मयोचेऽदः किमीदृशम् । स प्राह स्त्री हि दुःशीला विनाशयति संततिम् ॥६७॥ कुलं मलिनयत्युच्चैर्विधत्ते वचनीयताम् । दयितं हन्त्यलं तस्मादनयाऽपनयाऽत्मना ॥६८॥ मयोचे त्वं कथं वेत्सि स प्राह ज्ञेयमत्र किम् । श्रुता हि देशनाद्वारा वारयन्ती भवत्यमूम् ॥६९॥ मयोचे तव पाण्डित्यमहो ते सुविचारता । अहो अहो महार्थत्वमहो स्नेहानुबन्धिता ॥ ७० ॥ बहुदोषं जिनप्रोक्तमिदमस्या निवेदितम् । न तु दोषं मया वीक्ष्य वारिता तत्कुतोऽसती ॥ ७१ ॥ युग्मम् सत्रपः सोऽपि जातानुतापस्तां बह्वमानयत् । ध्यातं मयाऽथ भ्राताऽयं श्वेतं कृष्णं प्रपद्यते ॥७२॥ वीक्षितश्च द्वितीयोऽपि तद्भार्याहस्तरक्षणे । प्रोक्ता सर्वं च पाश्चात्यं तथैव हि यथाऽग्रजे ||७३ || तदा मयाऽऽलदानेन तीव्रं कर्म न्यबध्यत । कालेनाऽहं व्रतं त्वादां भ्रातृभ्रातृजनीयुता ॥ ७४ ॥ दिवं गतानि सर्वाणि मम प्राग् भ्रातरौ च्युतौ । अत्रैव पुण्यदत्तेभ्यसम्बातनयतां गतौ ॥७५॥ बन्धुदेवः सागरश्च तयोर्नाम प्रतिष्ठितम् । वृद्धौ चैकालवालस्थबालशालसमाविमौ ॥७६॥ च्युता गजपुरेऽहं तु शङ्खभ्यस्य सुताऽभवम् । शुभङ्कायां भार्यायां नाम्ना सर्वाङ्गसुन्दरी ॥७७॥ २६३ २६४ समरादित्यसंक्षेपः प्रजावत्यावपि च्युत्वा नगरे कोशलापुरे । जज्ञाते देविलापल्यां नन्दिलेभ्यस्य नन्दने ॥७८॥ एका कान्तिमती नाम्ना द्वितीया श्रीमतीति च । मिथः प्रीतियुते ते च विवर्धेते लते इव ॥७९॥ मया श्राद्धकुलोत्पत्त्या लेभे धर्मो जिनोदितः । पुष्पचापनृपक्रीडावनं प्रापे च यौवनम् ||८०|| इतो गजपुराऽयातो बन्धुदेवो वणिज्यया । लीलोद्यानाद् गृहं यान्तीं मामैक्षत सखीवृताम् ॥८१॥ पृष्टे च कस्य कन्येयं शङ्खस्याऽऽख्यत कश्चन । याचितायां च मे तातोऽवोचत्साधर्मिकोऽसि न ॥८२॥ बन्धुदेवोऽवदत्साधर्मिकं कुरुत मां ततः । ततः प्राहाऽऽर्हतं धर्मं प्रतिपद्यस्व भावतः ||८३|| सोऽथ मल्लोभतः साधुसमीपे मसृणोऽशृणोत् । जिनधर्म निकृत्या तं प्रशशंस न भावतः ॥ ८४॥ प्रारब्धं चैत्यनत्यादि दानाद्यं च प्रवर्तितम् । कियत्यपि गते काले गतस्ताताऽन्तिके पुनः ॥८५॥ अभाषत च धन्योऽस्मि येन त्वदुपदेशतः । लब्धो मयाऽऽर्हतो धर्मस्तत्त्वं मे देवता गुरुः ॥ ८६ ॥ अल्पं प्रयोजनं कन्या ज्ञाततत्त्वस्य मेऽधुना । यास्माम्यहं निजं देशमादेशोऽस्तु ततो मम ॥८७॥ स्थिरीकार्यः सदा धर्मे समादेश्यं यथोचितम् । द्रष्टव्यो निजबुद्ध्या चेत्युदित्वा न्यपतत्पदोः ॥८८॥ विशेषकम् तातस्तं बहुमानेन प्राह धन्योऽस्ति सुन्दर ! | अप्रमादवता भाव्यं धर्मरत्नेऽत्र दुर्लभे ॥८९॥ Page #136 -------------------------------------------------------------------------- ________________ सप्तमो भवः २६५ इत्यङ्गीकृत्य चैतस्मिन्गते ततो निजैः सह । अमन्त्रयदयं पुत्र्या वर: समुचितो वरः ॥९०|| तैरप्येवमिति प्रोक्ते दत्तस्याऽनिच्छतोऽपि हि । वृत्तो विवाह: कर्तव्यं समस्तमुचितं कृतम् ॥९१।। दिनैः कतिपयैस्तातमनुज्ञाप्य समागतः । निजं देशमसौ काल: कियानपि गतस्ततः ॥९२।। आगतोऽथाऽऽनिनीषर्मा प्राविशत्तातमन्दिरे । स्ववैभवाऽनुमानेन तातश्च तमुपाचरत् ॥९३॥ अतीतेऽथ दिने सज्जं विदधे वासमन्दिरम् । शय्या च प्रस्तुता रम्या कृता मङ्गलदीपकाः ॥९४|| पुष्पमालाः समुत्क्षिप्ता प्रदत्ता धूपवर्तयः । सर्वोपकरणाऽऽकीर्णपटलं च पुरस्कृतम् ॥१५॥ तदा प्रथमबद्धं मे कर्माऽभ्युदयमागतम् । कर्मणोऽचिन्त्यमाहात्म्यात् क्षेत्रपालोऽत्र चाऽऽययौ ॥९६।। वधूवरमयं वीक्ष्य दध्यौ यद्वञ्चयाम्यमुम् । बन्धुदेवं यथा न स्यादनयोः संगमः पुनः ॥९७|| ध्यात्वेत्यत्र गवाक्षस्थनररूपेण सोऽवदत् । सर्वाङ्गसुन्दरी क्वाऽद्य तं पृष्ट्वेति तिरोदधे ॥९८।। विकल्पोऽस्य ततो जज्ञे गता दूरे विचारणा । कषायैर्बाधितो बाढं बभूव हृदयेऽरतिः ॥९९।। दध्यौ च मे महेलाऽसौ दुःशीला कथमन्यथा । आलोक्येति च जल्पित्वा गतः कश्चन मानवः ॥१००।। स्नेहो विगलितश्चित्तादथाऽहं वासमन्दिरे । आगता विहितं तेन निद्राविद्राणकैतवम् ॥१०१।। समरादित्यसंक्षेपः स्वपिहि स्वामीनीत्युक्त्वा सख्यो मम विनिर्गताः । दत्त्वा द्वारमुपाविक्षं शय्याप्रान्ते कथञ्चन ॥१०२।। उत्थितो बन्धुदेवोऽथ मया दध्ये ससाध्वसम् । किमेतदिति नो पृष्टो मया शय्यान्तरे गतः ॥१०३।। कथञ्चिदपि तस्याऽथ निद्रागच्छद्विकल्पिनः । प्राप्ताऽहं तु महाशोकमुपविष्टा महीतले ॥१०४।। गता मे रजनी दुःखान्नारकस्येव जीवितम् । सख्यः समाययुर्मेऽथ बन्धुदेवो विनिर्ययौ ॥१०५।। अस्थानस्थां च मां प्रोचुः सख्यः स्वामिनि किन्वदः । मया शोकदकथ्यत्वात्कार्यस्य च न जल्पितम् ॥१०६।। सनिर्बन्धं पुन: पृष्टे ताभिरूचे मया हलाः । मम पृच्छत भाग्यानि वृत्तमाख्यं ततो निशः ॥१०७।। दध्युस्ता नैहिको दोषः स्वामिन्याः कोऽप्यसौ न च । सार्थवाहसुतोऽविज्ञस्तत्कर्मैव पुरातनम् ॥१०८।। तदाऽनापृच्छ्य तातादीनबन्धुदेवो विनिर्गतः । आख्याय सूरिलाख्यस्य नरस्य स्वां पुरीं ययौ ॥१०९॥ पितरौ बन्धुदेवाय कुपितौ स्नेहलौ मयि । व्यवहारोऽखिलो भग्नः कालः कोऽपि व्यतीयिवान् ॥११०|| दध्ये मयाऽन्यदा हन्त सैष दु:खमयो भवः । तन्मेऽलं गृहवासेन गृह्णामि व्रतमञ्जसा ॥१११।। तदा यशोमतिर्नाम समायाता प्रवर्तिनी । पित्रोनिवेद्य स्वाऽऽकूतं विधिना व्रतमाददे ॥११२।। इतश्च बन्धुदेवेन कोशलापुरमीयुषा । उदूढा श्रीमती कान्तिमती चाऽस्य कनीयसा ॥११३।। Page #137 -------------------------------------------------------------------------- ________________ २६७ से लेकर ३३० तक बटर काढना सप्तमो भवः २६८ तज्जातप्रीति चम्पायां दम्पतिद्वयमागतम् । गृहवासः प्ररूढश्च विश्रम्भजनको मिथः ॥११४।। अथाहमपि चम्पायां प्रवर्तिन्या सहाऽऽगमम् । प्रविष्टा गोचरे याता बन्धुदेवस्य मन्दिरे ॥११५।। दृष्टा च श्रीमतीकान्तिमतीभ्यां ते ममोपरि । प्राग्भवाऽभ्यासतः प्रीते प्रत्यलाभयतां च माम् ॥११६।। तयोरागतयोर्धर्मः ख्यातः परिणतश्च सः । श्राविकात्वे च संजाते ताभ्यामुक्ताऽस्मि सादरम् ॥११७|| कार्यः प्रसादो गेहस्याऽऽगमनेन यथाऽऽवयोः । बोधः परिजनोऽप्येति गुर्वनुज्ञावशात्ततः ॥११८॥ नित्यं गन्तुं समारब्धा तदा मायानिबन्धनम् । प्राच्यं ममोदितं कर्म हस्तं रक्ष यदीरितम् ॥११९|| तयोर्भक्तिमसामान्यां भवनव्यन्तरो मयि । वीक्ष्य दध्यौ परीक्षेऽहमिमे हाराऽपहारतः ॥१२०॥ कान्तिमत्यन्यदा हारं प्रोयमाणा मयैक्ष्यत । गतया वेश्म कौसुम्भसिक्छन्नपटलीस्थितम् ॥१२१।। अथाऽभ्युत्थाय मां नत्वाऽऽसनान्युपनिनाय सा । ससाध्वीका निविष्टाऽहं विदधे धर्मदेशनाम् ॥१२२।। चलितायां मयि प्राह साऽऽर्येऽद्य तव पारणम् । इदं लाभनकं प्रासु तद् ग्राहय समागतम् ॥१२३।। गृह्णीतेति मया प्रोक्ता साध्व्यः कान्तिमतीयुताः । निर्ययुर्व्यन्तरस्याऽथ प्रयोगाच्चित्रगः शिखी ॥१२४॥ समरादित्यसंक्षेपः हारं गृहीत्वा प्रक्षिप्य कुक्षौ स्थाने निजे स्थितः । दध्यावहं महच्चित्रं प्रक्ष्याम्यथ महत्तराम् ।।१२५।। संक्षुब्धा हृदये वासगृहाच्चाऽहं विनिर्गता । कान्तिमत्यागता साध्वीसहिताऽथ वयं गताः ॥१२६।। प्रविष्टा कान्तिमत्यन्तरदृष्ट्वा हारमाह च । निजं परिजनं तेन प्रोचे साध्वी निरूपय ॥१२७|| नान्यः कोऽपि प्रविष्टो यत्तमथ प्राह सा कुधा । किं वक्तेदमसंबद्धं समस्वर्णोपला हि सा ॥१२८।। तल्लोके ख्यातमाख्यातं प्रवर्तिन्यै मयाऽपि च । सा प्राह वत्सेऽसंभाव्यं किञ्चिन्नास्त्यस्य कर्मणः ॥१२९।। तपः कुरु ततस्तीव्र न गम्यं तत्र मन्दिरे । अन्यच्चैतत्प्रयत्नेन रक्ष्यं शासनलाघवम् ॥१३०॥ जाते शासनमालिन्ये धर्मबुद्धिः प्रहीयते । जनो विपरिणामं च भजते नव्यधर्मधीः ॥१३१॥ ततः परमगुर्वाज्ञाभङ्गाबोधि निहन्त्ययम् । ततो भ्रमति संसारं दीर्घ शासनलाघवात् ॥१३२।। तपो मयाऽथ प्रारब्धं त्यक्ता तत्र गृहे गतिः । दधे परिजनः शङ्का श्राविके तु न शङ्किते ॥१३३।। ताभ्यामचिन्ति चाऽऽर्याऽत्र नैति सङ्कटशङ्कया । इहलोकवितृष्णानां कि कार्य परवेश्मना ॥१३४|| अस्मद्धर्मानुरागाऽनुबन्धेनैवाऽऽगमत्पुरा । तदावां तत्र यास्यावस्तत्रायातस्ततश्च ते ॥१३५।। आरूढक्षपक श्रेणर्मम जज्ञे च केवलम् । शिखिना व्यन्तरो हारं कर्माऽभावादमोचयत् ॥१३६।। १. प्येतिगुर्व० क ख ग घ च । Page #138 -------------------------------------------------------------------------- ________________ २७० समरादित्यसंक्षेपः सप्तमो भवः तदेवं मे महाराज ! परिणामोऽस्य कर्मणः । गुरौ विपाकेऽल्पस्याऽपि कर्मणो विस्मिता सभा ॥१३७।। नरेन्द्रबन्धुदेवाभ्यामुक्तं भगवति त्वया । सोढं दुःखं महत् साऽऽह कि दःखं सौम्य ! नन्विदम् ॥१३८|| चतुर्गतिमये ह्यत्र भ्रमतां भविनां भवे । दुःखानां कः कठोराणां कर्तुं संख्यामपि क्षमः ॥१३९|| तिर्यग्नरकदुःखं तु दूरे नरभवेऽपि हि । यद् दुःखं गर्भवासे स्यात्तत्तस्यैव हि सन्निभम् ॥१४०।। ततो जन्मजरामृत्यरागशोकवियोगजैः । चिन्तासंतापसंजातैर्दुःखैः कैः कैर्न विद्रुताः ॥१४१।। यद् ग्राम्यधर्मजं सौख्यं पामाकण्डूयनोपमम् । विरामविरसेनाऽहो जनस्तेन विमोह्यते ॥१४२।। तस्माद्भोगान् परित्यज्य निरवद्यसुखावहम् । धर्म भजत भो भव्या ! भावतो जिनभाषितम् ॥१४३।। संविग्ना च सभा राजबन्धुदेवौ व्रतोद्यतौ । ऊचतुर्भगवत्यस्ति जिघृक्षा नौ जिनव्रते ॥१४४|| प्रतिबन्धं कृषा मा तयेत्युक्ताविमौ मुदा । दापयित्वा महादानान्यर्चयित्वा जिनावली: ॥१४५।। संमान्य प्रणयिव्रातमभिनन्द्य पुरीजनम् । दत्त्वा च हरिषेणस्य राज्यं निजयवीयसः ॥१४६|| नृपतिर्बन्धुदेवेन प्रधानैश्च निजैः सह । पुरुषेन्द्रगणे: पार्वे प्रव्रज्यां प्रतिपन्नवान् ॥१४७।। विशेषकम् न्ययोजयद्विषेणोऽथ सेनघाताय घातकान् । अयं न च्छलितोऽमीभिः सावधानः स्वभावतः ॥१४८|| अन्यदाऽस्तमितप्राये खावुद्यानपादपान् । अकालपुष्पितानीक्षाम्बभूव वनपालकः ॥१४९।। आख्यच्च मन्त्रिणस्तेन प्रेषितास्तन्निरूपकाः । तेषां च वीक्षमाणानां क्षणात्प्रकृतिमागताः ॥१५०|| एवं निवेदितेऽभ्येत्य तैरमात्यो व्यचिन्तयत् । कस्याऽपि गणकस्येदं कथ्यते तथ्यवेदिनः ॥१५१॥ तदा तत्राम्हुण्डाख्यः सिद्धपुत्रः समागतः । आकणितः समाहूय विजनेऽप्रच्छि मन्त्रिणा ॥१५२॥ किंविपाकोऽयमुत्पात: सिद्धपुत्रस्ततोऽवदत् । शास्त्रे राज्यपरावर्तविपाकोऽयं निवेदितः ॥१५३।। फलदश्चिरकालेन क्षीणवेलतया च सः । स्तोककालं च दृष्टत्वाच्चिरकालस्थितिर्न सः ॥१५४|| अमात्यः प्राह कोऽप्यत्र किमुपायोऽस्ति सोऽवदत् । पूजनं गुरुदेवानां दीनाऽनाथाऽनुकम्पनम् ॥१५५।। तदा द्वाःस्थः समेत्योचे राजा त्वामादिशत्यदः । शीघ्रमेव समागम्यं तथेत्युक्तं च मन्त्रिणा ॥१५६।। मन्त्री नैमित्तिकं प्राह किमाकारणकारणम् । ततो नैमित्तिक: प्राह संक्षेपात्तावदीदृशम् ॥१५७।। एतो राजपुमान् राजपुरस्वामिसकाशतः । स चानन्दकरो राज्ञस्तन्निमित्तो हवस्तव ॥१५८।। मन्त्री प्राह कथं हर्षहेतुः स प्राह तत्पठ । किञ्चित्ततोऽपठन्मन्त्री वरो जीयाज्जयश्रियः ॥१५९।। ततो नैमित्तिक: प्राह स हि सोमः समागतः । दातुं कुमारयोः कन्यां हर्षः संबन्धभूस्ततः ॥१६०|| Page #139 -------------------------------------------------------------------------- ________________ २७१ २७२ सप्तमो भवः अन्यच्च लग्नमीदृक्षं यः कन्यां परिणेष्यति । विपन्नमप्यदो राज्यं स हि निर्वाहयिष्यति ॥१६॥ तुष्टो मन्त्र्यथ दैवज्ञचित्वा शान्तिकर्मणि । समादिश्य नियुक्तांश्च ययौ राजकुले स्वयम् ॥१६२॥ अभ्युत्थायाऽथ राज्ञाऽस्मै योग्यं दापितमासनम् । निविष्टं तत्र चाऽमात्यं हरिषेणनृपोऽवदत् ॥१६३।। आर्य राज्यपुरेशेन प्रेषितः शङ्खभूभुजा । अयमाह नृपस्योक्तं नाम्ना शान्तिमती सुता ॥१६४|| जीविताऽभ्यधिका सा मे मध्ये सेनविषेणयोः । यस्ते बहुमतस्तस्मै मयेयं प्रतिपादिता ॥१६५।। युग्मम् अमात्यः प्राह योग्योऽयं संबन्धः क्रियतामिदम् । राज्ञोक्तं त्वं प्रमाणं मे कार्येष्वार्येतरेष्वपि ॥१६६|| मन्त्र्युवाचाऽऽदिशत्वार्यः कमप्येकं कुमारयोः । राजा प्रोवाच सेनस्य प्रथमाऽस्तु गृहिण्यसौ ॥१६७।। मन्त्र्याह चाविदं देव तत्सर्वत्र प्रकाशये । नृपः प्रोचे यदुचितं स्वयमार्यः करोतु तत् ॥१६८॥ ततः प्रकाश्य सर्वत्र वर्धापनमकार्यत । नन्दमङ्गलवादित्रं नृत्तमन्तःपुरीजनैः ॥१६९|| अनेन च प्रमोदेन विषेणो व्यथितोऽधिकम् । दध्यौ चास्मिन् क्षमः श्रोतुं नेहक् किं पुनरीक्षितुम् ॥१७०।। दिनैः कतिपयैः सेनकुमारोऽमात्यसंयुतः । ययौ राजपुरे राजा शङ्खराजस्तुतोष च ॥१७१॥ वर्धापकानां दत्त्वैष पारितोषिकमादिशत् । बन्दमोक्षमहादानहट्टशोभादिषु स्वकान् ॥१७२।। समरादित्यसंक्षेपः ततः करेणुमारुढो नृपस्तमभियातवान् । दृष्टः सेनश्च रत्युत्कविष्वक्सेनसुतोपमः ॥१७३।। नतो नृपः कुमारेण स नृपेणाऽभिनन्दितः । प्रवेशितो विभूत्या च जन्यावासो ददे वरः ॥१७४|| ततो लग्नदिने स्नाताऽनुलिप्ताऽङ्गः श्रितो द्विपम् । समग्रतूर्यनिर्घोषैदिशो बधिरतां नयन् ॥१७५।। स्थानस्थानकसंजायमानप्रेक्षणकक्षणः । महता गजयूथेनाऽऽगमद्विवाहमण्डपम् ॥१७६।। युग्मम् विहितोचितकर्तव्यः प्रहित: कौतुकौकसि । दृष्टाऽनेन वधूः पुष्पवस्त्राऽऽभरणभूषिता ॥१७७॥ तामिन्दुवदनां प्रेक्ष्य वृद्धोऽस्य प्रेमसागरः । हक्चकोरयुगं जातं तत्कान्ति पातुमुन्मुखम् ॥१७८।। कारितः कौतुकान्युच्चैः पूजिता गुरुदेवताः । जातो हस्तग्रहः सन्मानिताः सामन्तमन्त्रिणः ॥१७९|| पौराश्चानन्दिताः संतोषितं तर्कुकमण्डलम् । भ्रान्तानि मङ्गलान्येवं वृत्तः परिणयोत्सवः ॥१८०।। ततः स्वर्गसुखप्रायं तस्याऽनुभवतः सुखम् । दिनैः कतिपयैर्जज्ञे प्रेम स्थेमसमन्वितम् ॥१८१| अत सन्मानितो राज्ञाऽमात्यसामन्तपूजितः । बाढमानन्दितः पौरैः शान्तिमत्या समन्वितः ॥१८२।। प्राप्त: स्वनगरी राजा हरिषेणश्च हर्षितः । मुदितोऽन्तःपुरीवर्गस्तुष्टश्च नगरीजनः ॥१८३।। १. समन्वितः ख ग घ ङ च । Page #140 -------------------------------------------------------------------------- ________________ सप्तमो भवः वधूविद्युत्वता विश्वं प्रीणितं मुदिराऽऽत्मना । तेन स्वर्णश्रिया म्लानो विषेणस्तु यवासकः ॥ १८४॥ प्राविशच्च महाभूत्या प्राणमच्च नराधिपम् । तेनाऽभिनन्दितः प्रापन्निजं धवलमन्दिरम् ॥ १८५ ॥ शान्तिमत्या समं कान्तिमत्या चन्द्रिकयेव सः । निन्ये सुखमयं कालं नेत्रकैरवचन्द्रमाः || १८६|| अन्यदा मानिनीमानम्लानिकृन् मलयानिलः । प्रावर्तत वसन्तर्तुः कर्तुमुन्मादिनं जनम् ॥१८७॥ यः प्रसाधितवारस्त्रीजनवत्तिलकोज्ज्वलः । विधत्ते दृष्टमात्रोऽपि सकामं कामिनां मनः ॥१८८॥ यत्र यान्ति दिना मन्दं स्मेरपङ्कजलोचनाः । ऋतु श्रीरम्यतालोकविच्छेद इव भीरवः ॥ १८९ ॥ माकन्दाऽऽमोदतः क्षिप्तो व्यावृत्तश्चाऽऽगसः स्मृतेः । मानिनीजनमानोऽपि यत्र दोलाश्रयोऽजनि ॥ १९०॥ उचितं बकुलाऽऽमोदः पथि पान्थानमूर्छयत् । यस्मादासवगण्डूषश्रद्धयाऽजनि तज्जनिः ॥१९१॥ निरीक्ष्य पुष्पितांश्चतान्मालितानलिमालया । अङ्कोटाः स्फुटितास्तेषु मत्सरच्छुरिता इव ॥ १९२॥ कलकोकिलसंगीते नदद्धमरमस्करे । वनानि यत्र नृत्यन्ति पवमानचलैर्दलैः ॥१९३॥ एवंविधे वसन्तर्तौ स वसन्तसुहन्निभः । सर्वदा कलितः शान्तिमत्या रत्याभया तया ॥ १९४ ॥ प्रवृत्तो गन्तुमुद्यानं नामतोऽमरनन्दनम् । क्रीडितुं रम्यनेपथ्यनिजवर्गसमन्वितः ॥ १९५ ॥ २७३ २७४ समरादित्यसंक्षेपः वारण: शत्रुशालानां श्रितानां दौः स्यवारणः । श्वेतवारणमारूढो विधृताऽऽतपवारणः ॥१९६॥ देवाङ्गवस्त्रसर्वाङ्गविभूषणविभूषितः । चन्दनेन विलिप्ताङ्गः सकिरीटोत्तमाङ्गवान् ॥ १९७॥ नृविमानगया युक्तः प्रियया प्रतिरूपया । दृष्टश्चैष विषेणेन निर्मिषेणेन शत्रुना ॥ १९८ ॥ पञ्चभिः कुलकम् प्रध्वनच्चच्चरीतूर्यतौर्यत्रिकयुतं च तम् । गच्छन्तं वीक्ष्य तस्याऽभूदतुच्छो हृदि मत्सरः ॥ १९९ ॥ दध्यौ च प्राच्यकर्माऽनुभावतो मारयाम्यमुम् । कथञ्चन विचिन्त्येति घातकान्स न्ययोजयत् ॥ २००॥ प्राप सेनकुमारस्तु तदुद्यानं मनोरमम् । रतिक्रीडागृहप्रायं मानसानन्दकारणम् ॥२०१|| स उत्तीर्य द्विपात्तत्र प्रविष्टः कीडितश्चिरम् । क्रीडाभिर्वासरप्रान्ते निजाऽऽवासमथाऽऽसदत् ॥ २०२॥ अन्येद्युर्यामयुग्मेऽह्नो गुप्तासिनलिकाभृतः । एयुस्तापसवेषेण विषेणाऽऽदिष्टघातकाः ॥२०३॥ श्रद्धालुश्चतुरोऽप्येष चतुरस्तानजूहवत् । अपृच्छच्च कुतो यूयं किंनिमित्तमिहागताः ॥२०४॥ ते प्रोचुर्गुरुनिर्देशाद्रहो वक्तव्यमस्ति नः । ततो विशुद्धचित्तत्वाद् गृहैलावनमागमत् ॥२०५॥ हृत्वाऽस्य क्षुरिकामेकः कृष्टरिष्टिरहन्नमुम् । वलितो वामपक्षेण कुमारस्तानथ प्रति ॥ २०६ ॥ १. तुर्यत्रिक ख ग घ ङ च । २. प्रापि सेनकुमारेण क । Page #141 -------------------------------------------------------------------------- ________________ सप्तमो भवः २७५ २७६ स सात्त्विकावतंसस्तानपातयदिलातले । जग्राह मण्डलानांश्च किमसाध्यं हि दोष्मताम् ॥२०७।। उद्यानपालिका तच्च वीक्ष्य चुक्रोश पुष्कलम् । ततः कलकले जाते समेता अङ्गयामिकाः ॥२०८|| तान् हन्तुं तान् विकृष्टाऽसीन् कुमार इदमभ्यधात् । द्विधा तपस्विनो ह्येते विपन्नपुरुषव्रताः ॥२०९॥ सत्यशीलमृतास्तस्मात्कीदृशं मृतमारणम् । श्रुत्वेत्याऽऽगत्य भूपालो बन्धयामास घातकान् ॥२१०|| तानपृच्छच्च के यूयं कस्य किं घातकारणम् । द्वित्रिः पृष्टा अपि प्रोचुर्न विद्म इति ते यदा ॥२११।। तदा दूनाः कशाघातैः कातरत्वेन तेऽवदन् । विषेणस्य वयं तेन कारिताश्चेति साहसम् ॥२१२।। कुपितेऽत्र नृपे सेनः प्राह जीवितलोभतः । इमेऽधमा वदन्तीदं स किमेतद् व्यवस्यति ॥२१३।। गवेषणाद्विषेणस्य दुर्वृत्ते निश्चिते नृपः । राज्यान्निर्वासनं तस्यादिशद् घातं च घातिनाम् ॥२१४|| पतित्वाऽथ पदोः सेनोऽवदन्मा तात ! साहसम् ।। क्रियमाणेऽत्र मेऽवस्था भाविनी तात शोककृत् ॥२१५।। नराणामन्तरं कीदृगिति ध्यात्वा नृपोऽवदत् ।। यद्येवं वत्स ! जानासि तत्त्वं युक्तं तु न ह्यदः ॥२१६|| स प्रोच्याऽनुगृहीतोऽस्मि घातकांस्तानमोचयत् ।। व्रणं सुस्थं विधाप्याऽथ नृपोऽपि सदनं ययौ ॥२१७।। जनवादेन दुर्वृत्ते विषेणस्य प्रसृत्वरे । असद्वक्ति जनोऽस्येति दून: सेनो मनोऽन्तरे ॥२१८॥ समरादित्यसंक्षेपः अथ रूढवणे सेने स्नाते वर्धापनं नृपः । व्यधापयन्महाश्चर्यभूतं संतुष्टमानसः ॥२१९|| इतस्ततः प्रभृत्येवाऽपरिपूर्णमनोरथः । शोकग्रस्त इवाऽनैषीद्विषेणो विमना दिनान् ॥२२०|| वर्धापनेऽप्यनायाते तस्मिन्सेनोऽवदन्नृपम् । लगित्वा पादयोस्तस्य समाकारणहेतवे ॥२२१।। विषेणेन विषेणेव किं तेनेति नृपोदिते । सेनः प्रोवाच तातेदं मिथ्यावाक्यं परित्यज ॥२२२।। राज्ञोचे यदि निर्बन्धस्तत्त्वमेव समाह्वय । कुमारोऽथ स्वयं तस्याऽऽह्वानायागात्तदालये ॥२२३॥ नव्यवैधव्यनारीवत्तमधोवदनं शुचा । वीक्ष्य सेनश्चिरं दध्यावहो सत्यमिदं वचः ॥२२४|| दु:खं सद्गुणनाशे यदसद्दोषोद्भवे तथा । तच्छोषयति पाथोधि किं पुनर्मानिनां मनः ॥२२५।। उपसृत्याऽथ तं प्राह किमिदं बालचेष्टितम् । स प्रोचे पृच्छ मत्पापमथ सेनो जगाद तम् ॥२२६|| अलं पापेन धन्यो हि तातपुत्रतया भवान् । तदुत्तिष्ठ यथा ताताऽन्तिकं यावो युतौ मिथः ॥२२७|| अनिच्छन्तं बलात्सेनस्तं बालवदसज्जयत् । नीत्वा च नृपतेः पावें पादयोरप्यपातयत् ॥२२८।। वर्धापने व्यतीते च गतः कालः कियानपि । सेनस्य सुखिनोऽन्यस्य क्लिष्टचित्तत्वदुःखिनः ॥२२९।। १. कुमारोयं ख ग घ च । Page #142 -------------------------------------------------------------------------- ________________ सप्तमो भवः भूपालेऽन्येद्युरुद्यानमागते कौमुदीक्षणे । चच्चरीकलिते पौरलोके तत्र च गच्छति ॥२३०|| आलानस्तम्भमुन्मूल्य ऋटिति त्रोटितान्दुकः । मत्तेभः पादपान्भञ्जञ्जनतामभ्यधावत ॥ २३१॥ युग्मम् निरीक्ष्यैतच्च चर्चर्यः कदर्यस्येव कीर्तयः । प्राणेशुस्तुमुलो जज्ञे त्वयशः पटहोपमः ||२३२|| नृपोऽ भाषत भो लोकमारणं लात वारणम् । आदेशाऽनन्तरं सेनस्तमिभं प्रत्यधावत ॥ २३३॥ तद्वीक्ष्याऽगण्यतत्पुण्यमन्त्रसंस्तम्भितो द्विपः । जज्ञे गतमदस्तेन पौरलोको विसिष्मिये ॥ २३४ ॥ नृपस्तुष्टः कुमारोऽथ समारोहन्मतङ्गजम् । बद्धासनः सृणि लात्वाऽऽस्फालयामास कुम्भयोः ||२३५॥ जज्ञे जयजयारावः स्फूर्जत्तूर्यवैर्युतः । तदाकर्ण्य विषण्णोऽथ विषेणो हृद्यचिन्तयत् ॥२३६॥ श्रोतुमप्यस्य नेदृक्षं क्षमः किं पुनरीक्षितुम् । ततः स्वयं विहन्म्येनं पश्चाद्भाव्यं भवत्वलम् ॥२३७|| अन्येद्युः सप्रिये सेने बहिरुद्यानमागते । दिने परिणतप्राये हरिषेणनृपाङ्गजः ॥ २३८॥ स्वस्य सेनकुमारस्याऽपि च शक्तिमचिन्तयन् । बद्धबुद्धिर्वधे तस्य तदुद्यानमुपागमत् ॥ २३९ ॥ युग्मम् सेनचित्ताऽनुवृत्त्या च द्वाःस्थेनाप्यनिवारितः । लतागृहे प्रविष्टोऽयं सेनं सप्रियमैक्षत ॥ २४० ॥ १. किं नु निरीक्षितुं ख ग घ ङ च । २७७ २७८ समरादित्यसंक्षेपः आकृष्टाऽसिममुं वीक्ष्य दक्षिणाशापतिप्रभम् । रक्ष रक्षार्यपुत्रेति जगौ शान्तिमती गिरम् ॥ २४१|| किमेतदिति जल्पंश्चोत्थितः सेनो व्यलोकत । विषेणं तेन दत्तश्च घातः सेनेन वञ्चितः ॥ २४२॥ सेनेनाऽथ भुजं रुद्ध्वा निस्त्रिशेऽपहृते सति । निस्त्रिंशः सोऽथ नित्रिंशपुत्रिकां स्वकरेऽकरोत् ॥२४३॥ सेनोऽस्य वालयित्वा दोस्तामप्यपजहार च । विषेणः पतितः पृथ्व्यां बाहावलनपीडया || २४४ ॥ स तूत्थाप्य कुमारेण शयनीये निवेश्य च । पृष्टोऽनुक्त्वा निर्जगाम दीनवक्त्रो लतागृहात् ॥२४५॥ शान्तिमत्याह किमिदं कुमारः प्राह सुन्दरि ! | इदं जानामि राज्याऽर्थे केनचिद्विप्रतारितः ॥ २४६ ॥ अलं तदत्र वासेनाऽनुजस्योद्वेगकारिणा । एनं निर्वासयत्येव तातो वेत्ति यदीदृशम् ॥ २४७॥ ततोऽम्बा शोकमाप्नोति लाघवं च कुले भवेत् । एष कापुरुषत्वाच्च गतोऽन्यत्र न जीवति ॥ २४८॥ परार्थकरणं चास्य रक्षणं च सतां व्रतम् । स्थातव्ये द्वयमप्येतदन्यथैव तु जायते ॥ २४९ ॥ तस्मादकथयित्वैव गुरोः परिजनस्य च । इत एव हि निर्यावो वनादनवनाद् गतौ ॥ २५० ॥ पञ्चभिः कुलकम् प्रमाणमार्यपुत्रो ऽत्र शान्तिमत्येति भाषिते । ऊचे परिजनं रात्रावत्राऽद्यैव स्थिता वयम् ॥२५१|| अथ सज्जीकृते वासवेश्मन्युद्यानमध्यगे । शिरो मे दुष्यतीत्युक्त्वा विसृष्टे च परिच्छदे ॥ २५२॥ Page #143 -------------------------------------------------------------------------- ________________ सप्तमो भवः कियत्यामपि वेलायां सुप्तं परिजनेऽखिले । तमिस्रायां समुत्थाप्य सेनः शान्तिमतीं जगौ ॥ २५३॥ युग्मम् देशान्तराणि दीर्घाणि विचित्रा कर्मणां गतिः । क्लेशस्याऽनुचिताऽसि त्वं तन्न वेदम्युचितं किमु ॥२५४॥ सोचे कोऽपि मम क्लेशो नाऽऽर्यपुत्र ! त्वया सह । ततस्तयाऽन्वितः खड्गसख उद्यानतो ययौ ॥२५५॥ चम्पावासाभिधे संनिवेशेऽतीता निशाऽस्य च । उद्गतेऽर्के परिश्रान्तप्रियोऽस्थाच्च वनान्तरे ॥ २५६॥ तत्र राजपुरात्तामलिप्तीं प्रति यियासता । वीक्षितः सानुदेवाऽऽख्यसार्थेशेनोपलक्षितः ॥ २५७॥ स सेनमप्यसेनं तं वीक्ष्य शान्तिमतीयुतम् । कृत्वा विकल्पानस्वल्पान्नत्वा प्रोचे कृताञ्जलिः ॥ २५८॥ तामलिप्तीमहं देव गन्ता राजपुराश्रयः । सार्थवाहसुतः सानुदेवाख्यः सार्थसंयुतः ॥ २५९ ॥ अत्रोषितश्च मे सार्थोऽहं त्वाचमनहेतवे । सरः समागमं दृष्टः कुञ्जश्चैष विदूरतः ॥ २६०॥ अमुं वीक्ष्य प्रमोदो मेऽभूत्कल्याणनिवेदकः । देवस्य स्वामिपुत्र्याश्च दर्शनं तदभूदिदम् ॥ २६१ || विषण्णास्तु निरीक्ष्य त्वामियन्मात्रपरिच्छदम् । तन्ममाऽऽख्यातु देवश्चेदकथ्यं न भवत्यदः || २६२ ॥ तुष्टस्तद्वचसा सेनः प्रोवाचाऽस्त्यत्र कारणम् । तामलिप्त तु याताऽस्मि तवाऽऽख्याताऽस्मि तत्पुनः || २६३|| स प्रसाद इतीरित्वा प्राह सार्थमलङ्कुरु । अहं देवस्य देव्याश्च पादानामस्मि किङ्करः ॥ २६४ ॥ २७९ २८० समरादित्यसंक्षेपः कुमारः प्राह तातस्याऽन्वेषकेषु नरेष्वहम् । इहाऽगत्य निवृत्तेष्वग्रतो गन्तुं समुत्सहे ॥ २६५ ॥ सनिर्बन्धमथ प्राह सानुदेवः कुमार तत् । स्थास्याम्यहमपि प्रोचे सेनस्तर्हि भवत्वदः ॥ २६६ ॥ तद् गच्छ त्वं निजं सार्थमिदं वाच्यं न कस्यचित् । नाऽऽगम्यमत्र चेत्युक्त्वा प्रेषितः सार्थमैच्च सः ॥ २६७॥ कियत्यामपि वेलायामश्ववाराः समाययुः । तैः पृष्टाः सार्थिका दृष्टौ दम्पती क्वचनेदृशौ ॥ २६८|| न दृष्टाविति तैः प्रोक्ते मिथस्तुरगिणो जगुः । अदिगेषा ततो राजपुरवर्त्मनि गम्यते ॥ २६९ ॥ निवृत्तेष्वश्ववारेषु सप्रत्ययनरादसौ । भोज्यमानाय्य ताविभ्यः प्राणवृत्ति व्यधापयत् ॥२७०॥ वृत्तेऽह्नि सादिवृत्तान्तं कथित्वा सार्थमानयत् । समर्प्य वाहनं रम्यं तयोश्चके प्रयाणकम् ॥ २७१ ॥ उत्प्रयाणे च सर्वत्र सेनः शान्तिमती च तौ । तस्थतुः सुस्थितौ चेलगृहे गर्भगृहेश्वरी || २७२ || सार्थोऽन्यदा समागच्छदटवीं दन्तरक्तिकां । तत्राऽप्रतर्कितो भिल्लाभ्यवस्कन्दः पपात च ॥ २७३॥ ततः सार्थभटैः सार्धं तस्य प्रववृते रणः । प्रियां संस्थाप्य सेनोऽप्याकृष्टखड्गोऽभ्यधावत ॥ २७४॥ मृगा इव मृगारातेर्भिल्लास्त्रेसुः कुमारतः । दिश्यन्यस्यां तु सार्थस्य सारं लुप्तं किरातकैः ॥ २७५॥ भटाः पेतुः स्त्रियो नैशुस्तस्यां दिश्यथ धाविते । सेने श्येन इव कुद्धे नेशुः शबरपक्षिणः ॥ २७६ ॥ १. नेशुः क । Page #144 -------------------------------------------------------------------------- ________________ सप्तमो भवः पल्लीशो युध्यमानोऽथ सेनघातेन मूर्च्छितः । वीजितस्तेन सिक्तश्च दध्यौ संजातचेतनः ॥ २७७॥ अयं सत्पुरुषः कोऽपि विक्रमी केशरी यथा । मुनिस्तु कृपया शत्रुवर्गेऽप्यकृतशात्रवः ॥ २७८ ॥ तद्देवोऽयमिति ध्यायन्नूचे स नृपसूनुना । विश्वस्तो भव स प्राह कीदृग् विश्वस्तताऽऽर्य नः ॥ २७९ ॥ श्रुत्वा च पातितं पल्लीपति भिल्ला दधाविरे । निषिद्धास्तेन ते संज्ञां कृत्वा गोमायुवाशितम् ॥२८०|| ततः पल्लीपतिर्नत्वा प्राह मन्तुं क्षमस्व मे । यत्सार्थो लूषितः सेनस्ततो दध्यौ च किं न्विदम् ॥ २८२॥ अथाऽऽघोषणा युद्धं निषिध्य शबरेश्वरः । ऊचे येन गृहीतं यत्तदानयतु वस्तु सः ॥ २८२ ॥ आनीते वस्तुनि प्राह सेनं सर्वं तवाऽभवत् । स प्राह नाहमेतस्य स्वामी तत्पृच्छ सार्थपम् ॥ २८३॥ अन्विष्य स समानीत: पल्लीशेनेति भाषितः । अयं नः स्वगुणैः स्वामी संबन्धी त्वं च सार्थप ॥ २८४ ॥ तदाख्याह्यत्र किं नास्ति वस्तु तावकवस्तुनि । स निरूप्याऽऽह सर्वं मे पूर्यते वां प्रसादतः ॥ २८५॥ सन्तं कुमारस्तं मत्वा घातभञ्जनपूर्वकम् । कटिसूत्रं ददौ तस्मै प्रसाद इति सोऽग्रहीत् ॥ २८६॥ ततः पतितयोधानां स विधाय व्रणक्रियाम् । यावत्पल्लीशनिबन्धात्पल्लीं याति ससार्थपः ॥ २८७॥ तावदागत्य सार्थेशसूदः प्राह गतं हा । सर्वसारं यतो नैव दृश्यते नृपतेः सुता ॥ २८८॥ २८१ २८२ समरादित्यसंक्षेपः विषण्णे सानुदेवेऽथ पल्लीशः प्राह का नु सा । सार्थेशः प्राह पन्यस्य पुत्री शङ्खनरेशितुः ॥ २८९ ॥ सूद: पल्लीशपृष्टोऽथ प्राह जातेऽसमञ्जसे । आर्यपुत्राऽऽर्यपुत्रेति जल्पन्त्यभिगताऽटवीम् ||२९०॥ सार्थेशाऽऽदेशतोऽहं तामनुयाइँकुटाहतः । मूर्छान्ते यावता वीक्षे तावताऽस्ति न सा क्वचित् ॥ २९१॥ ततो हा देवि ! हा देवि ! जल्पन्सेनो विमूर्च्छितः । आश्वास्य भाषितः पल्लीशेन देव विषीद मा ॥ २९२ ॥ सम्प्रत्येव निजैर्देवीमानाय्य तव मेलये । उक्त्वेति शबरान् प्रैषीद्वीक्षितुं परितो वनम् ॥ २९३॥ पल्लीशोऽथाऽवदत्सेनं देवालम्बस्व धीरताम् । यथा गवेष्यते देवी प्रवृत्तौ तौ गवेषितुम् ॥२९४॥ इतश्च चक्रवाकीव प्रियमन्वेषयन्त्यसौ । राजपुत्री वनेऽपप्तन्न तु कान्तमलोकत ॥ २९५ ॥ निर्विण्णा वासरान्ते सा पाशमासूत्र्य पादपे । न्यस्तग्रीवा मुमोच स्वं त्रुटिते पाशकेऽपतत् ॥ २९६ ॥ तां मूर्छितामदर्शच्च कश्चिन्मुनिकुमारकः । कृपया तदुपान्तं स गतोऽपश्यच्च पाशकम् ॥२९७।। कमण्डलुजलेनाऽथ सिक्ता जज्ञे सचेतना । उक्ता च वत्से मा भैषीरहं मुनिकुमारकः || २९८ ।। नतस्तया शशासैष पुत्र्यविधवा भव । ऊचे च त्वं किमस्येका कस्माच्चैतत्त्वया कृतम् ॥ २९९ ॥ मुनेः पितुरिवाऽग्रे साऽऽचख्यौ वृत्तान्तमादितः । रुदती बोधिता तेन नीता च निजमाश्रमम् ॥३००|| Page #145 -------------------------------------------------------------------------- ________________ २८३ २८४ सप्तमो भवः नता कुलपति तेनाऽऽशीर्वादेनाऽभिनन्दिता । उक्ता पुत्रि ! तवाऽत्रैव भावी प्रियसमागमः ॥३०१॥ प्रतिश्रुतं तया तस्य वाक्यं ज्ञानवतो मुनेः । तेनापि तापसीनां सा धात्रीणामिव बालिका ॥३०२।। इतश्च तेषां सर्वेषां पश्यतां दिवसो गतः । सर्वेऽपि मिलिता रात्रौ विषण्णां सार्थमाययुः ॥३०३।। पल्लीशप्रतिबोधेन सेनश्चकेऽथ भोजनम् । शयितः शयनीयेऽसौ नातिदूरेऽस्य पल्लिपः ॥३०४।। अथ स्थानाऽन्तराऽऽयातशबरैः शबरेश्वरः । ऊचे विश्वपुराऽधीशधाट्यभ्येति तवोपरि ॥३०५।। आत्तधन्वा व्रजन्सोऽथ सानुदेवमवोचत । कुमाराऽङ्गेऽप्रमत्तेन त्वया भाव्यं पुनः पुनः ॥३०६।। उक्त्वेति रिपुसेनायाः पल्लीशः सम्मुखोऽगमत् । मत्वेति तत्प्रतिग्राहे कुमारोऽप्यनुजग्मिवान् ॥३०७।। मिलितश्च कुमारोऽस्य तयोर्धाट्या समं रणे । भग्ना धाटी समुत्तस्थुरथ ठकुरदिक्कराः ॥३०८॥ तैश्च वाजिव्रजेनैते शबराः शवराजिवत् । परितो वेष्टिता नष्टचेष्टिता एव तस्थिरे ॥३०९।। एकोऽप्यनेकवत्तैस्तु सेन: पल्लीशसंयुतः । ददृशे दृग्दुरालोको जलबिम्बितसूर्यवत् ॥३१०|| तौ धृतौ पातयित्वाऽथ कुमारसमराऽद्भुतात् । विस्मितास्ते क एष स्यादिति दध्युश्च ठक्कुराः ॥३११।। नीत्वा विश्वपुरे तैश्च नेत्रे समरकेतवे । कुमारवृत्तसंयुक्तं विज्ञप्तं सर्वमेव तत् ॥३१२।। समरादित्यसंक्षेपः ततो विक्रमवाल्लभ्याद भूपेन स निरीक्षितः । आकृत्या विस्मितेनैष निश्चिक्ये च नृपाङ्गजः ॥३१३।। पल्लीशस्य वधे राज्ञा कुमारस्य च पालने । दिष्टे कुमारः प्रोवाच पूर्व मामेव घातय ॥३१४|| विस्मितस्तगिरा प्राह महीशः को भवानिति । कुमारोऽथाऽऽत्मनः पार्वे निरूपयति यावता ॥३१५|| तावता ज्ञातवृत्तान्तो जनैः कतिपयैर्युतः । सप्राभृतो नृपं द्रष्टुं साऽनुदेवः समाययौ ॥३१६।। द्वा:स्थेन कथितो राज्ञानुमतः प्राविशच्च सः । अपश्यन्नृपति तस्मै ढौकयामास ढौकनम् ॥३१७।। आसने दापिते राज्ञोपविशेति स भाषितः । सेनं वीक्ष्य प्रहारार्तं मूर्छितो न्यपतद्भुवि ॥३१८।। राज्ञाऽथ सेचितो वारा वीजितश्चाञ्चलैश्चलैः । समेतचेतनः प्रोचे किमेतदिति भूभुजा ॥३१९|| सानुदेवस्ततः प्राह सत्यं मुनिवचः खलु । असारोऽयं भवश्चापद्भाजनं चाऽत्र देहिनः ॥३२०॥ चम्पाधिपसुतस्याऽपि कुमारस्य यदीदृशी । अवस्था सेननाम्नोऽस्य गुणरत्नमहाम्बुधेः ॥३२१॥ नान्यथा मद्विकल्पोऽभूद् ध्यात्वेति नृपतिर्जगौ । अयं कथमरण्येऽत्र गात्रमात्रकतन्त्रवान् ॥३२२।। सार्थेश: प्राह नैवाऽहमपि वेद्मि किमप्यदः । मयाऽपि दृष्टः स्वपुरात्तामलिप्ती यियासता ॥३२३।। १. मात्रमात्रैक ख । Page #146 -------------------------------------------------------------------------- ________________ सप्तमो भवः २८५ २८६ समरादित्यसंक्षेपः चम्पाऽऽवासनिवेशेऽसौ जायमात्रपरिच्छदः । तदा राजपुराऽऽयातानुस्मृतेश्चोपलक्षितः ॥३२४॥ इत्यादि प्रार्थनाप्रान्तऽमाख्यायाऽथ न्यवेदयत् । तदद्याकर्णितं देव शबरेभ्यो मयेदृशम् ॥३२५।। नीतौ कुमारपल्लीशौ धाट्या देवनिदिष्टया । निवेदितुं व्यतिकरमिदं देवमुपागमम् ॥३२६॥ कलापकम् राज्ञोचे रुचिरं चक्रे त्वादृशां युज्यते ह्यदः । अथाऽऽदिशन्नृपो भृत्यान् यत्नः कर्तव्य एतयोः ॥३२७।। अथ कक्षाऽऽन्तरे शय्या प्रवरा रचिता तयोः । ततो वैद्यान्समाह्वाय्य प्रस्तुतं व्रणकर्म च ॥३२८॥ प्रेषिताश्च नरा दिक्षु राजपुत्रीं गवेषितुम् । दिनैः कतिपयैः सानुदेवश्चाहूय भाषितः ॥३२९।। विषमाध्वनि सार्थस्ते प्रत्यासन्नो घनागमः । स्थाने च राजपुत्रोऽस्ति तद् गच्छ त्वं नृपोदिते ॥३३०।। स प्राह वहतो नैव चरणे चरणे मम । कुमारः प्राह देवस्याऽऽदेशं कुर्वथ सोऽगमत् ॥३३१।। सपल्लीशे कुमारेऽथ स्नाते वर्धापनं व्यधात् । नृपोऽवोचच्च ते वत्स ! किं करोमि प्रियं पुनः ॥३३२॥ पुरुषाः प्रेषिताः सन्ति वधूं तव गवेषितुम् । तेषु केऽपि समायाता नायान्त्यद्यापि केचन ॥३३३|| तदा च सोमसूराख्यः प्रोचे देव स्मृतं मया । कुमारस्य प्रियतमासमायोगस्य कारणम् ॥३३४|| राज्ञा कीदृगिति प्रोक्ते स प्राह श्रूयतां प्रभो ! । अस्ति कादम्बरीकक्षान्तस्तीर्थं प्रियमेलकम् ॥३३५।। वदन्ति च तदैतिहमटव्यन्तः पुराऽभवत् । विशाखवर्धनाऽऽभिख्ये पुरेऽजितबलो नृपः ॥३३६॥ श्रेष्ठी वसुंधरस्तत्र प्रियमित्रोऽस्य नन्दनः । लब्धा तेनेश्वरस्कन्दनन्दना नीलुकाभिधा ॥३३७|| तयोरव्यूढयोरेव वसुंधरगृहाद्वसु । गतं कर्मानुभावेन सोऽथ निर्वेदतो मृतः ॥३३८।। प्रियमित्रोऽपि दारिद्मात्पराभूतः पुरीजनैः । विनिर्गत्योत्तरां गच्छंस्तातमित्रेण वीक्षितः ॥३३९।। नागदेवाऽभिधो वीक्ष्य स तं पाण्डुरभिक्षुकः । समुपालक्षयद्दौःस्थ्यावसथं च कथञ्चन ॥३४०|| ऊचे वत्स ! तवाऽवस्था किमीहक प्रस्थितः क्व च । स प्राह पृच्छ तं दैवं येनैवं विहितोऽस्म्यहम् ॥३४१॥ तपस्व्यूचे पितुस्तेऽस्ति क्षेमः स प्राह मत्पितुः । क्षेमः स्वःस्थस्य न तु मे लोकद्वयबहिर्जुषः ॥३४२।। मुनिः प्राह गतः सोऽस्तं बन्धुकैरवचन्द्रमाः । ही कर्मेति भवं हित्वा मुनयो हि ययुः शिवम् ॥३४३॥ अन्यच्च त्वं कथं वत्स ! लोकद्वितयवर्जितः । योग्योऽसि परलोकस्य साधने तं च साधय ॥३४४|| सोऽथाऽख्याय विधि तेन दीक्षितः कुरुते व्रतम् । नीलुकापि हि तच्छ्रुत्वा गृहेऽपि व्रतवत्यभूत् ॥३४५।। गते काले स चायातस्तत्पुराऽन्ततपोवने । श्रुतो नीलुकया याता तं नन्तुं पित्रनुज्ञया ॥३४६।। ध्यानस्थं वीक्ष्य तं साऽथ संभ्रमान्मूर्छिताऽपतत् । जाते परिजनाऽऽकन्दे किमिदं पृच्छति स्म सः ॥३४७|| Page #147 -------------------------------------------------------------------------- ________________ सप्तमो भवः २८७ २८८ तत्सख्यः प्रोचिरे पुत्रीश्वरस्कन्दस्य नः सखी । नीलुका कन्यसौ दत्ता तव त्वां वीक्ष्य मूर्छिता ॥३४८।। सोऽथ स्नेहरसेनेव कमण्डलुजलेन ताम् । असिक्त सा सचैतन्या दृक्कोणेन तमैक्षत ॥३४९।। तया हृतमनाः सोऽथ मा खिद्यस्वेति तां जगौ । आवजितं हि मे चित्तं तव स्नेहेन किं पुनः ॥३५०॥ एकतो गुरुगीर्भङ्गः स्नेहभङ्गस्तथैकतः । अखण्डा गुरुगीरिष्टं दातुं प्रभवति ध्रुवम् ॥३५१|| तत्त्वमाख्याहि किं कुर्वे साऽवदद् द्वितयं कुरु । स तत्समागमध्यानी जग्राहाऽनशनं मुनिः ॥३५२।। आपृच्छ्य पितरौ साऽपि क्षमयित्वा सखीजनम् । विदधेऽनशनं बद्धबुद्धिस्तत्रैव भर्तरि ॥३५३॥ वासन्तीव्रततिश्लिष्टाऽशोकदुमतलस्थयोः । तयोस्तत्राऽऽययौ नागदेवस्ताभ्यां नतश्च सः ॥३५४|| ऊचे सम्पद्यतामिष्टं स तत्र प्रेक्ष्य नीलुकाम् । लज्जितं प्रियमित्रं च दध्यौ किमिदमित्यलम् ॥३५५|| सख्याऽऽख्याते तयोर्वृत्ते प्रियमित्रमयं जगौ । एवंविधेऽत्र संजाते मा मुचस्तत्त्ववासनाम् ॥३५६॥ एवमुक्त्वा गते तस्मिस्तौ द्वावपि तथा स्थितौ । जनेशेन जनेनाऽपि पूज्यमानौ निरन्तरम् ॥३५७|| द्विमास्यन्ते यश:शेषावुत्पन्नौ किन्नरेषु तौ । अवधेतिवृत्तान्तावुद्यानमिदमागतौ ॥३५८॥ तत्राऽशोकद्रुमासन्नं कृत्वा देवकुलं वरम् । स्थापितो देव आनन्दो निर्वृतिश्चाऽपि देवता ॥३५९।। समरादित्यसंक्षेपः गतौ च नन्दने विद्याधरीमेकामपश्यताम् । भ्रमन्ती दुःखसंतप्तामेनां हेतुमपृच्छताम् ॥३६०॥ सोचेऽहं खेचरी भर्तुरनुरागादखण्डयम् । विद्यादेव्युपचारं तत्तया शप्ताऽस्मि च कुधा ॥३६१॥ भविष्यति वियोगस्ते षण्मासी प्रेयसा सह । ततोऽहमरतिग्रस्ता भगवत्याऽनुकम्पिता ॥३६२।। समस्ति माधवीश्लिष्टः शुभ्रयामलपुष्पभृत् । प्रियमेलाऽभिधो वृक्षस्तत्रेति प्रियसंगमः ॥३६३।। ततोऽहमागतोद्देशं न पश्यामि द्रुमं तु तम् । भ्रमाम्यतस्ततः प्राह किन्नरोऽहं विलोकये ॥३६४॥ तस्मिन्विलोकिते लब्धे विद्याधर्या निवेदिते । सा तस्याऽधः स्थिता शीघ्रं घटिता स्वप्रियेव च ॥३६५॥ तयाऽऽख्यातेऽभवद्विद्याधरकिन्नरयोमिथः । प्रीतिः स्थित्वा कियत्कालं तत्खेटमिथुनं गतम् ॥३६६।। किन्नरस्तु प्रियतमागिरा हूँ प्रियमेलकम् । निजदेवकुलासन्नं न्यास्थत्तत्र तथाऽस्ति सः ॥३६७|| तस्य द्रुमस्य नाम्नाऽभूत्तत्तीर्थं प्रियमेलकम् । तत्तत्रैव कुमारस्य प्रिया मन्ये मिलिष्यति ॥३६८।। हृष्टो राजा कुमारश्च राज्ञा पृष्टश्च पल्लिपः । प्रोचे वेम्यहमुद्देशं तं तपोवनसन्निधौ ॥३६९।। ससेनः प्रेषितः सेनस्ततस्तत्र महीभुप्ता । दिनैः कतिपयैः प्रापत्तं तापसजनाऽऽश्रमम् ॥३७०॥ १. वस्ता ख ग घ च । २. घृष्टश्च क, दिष्टच ग घ । Page #148 -------------------------------------------------------------------------- ________________ सप्तमो भवः २८९ २९० प्रविष्टोऽल्पजनैर्युक्तस्तापसाः प्रणताश्च ते । अनुशिष्टोऽथ तैः पल्लीशन नीतो वनाऽन्तरे ॥३७१॥ दृष्टे देवकुले जीर्णे प्रोक्तं देव ! न वेदम्यहम् । विशेषात्कल्पवृक्षं तं सोऽस्मरच्च प्रियां तदा ॥३७२।। शान्तिमत्यपि संयुक्ता तापसीभिः समित्कुशम् । लात्वोपविष्टा छायायां प्रियमेलकशाखिनः ॥३७३।। दृष्टो नागलताऽऽश्लिष्टोऽशोकः प्रियतमः स्मृतः । चित्तमुत्कण्ठितं बाढं स्फुरितं वामलोचनम् ॥३७४।। ततो दृष्टस्तया सेनश्चित्तादिव विनिर्गतः । परिभ्रमंस्तमुद्देशमागतः सानुरागतः ॥३७५॥ हृष्टाऽऽर्यपुत्र इत्युक्त्वा दृष्ट एष चिरादिति । संदेहाच्च समुद्विग्ना सहीविरहजीवनात् ॥३७६।। सवितर्का क्व सोऽत्रेति स्वप्नः स्यादिति खेदिनी । सत्यं वीक्ष्य समाश्वस्ता स्नेहभारेण मूर्छिता ॥३७७|| विशेषकम् आश्वासिता ततस्तापसीभिर्यावन्न जल्पति । कमण्डलुजलेनाऽथ सा संसिक्ता न चेतति ॥३७८॥ ततश्च कन्दिते ताभिः कुमारः करुणापरः । मा भैष्टेति ब्रुवन्नागान्नापश्यद्रयकारणम् ॥३७९|| ताः पृष्टाश्च कुमारेण भगवत्यः कुतो भयम् । ताः प्रोचिरे भवात्सोऽथ प्राह तत्क्रन्दितं कुतः ॥३८०॥ ता: प्रोचुः शङ्खराजस्य सुता राजपुरेशितुः । असौ शान्तिमती नाम्ना दुर्दैवस्य नियोगतः ॥३८१।। वियुक्तभर्तृकता प्राणांस्त्यजन्तीमुनिना धृता । निवेदिता कुलपतरेनुशिष्टा च तेन सा ॥३८२।। समरादित्यसंक्षेपः अत्रैव च समादिष्टः पत्या सह समागमः । स्थिता प्रमुदिताऽस्मासु मातृष्विव निजाङ्गजा ॥३८३॥ समित्कुशमुपादायाऽद्योपविष्टाऽत्र विष्टरे । अकस्मान्मूछिताऽस्माभिः कन्दितं तेन सुन्दर ।।३८४|| कलापकम् कुमारेण ततो हर्षखेदाऽवस्थावतेक्षिता । कमण्डलुजलैः सिक्ता वीजिता तापसीजनैः ॥३८५॥ आश्वस्ताऽजनि संभ्रान्ता कुमारेणाऽथ भाषिता । संभ्रमेण कृतं देवि ! नान्यथा हि मुनेगिरः ॥३८६।। तव भाग्यवशाज्जातं सत्यं कुलपतेर्वचः । इदं निवेद्यतां देवि ! यथा स्यात्तस्य निर्वृतिः ॥३८७।। तापस्यो दध्युरेतस्या वरोऽसौ वचसाऽमुना । लक्ष्यते सदृशं युग्ममिदं हि विधिना कृतम् ॥३८८|| शान्तिमत्यप्यथाऽवस्थान्तरं वाचामगोचरम् । नयन्त्यनुभवं रोमविकारेण सहोत्थिता ॥३८९।। दृष्ट्वा पल्लीपतिस्तुष्टो विस्मितश्च व्यचिन्तयत् । अहो देवप्रियारूपमिदं ससदृशं विधेः ॥३९०॥ ध्यात्वेति प्रणमत्येष देवभृत्यलवो ब्रुवन् । पल्लीपतिरनंसीत्तां भूतलन्यस्तमस्तकः ॥३९१॥ प्रसादं प्राप्नुहि स्वामितुल्यमित्यनयोदिते । कुमारः प्राह नैवाऽयं प्रसादविषयोऽस्ति मे ॥३९२॥ ततः सलज्जे पल्लीशे कुमारस्तरुमैक्षत । पल्लीपतिमपृच्छच्च किं नामाऽयं तरूत्तमः ॥३९३॥ स प्राहाऽदृष्टपूर्वोऽयं देव नाम न वेम्यतः । पृष्टोऽथ तापसीवर्गो जन्माऽपूर्वममुं जगौ ॥३९४।। Page #149 -------------------------------------------------------------------------- ________________ सप्तमो भवः २९१ दध्यौ सेनः स एवाऽयं पादपः प्रियमेलकः । दृश्यन्ते युग्मरूपाणि यत्पुष्पाणि सितानि च ॥३९५।। पल्लीशाय समाख्याय पूजोपकरणं च सः । आनाय्याऽपूजयत्कल्पतरुमेकाग्रमानसः ॥३९६|| तुष्टाऽथ देवता तस्य प्रत्यक्षीभूय तं जगौ । तुष्टाऽस्मि वत्स ! किं ब्रूहि प्रियं ते क्रियतामतः ॥३९७|| स प्राह कि प्रियं मे स्यादेवि ! त्वदर्शनाधिकम् । देवी प्रोचेऽनुरूपे ते निरीहत्वविविक्तते ॥३९८॥ तथापि हि गृहाणैतं मणि नरशिरोमणे ! । परोपकृतयेऽशेषविषरोगनिषेधकम् ॥३९९॥ सेनस्ततस्तदारोग्यरत्नमादाय देवताम् । ववन्दे सा चिरं जीवेत्युदित्वा च तिरोदधे ॥४००।। तापस्यो जहषुर्वीक्ष्य तं देवीबहुमानितम् । ऊचुश्च मध्यसन्ध्यातिकमो यामस्ततो वयम् ॥४०१।। सेनः प्रोचे कुलपति वन्दिष्येऽहं ततः समम् । यामः परिजनेनाऽथ युतोऽनंसीन्मुनीश्वरम् ॥४०२॥ तापस्याख्यातवृत्तान्तस्तुष्टस्तस्मै मुनीश्वरः । पत्नीं समर्प्य प्रोवाच मम धर्मसुता ह्यसौ ॥४०३|| मम च्छिन्नभवस्याऽपि गुणानां पक्षपाततः । प्रतिबन्धो महानस्यां तद् द्रष्टव्या तथा त्वया ॥४०४|| कुमारः प्राह भगवन् यदादिशति मे भवान् । तदा क्व दृश्यो भगवानित्यरोदीन्नृपात्मजा ॥४०५।। प्रोचे कुलपतिश्चैनां वत्से धर्मरतेस्तव । दूरे नाऽस्युपदेशेऽवस्थितियन्मुनिदर्शनम् ॥४०६॥ समरादित्यसंक्षेपः ततः कुलपति नत्वाऽऽपृच्छ्य सा तापसीजनम् । कुमारमागता सोऽपि सर्वं सम्पूज्य निर्ययौ ॥४०७।। दिनैः कतिपयैविश्वपुरं प्राप्तो न्यवेदयत् । राज्ञे शान्तिमतीलाभं सोऽथ वर्धापनं व्यधात् ॥४०८।। अथ संमान्य पल्लीशे विसृष्टेऽमरसेनभूः । शातिमत्या समं भोगान् बुभुजे भूभुजः प्रियः ॥४०९।। अन्यदा कर्मवैचित्र्यात् संसारासारतावशात् । सद्योघाती नृपस्याऽऽगाद्यमराज इवामयः ॥४१०॥ शूलं शिरोतिः सन्धीनां दन्तानां च प्रकम्पनम् । श्वासो लोचनभङ्गश्च स्वरभङ्गश्च जज्ञिरे ॥४११।। भिषजो भेषजे व्यर्थे विषेदुः खेदमाप च । शुद्धान्तस्तं च वृत्तान्तमाख्यत्सेनाय वेत्रभृत् ॥४१२।। सेनोऽथ नृपतेर्विश्वोपकर्तुस्तादृशीं दशाम् । श्रुत्वा स्वमक्षमं निन्दन्प्रतीकारे विमूर्छितः ॥४१३।। वीजित्वाऽऽश्वासितः शान्तिमत्याऽथोपायधीरया । उक्तः स्मरसि किं नाऽऽर्यपुत्र ! तं दैवतं मणिम् ॥४१४।। सोऽथ सुन्दर्यदः साधु स्मृतमुक्त्वेति तं मणिम् । आदाय शकुनैभव्यैः प्रेरितो नृपमासदत् ॥४१५॥ नृपमारोग्यरत्नेन चापमार्जयति स्म सः । अचिन्त्यरत्नमाहात्म्याच्छान्ते शूले शिरोव्यथे ॥४१६।। घटिताः सन्धयः सर्वे दन्ता निश्चलतामिताः । शान्तः श्वासो दृशौ स्मेरे किमेतच्चेति भाषितम् ॥४१७॥ १. शूल ख ङ शूलि ग घ च । Page #150 -------------------------------------------------------------------------- ________________ सप्तमो भवः स्तोकया वेलया जातसामर्थ्यश्वोत्थितो नृपः । वैद्यैरुक्तं कुमारस्य प्रभावोऽयमहो महान् ॥ ४१८॥ हृष्टाश्च मन्त्रिणो नृत्ता देव्यः प्रोवाच भूपतिः । न नष्टस्मृतिना ज्ञातं मया किं किमभूदिह ॥ ४१९ || जीवानन्देन कथिते तुष्टः प्राह नराधिपः । कुमारेऽमृतरूपे स्यादवकाशो मृतेः कुतः ||४२०|| सेनः प्राह प्रसादोऽयं गुरुदेवसमुद्भवः । नृपोऽवोचदिमे प्राणास्तव योज्या यथोचितम् ॥४२१॥ गुरवो यूयमित्युक्ते सेनेन नृपतिर्जगौ । गुरुवाक्यमलङ्घ्य हि न मोच्योऽहं ततस्त्वया ॥४२२|| सेनेनाऽऽदेश इत्युक्ते वेश्मने विससर्ज तम् । नृपतिस्तन्नियुक्तं च प्रोचे परिजनं निजम् ॥४२३॥ कुमारसंगतः कश्चिदेति यः स निवेद्य मे । कुमारस्य ततः प्रेष्य आदेश इति तेऽवदन् ॥४२४|| अन्यदाऽमरगुर्वाख्यो मन्त्रिपुत्रः समागतः । राज्ञे निवेदितस्तेन पूजितो भणितश्च सः ॥ ४२५ ॥ भद्र ! सेनः कुमारोऽयं जीवितादधिको मम । प्रतिपन्नं तथैतेन यत्त्वं मोच्यो मया न हि ||४२६ || तत्तथा भवता कार्यं यथाऽऽवां स्वः स्थितौ सुखम् । स प्राह भवता देव ! सेनः सेनः किमुच्यते ॥ ४२७॥ यच्चादिष्टमहं तत्रोपयुक्तोऽस्मि विधिर्यथा । सेनाय प्रेषिता राज्ञाऽथ तदागमवर्धकाः ॥४२८|| प्रेषितश्च स निर्गच्छन् दध्यावत्रेति युज्यते । यदेष न त्यजन्त्येनं सेनं विश्वपुरेश्वरः ||४२९ || २९३ २९४ समरादित्यसंक्षेपः यतो वशीकृतं राज्यं विषेणेन कृपामयः । कुमारोऽस्मिश्च तातेन प्रोक्तः प्रव्रजिताऽम्यहम् ||४३०|| हारयिष्यत्यसौ राज्यं कुमारस्तूद्धरिष्यति । तच्चारब्धं विषेणेन सामन्ताद्यपमानतः ॥ ४३१|| प्रजानां पीडनाद् बाढमुचिताचारलङ्घनात् । लोभाच्च तदवस्थानं सेनस्याऽत्रैव सुन्दरम् ||४३२|| कलापकम् ध्यायन्नित्ययमायातो द्वाःस्थेन च निवेदितः । कुमारोऽथ समुत्थाय तमाश्लिष्य च पृष्टवान् ॥४३३॥ क्षेमोऽस्ति तातपादानां कुमारस्य च सोऽवदत् । क्षेमोऽस्ति तवाऽदृष्टेविषण्णो हरिषेणराट् ॥४३४|| दत्त्वा राज्यं विषेणस्य तातप्रभृतिभिः सह । प्रधानैर्जगृहे दीक्षामनाकाङ्क्षो वपुष्यपि ॥ ४३५ || सेन प्रोचेऽभवद्युक्तमिदं किं नु कुमारतः । सुखिन्यस्ति प्रजा सोऽथ प्रोचेऽनाथेव साऽस्त्यलम् ||४३६ ॥ सेन प्राह कुतोऽनाथा विषेणे तत्र जीवति । वेत्रिण्याऽथ क्षुते देवो जीवत्विति बभाण सः ॥४३७॥ स्फुरितं वामचक्षुश्चाऽनिष्टं भावि किमप्यदः । ध्यात्वेति स प्रियां प्राहाऽऽर्यस्य कालोचितं कुरु ||४३८|| तयाऽथ कारिते तस्मिन्देहवृत्तिं समार्थयत् । कुमार: स्वाधिकारं स जग्राह मुदितश्च तम् ||४३९|| प्रेषिताश्च विषेणस्य राज्ये प्रणिधयोऽमुना । निज: परिजनो वृद्धि कुमारस्याऽऽप च क्रमात् ॥४४०|| १. कारितं खङग घः समार्पयत् क ग घ । Page #151 -------------------------------------------------------------------------- ________________ २९५ २९६ सप्तमो भवः दिनैः कतिपयैः शान्तिमती सुतमजीजनत् । सेनस्तस्य ददौ नामाऽमरसेन इति स्वयम् ॥४४१|| चम्पातश्चाऽन्यदा चारः समायातो न्यवेदयत् । देवाऽचलपुरस्वामी चम्पाराज्यमुपाददे ॥४४२॥ मुक्तापीठाभिधः कोशकोष्ठागारसमन्वितम् । विनष्टप्रकृतिर्नष्टो विषेणस्तु विदूरतः ॥४४३।। युग्मम् ततोऽमरगुरोर्ज्ञातवृत्तान्तोऽमरसेनजः । सामर्ष प्रोचिवान् राज्ये स्थापयाम्यनुजं पुनः ॥४४४|| तदा जगर्ज मत्तेभो देवो जयतु मन्त्रिणा । प्रोक्तं दक्षिणबाहुश्च कुमारस्याऽस्फुरत्ततः ॥४४५।। सेनोऽमरगुरुं प्राह कथयैतन्महीभुजे । कथितेऽथ महीभर्ता प्राह मेऽसौ पराभवः ॥४४६|| तत्प्रेषयामि विक्षेपं तं साधयितुमञ्जसा । मन्यूचे प्रेष्यतां सेनो विक्षेपाऽधिपतिस्ततः ॥४४७|| नृपेणाऽस्त्वेवमित्युक्तेऽमर्षदुर्धषमानसः । प्रणम्य नृपति सेनस्तत्रैव दिवसेऽचलत् ॥४४८॥ आरूढो हस्तिनं हस्तितुरङ्गमरथस्थितैः । स निरैन्नगराद्वीरैः समं शकः सुरैरिव ॥४४९।। पुरान्निर्गच्छतस्तस्य जगर्जाऽत्यूजितं गजः । कुमारो जयतीत्युक्तं सैनिकैः सकलैस्ततः ॥४५०|| प्राप्तेऽत्र देशसीमानं मुक्तापीठोऽप्यथाऽऽगमत् । तस्य दूतः कुमारेण प्रहितो नीतिरीतितः ॥४५१|| तेनोक्तः पैतृकं राज्यं परित्यज्य मम व्रज । भवाऽथ संयुगे सज्जः स ससर्ज गिरं ततः ॥४५२॥ समरादित्यसंक्षेपः सिंहेनेव वनं राज्यं मयोपात्तं निजैर्भुजैः । न मुञ्चे युधि सज्जस्तु नेतुं त्वामन्तकाऽन्तिकम् ॥४५३।। स्वभर्तुरिदमाख्याहि गत्वा दूतोऽथ तज्जगौ । क्रोधानलः कुमारस्योहिदीपेऽथ हृदन्तरे ॥४५४|| धीरत्वेन धृतोऽप्येष भृकुटीधूमरेखया । शोणत्वेन च नेत्राणां जनैरनुमितः परैः ॥४५५।। ऊचेऽथ युद्धश्रद्धालोरस्य श्रद्धा प्रपूर्यताम् । श्राद्धदेवो महीदेवो युद्धश्राद्धेऽत्र तृप्यतु ॥४५६।। ततो द्वावपि तौ कृत्वा प्रसादं भटसंहतेः । दत्त्वा दीने जने दानं युद्धसज्जौ बभूवतुः ॥४५७।। प्रातश्च हस्तिकाश्वीयरथ्यापादातसङ्कले । उभे चापि महासैन्ये निर्दैन्ये मिलिते मिथः ॥४५८।। ततः शरसमूहेन च्छन्नसूरं द्विधाऽपि हि । निशिताऽसिहताऽनेकपतद्वर्यपदातिकम् ॥४५९।। सादिक्षिप्तमहाकुन्तभिन्नमत्तमतङ्गजम् । मतङ्गजावमर्दोत्थभीतिवित्रस्तभीरुकम् ॥४६०।। रथिक्षिप्तक्षुरप्रौघच्छिन्नच्छत्रध्वजव्रजम् । व्रजस्थितचमूमध्यमिलितक्षितिनायकम् ॥४६१।। इतः समेहीत्याहूतवलमानभटोत्कटम् । अन्योऽन्यमदगन्धोत्थमत्सराऽऽयातसामजम् ।।४६२।। संतुष्टभटसंदृष्टकबन्धाबद्धताण्डवम् । उभयोरपि संजातं समनीकमनीकयोः ॥४६३।। पञ्चभिः कुलकम् मुक्तापीठः समुत्थाय सेनसेनाममर्षणः । बभञ्जाऽथ कुमारोऽपि समुत्तस्थौ ससैनिकः ॥४६४।। Page #152 -------------------------------------------------------------------------- ________________ २९७ २९८ सप्तमो भवः दारुणेऽथ रणे जाते मुक्तापीठकुमारयोः । निहतः सेनखड्गेन मुक्तापीठोऽपद्भुवि ॥४६५।। जितमित्यूजितो जज्ञे कल: कलकलस्ततः । जयश्रियः प्रवेशार्थमिव तूर्यमथाऽध्वनत् ॥४६६|| कुमारेण स्वयं सोऽथाऽऽश्वासितः सलिलानिलैः । श्लाघितश्च न कीर्तिस्ते स्वं राज्यं त्वाददे मया ॥४६७।। ततस्त्वया न संतप्यं विषेणादधिको यतः । भ्राता मम त्वमित्युक्त्वा तं निजावासमानयत् ॥४६८।। व्रणपट्टान्निबध्याऽथ पूजयित्वा च सादरम् । न्यायसार: कुमारस्तमप्रैषीन्निजनीवृत्तिम् ॥४६९।। ऊचेऽमरगुरुं चैष विषेणोऽन्विष्यतां क्वचित् । यथा पुनः स चम्पायां महाराजो विधीयते ॥४७०॥ स प्राह यामश्चम्पायां तत्र सोऽप्यानयिष्यते । सेनः प्रोचे महाराजस्तातादिष्टः स एव तु ॥४७१।। आदेश इति मन्त्र्युक्ते प्रेष्य मुख्यनरान्निजान् । अधिचम्पं ययौ सेनोऽभ्युद्गतश्च पुरीजनैः ॥४७२।। विज्ञप्तस्तैः प्रवेशाय महाराजः समेत्विति । उक्त्वा तस्थौ बहिस्तेऽथ समेयुः प्रेषिता नराः ॥४७३।। मन्त्रिणे कथयामासुः पुरीं प्राप्तैः कृतार्गलाम् । दृष्टोऽस्माभिः कुमारोऽस्य वृत्तान्तः कथितोऽखिलः ॥४७४|| ततो दूनः स्वयं न्यूनः समुच्छूनरदच्छदः । विषेणोऽयं विषेणेव मिश्रां वाचमुवाच सः ॥४७५॥ राज्यं कदाऽपि नैवाहं कुर्वे परभुजाऽजितम् । तयूयं यात नाऽगम्यं पुनरत्र कदाचन ॥४७६।। समरादित्यसंक्षेपः दध्यौ मन्त्री न योग्योऽयं देवस्य प्राग्भवद्विषन् । ध्यात्वेत्येतत्कुमारस्य सनिर्वेदो न्यवेदयत् ॥४७७|| कुमारोऽथ स्वयं राज्यनि:स्पृहः प्रोचिवानिति । तं विनाऽनेन राज्येन ध्वान्तनृत्तेन को गुणः ॥४७८।। मन्यूचे देव ! संत्यज्य विषादं पालय प्रजाः । सेनः प्रोचे स्वपुण्येन रक्ष्यन्ते हि प्रजाः स्वयम् ॥४७९।। तदा च ज्ञातवृत्तान्त उद्दिधीर्षुर्भवार्णवात् । आचार्यो हरिषेणोऽस्य पितृव्यः श्रव्यगीर्बुधैः ॥४८०॥ अमात्रकरुणापात्रमागच्छत्साधुभिर्वृतः ।। स्थितश्च नष्टशोकाख्ये वने ज्ञातश्च पूर्जनैः ॥४८१।। युग्मम् लोकवार्तानियुक्तास्तमाकर्ण्य प्रेक्ष्य च स्वयम् । वेत्रिण्यै कथयामासुः साऽऽख्यच्च नृपसूनवे ॥४८२।। सेनस्तस्यै च तेभ्यश्च प्रवरं पारितोषिकम् । दत्त्वाऽमरगुरुं प्राहाऽनभ्रं पीयूषवर्षणम् ॥४८३।। स प्रोचे देव ! धन्योऽसि त्वं च कल्याणभाजनम् । ततस्तेन समं यात: कुमारस्तत्र कानने ॥४८४|| दृष्टश्च तत्र निर्मोहः सहितो ज्ञानसम्पदा । शरन्नीरामलस्वान्तः शङ्खवच्च निरञ्जनः ॥४८५।। लोकद्वयनिराकाङ्क्षो मुक्तिमार्ग इवाऽमलः । भगवान्हरिषेणाख्यः सूरि•रितदुष्कृतः ॥४८६।। युग्मम् दृष्ट्वा तमनमस्तैष गुरुणा धर्मलाभितः । तस्थौ रोमाञ्चबाष्पाभ्यां प्रमोदं प्रोगिरन्निव ॥४८७।। उक्तो भगवता चैष वत्स ! त्वं भावधर्मवित् । सुन्दरः सर्वचेष्टासु यतस्त्वन्निर्गमेण मे ॥४८८।। Page #153 -------------------------------------------------------------------------- ________________ सप्तमो भवः २९९ ३०० निर्वेदोऽजनि तस्माच्च व्रतं तस्माच्च नाऽपरम् । उपादेयं किमप्यस्ति प्रकृत्या निर्गुणे भवे ॥४८९॥ जीवितं बहुलं क्लेशैविनश्वर्यश्च सम्पदः । अकाण्डभङ्गकृन्मृत्युर्विनिर्जितसुरासुरः ॥४९०।। प्रमादचेष्टितं स्वल्पमप्यनल्पव्यथाप्रदम् । अत्राऽर्थे गुरुभिः प्रोक्तां ममाऽग्रे त्वं कथां शृणु ॥४९१।। अस्त्युत्तरपथप्रष्ठे नगरे वर्धनापुरे । सपत्नैरजितो राजा नामतो जितवर्धनः ॥४९२॥ तत्रास्ति सदश्चन्द्राजानिः सर्गः सुतोऽस्य तु । पूर्वकर्मानुभावेन तानि दारिद्ममन्दिरम् ॥४९३॥ सद्वडेऽथ मृते चन्द्रा कुक्षिपूरणहेतवे । कर्म कर्तुं समारेभे परकीयेषु वेश्मसु ॥४९४।। सर्गः सर्गेन्धनाद्यं तु वनादानेतुमुद्यतः । इत्थं याति तयोः कालो दुःखदारिद्रदूनयोः ॥४९५।। अन्यदा धूसरश्रेष्ठिगृहे जामातुरागमे । वार्यानेतुं समाहूता चन्द्रा तन्द्राविवजिता ॥४९६|| पुत्रस्यागमवेलेति शिक्ये तद्योग्यभोजनम् । संस्थाप्य सा गता द्वारं बद्ध्वा किटिकया रयात् ॥४९७|| सर्ग: समागतो नाऽम्बामपश्यत्कुपितोऽथ सः । न शिक्यमैक्षताम्बापि स्तोककालात्समागता ॥४९८॥ सर्गः प्रोवाच तत्र त्वं भिन्न शूलिकया कथम् । मम क्षुधाऽभिभूतस्य वेला काऽपि व्यतीयुषी ॥४९९।। तयाऽपि दनया श्रेष्ठिसदने नाप्तवित्तया । प्रोचे हस्तौ कथं छिन्नौ यन्नात्तं शिक्यतोऽशनम् ॥५००।। समरादित्यसंक्षेपः तदा दुर्वाक्यतस्तस्मात्ताभ्यां कर्म सजितम् । अन्यदा मानतुङ्गः: श्राद्धधर्मः समाददे ॥५०१|| प्रपन्नश्रावकत्वौ तौ कालेन कियताऽपि हि । चारित्रपरिणामेनाऽगृह्णीतां व्रतमुत्तमम् ॥५०२।। त्यक्त्वा देहं दिवं यातौ सर्गः स्वर्गच्युतोऽजनि । तामलिप्तेभ्यकुमारदेवजीजुकयोः सुतः ॥५०३।। क्रमेणाऽरुणदेवाख्यः कुमारत्वमवाप सः । चन्द्राजीवोऽपि हि च्युत्वा नगरे पाटलापथे ॥५०४।। जसादित्यमहेभ्यस्येल्लायां पल्यां सुताऽभवत् । देइणीति कृताभिख्या कुमारीत्वमवाप च ॥५०५।। विशेषकम् सा दत्ताऽरुणदेवाय भवितव्यनियोगतः । अवृत्तेऽपि विवाहेऽसौ यानपात्रे गतः पुनः ॥५०६।। महाकटाहतस्तस्य वलमानस्य दैवतः । यानपात्रं विपन्नं तन् महादुर्मरुता हतम् ।।५०७।। महेश्वरद्वितीयोऽथाऽरुणदेवः पयोनिधिम् । फलकेन समुल्लङ्घ्य समेतः पाटलापथे ॥५०८|| प्रोक्तो महेश्वरेणैष तवाऽत्र श्वशुराश्रयः । तत्तत्र गम्यते सोऽथ प्रोचेऽवस्था न तादृशी ॥५०९।। यादृश्यां गम्यते तत्र ततः प्राह महेश्वरः । तिष्ठ देवकुलेऽत्र त्वं यावद् भोजनमानये ॥५१०॥ महेश्वरः प्रविष्टोऽथ पाटलापथमध्यतः । तत्र देवकुले सुप्तोऽरुणदेवस्तु निद्रया ॥५११।। तदोदीर्णं च देइण्याः कर्म दुर्वाक्यजल्पजम् । भवनोद्यानगामेनामपश्यत्कोऽपि तस्करः ॥५१२॥ Page #154 -------------------------------------------------------------------------- ________________ सप्तमो भवः ३०१ ३०२ माणिक्यकटकद्वन्द्वं वीक्ष्य तत्करयोग्यम् । सिचा तन्मुखमापूर्य करौ छित्त्वा तदग्रहीत् ॥५१३|| आकृष्टक्षुरिकत्वेन गृहीतेन व्रजन्नयम् । वनपालिकया दृष्टः कन्दितं च तया दृढम् ॥५१४|| अन्वधावंस्तलारक्षास्तस्करं वीक्ष्य दूरगम् । तत्र देवकुले सोऽपि प्रविष्टः पूर्वचिन्तिते ॥५१५।। तदा चारुणदेवस्य कर्मोदीणं पुरातनम् । कटकौ क्षुरिकां चापि स्तेनस्तस्यान्तिकेऽमुचत् ॥५१६।। प्रविष्टः पूर्वदृष्टे च शिखरे सतमस्विनि । उत्थितोऽरुणदेवस्तत्कटकद्वयमाददे ॥५१७।। देवतादत्तमित्येतदुट्टिकायां न्यवेशयत् । क्षुरिकां पश्यतश्चाऽस्य तलारक्षाः समाययुः ॥५१८॥ संक्षुब्धोऽरुणदेवोऽथ तैरुक्तो रे क्व यास्यसि । पपात च क्षुरी हस्तात्तलारक्षधृतश्च सः ॥५१९।। प्राह किं नु मया चके प्रोचुस्ते दैवनोदितः । यत्करोत्यर्पय द्राग् नस्तत्कङ्कणयुगं ततः ॥५२०|| न जानामीति तेनोक्ते कपितैर्दण्डपाशिकैः । हन्यमानस्य चाऽऽतात्पतितं कटकद्वयम् ॥५२१|| तद् गृहीत्वा च तैर्नीतो नियम्य स नृपाऽन्तिके । नृपेण सहसा प्रोचेऽमुं भेदयत शूलया ॥५२२।। तैस्तथा विहिते लात्वा भोज्यमागान्महेश्वरः । तमदृष्ट्वा कुलः सोऽथाऽपृच्छदारामिकानिति ॥५२३॥ युष्माभिरीदृशः श्रेष्ठिपत्रो गच्छन्न वीक्षितः । ते प्रोचुर्नेत आत्तस्तु चौर एको विनाशितः ॥५२४|| समरादित्यसंक्षेपः न जानीमो गतस्तत्र यदि कौतुकतो भवेत् । वध्यस्थानं ततः पृष्ट्वा गतस्तत्र महेश्वरः ॥५२५।। शूलप्रोतं च तं वीक्ष्य बाष्पाऽऽविलविलोचनः । ब्रुवन्हा श्रेष्ठिपुत्रेति मूर्छितः पतितो भुवि ॥५२६|| सकौतुककृपैः पृष्टश्चाऽश्वास्य च निरीक्षकैः । क एष स समाख्यच्च वृत्तमेतत्कथानकम् ।।५२७।। अयं कुमारदेवस्य नन्दनस्तामलिप्तगः । जसादित्यस्य जामाता वास्तव्यस्य पुरेऽत्र च ॥५२८।। इत्यादि भोजनानायप्रान्तमाख्याय सोऽखिलम् । पतितो हन्तुमारब्धः स्वं निषिद्धो निरीक्षकैः ॥५२९।। तच्च श्रुत्वा समायातो जसादित्यः सुतायुतः । तं निरीक्ष्योपलक्ष्योच्चैर्मूछितः ससुतोऽपि हि ॥५३०।। स समाश्वासितो बन्धुजनैः काष्ठान्ययाचत । जामातुः पुत्रिकायाश्च तत् ताहग्द्रष्टुमक्षमः ॥५३१।। नृपः क्रुद्धस्तलारक्षानूचे प्रोचुश्च ते प्रभो । प्राप्तोऽस्माभिः सलोपत्रोऽयमुक्त्वा प्रत्यायितश्च तैः ॥५३२॥ श्रेष्ठिप्रत्यायनायाऽथ स्वयं भूपः समागतः । उवाच मन्तुर्दैवस्य न त्वस्माकं मतेरयम् ॥५३३।। अथाऽमरेश्वरो नाम चतुर्ज्ञानयुतो गुरुः । सर्वेषामपि बोधाय तेषां तत्र समागमत् ॥५३४|| देवैरशोधि भूर्वृष्टं गन्धाऽम्बुकुसुमैस्ततः । कृतं काञ्चनपद्मं च तत्रोपविशति स्म सः ॥५३५॥ १. वीतमेतत् ख ङ च । २. पुरेत्रसः ख ग घ ङ । Page #155 -------------------------------------------------------------------------- ________________ ३०३ ३०४ सप्तमो भवः प्रास्तौद धर्मकथां भद्रा मोहनिद्रां समुज्झत । नित्यं जागृत संगृह्य धर्मजागरणोत्सवम् ॥५३६।। पापस्थानानि संत्यज्याऽङ्गीकुरुध्वं गुणव्रजम् । हताऽहितं प्रमादाऽख्यं कर्मबन्धनिबन्धनम् ॥५३७।। कर्मबन्धाद्धि दुःखानि जन्तुः प्राप्नोत्यनेकशः । यथेषोऽरुणदेवश्च देइणी च सुदुःखितौ ॥५३८।। ततो नृपतिना पृष्टो ज्ञानसूरस्तयोः कथाम् । आविश्चक्रेऽथ संविग्ना परिषन्निखिलाऽप्यसौ ॥५३९।। मूर्छितौ तौ सचैतन्यौ स्मृतजाती च दम्पती । अक्लिष्टौ शुद्धचित्तौ च चतुर्जानिनमूचतुः ॥५४०।। भगवन् ! यत् त्वयाऽऽदिष्टं तत्तथेति तदावयोः । प्रदेह्यनशनं कर्मरोगदुःखक्षयंकरम् ।।५४१॥ स चाऽवोचदवस्थाया अस्याः समुचितं ह्यदः । इदं ह्यनशनं सर्वसौख्यनिर्वाणकारणम् ॥५४२।। ततोऽनशनमादाय मुदितौ तौ मुनीश्वरम् । ऊचतुनौ शुभं जन्म धर्मसारथिना त्वया ॥५४३॥ यत्किचिद् व्यसनं चेदं स्वकर्मपरिणामजम् । तदादिश किमावाभ्यां कर्तव्यं भगवाञ्जगौ ॥५४४|| युवाभ्यां हि कृतं कृत्यं ममत्वं त्यज्यतामतः । मैत्री च भाव्यतां भावाद् दुःकृतं निन्द्यतां निजम् ॥५४५|| ज्ञानदर्शनचारित्रत्रयं च बहुमान्यताम् । चिन्त्यतां च प्रमादस्य वर्जनात्परमं शिवम् ॥५४६।। तत्प्रतिश्रुत्य चाऽऽरब्धं ताभ्यामत्राऽन्तरे नृपः । प्राह प्रभोऽल्पकस्याऽपि दुःकृतस्येदृशं फलम् ॥५४७|| समरादित्यसंक्षेपः अस्मादृशां तदुद्दामप्रमादवशवर्तिनाम् । का गतिर्भगवानूचे स्युर्दुर्गा दुर्गतिव्यथाः ॥५४८|| तासामपेक्षया चैतन्न किञ्चिदत एव हि । आह लोकगुरुर्भक्ष्यं विषं क्रीड्यं हविर्भुजा ॥५४९।। संतर्पणीय आतङ्कः कर्तव्या शत्रसंगतिः । वसनीयं भुजङ्गैश्च न कर्तव्या प्रमादिता ॥५५०॥ इहलोकाऽपकारीणि विषादीन्यखिलान्यपि । लोकद्वयापकारी तु प्रमादः प्रथितो यतः ॥५५१।। विशेषकम् नृपः प्रोवाच भगवन्नस्त्युपायोऽपि कश्चन । सेवितस्य प्रमादस्य क्षपणेऽस्ति गुरुर्जगौ ॥५५२॥ स कीदृगिति राज्ञोक्ते गुरुः प्राह नरेश्वर ! । सर्वारम्भपरित्यागादप्रमादस्य सेवनम् ॥५५३।। तत्कर्मरोगभैषज्यं लोकद्वयसुखाऽऽवहम् । समग्रश्रेयसां हेतुः परमारोग्यसौख्यदम् ।।५५४।। नृपः प्राह किमेताभ्यामप्रमादो न सेवितः । गुरुः प्राहाऽप्रमादस्याऽतिशयो न निषेवितः ॥५५५।। अल्पेऽपि सेविते क्लेशो नैतस्मादधिकोऽनयोः । अतो भगवता ज्ञातभवमोक्षाऽत्मनोदितम् ॥५५६।। अप्रमादः सदा कार्यः स्मर्तव्यं पूर्वदुःकृतम् । निन्दितव्यं च संवेगादाख्येयं च गुरोः पुरः ।।५५७|| विधिपूर्वं च कर्तव्यं प्रायश्चित्तैविंशोधनम् । इत्थं दग्धे कर्मबीजे न विपाकाङ्करो भवेत् ॥५५८।। १. नरेश्वर ख ग घ ङ च । Page #156 -------------------------------------------------------------------------- ________________ सप्तमो भवः ३०५ ३०६ बुद्धोऽथ नृपतिः सार्धं जसादित्येन तेन च । महेश्वेरण सहितो व्रतं जग्राह साग्रहः ॥५५९॥ श्रुत्वेति साऽनुतापोऽथ तस्करोऽपि समागतः । निर्वेदवानुवाचैवं पापकर्माऽस्म्यहं प्रभो ! ॥५६०।। मयेदं कर्म निस्त्रिंशं कृतं धर्मोऽवमानितः । पापं बहुमतं चक्रे मानुषत्वं च दूषितम् ॥५६१|| तत्कि गीविस्तरेणाऽहं त्यक्तुकामोऽस्मि जीवितम् । तदादिश यथायोग्यं ज्ञानी ध्यात्वा ततो जगौ ॥५६२।। गृहाणाऽनशनं सोऽथ प्रतिपेदे गुरोर्वचः । शिक्षितश्च नमस्कारं पञ्चानां परमेष्ठिनाम् ॥५६३।। तानि त्रीण्यप्यनशनं परिपाल्य समाधिना । बभूवुर्भाजनं स्वर्गसुखानां नृपनन्दन ! ॥५६४|| तत्त्वया न कृतं भव्यं राज्यमात्रकृतेऽपि यत् । संग्रामो विदधे प्रौढकर्मबन्धनिबन्धनम् ॥५६५।। कुमारस्त्वेतदाकर्ण्य चारित्रपरिणामवान् । ऊचे परिभवाऽमर्षाद्विदधे भगवन्निदम् ॥५६६।। असुन्दरमिदं ज्ञातमधुना ह्युपदेशतः । तदहं यदि योग्योऽस्मि तत्प्रसीद व्रतेन मे ॥५६७|| गुरुः प्रोवाच साध्वेतत् त्वयाऽध्यवसितं ननु । हेय एव भवः सोऽयमुचितश्च व्रते भवान् ॥५६८|| शीघ्रमिष्टं विधेहीदमनित्यं हि शरीरकम् । सेनोऽमात्यं जगावार्य ! श्रुतं भगवतो वचः ॥५६९।। करोमि कियया त्वत्तो नाऽन्यो मे हितचिन्तकः । अनुमन्यस्व मां सोऽथाऽवदद्देव ! भवत्वदः ॥५७०।। समरादित्यसंक्षेपः किं त्वष्ट दिवसान्देवोऽनुग्रहं कुरुतां मयि । प्रतिश्रुते कुमारेणाऽमात्यो दानमदापयत् ॥५७१।। अष्टाहिकामहं चक्रे राज्ये न्यास्थच्च नन्दनम् । आनन्दिताः प्रजाः सन्मानिताः सामन्तमन्त्रिणः ॥५७२॥ सेनः शुभे मुहर्तेऽथ शान्तिमत्या द्विधा युतः । सहितोऽमरगुर्वादिप्रधानैश्चाऽग्रहीद् व्रतम् ।।५७३॥ ततोऽधीतश्रुतो ज्ञाततदर्थः सेवितक्रियः । योग्यत्वाद् गुर्वनुज्ञातो जिनकल्पं प्रपन्नवान् ॥५७४।। स चैकरात्रिकं ग्रामे नगरे पञ्चरात्रिकम् । विहरन्नन्यदाऽऽयातः कोल्लाके संनिवेशने ॥५७५।। स्थितः प्रतिमयैकान्ते युतेन कतिथैनरैः । दृष्टश्च भ्रष्टराज्येन विषेणेन विषीदता ॥५७६॥ प्राक्कर्मदोषतः कुद्धो दध्यौ जातमिदं शुभम् । यन्मुक्ताऽऽयुध एकाकी विविक्ते च हिनस्मि तत् ॥५७७॥ वधोऽस्य पश्यतामेषां साम्प्रतं तु न साम्प्रतम् । ध्यात्वेति स तदासन्नभिन्नदेवकुले स्थितः ॥५७८।। अनुगानामनाख्यातभावो निद्राविवर्जितः । अर्धरात्रे गृहीताऽसिः सेनं हन्तुं गतोऽन्तिके ।।५७९।। तं वीक्ष्य निश्चलध्यानमिद्धकोधधनञ्जयः । निस्त्रिंशः कृष्टनिस्त्रिंशः स प्रोवाच मुनि प्रति ॥५८०|| अरे कुरु दुराचार ! सुदृष्टं जीवविष्टपम् । विपन्नोऽस्यधुना तेन ध्यानिना तत्तु न श्रुतम् ॥५८१।। श्रुतं तु क्षेत्रदेव्या तत्ततः कुपितया तया । हत्वाऽसिं वाहितं साधौ स्तम्भितो भणितश्च सः ।।५८२।। Page #157 -------------------------------------------------------------------------- ________________ सप्तमो भवः ३०७ अष्टमो भवः अहो ते पापकर्मत्वमनार्यत्वमहो तव । अहो ते क्लिष्टचित्तत्वमहो ते निविवेकता ॥५८३।। वासीचन्दनतुल्यस्य यदस्याऽपि व्यवस्यसि । इत्थं तस्माद् व्रजेत्युक्त्वा कृपयोत्तम्भितस्तया ॥५८४॥ प्रवृत्तोऽथ मुनि हन्तुं पुनर्देवतया ततः । हतश्चपेटया पृथ्व्यां पतितो रुधिरं वमन् ॥५८५॥ आश्वास्य कृपया कृष्टस्तया साधोरवग्रहात् । मुक्तो वननिकुञ्जेऽथ स्वयं देवी तिरोदधे ॥५८६।। वत्सले बान्धवे साधौ विकारं भेजिवानयम् । उचितं तद्विकारो हि तस्य नाम्नि धुरि स्थितः ॥५८७।। एवं स्थितेऽपि हन्म्येनं कथं न्विति विचिन्तयन् । महताऽभिनिवेशेन नरकायुरपोषयत् ॥५८८॥ काले कियत्यप्येकाकी शबरैः पिच्छकाङ्क्षिभिः । गृध्राऽवतारणार्थं स विषेणो निहितो मृतः ॥५८९।। समुत्पन्नस्तमाख्यायां षष्ठावन्यां स नारकः । द्वाविंशत्यब्धिसंख्यायुरसंख्या वेदनाः सहन् ॥५९०।। श्रीमान्सेनमहामुनिः शमसुखं पीयूषकल्पं पिबन् वन्दित्वा चरणाञ्जिनेश्वरततेः कृत्वा च संलेखनाम् । संगृह्याऽनशनं विशुद्धहृदयस्त्यक्त्वा तनुं जातवांस्त्रिंशत्सागरजीवितस्तु नवमग्रैवेयके निर्जरः ॥५९१।। इति श्रीहरिभद्रोक्त्या प्रद्युम्नाचार्यगुम्फिते । समरादित्यसंक्षेपे सप्तमः समभूद्भवः ।।५९२।। इतश्च भरतेऽत्रैव विश्वकर्मविनिर्मिता । अस्त्ययोध्याऽभिधाऽयोध्या परिपन्थिगणैः पुरी ॥१॥ ययोत्पत्तिभुवा देवाधिदेवानां विनिर्जिता । मन्ये शून्ये स्थिता देवोत्पत्तिभूरमरावती ॥२॥ तत्र मैत्रीबलो नाम नृपो भुजबलोत्कटः । बलोद्दामोऽपि नो यस्य बलो बन्धुसखः समः ||३|| कुमुदं तन्वतो नेत्रानन्दिनो हरतस्तमः । यद्यशःशशिनः स्पष्टः शशः प्रत्यथिदुर्यशः ॥४|| उत्फुल्लमुखपद्माऽस्ति तस्य पद्मावती प्रिया । यत्कान्त्या विजिता पद्मा मन्ये पद्माऽऽश्रयाऽभवत् ॥५|| उर्वी तां च गुणैरुर्वी भुञ्जानस्याऽविरोधतः । भूनेतुर्दक्षिणस्याऽस्याऽतीतः कालः कियानपि ॥६॥ नवमादप्यनवमादथ ग्रैवेयकाच्च्युतः । कुक्षौ पद्मावतीदेव्याः सेनजन्तुरवातरत् ।।७।। अपश्यन्निश्यसौ तस्यां सर: सरसिजाकुलम् । चक्रचक्रसमाकीणं भ्रमद्भमरशोभितम् ।।८।। १. चक्रवाक ख । Page #158 -------------------------------------------------------------------------- ________________ अष्टमो भवः हंसावतंसितं दिव्यवनराजिविराजितम् । उदरे विशदास्येन स्वप्ने कल्लोलसङ्कुलम् ॥९॥ युग्मम् साख्यत्पत्यै स च प्रोचे देवि सूनुर्भविष्यति । पद्माश्रयनरैः सेव्यः साधुचक्रसमाश्रयः ॥१०॥ सेवितः शुद्धपक्षैश्च सदा चरणरागिभिः । पूरिताशोऽथिभृङ्गाणां सच्छायः पुरुषाश्रयः ॥११॥ युग्मम् प्रतिश्रुत्येति सन्तुष्टचित्ता गर्भ बभार सा । समये सुषुवे सूनुमन्यूनगुणवैभवम् ॥१२॥ अथ प्रमोदमञ्जूषाऽभिधचेटिकया नृपः । वर्धापितो व्यधात्तुष्टस्तां तुष्टां पारितोषिकात् ॥१३।। बन्धमोक्षादिकं सर्वं नृपस्तदुचितं व्यधात् । उच्छ्रिता मुदितैर्लोके: परितः प्रमदध्वजाः ॥१४॥ पूजा भूजानिना सर्वायतनेषु वितेनिरे । वर्धापनानि सर्वेषु भवनेषु च जज्ञिरे ॥१५॥ महोत्सवमये मासि व्यतीतेऽस्य नरेश्वरः । तस्य पैतामहं नाम गुणचन्द्र इति व्यधात् ॥१६॥ स पञ्चवर्षदेशीयः कलाचार्याय चाऽपितः । लीलयाऽपि ललौ लेख्यमुख्या द्वासप्तति कलाः ॥१७॥ स सिद्धभावासन्नत्वात्क्लिष्टकर्मोपशान्तितः । कलाकलापाभ्यासाच्च तुल्यकन्यासमागमात् ॥१८।। विमुखो विषयव्याप्तौ कलासु सततोद्यतः । कीडन्नुद्यानवीथीषु तस्थौ मित्रजनैर्युतः ॥१९॥ युग्मम् इतो जीवो विषेणस्याऽप्युवृत्तो दुर्गदुर्गतेः । परिभ्रम्य भवं कृत्वा तादृक् चानन्तरे भवे ॥२०॥ समरादित्यसंक्षेपः वैताढ्ये खेचरो जज्ञे नामतो वानमन्तरः । चक्रवालोत्तरपदे नगरे रथनूपुरे ॥२१॥ युग्मम् कियानपि ययौ कालः सोऽन्यदा तु समाययौ । अयोध्यातिलकप्रायोद्याने नन्दननामनि ॥२२॥ तत्राऽऽलेख्यविनोदं चानुभवन्भुवनातिगम् । वीक्षितस्तेन निस्तन्द्रो गुणचन्द्रो नृपात्मजः ॥२३॥ तं वीक्ष्य प्राग्भवाऽभ्यासाऽत्परमामरतिं दधत् । ध्यायन्व्यापादयाम्येनमिति तस्याऽन्तिकं ययौ ।।२४।। अध्येतुमक्षमस्तस्याऽवग्रहं ध्यातवानयम् । विद्याशक्त्या स्थितोऽत्रैव क्ष्वेड्या भापयाम्यमुम् ॥२५।। ध्यात्वेति वज्रनिर्घोषभैरवं विदधे रखम् । न संक्षुब्धः कुमारस्तु वयस्याश्च स्थिरीकृताः ॥२६॥ तस्य धीरतया बाढं कुद्धः काञ्चनपादपम् । अपातयत्कुमारस्य भाग्यैः सोऽपतदन्यतः ॥२७॥ दनोऽथ खेचरो बाढं तदा क्रुद्धः समागतः । क्षेत्रपालो भयेनाऽस्य त्वनश्यद्वानमन्तरः ॥२८॥ कुमारोऽप्युचिते काले वयस्यपरिवारितः । समाप्याऽऽलेख्यमुद्यानात् प्राविशन्नगरी निजाम् ।।२९।। अथोत्तरापथे श्रेष्ठे श्रीशङ्खपुरपत्तने । नृपः शङ्खायनो नाम तस्य कान्तिमती प्रिया ॥३०॥ रूपेणाऽतिरतिः पुत्री नाम्ना रत्नवती तयोः । विज्ञा स्त्रीजनयोग्यासु सकलासु कलासु च ॥३१|| १. अभ्येतु० ङ च, Page #159 -------------------------------------------------------------------------- ________________ अष्टमो भवः पतिरप्रतिमः कः स्यादस्या इति तदम्बया । प्रेषिताः पुरुषा दिक्षु निपुणाश्चित्रकर्मणि ॥३२॥ उक्ताश्च राजपुत्राणां प्रतिरूपाणि रूपिणाम् । आनेतव्यानि युष्माभी रत्नवत्युचितान्यलम् ॥३३॥ केऽपि क्वाऽपि गताः केचित्त्वयोध्यामीयतुः पुरीम् । राधां विध्यस्तदा ताभ्यां गुणचन्द्रो निरीक्षितः ॥३४|| तौ वीक्ष्य विस्मितौ चित्रमतिभूषणनामको । सकृद् दृष्टं तु तद्रूपमिमौ लिखितुमक्षमौ ॥३५॥ कन्यारूपोपदाव्याजात्तं सेवितुमुपागतौ । द्वा:स्थाऽऽख्यातौ प्रविष्टौ च गुणचन्द्रं प्रणेमतुः ॥३६॥ युग्मम् पटं च प्राभृते कृत्वोचतुरावां गुणालयम् । श्रिते च वत्सलं देवं श्रुत्वैतौ शङ्खपत्तनात् ॥३७|| तद् दृष्टोऽसि कला विद्वन् विद्वश्चित्रकलालवम् । तव प्रसादादावां तदवधारय देव नौ ॥३८॥ युग्मम् उन्मील्य तं पटं वीक्ष्य रूपं प्राह नृपात्मजः । अयं कलालवः स्याच्चेत्तत्पूर्णा का भवेत्कला ॥३९।। रेखान्यासेषु रेखा यच्चित्रे चित्रेऽत्र दृश्यते । समुदायस्य शोभा च काचिद्वाचामगोचरा ॥४०॥ एवंविधाः स्त्रियः क्व स्यु: कलाकौशलमेव वाम् । तेन चित्तं हतं को वा नैपुण्येन न रज्यते ॥४१|| तावूचतुश्च नैपुण्यं विधेरेवाऽत्र नौ न तु । तत्कृतं वीक्ष्य लिखिते का स्यान्निपुणताऽऽवयोः ॥४२॥ कुमारः प्राह कस्यास्तदीदृग्गमृताञ्जनम् । रूपमप्रतिरूपं यद्विधिनाऽप्यकृतं पुरा ॥४३।। समरादित्यसंक्षेपः ऊचे ताभ्यामसौ शङ्खपुरेश्वरसुता कनी । नाम्ना रत्नवती दृष्टाऽऽवाभ्यां नरविमानगा ॥४४॥ सखीवृता धृतश्वेताऽऽतपत्रा दीर्घलोचना । शतपत्रमनङ्गास्त्रं दधती दक्षिणे करे ॥४५।। किञ्चिल्लिखितमावाभ्यां तदनुस्मरणादिदम् । लिखितुं तु यथाऽवस्थं विश्वकर्माऽप्यकर्मठः ॥४६।। श्रुत्वेत्यस्यां पराभूतरतौ भूपात्मजो रतः । समन्तुरिव मारेण शरैर्जघ्ने शरारुभिः ॥४७|| आकारगोपनं कृत्वा मित्रमूचेऽन्तिकस्थितम् । पठ विस्तृतबुद्धे त्वमन्यत् प्रश्नोत्तरं पुनः ॥४८|| आदेश इति स प्रोच्य परितुष्टेन चेतसा । कुमारमनुसृत्यैवाऽपठत् प्रश्नोत्तरं नवम् ॥४९॥ किं ते संबोधनं देव ! वने कः कुम्भिकुम्भभित् । प्रद्युम्नस्य कवेर्लक्ष्मीजानिः किमभिधः पिता ॥५०॥ कुमारसिंह इत्युक्ते कुमारेणाऽपरः सुहृत् । विशालबुद्धिनामाऽथ पपाठाऽभिनवं कविः ॥५१॥ प्रकाशा कीदृशी वार्ताऽऽशीर्वादे च किमुच्यते । किं च योग्यं सतां वासे भवात् कः स्याद्विवेकिनाम् ॥५२।। कश्चाऽधिष्ठायक: शङ्केश्वरपार्श्वजिनेश्वरे । कुमारेण विचिन्त्योक्तं भूतानन्दपुरन्दरः ॥५३॥ अहो मतेरतिशयो भाषित्वेत्यथ भूषणः । प्राह देव मयाऽप्यस्ति कृतं स प्राह तत् पठ ॥५४॥ १. पुरे नृपसुता ख । २. लिखितुं तां ख ग घ च । Page #160 -------------------------------------------------------------------------- ________________ अष्टमो भवः ३१३ समरादित्यसंक्षेपः वश्यानां क्व नरे प्रीतिर्नीरसं कीदृशं फलम् । उपक्षये च को धातुर्वाजिनां किं प्रशस्यते ॥५५॥ प्रद्युम्नस्य कवेरस्य गुरूणां श्रीमतामिह । कनकप्रभसूरीणां गुरवः के च विश्रुताः ॥५६॥ पाठयित्वा पुनस्तं च श्लाधित्वा कवितागुणान् । मैत्रीबलात्मजः प्राह श्रीदेवानन्दसूरयः ॥५७।। प्रोचे चित्रमतिश्चित्रमति देवमतेरहो । मया कर्मक्रियागुप्तं कृतमस्त्यवधार्यताम् ॥५८।। परकीयमनायासादभिप्रायं प्रकाशयन् । कुमार स्वर्गतः स्वर्गी भवानिति मतिर्मम ॥५९॥ कुमार प्राह कुं पृथ्वीमाजगामेति ते मतिः । बभाषे भूषणश्चके देव एव किल स्वयम् ॥६०|| तयोविस्मितयोरित्थं कोशाध्यक्षं नृपात्मजः । धनदेवं जगौ देहि दीनाराँल्लक्षमेतयोः ॥६१।। स दध्यौ मुग्धभावेन लक्षमानं न वेत्त्ययम् । दृष्टं करोमि तद्येन पुनर्नाज्ञापयत्यदः ॥६२|| तत्पुञ्जितं पुरो वीक्ष्य गुणचन्द्रो व्यचिन्तयत् । मन्येऽमुष्य मनस्येतद् बहु मे दर्शयत्यदः ॥६३।। तद् बोधायावदल्लक्षमेतावन्मात्रकं भवेत् । तद् द्वयोरनयोर्नालं द्वितीयमपि देह्यदः ॥६४॥ तथैव च तदादेशे कोशाध्यक्षेण निर्मिते । जातौ चित्रकृती चित्रभृतौ तत्त्यागरागतः ॥६५|| कालज्ञस्य स्वयं शत्रुवर्गे कालसधर्मणः । मध्याह्नकालमेतस्याऽऽचख्यौ कालनिवेदकः ॥६६।। मध्यस्थः पुरुषोऽवश्यं विश्वस्योपरि जायते । आख्यानिवेदमारोहन्नभोमध्यं नभोमणिः ॥६७|| देवमज्जनमेदिन्यां देवमज्जनसज्जधीः । वारवेश्याजनश्चागादुत्क्षिप्तस्वर्णकुम्भयुक् ॥६८॥ अथोत्थाय कृतस्नानभोजनः शयनीयगः । दध्यौ शङ्खायनसुताकन्यायोगो नयोचितः ॥६९।। इति चिन्तयतस्तस्याऽऽस्थानवेला समाययौ । निविष्टस्य सदस्येत्य वयस्याः समुपाविशन् ॥७०।। अथ विद्याधरद्वन्द्वमालिखन् नृपनन्दनः । तच्च पश्यत्युपायातौ तौ चित्रमतिभूषणौ ॥७१।। नत्वोचतुश्च तौ देव ! किमिदं सोऽवदत्ततः । वीक्षध्वं स्वयमित्युक्त्वाथाऽर्पयच्चित्रपट्टिकाम् ॥७२।। वीक्ष्य तौ विस्मितौ बाढमूचतुश्चित्रकर्मणि । दुःसाधाऽऽराधना भावे देवेन विदधे च सा ॥७३॥ नवस्नेहोत्सुकत्वेन मिथ: स्मेरविलोचनम् । अलङ्घितोचितस्थानमारूढप्रेमभावतः ॥७४|| इदं विद्याधरद्वन्द्वं लिखितं देव यत्नतः । मन्वहे विश्वकर्माऽसि विश्वकर्मसु कर्मठः ॥७५॥ विशेषकम् किं चास्ति चित्रशास्त्रेऽदश्चित्रं यादृक् प्रजायते । ताहग्भावस्य सम्पत्तिध्रुवं चित्रकृतो भवेत् ॥७६।। १. दर्शयत्यतः ख ग घ च । २. इयदेव कथं भवेत् ख ग घ ङ च । १. जाड्यते क । Page #161 -------------------------------------------------------------------------- ________________ ३१५ अष्टमो भवः मन्वहे भाविनं भावं देवस्य प्रियदर्शनात् । तदीदृशमिति श्रुत्वा कुमारः स्मितमातनोत् ॥७७॥ अत्रान्तरे समायातः सन्ध्यायाः सर्वमूषकः । अपठच्च ततस्तारस्वरः कालनिवेदक: ७८|| सराग इव सन्ध्यायामस्ताद्रौ त्वरितं रविः । सङ्केतस्थानवद्देवद्रुमकुञ्ज निषेवते ॥७९॥ रमण्यो रमणीयेषु कृत्वा रमणवेश्मसु । मङ्गल्यवेश्मरत्नानि पूजयन्ति रतिप्रियम् ॥८०।। श्रुत्वेति पितरौ नत्वा पर्युपास्य क्षणं च तौ । वासवेश्मन्युपायातश्चित्ते रत्नवतीं दधत् ॥८१॥ समये जातनिद्रश्च प्रातः स्वप्नेऽयमैक्षत । अर्पितां केनचिन्मालां स्वेन कण्ठे निवेशिताम् ।।८।। तदा प्रभाततूर्याणि प्रहतानि नियुक्तकैः । जजागार कुमारश्चाऽपठन्मङ्गलपाठकः ॥८३।। वियुक्तानां रथाङ्गानां संयोगकरणोद्यतः । निर्वासिततमाः सूर्यकिरणौधो विजृम्भितः ॥८४|| स्मेराम्भोजमुखी भृङ्गीगीतिप्रीतिसमन्विता । नृत्यत्पत्रकरा जज्ञे पद्मिनी सुखदर्शना ।।८५।। श्रुत्वेति मुदितो दध्यौ स्वप्नेनाऽनेन निश्चितम् । भावी रत्नवतीलाभः शीघ्रं प्रातः प्रदर्शनात् ॥८६॥ ध्यात्वेत्युत्थाय नत्वा च पितरावागतः सभाम् । विशालबुद्धिप्रमुखा वयस्याश्च समाययुः ॥८७।। समरादित्यसंक्षेपः समारेभे च तैः सार्धं गोष्ठी गूढचतुर्थकैः । विशालबुद्धिः प्रोवाच पूर्वं गूढचतुर्थकम् ॥८८॥ श्रीमन्तो देशनावाराऽनन्तदर्शितसूक्तयः । जयन्तु मद्गुरोराः कुमारोऽपाठयत्पुनः ॥८९॥ ततः प्रोचे परिज्ञातं श्रीदेवानन्दसूरयः । अथ चित्रमतिः प्राह निजं गूढचतुर्थकम् ॥१०॥ सज्ञानसूक्तयः कर्मनिकरप्रभविष्णवः । श्रेयसे सन्तु नः पूज्याः पुनरूचे च पाठतः ॥९१।। कुमारोऽथाऽवदज्ज्ञातं कनकप्रभसूरयः । प्रोचेऽथ भूषणः पर्षद्भूषणो गूढतुर्यकम् ॥९२।। धर्मवीरत्वसकल: श्रितबान्धवतां श्रितः । श्रीप्रद्युम्नकवेर्नन्द्यात्कुमारोऽपाठयत्पुनः ॥९३।। क्षणं विचिन्त्य च प्राह धर्मबान्धवविकलः । सर्वेऽप्यूचुरविज्ञातं न देवस्याऽस्ति किञ्चन ॥९४|| अथ द्वा:स्थः समेत्याऽऽख्यद्वाहवाहनभूमिकाम् । गतो देवः कुमार त्वामाह्वयत्येहि तल्लघु ॥९५|| अथोत्थाय समारूढस्ताक्ष्यं जिष्णुरिवापरः । समं परिजनेनाऽऽप नृपति नृपवर्त्मनि ॥१६॥ वाहकेलि गतो वाहान्बहूनयमवाहयत् । उचिते समयेऽभ्येत्य पुर्यां चक्रे यथोचितम् ॥९७|| अन्यदा निर्भरोत्कण्ठावशश्चित्रगतामपि । पश्यामीति धिया चित्रेऽलिखद्रलवतीमयम् ॥९८।। मुहुर्दृष्टामिमां चित्रस्थितां चित्तस्थितामपि । समुत्सुकोऽन्तरात्मा मे पुनर्दृष्टुं समीहते ॥९९।। १. सर्वसूचक: ख । Page #162 -------------------------------------------------------------------------- ________________ अष्टमो भवः श्लोकमेतं लिखित्वाऽधो यावदस्ति विलोकयन् । तावत्तत्र समायातौ तौ चित्रमतिभूषणौ ॥ १०० ॥ युग्मम् तौ चित्रपट्टिकां प्रेक्ष्य प्रोचतुर्देव किं न्विदम् । स्मित्वा स प्राह भवतोविज्ञानस्य द्विरुक्तता ॥ १०१ ॥ महाप्रसाद इत्युक्त्वा यावदेतावपश्यताम् । रूपं द्विधाऽपि श्लोकं तावत्ताभ्यां निरीक्षितम् ॥१०२॥ दध्यतुश्च ध्रुवं धन्या सा कन्या बहुमन्यते । कुमारेणाऽपि या चित्रं किं वा योग्या हि सेदृशः ॥ १०३ ॥ देव्या निवेद्यते ह्येतद् ध्यात्वा चित्रमतिर्जगौ । देव रूपमदृष्टं यदित्थमाराध्यतेऽद्भुतम् ॥१०४॥ भूषण: प्रोचिवानीदृश्येवं सा राजकन्यका । धन्याऽवश्यं यदेवं सा देवेन बहुमन्यते ॥ १०५ ॥ तदा द्वाःस्थः समेत्याह कुमारोऽस्ति समागतः । देव गान्धर्विकः सैष कुमारं द्रष्टुमिच्छति ॥ १०६ ॥ आयात्विति कुमारोक्ते विश्वभूतिः समागमत् । अवोचच्च कुमार ! त्वां देव आज्ञापयत्यदः ॥ १०७॥ प्रस्तुते गीतविचारेऽस्त्यस्माकं विभ्रमः स्वरे । कुमारस्तं समागत्य ततोऽपनयतु द्रुतम् ॥१०८॥ स्मित्वा स प्राह देवस्य स्वापत्ये बहुमानिता । गान्धर्वः प्राह नाऽपत्ये बहुमानो गुणेषु तु ॥ १०९ ॥ अवक्तामेवमेतद्धि तौ चित्रमतिभूषणौ । गुणानां हि समग्राणां कुमारे निकषः स्थितः ॥११०॥ १. भवतो ख ग घ ङ च दिरुक्ततः ख । ३१७ ३१८ समरादित्यसंक्षेपः तातादेश इति प्रोच्य कुमारः सौधमासदत् । द्विधा चित्रयुतौ चित्रकृतौ तु स्वगृहं गतौ ॥ १११ ॥ भूषणः प्राह सम्पन्नमात्मीयं हि समीहितम् । तदस्य रूपमालिख्याऽनाख्याय लघु गम्यते ॥ ११२ ॥ आख्याते हि कुमारोऽयं न प्रेषयति नौ लघु । भवत्वेवं परेणोक्ते तौ तमालिखतां ततः ॥११३॥ तद्रूपं खेचरद्वन्द्वरत्नवत्योश्च पट्टिके । कुमारलिखिते लात्वा तौ शङ्खपुरमीयतुः ॥ ११४ ॥ देव्या वृत्तान्तमाख्याय तच्चित्रत्रयमर्पितम् । तयोः कान्तिमती द्वेधा तुष्टाऽदात्पारितोषिकम् ॥११५॥ निरूपयन्ती सा रूपं कुमारस्याऽतिमन्मथम् । दध्यौ विशेषसंस्थानमहो रूपमहोऽप्यहो ॥ ११६ ॥ अतृप्ताऽपि तदालोके वीक्ष्यान्ये चित्रपट्टिके । रूपाऽनुरूपविज्ञानप्रकर्षात् साऽतिविस्मिता ॥११७॥ वाचयित्वा सुतामूर्तेरधः श्लोकमचिन्तयत् । धन्या ममाऽऽत्मजा येत्थं कुमारेणाऽभिलष्यते ॥११८॥ अर्पयित्वा कुमारस्य प्रतिरूपं सुतां प्रति । देव्या मदनमवाख्याऽनुशिष्य प्रेषिता सखी ॥ ११९ ॥ सा गत्वा चार्पयद्रत्नवत्यै तां चित्रपट्टिकाम् । देव्यादेशं समाख्यच्च शिक्षस्वेदं यथा लघु ॥ १२० ॥ रत्नवत्याह कश्चित्रे लिखितः प्राह तत्सखी । चन्द्रेन्द्रविष्णुकामानामेकः कोऽपि भविष्यति ॥ १२१ ॥ रत्नवत्याह निर्लक्ष्मा लोचनद्वयसुन्दरः । सुवर्णवर्णः स्वङ्गाङ्गस्तेभ्यो विसदृशस्ततः ॥ १२२ ॥ Page #163 -------------------------------------------------------------------------- ________________ ३१९ अष्टमो भवः चन्द्रः सलाञ्छनो वज्री सहस्रेक्षणदूषणः । विष्णुः कृष्णः स्मरोऽनङ्गः सख्यूचे स्वयमूह्यताम् ॥१२३।। चिरं निरीक्ष्य सा प्रोचे सखि ! नाऽयममानुषः । वर्धमानवयोऽवस्थो निमेषोचितलोचनः ॥१२४|| सख्यूचे सुष्टु विज्ञातं भवत्या भर्तृदारिके । अहं तु तर्कयाम्येष वरस्तव भविष्यति ॥१२५॥ तदा स्वकार्यमुद्दिश्य सिद्धादेशः पुरोहितः । प्रोवाच संशयो नाऽत्र निःसंदेहं भविष्यति ॥१२६।। श्रुत्वा रत्नवती हृष्टा सख्याहोपश्रुतिः श्रुता । तद्वाक्यं बहु मत्वाऽथ समारेभे निरीक्षितुम् ॥१२७।। आनीते चित्रसुन्दर्योपस्करे चित्रकर्मणः । तदवस्थं समालेख्य प्रैषीन्मदनमञ्जुकाम् ॥१२८।। सा गत्वा चार्पयित्वा च महिष्यै चित्रपट्टिकाम् । उवाच रत्नवत्युक्तमयमाराधितो न वा ॥१२९।। देवी तं वीक्ष्य दध्यौ च प्रतिच्छन्दादयं वरः । कुमाराऽऽलिखितां रत्नवतीमूर्तिमथैक्षत ॥१३०॥ मिथुनं चाऽनुरूपं तद्वीक्ष्योचे महिषी मुदा । गत्वाऽऽख्याहि हलेऽत्यन्तं भवत्याराधितो ह्ययम् ॥१३१।। पारितोषिकमेतत्ते यत्तेनाऽऽराधितो ह्यलम् । रूपेणाऽप्रतिरूपेण सश्लोकेन द्विधाऽमुना ॥१३२॥ अन्यच्च सर्वदाऽप्येतदाराधनपरा भवेः । इत्युक्त्वाऽदर्शयद् गत्वा तस्याः सा चित्रपट्टिके ॥१३३।। समरादित्यसंक्षेपः ऊचे च मद्वितर्कोऽयं वरो भावीति नाऽनृतः । ततो रत्नवती वीक्ष्य चित्रं श्लोकमवाचयत् ॥१३४।। मुदा रत्नवती प्राह किमिहाऽऽलिखितास्म्यहम् । सख्याह लिखिता किं वा संक्रान्ता ज्ञायते न तत् ॥१३५।। प्राह रत्नवती कः स्यादूचे मदनमञ्जुका । अयं सर्वकलाऽम्भोधिः कश्चित्त्वय्यनुरागवान् ॥१३६।। आह रत्नवती रागः किमदृष्टेऽपि सम्भवेत् । सख्याह त्वं हि चित्रस्था तेन दृष्टा भविष्यसि ॥१३७।। पुना रत्नवती प्राह रागश्चित्रेऽपि किं भवेत् । सख्याहाऽऽकृतिमाहात्म्यात् स्याद्रागोऽस्मिन् यथा तव ॥१३८॥ स्मित्वा निरश्वसीदेषा सख्यूचे मा स्म संतपः । अवश्यं युज्यते स्वामिन्यनेनेति मनो मम ॥१३९|| रत्नवत्याह भाग्यं मे क्वेदृक् चिन्तामणिप्रदम् । स्फुरता वामनेत्रेण निश्चिते परितोषमैत् ॥१४०।। अथैत्य प्रियमेलाऽऽख्या चेटी प्राहाऽऽदिशत्यदः । देवी भोजनवेलाऽभूदभ्यर्णावश्यकं कुरु ॥१४॥ सोत्थाय देवान् सम्पूज्य विधाय विधिनाऽशनम् । कुमारस्य प्रतिच्छन्दं करे कृत्वा व्यचिन्तयत् ॥१४२॥ रुचिरं धैर्यलालित्यमङ्गन्यासश्च सुन्दरः । दृष्टिः सलवणा भावः प्रगल्भः सत्त्वमुद्भटम् ॥१४३॥ अहो नरविशेषः स्यादीदृशोऽपि महाद्भुतः । इत्थं यान्ति दिनास्तस्याः कुमारगुणकीर्तनैः ॥१४४।। इतो रत्नवतीरूपदर्शनस्य विनोदतः । कुमारगुणचन्द्रस्याऽप्येवं गच्छन्ति वासराः ॥१४५॥ १. तमालेख्य ख । २. भव ङ भवे क ख ग घ च । Page #164 -------------------------------------------------------------------------- ________________ ३२१ ३२२ अष्टमो भवः ज्ञात्वा कुतोऽपि वृत्तान्तं तं मैत्रीबलभूपतिः । प्रैषीच्छङ्खायनसुतां याचितुं वरकान् निजान् ॥१४६।। इतो रत्नवती गाढोद्विग्नाङ्गीकृतशून्यता । स्मरज्वरभराऽऽकान्ता सख्याख्यातशिरोव्यथा ॥१४७॥ शयनीयगता मुक्तमाना पाण्डुकपोलभृत् । सास्त्रदृष्टिरलब्धाशा यावदस्ति क्षणाऽन्तरम् ॥१४८॥ युग्मम् तावदुत्फुल्लनेत्रत्य प्रोचे मदनमञ्जुका । स्वामिनि ! त्वं चिरं जीव पूर्णास्तव मनोरथाः ॥१४९।। यन्मया तर्कितं तच्च तथैव समजायत । स हि चित्रप्रतिच्छन्दो वरस्तव वरोऽजनि ॥१५०॥ सांप्रतं हि किमेतेन रतप्रत्यूहकारिणा । इतीव तस्यै संतुष्टा कटिसूत्रमदात्तदा ॥१५१॥ अपृच्छच्च कथं सोचे गता देव्यन्तिकेऽस्म्यहम् । दृष्टा देवी च हृष्टाऽऽस्या सचित्रमतिभूषणा ॥१५२।। ऊचे च मत्सुतां ब्रूहि पूर्णास्तव मनोरथाः । कुमारगुणचन्द्राया दत्ता त्वमसि याचिता ॥१५३|| यस्त्वयाऽऽराधिताश्चित्रे स एव विधिना वरः । परितुष्टेन ते दत्तोऽकृतदारपरिग्रहः ॥१५४॥ हृष्टाऽथ रत्नवत्यस्यै ददौ सर्वाङ्गभूषणम् । ध्यात्वेतीव स सर्वाङ्गे भविता मम भूषणम् ॥१५५|| ऊचे च सत्यसंज्ञोऽयं गुणचन्द्रो यतोऽमुतः । मम व्यपगतस्तापो गृहिणीशब्दमात्रतः ॥१५६।। समरादित्यसंक्षेपः सख्यूचे भणितं देव्या वन्दस्व गुरुदेवताः । मज्जित्वाऽथ विभूत्या सा गुरुदेवानवन्दत ॥१५७|| शङ्खायननृपेणाऽथ कृत्वा वर्धापनं वरम् । प्रैषि रत्नवती साम्बा महाभूत्या स्वयंवरा ॥१५८|| मासमात्रेण कालेन सैता ज्ञाततदागमः । तुष्टो मैत्रीबलो बन्धमोक्षादिकमकारयत् ॥१५९।। प्रतिपत्तिः कृता योग्या मुहूर्तश्च निरीक्षितः । विवाहस्याऽनुरूपं च समग्रमपि कारितम् ॥१६०॥ हट्टशोभा समारब्धा द्रव्यं दीनेषु दापितम् । कोशपत्रं समाकृष्याऽऽभरणादि निरूपितम् ॥१६॥ हास्तिकाश्वीयरथ्याढ्योऽभवद्धवलमङ्गलः । कुमारोऽथ समारोहदुपवाह्यं महागजम् ॥१६२।। पृष्ठे विशालबुद्ध्याद्या वयस्यास्तस्य तस्थिरे । रथाश्वादिसमारूढो राजलोकोऽखिलोऽपि च ॥१६३॥ नन्दन्मङ्गलतूर्योऽथ नृत्यद्दारवधूजनः । नन्द्यमानश्च पौरीभिरागाद्विवाहमण्डपम् ॥१६४|| प्रयुज्य च विधि सर्व प्रेषितोऽथ वधूगृहम् । अपश्यच्चित्रतो रम्यां रतेरपि मनोहराम् ॥१६५।। ईषल्लम्बाधरां चक्रयुग्मतुल्यपयोधराम् । त्रिवलीकलितां मध्ये पल्लवाऽऽभकरदयाम् ॥१६६।। नितम्बबिम्बपृथुला स्थलाम्भोजनिभकमाम् । सर्वाङ्गसुन्दरां रत्नवतीं नृपतिनन्दनः ॥१६७|| विशेषकम् १. स एवांगे क । १. this verse is wanting in ख ग घ । Page #165 -------------------------------------------------------------------------- ________________ ३२३ ३२४ अष्टमो भवः हृष्टः पाणिग्रहं तस्याः सिद्धदेशगिराऽकरोत् । भ्रान्तानि मङ्गलान्युच्चैराचारश्चाखिलः कृतः ॥१६८।। तामादाय समायातः कुमार: सदनं निजम् । सर्व समुचितं चक्रेऽथाऽपठत्कालपाठकः ॥१६९।। समाप्य जगदुद्द्योतकृत्यं भ्रान्त्वाऽखिलं दिनम् । जगाम मज्जितुमिव तरणिवरुणालयम् ॥१७०।। प्रदोषदुर्जने मित्रप्रध्वंसेन प्रसृत्वरे । मिथुनानि रथाङ्गानां भियेव व्यघटन्मिथः ॥१७१॥ नभ:श्रियान्तिकस्थेन्दुप्रियसङ्गमया किल । दिन श्रीमानभङ्गाय ताराभरणामाददे ॥१७२।। प्राचीवधूमुखं तोषेणेव श्यामामुखाद्भुवा । इन्दुः समुदगाज्ज्योत्स्नानिवहेन प्रकाशयन् ॥१७३।। विजृम्भितसुरागन्धं प्रकाशर्भमणिव्रजम् । चन्द्रोज्ज्वलं जगज्जज्ञे क्षीरोदमथने यथा ॥१७४।। तदा समागतो हृष्टः कुमारो वासवेश्मनि । यत्र रत्नवती देवतेवाऽस्ति सपरिच्छदा ॥१७५।। निर्गतेऽथ सखीवर्गे स्नेहतः कूरसूपवत् ।। मिलितं तत्तथा युग्मं यथा भेदो न लक्ष्यते ॥१७६।। क्षणदा क्षणदा जज्ञे तयोः प्रथमसङ्गमे । चित्रं तु क्षीयमाणाऽपि क्षणदात्वं मुमोच न ॥१७७।। प्रदत्तचित्तनिर्वेदः स्त्रीणां प्रियवियोगतः । निनदः कृकवाकूणां प्रासरद्वन्दिनामपि ॥१७८।। समरादित्यसंक्षेपः निशानाथो निशावध्वा वियोगेन भविष्यता । आकुलः कलयामास किल निष्कलतां तदा ॥१७९।। ध्वान्तारातिरथ ध्वान्ते प्रतिघादिव पाटलः । उदयाचलचूलायामारुरोह महोद्यमः ॥१८०|| रथाङ्गमिथुनान्यासन् संयोगे सुस्थितान्यथ । मित्रस्याभ्युदयः कस्य न स्यादथ सुखप्रदः ॥१८१॥ कुमारगुणचन्द्रोऽथ कृतप्राभातिकक्षणः । गत्वोद्याने चिरं रत्वा सप्रियः पुनराययौ ॥१८२।। इति प्रतिदिनं रत्नवत्या सह मनोहरम् । तस्याऽनुभवतः सौख्यं कालः कोऽपि व्यतीयिवान् ॥१८३।। उद्वृत्तोऽथान्यदा तस्य नृपतेविग्रहो नृपः । विक्षेपः प्रेषितस्तेनाऽविक्षेपेण विनिजितः ॥१८४|| सैनिकैापितश्चैत्याचल-मैत्रीबलः स्वयम् । कुमारेणाथ विज्ञप्तः कीदृग् द्वेधाऽपि विग्रहः ॥१८५।। संरम्भेणाऽलमेतेन तातादिश ततोऽत्र माम् । लभतां तातकोपाग्नावयं शलभतां द्रुतम् ॥१८६|| प्रेषितोऽथ नृपेणैष मुक्त्वा रत्नवतीमगात् । यथासन्नेन सैन्येन सहितो रहितो भिया ।।१८७।। विग्रहो विग्रहे मत्वा कुमारं स्वयमागतम् । तस्थौ दुर्गमधिष्ठाय बिलं कुलिशदन्तवत् ॥१८८।। माययेव महायन्त्रं त्रिस्तं संवेष्ट्य सेनया । चित्रं हीनबलं चके कुमारो नवमान्त्रिकः ॥१८९|| १. क्षणवज्जज्ञे ख । १. ततोथमां ख । Page #166 -------------------------------------------------------------------------- ________________ अष्टमो भवः ३२५ ३२६ समरादित्यसंक्षेपः दध्यौ च नैवमप्येष हतो मेऽधन्यता ततः । गत्वाऽयोध्यां हतं वच्मि लोक: शोचति तं यथा ॥२०२।। स्यादस्याऽपकृतं हन्त कृतेनैतावताऽपि हि । चिन्तयित्वेत्ययोध्यां स गन्तुं प्रावर्तताऽधमः ॥२०३॥ इतश्च विग्रह: प्रोक्तः कुमारेणाऽयुधं कुरू । स प्रोचे नोचितं शस्त्रग्रहणं स्वामिनं प्रति ॥२०४|| युध्यमानान्निषिध्याऽथ सामन्ताशपथैनिजैः । प्रवेशं कणतृण्यादेनिरुध्य च समन्ततः ॥१९०॥ विशालबुद्धिमादिश्य देशस्य परिपन्थने । स्थलस्थितः स्वयं तस्थौ स्वस्थान इव सुस्थितः ॥१९१।। युग्मम् अन्यदा च परिभ्राम्यन् समेतो वानमन्तरः । कुमारं वाहकेलिस्थं वीक्ष्य क्रुद्धो व्यचिन्तयत् ।।१९२।। धीर एव दुराचारो मया हन्तुं न शक्यते । तद्विग्रहस्य साहाय्यं कृत्वाऽस्याऽपकरोम्यहम् ॥१९३।। ध्यात्वेति विग्रहावासं गतः पृष्टश्च तेन सः । हेतुमागमने प्राह साहायककृते तव ॥१९४।। गुणचन्द्रो हि मे वैरी छुटितोऽर्धहतः पुरा । अधुना तु सहाऽनेन नयेऽन्तं तव विग्रहम् ॥१९५।। विग्रह: प्राह मां तत्र गुणचन्द्रान्तिके नय । यथा समापयाम्यस्य विग्रहं स्वयमप्यहम् ॥१९६।। नीतोऽथ विग्रहस्तेन खेचरेणाऽऽत्मपञ्चमः । विद्याबलात्कुमारस्य वासवेश्म प्रवेशितः ॥१९७॥ दृष्ट्वा सुप्तं कुमारं स विग्रहः प्राह विग्रहम् । कृत्वा समं मया शेषे समुत्तिष्ठाऽऽयुधं कुरु ॥१९८।। साधु साध्विति तं जल्पन् कुमारः खड्गमग्रहीत् । उत्थितानङ्गरक्षांश्च स्वद्रोहेण न्यषेधयत् ॥१९९|| वञ्चयित्वाऽस्य घातं च विशस्त्रं तं विधाय च । कुमारः पातयामास केशेष्वाकृष्य विग्रहम् ।।२००|| पातिताश्च भटास्तस्य यामिकैस्तुमुलोऽभवत् । कुमारो जयतीत्युच्चैः प्रनष्टो वानमन्तरः ॥२०१।। ततः स्वसेवया देवः प्रसादं कुरुतां मयि । कुमारः प्राह तातस्ते स्वामी भ्राताऽसि मे महान् ॥२०५।। तत्तातान्तिकमागच्छ विग्रह: प्रतिपद्य तत् । चक्रे वर्धापनं दुर्गमुदवेष्टत भूपभूः ॥२०६।। विग्रहे विनिवृत्तेऽपि विग्रहेण समन्वितः । विग्रहज्ञः पुरीं गन्तुं प्रवृत्तः स सुविग्रहः ॥२०७।। तदा च गुणचन्द्रस्य बोधाय व्योमवर्त्मना । चतुर्ज्ञानधरः साधुधुरन्धरसमावृतः ॥२०८।। क्रियास्वशिथिलाचार: पुरा च मिथिलाधिपः । सूरिविजयधर्माख्यो धर्माख्योद्दाम आययौ ॥२०९।। युग्मम् गुणचन्द्रः परिज्ञाय निजात् परिजनादमुम् । सुस्थितं स्थितमुद्याने गुणसम्भवनामनि ॥२१०|| विग्रहेण प्रधानेन सार्धं परिजनेन च । अत्युकुण्ठसमुत्कण्ठः शुश्रूषितुमुपागतः ॥२११॥ युग्मम् नतस्तं सपरीवारममुना धर्मलाभितः । उपाविक्षदयं दक्षः सहितो विग्रहादिभिः ॥२१२।। १. सप्राह ख ङ च । Page #167 -------------------------------------------------------------------------- ________________ अष्टमो भवः ३२७ ३२८ तदैत्य सहसा कोऽपि दिव्यरूपधरो दिवः । विद्याधरोऽनवद्यात्मा गुरुं नत्वा च सोऽवदत् ॥२१३।। विभो त्वया यः कनकपुरस्वामिपुर: पुरा । उक्तो मार्गप्रपत्त्याद्यो वृत्तान्तः स्वो महाद्भुतः ॥२१४।। ओघेन स श्रुतो लोकात्तच्छ्रुतौ कौतुकं मम । तच्चेन्न धर्मप्रत्यूहस्तदाख्याहि प्रसादतः ॥२१५|| तथैव गुणचन्द्रेण कुमारणाऽपि भाषिते । विभुर्वृत्तान्तमात्मीयमाख्याति स्म तयोः पुरः ॥२१६॥ अस्त्यत्र भरतक्षेत्रे मिथिला नामतः पुरी । तस्य विजयधर्माऽऽख्यो बभूवाऽहं महीपतिः ॥२१७।। ममाऽग्रमहिषी चन्द्रधर्मा नाम्नाऽतिवल्लभा । केनाऽपि मन्त्रसिद्धेन सा मन्त्रविधये हता ॥२१८।। ततो विजयदेव्या मे वृत्तान्तोऽयं निवेदितः । श्रुत्वेति तस्यां मोहेन महामोहं गतोऽस्म्यहम् ।।२१९।। श्रीखण्डद्रवसिक्तोऽथ तालवृन्तैश्च वीजितः । सदुःखं वारवेश्याभिः कथञ्चिदपि बोधितः ॥२२०॥ मम दु:खजुषस्त्रीणि दिनानि व्यतिचक्रमुः । परित्यक्ताऽन्नपानादिदेवपूजादिकर्मणः ॥२२१।। चतुर्थे दिवसे तीव्रतपोनिष्टप्तविग्रहः । आगाज्जटाधरो मन्त्रसिद्धो भूतिविभूषितः ॥२२२।। ऊचे च नृपते कस्मादाकुलः कुलभूषणः । मयामन्त्रविधानाय तव नीता नितम्बिनी ॥२२३।। आचारश्चाऽत्र याचित्वा प्रथमं नैव नीयते । तस्या न पीडा देहस्य शीलस्य च कदाचन ॥२२४|| समरादित्यसंक्षेपः न संतप्यं त्वया षण्णां मासानामन्तरे तया । योक्ष्यसे त्वमिति प्रोच्य मन्त्रसिद्धस्तिरोदधे ॥२२५।। ज्ञात्वेति विरहं दीर्घ मूर्छित्वाऽऽश्वासितः पुनः । तस्थौ तदा नवनवैविलापैविलपन्नहम् ॥२२६।। इत्थं च नारकस्येव पल्योपमसमा मम । महादु:खाद् व्यतिक्रान्ता मासाः पञ्च कथञ्चन ॥२२७।। अन्यदा च ममाऽकस्मात्प्रमोदो हृदि जृम्भितः । अर्हदागममाख्यच्च मम वर्धापकस्तदा ॥२२८।। दत्त्वा यथोचितं तस्य नत्वा तत्र स्थितो विभुम् । नाथं त्यक्तभवोन्माथं सर्वा नन्तुमागमम् ॥२२९॥ दृष्ट्वा समवसरणं प्राकारत्रयसुन्दरम् । उत्तीर्य द्विरदाद् द्वारोत्तरया तत्र चाऽविशम् ॥२३०।। नत्वा जिनेन्द्रमुद्दामप्रमोदोद्भूतकण्टकः । मारेभे सिंहमारेभे स्तोतुं भून्यस्तमस्तकः ॥२३१|| जय त्रिभुवनाधीश ! जय त्रिदशपूजित ! । जय त्रिदोषनिर्मुक्त जय त्रिज्ञानवज्जने ॥२३२।। जय क्रोधदवाम्भोद ! जय मानाचलाशने ! । जय मायालतापर्टी ! जय लोभाब्धिकुम्भज ! ॥२३३|| विषयः पुरतो भूत्वा कृष्टो निजगुणैरहम् । कषायैः प्रेरितः पृष्ठे पतितोऽस्मि भवावटे ॥२३४|| ज्ञानदर्शनचारित्रगुणत्रितयगाढया । गिरा वरत्रयाऽऽकृष्य नय मां शिवभूमिकाम् ॥२३५।। १. त्रिज्ञानवजित ङ । Page #168 -------------------------------------------------------------------------- ________________ ३२९ ३३० अष्टमो भवः जगद्वैद्य ! कृपां कृत्वा कर्माऽजीर्णं क्षिणु क्षणात् । पथ्यां निजगिरं दत्त्वा तपस्तप्ताऽम्भसा समम् ॥२३६।। भ्राम्यन्भवेष्टिकापाके दष्टो मोहमहाग्निना । मूर्छितोऽहमुपेक्ष्यो न जगज्जाङ्गलिक त्वया ॥२३७।। कषायैः करपादाद्यैश्छिन्नैरपि हि रोहति । मत्कर्मरिपुमानस्योत्तमाङ्ग छिन्द्धि तन्मनः ॥२३८॥ मन्मनो विध्यते भ्राम्यद् बहिविषयकण्टकैः । तद्देहि चरणत्राणं जिनेश ! निजदर्शनम् ॥२३९।। इति स्तुत्वा जगन्नाथं नत्वा गणधराधिकान् । साधूनिन्द्रादिकान्देवान्यथोचितमुपाविशम् ॥२४०।। ततो विभुर्भवाम्भोधिनिस्तारणतरीनिभाम् । शुद्धकाष्ठाश्रयां कर्तुमारेभे धर्मदेशनाम् ।।२४१|| अनाद्यनन्तो जीवोऽयं कर्मणाऽनादिना युतः । पापेन जायते दु:खी धर्मेण सुखितः पुनः ॥२४२।। धर्मश्चरित्रधर्मोऽयं श्रुतधर्माद्विजायते । स कषच्छदतापैश्च शुद्धो ज्ञेयः सुवर्णवत् ॥२४३|| सर्वप्राणातिपातादिपापस्थाननिषेधनम् । सध्यानाऽध्ययनादीनां विधिर्धर्मकषो मतः ॥२४४|| बाह्यक्रियाकलापेन येनाऽयं नैव बाध्यते । शुद्धश्च जायते छेदः स धर्मकनके मतः ॥२४५।। जीवादिभाववादो यो बन्धमोक्षप्रसाधकः । स धर्मजातरूपेऽत्र ज्ञेयस्तापो मनीषिभिः ॥२४६।। त्रिभिरेभिर्विशुद्धो यः स धर्मो धर्म उच्यते । अविशुद्धस्त्रिभिर्यः स फलकालेऽन्यथा भवेत् ॥२४७।। समरादित्यसंक्षेपः समग्रपुरुषार्थेषु धर्मो हि प्रथमो मतः । यस्तत्र वञ्चितः सर्वकल्याणेषु स वञ्चितः ॥२४८|| कल्याणकामिना तस्मात्सर्वकल्याणकारणम् । कल्याणवत्परीक्ष्येष ग्राह्यः कल्याणभाषितः ॥२४९।। रत्नत्रयमयं तस्मादादायाऽमुं मयोदितम् । सफलं मानुषं जन्म विधत्ताऽत्यन्तदुर्लभम् ॥२५०।। श्रुत्वेति केऽपि संविग्नाः श्रमणत्वं प्रपेदिरे । केऽपि श्रावकतां केऽपि सम्यग्दर्शनमेव तु ॥२५१॥ तदा च समवसृतौ वीक्ष्य देवी व्यचिन्तयम् । क्वैषाऽत्र मन्त्रसिद्धस्य ततश्च वचनं स्मृतम् ॥२५२।। पृच्छामि च जिनं चक्रे किमयं प्राग्भवे मया । देवीविरहजं दु:खं यतो जातं सुदारुणम् ॥२५३।। ततो नत्वा मया पृष्टो मम प्राक्कर्मदूषणम् । सर्वं सर्वविदां मुख्यः समाख्यातुं प्रचक्रमे ॥२५४|| विन्ध्याऽद्रौ शिखरे सेनो नाम्ना शबरनायकः । त्वमभूः प्रेयसी चेयं श्रीमती नामतस्तव ॥२५५।। अत्रस्नुर्विषये गृध्नुः क्षिप्नुः श्वापदसन्ततेः । धृष्णुजिष्णुः स्वभावेन समभूः शमभूर्न तु ॥२५६।। तेव वल्कदुकूलाऽऽढ्या गुञ्जाफलविभूषणा । भ्रान्ता कान्ताऽपि कान्तारे परिश्रान्ता त्वया सह ॥२५७|| अन्यदा च निदाघार्तावनार्तस्त्वं तया समम् । विषयानुपभुञ्जानो यावदास्से वनान्तरे ॥२५८॥ १. तावत् for तव ख ग घ । Page #169 -------------------------------------------------------------------------- ________________ अष्टमो भवः तावत्तत्र समुद्देशे पथभ्रष्टः परिभ्रमन् । क्षुधा तृषा परिक्षीणः साधुगच्छः समागमत् ॥ २५९ ॥ सानुकम्पं त्वया पृष्टाः साधवः किं वनान्तरे । परिभ्रमत ते प्रोचुर्महात्मन् ! मार्गतश्च्युताः || २६०॥ श्रीमत्या भणितश्चाऽसि स्वामिन्नेतान्महामुनीन् । उत्तारय वनाद्भीमात्प्रीणीष्व च फलादिना ॥ २६१ || इदं धर्मनिदानं हि प्रदत्तं वेधसा तव । ततस्त्वं जातरोमाञ्चः फलमूलाद्यढौकयः ॥२६२॥ प्रोचे च साधुभिः श्राद्ध कल्पन्तेऽमूनि नैव नः । सिद्धान्ते यन्निषिद्धानि सर्वज्ञैः सर्वदर्शिभिः || २६३|| त्वयोचेऽनुग्रहः कार्यो निर्वेदः स्यान्ममाऽन्यथा । श्रद्धालुत्वमथ ज्ञात्वा साधवस्त्वां बभाषिरे ॥ २६४॥ यद्येवं तर्हि जीर्णानि फलमूलानि देहि नः । शीघ्रं न गह्वरात्तान्यानीय तान् प्रत्यलाभयः ॥ २६५ ॥ कृतार्थं मन्यमानः स्वं सपत्नीकोऽपि तान्पथि । मुनीनस्थापयस्ते तु तवाऽऽख्यन्धर्ममार्हतम् ॥ २६६॥ त्वया ते स्थापिता मार्गे धर्ममार्गे च तैर्भवान् । महतामुपकारो हि सद्यः फलति निर्मितः ॥ २६७॥ सजायोऽपि नमस्कारं पाठितः साधुभिर्भवान् । समादिष्टश्च कर्तव्यमस्मदीयमिदं वचः ॥ २६८ ॥ पक्षस्यैकदिने हित्वाऽऽरम्भं स्थित्वा च निर्जने । स्मर्तव्योऽयं नमस्कारः सारः श्रीमज्जिनागमे ॥ २६९ ॥ दिने तत्र च कश्चिद्वां देहद्रोहं विचिन्तयेत् । कुर्याद्वा तदपि क्षम्यमित्थं स्वर्गो भविष्यति ॥ २७० ॥ ३३१ ३३२ समरादित्यसंक्षेपः इति तैर्ज्ञानिभिः प्रोक्तं युवाभ्यामुररीकृतम् । भावनापावनात्मभ्यां तदाचीर्णं च सर्वदा ॥ २७१ ॥ अन्यदा युवयोरित्थमात्तपौषधपोषयोः । आगात्सिंहः प्रियां त्रातुं भवांश्चापं करेऽकरोत् ॥ २७२॥ ऊचे च भीरु मा भैषीः शरेणैकेन हन्म्यमुम् । सा प्राह नात्र सन्देहः किं तु गौर्बाध्यते गुरोः || २७३॥ त्वयोचे भवतीस्नेहमोहाद्दध्रे धनुर्मया । ततोऽलममुना यत्नं कुरुष्व गुरुभाषिते ||२७४ || पतितो वां स पञ्चास्यो विलिखन्नखरैः खरैः । त्वया सहोढया सोढः क्लीवजीवसुदुःसहः || २७५ ।। नयताऽप्यन्यतो धातृनुपसर्गेण तेन वाम् । गुरुगीरक्षधात्वर्थो निन्ये न त्वन्यतो बलात् ॥ २७६ ॥ मुनी इव क्षमोपेतौ परे तौ दम्पती युवाम् । त्रिदशत्वेन सौधर्मे जातौ पल्योपमायुषौ ॥ २७७॥ इतोऽवरविदेहेऽस्ति गुरुचक्रपुरं खवत् । राज्ञा कुरुमृगाङ्केन मृगाङ्केनेव राजितम् ॥२७८॥ तस्याऽग्रमहिषी बालचन्द्राख्या त्वं दिवश्च्युतः । तदीयकुक्षौ समरमृगाङ्काऽऽख्यः सुतोऽभवः ॥ २७९ ॥ श्रीमती तु नृपश्यालसुभूषणनृपस्त्रियाम् । कुरुमत्यामभूत्पुत्र्यशोकदेवीति नामतः ॥ २८० ॥ उभावपि कलाचार्यात्प्रापथुः सकलाः कलाः । भवनं पञ्चबाणस्य यौवनं च क्रमाद्युवाम् ॥२८१ ॥ १. ततो for इतो ख ङ च । Page #170 -------------------------------------------------------------------------- ________________ अष्टमो भवः दत्ता चाशोकदेवी ते सुभूषणमहीभुजा । दिने प्रशस्ते युवयोर्जज्ञे परिणयोत्सवः ॥ २८२॥ काले सुखमये याति पिता ते पलितेक्षणात् । राज्यं तव वितीर्याऽथ प्रवव्राज प्रियायुतः ॥ २८३|| तेवाऽथ कुर्वतो राज्यं भिल्लत्वभवसम्भवम् । विपाकमागतं कर्म जन्तुजातविघातजम् ॥२८४॥ ततश्च विजयेऽत्रैव भम्भानगरभूभुजा । श्रीबलेन समं जज्ञेऽनिमित्तो विग्रहस्तव ॥ २८५ ॥ सर्वे विघटिता योद्धास्तव श्रीबलमाश्रिताः । युद्धे त्वं निहतस्तेन पञ्चम्यां नारकोऽभवः ॥ २८६ ॥ श्रुत्वा तव मृर्ति कृत्वा निदानं त्वद्भवाऽनुगम् । पञ्चम्यां नारको जज्ञे सशोकाशोकदेव्यपि ॥२८७॥ तत्र सप्तदशाम्भोधीनायुवां दुःखतो गतम् । अथोद्धृत्य युवां जातौ पुष्करार्धस्य भारते ॥२८८॥ दरिद्रकुलयोः पुत्रपुत्रीरूपतया क्रमात् । युवत्वे युवयोर्जज्ञे विवाहः स्नेहशालिनोः ॥ २८९ ॥ अन्यदा स्वगृहा स्थाभ्यां युवाभ्यां यतिनीयुगम् । वीक्षितं प्रतिलाभ्यैतत्पृष्टं कुत्र व आश्रयः ॥ २९०॥ वसुश्रेष्ठिगृहासन्ने तदाख्याते प्रतिश्रये । गृहीतफुल्लावुत्फुल्लनयनौ च गतौ युवाम् ॥ २९९॥ दृष्टा च गणिनी तत्र सुव्रता सुव्रताऽभिधा । जन्तूनां यद्वचः क्षीरात्तुष्टिः पुष्टिश्च जायते ॥ २९२ ॥ १. तव प्रकुर्वतो क । ३३३ ३३४ समरादित्यसंक्षेपः यस्या एकादशाङ्गानि महार्थभरभाञ्ज्यपि । अद्भुतं रसनाग्रेऽस्थुः कमलोदरसोदरे ||२९३ || ताभ्यां सपुलकाभ्यां सा वन्दिता व्यतरत्तयोः । धर्मलाभाशिषं तौ चाऽवोचत्पेशलया गिरा ॥ २९४|| भद्रौ जिनाग्रतः पुष्पवृष्टिरत्र विमुच्यताम् । विमुच्येथां यथा कारागारात्संसारवासतः ॥ २९५ ॥ तथा कृत्वा युवामेत्याऽभिवन्द्य गणिनीं पुनः । निविष्टौ कथितौ साध्व्या गोचराग्रप्रविष्टया ॥ २९६ ॥ धर्मश्रद्धालुकावेतौ परिपृच्छ्य प्रतिश्रयम् । पार्श्वेऽस्माकं जिनेन्द्राणां वन्दनार्थमथागतौ ॥ २९७॥ गणिन्यूचे कृतं चारु धर्मिकौ यदिहागतौ । जन्तूनां दुःखतप्तानां शरणं धर्म एव हि ॥ २९८ ॥ स च सत्यो मनुष्यत्वे तच्च स्वप्नवदस्थिरम् । तत्रापि विषयी ज्ञेयश्चन्दनाङ्गारकारकः ||२९९ ॥ धर्माद्धि सर्वसौख्यानि सशाश्वतपदान्यपि । स चार्हद्भिः स्मृतैर्दृष्टैरचितैर्वन्दितैर्नुतैः ॥ ३००॥ तयाऽऽख्यातं युवां धर्मं प्रपेदाथे जिनोदितम् । मधुमांसनिवृत्तिश्च विहिता स्वहितावहा ||३०१ || प्रस्थितौ दम्पती गेहं गणिन्या भणितौ युवाम् । अत्राऽऽगत्य सदा धर्मः श्राव्यो दुःखनिषूदनः || ३०२ || प्रतिपद्येति कुर्वन्तौ युवामभवतां क्रमात् । सुश्राद्धौ ब्रह्मलोके च जातावायुः क्षये सुरौ ||३०३॥ १. श्रव्यो in all Mss. । Page #171 -------------------------------------------------------------------------- ________________ अष्टमो भवः ३३५ ३३६ समरादित्यसंक्षेपः तत्र साधिकसप्ताब्धीनायुः सम्पूर्ण्य तच्च्युतौ । युवां नृपतिगेहेषु जज्ञाथे अत्र जन्मनि ॥३०४|| तद्भिल्लत्वेऽर्जितं कर्म क्षपितं नरके बहु । शेषं क्षुद्रमनुष्यत्वे तच्छेषमधुना पुनः ॥३०५।। तत्पापकर्मणामत्र मत्वा वीपाकमीदृशम् । तथा कुरु यथा नैव दुःखान्याप्नोषि साम्प्रतम् ॥३०६॥ इत्याकर्ण्य मया साधं देव्या परिजनेन च । प्रतिपन्नं व्रतं सैष वृत्तान्तः प्राक्तनो मम ॥३०७।। श्रुत्वेति पर्षत् संविग्ना गुणचन्द्रो गुरुं जगौ । प्रभोः प्रभावतो धर्मो मया ज्ञातो यथातथः ॥३०८।। ततो देहि गृहस्थत्वस्योचितानि व्रतानि मे । इत्युक्ते विग्रहेणाऽपि द्वयोरपि ददौ प्रभुः ॥३०९।। तौ भावश्रावको भक्त्या गुरुं प्राणमतां ततः । गुरुणा गुणचन्द्रस्तु भाषितो बहुमानतः ॥३१०॥ कुमार तव बोधाय गतो रत्नपुरादहम् । संजातश्चैष तत्तत्र याम्युन्मुखयतिव्रजे ॥३११।। अयोध्यायां पुनर्भावि भवता सह दर्शनम् । भाव्यं दृढव्रतेनोच्चैरादेश इति सोऽवदत् ॥३१२।। गुरुः ससाधुरप्यभ्रगत्या प्रचलितस्ततः । एताभ्यां वन्दितो दूरं वीक्षितश्चातिभक्तितः ॥३१३।। तस्मिंश्चादर्शनीभूते तावयोध्यां पुरीं प्रति । ससैन्यौ चलितौ हर्षकलितौ धर्मलाभतः ॥३१४|| इतश्च गत्वाऽयोध्यायां खेचरो वानमन्तरः । चके कैतवतो वाता कुमारस्य परिग्रहे ॥३१५।। कुमारो निहतो युद्धे विग्रहेणेति सा कमात् । श्रुता मैत्रीबलेनैष न श्रद्धत्ते स्म तां पुनः ॥३१६।। श्रुत्वा रत्नवती त्वेनां मूर्छिता पतिता भुवि । आश्वासिता परिजनेनाऽलं बाष्पमुचा शुचा ॥३१७|| राज्ञो निवेदितेऽत्रार्थे तत्र राजा समागतः । तया वहिप्रवेशाय विज्ञप्तः प्रोचिवानिति ॥३१८।। अश्रद्धेयमिदं तन्मा कार्षीरविधवे शुचम् । गोमायुना दृढेनाऽपि पञ्चास्यो न विनाश्यते ॥३१९।। त्वयि पुत्रं कुमारस्य सिद्धादेशो दिशत्यलम् । दृष्टश्च कुशलस्वप्नो मया मे नाकुलं मनः ॥३२०॥ कुमारस्य च नोत्पातः कोप्यभूदभिषेणने । तवावैधव्यलक्ष्मीश्चाविपन्ना शिवमेव तत् ॥३२१॥ केनाऽपि हि कुमारस्य मन्ये प्राग्भववैरिणा । कृता कैतववार्ताऽसौ तत् त्यजैनमसद्ग्रहम् ॥३२२॥ इदमित्थमथो दैवं यदि सत्यं विधास्यति । ततस्त्वमाकुला कस्मादस्माकमपि सा गतिः ॥३२३|| प्रेषितः पवनगतिनामाऽऽस्ते लेखवाहकः । पञ्चदिन्यागते तत्र करिष्यामो यथोचितम् ॥३२४|| अर्वाक् पुनर्न संतप्यमथ रत्नवती जगौ । तातादेशः प्रमाणं मे किञ्चिद्विज्ञपयामि तु ॥३२५।। करोमि शान्तिकर्माऽहं पूजयामि च देवताः । यावत्कुशलवार्तेति तावदुज्झामि चाऽशनम् ॥३२६।। राज्ञोचे कुर्विदं वत्से ! प्रसाद इति साऽवदत् । त्वं भवाऽविधवेत्युक्त्वाऽगमन्मैत्रीबलो नृपः ॥३२७।। Page #172 -------------------------------------------------------------------------- ________________ ३३७ ३३८ अष्टमो भवः प्रारब्धं चानया सर्व शान्तिकर्म यथोचितम् । दीनादीनां प्रदानानि प्रादात्कल्पलतोपमा ॥३२८॥ दृष्टा च सर्वसम्पत्तिपूजार्थं गतया तया । विचारभूमिव्यावृत्ता निर्विकारा वराकृतः ॥३२९।। युक्ता तप:शमज्ञानैः साध्वीभिः परिवारिता । श्वेतवीस्वामिनः पुत्री कोशलाधिपगेहिनी ॥३३०॥ गणिनी गृहिपर्यायेऽभिधानेन सुसंगता । सुसंगता गुणैः सङ्गतापेन न तु संगता ॥३३१।। विशेषकम् तां वीक्ष्य नत्वा चोवाच दु:खिता भगवत्यहम् । तत्प्रसीद गृहाऽऽगत्या श्रोतुमिच्छामि किञ्चन ॥३३२।। गणिन्याह भवत्वेवं नाऽप्रीतिः कस्यचिद्यदि । सोचे गुरुजन: सर्वो धर्मश्रद्धापरो मम ॥३३३॥ ततो रत्नवतीवाचा गणिनी गेहमागता । कृतोपचारा सा चास्याः पुरतः समुपाविशत् ॥३३४|| अथाऽऽह गणिनी वत्से सर्वे संसारिजन्तवः । दुःखपादपबीजेन जन्मना संगताः खलु ॥३३५।। बाध्यन्ते भोगतृष्णाभिः कदर्थ्यन्ते तथेन्द्रियैः । जरसा चाभिभूयन्ते पच्यन्ते च कुदग्निना ॥३३६|| चूर्यन्ते मानशैलेन मोह्यन्ते दम्भजालतः । छाद्यन्ते मोहतमसा प्लाव्यन्ते लोभवाधिना ॥३३७।। खण्ड्यन्ते च वियोगाद्यैर्ग्रस्यन्ते कालरक्षसा । भ्रम्यन्ते कर्मचक्रेण कवल्यन्ते च मृत्युना ॥३३८|| न केऽपि सुखितास्तस्मान्मुक्त्वा जिनमुनीनिमान् । श्वभ्रतिर्यग्नृदेवत्वगतिष्वखिलजन्मसु ॥३३९|| समरादित्यसंक्षेपः यथा केऽपि रुजाकान्ता निर्विण्णा वेदनावशात् । स्वं निवेद्य सुवैद्यस्य तदुक्तक्रियया स्थिताः ॥३४०॥ बाध्यमाना अपि रुजाऽऽरोग्यलाभस्य निर्वृतः । न दु:खं गणयन्तीह संजातसुखनिश्चयाः ॥३४१। विशेषकम् मुनयोऽपि तथा कर्मरोगसम्पन्नवेदनाः । निवेद्य जिनवैद्यस्य स्वं तदुक्तक्रियाऽन्विताः ॥३४२।। कर्मभिर्बाध्यमाना अप्यारोग्यप्राप्तिनिर्वृत्तेः । न दु:खं गणयन्त्येतन्निर्वाणसुखनिश्चिताः ॥३४३॥ युग्मम् ते ह्यमोहाः ससंतोषाः समीपशिवसम्पदः । सुखिनः परमार्थेन तेभ्योऽन्ये दुःखिनः सदा ॥३४४|| किं च वत्सेऽनया कृत्या निःशेषसुखसंजुषः । किं दुःखं तव नाऽकथ्यं यदि तत्कथ्यतां मम ॥३४५।। तयाऽथ भर्तुरक्षेमवार्तादु:खे निवेदिते । गणिन्यूचेऽस्ति नाऽक्षेमस्तस्येदानी दृढा भव ॥३४६।। जानाम्यविधवाभावं तव स्वरविशेषतः । स्वरमण्डलमेतच्च निःसंदिग्धं जिनोदितम् ॥३४७|| किं च यादृक् परानन्दयोगे भर्तुर्मूगीदृशः । स्वरः संभवतीदानी तादृशस्तव धामिकि ॥३४८।। त्वत्प्रत्ययनिमित्तं च शास्त्रस्थं वच्मि किञ्चन । एवंविधस्वरा नारी गुह्ये मखवती भवेत् ॥३४९।। एवमेतदसौ प्रोच्य प्रोचे पृच्छामि किञ्चन । विपाकः कर्मणः कस्य जज्ञे भगवतीदृशः ॥३५०।। १. मषवती ख ग घ ङ । Page #173 -------------------------------------------------------------------------- ________________ अष्टमो भवः गणिन्यवोचदज्ञानस्याऽल्पस्येदं विजृम्भितम् । अल्पेन कर्मणा यच्च मयाऽऽप्तं शृणु तन्ननु ॥३५१|| समस्ति कोशलाधीशो नरेशो नरसुन्दरः । तस्याऽत्र जन्मपर्याये संजज्ञे धर्मपत्न्यहम् ॥ ३५२ || अन्यदा वाहकेल्यां स वाहेनाऽपहतोऽपतत् । अटव्यां तत्र चापश्यदपूर्वी कामपि स्त्रियम् ॥३५३|| तया प्रोक्तो महाराज ! स्वागतं ते निविश्यताम् । राजा प्रोवाच काऽसि त्वं प्रदेशश्चैष को वद ||३५४ || सोचे मनोरथा नाम यक्षिण्यहमिदं पुनः । विन्ध्यारऽण्यं नृपः प्राह त्वमत्रैकाकिनी कुतः ॥ ३५५॥ सोचेऽहं नन्दनोद्यानादभूवं मलयं गता । सह प्रियेण स त्वत्र क्रुद्धो निष्कारणं मयि ॥ ३५६ ॥ गतस्त्यक्त्वा स मां क्वाऽपि तेनैकाऽहं नृपोऽवदत् । द्वाभ्यामपि कृतं नैव सुन्दरं साऽवदत्कथम् ||३५७॥ नृपः प्राहोज्झिता पत्या तेनामा(?) त्वं च नागमः । सा प्राह तेन नाथेनाऽविशेषज्ञेन पूर्यताम् || ३५८ ।। नाऽयं धर्मः कुलीनानां विज्ञानां च नृपोदिते । सोचे किं तस्य विज्ञत्वं योऽनुरक्तं जनं त्यजेत् ॥ ३५९ ॥ राज्ञोचे को विना दोषमनुरक्तं त्यजेज्जनम् । साऽऽह योऽज्ञ इति प्रोच्य सविलासं व्यलोकत || ३६०|| राज्ञाऽवगणिता मोहदोषादाह गतत्रपा । राजंस्त्वयोक्तं निर्दोषं कोऽनुरक्तं जनं त्यजेत् ॥३६२॥ ततोऽवमन्यसे किं मां राज्ञोचे जल्प मेदृशम् । परस्त्री त्वं हि सा प्राह पुंसः सर्वाः परस्त्रियः ॥३६२॥ ३३९ ३४० समरादित्यसंक्षेपः राज्ञोचे वक्रवाक्येन परलोकविरोधिना । कृतमेतेन सा प्रोचेऽलीकवाक्यमपीदृशम् ॥३६३॥ नृपः प्राह मयालीकं किमुक्तं यक्षिणी जगौ । कोऽनुरक्तं जनं विज्ञो विना दोषं परित्यजेत् ॥३६४|| किमत्रालीकमित्युक्ते राज्ञा प्रोवाच सा यतः । परित्यजसि मां रक्तां नृपतिः प्राह तामथ ॥ ३६५॥ मयि नैवानुरक्ता त्वमहिते विनियोजनात् । अत एव न निर्दोषा परलोकाऽनवेक्षणात् ॥ ३६६॥ सा प्राह किं बहूक्तेन न मानयसि मां यदि । ततोऽहं नियमेन त्वां निहन्म्यथ नृपोऽवदत् ॥ ३६७॥ कस्त्वया हन्यते भद्रे ! रण्डया यश्च हन्यते । नरस्तस्य न युक्तं स्यादपि दानं जलाञ्जलेः || ३६८ || द्वेषदष्टाधरा साथ पृथ्वीशं प्रत्यधावत । तस्य हुङ्कारमात्रेण जज्ञे लुब्वददर्शना ॥ ३६९ ॥ नृपोऽथ चलितः स्तोकं भूमिभागं समागतः । यावत्तावदकाण्डेऽप्यपतत्काञ्चनपादपः || ३७० ॥ अलग्नेऽत्र नृपोऽपश्यदूर्ध्वं दृष्टा च साऽम्बरे । तयोचे च दुराचार ! कतिकृत्वश्छुटिष्यसि ॥३७१॥ नृपः प्रोवाच हा पापे ममाऽसि त्वमगोचरे । अन्यथा तु निगृह्णामि त्वामहं नात्र संशयः ॥ ३७२ ॥ तिरोहिता पुनः साऽथ सैन्येनाऽश्वाऽनुगामिना । मिलितः कथमप्यागात्कोशलां कुशली नृपः ॥ ३७३|| वर्धापनं कृतं लोकैरविश्वस्तस्तु सर्वतः । पृष्ट हेतुं मया प्रोचे न किञ्चिदपि भूपतिः ||३७४॥ Page #174 -------------------------------------------------------------------------- ________________ ३४१ ३४२ अष्टमो भवः मयोचे क्वाऽऽर्यपुत्रस्त्वं क्व चाऽविश्वस्ततेदृशी। तन्निमित्तं समाख्याहि चित्तं पर्याकुलं हि मे ॥३७५।। नृपोऽवोचदलं पर्याकुलत्वेनाऽति चादरात् । पृष्टेन कथितस्तेन वृत्तान्तो यक्षिणीभवः ॥३७६|| मयोचेऽभिनिविष्टा सा कथमेतद्भविष्यति । राज्ञोचे देवि किं तस्या भवेदभिनिवेशतः ॥३७७|| यद्याप्नोम्यधुनाऽप्येतां तत्तथाऽहं कदर्थये । कुरुतेऽभिनिवेशं सा यथा न पुनरप्यमुम् ॥३७८।। अन्यदा वासवेश्मस्थे नृपे तत्र व्रजन्त्यहम् । स्त्रिया स्वतुल्यया सार्धमपश्यं तल्पगं नृपम् ॥३७९।। संक्षुब्धाऽहं ततो दृष्टा वलमाना महीभुजा । उक्ता क्व यासि पापिष्ठे ! ज्ञाता माया मया तव ॥३८०॥ देवि ! पश्यसि पापाया धृष्टत्वमिति तां स्त्रियम् । उक्त्वाऽधावत मत्पृष्ठे केशेषु जगृहे च माम् ॥३८१।। मयोचे वेपमानाङ्याऽऽर्यपुत्र ! किमिदं ननु । स मद्वचोऽवमत्यैतां स्त्रियमाहूय चावदत् ॥३८२।। देवि पश्यसि पापाया धृष्टत्वं कूटचेष्टितम् । यादृगुक्तं त्वया पश्य तादृग् विहितमेतया ॥३८३।। तव वेषं विधायैषा समेताऽथ तयोदितम् । आर्यपुत्राऽलमनया निर्वासय पुरादिमाम् ॥३८४।। नृपेणाऽथ समाहूय यामिका भणिता इति । दुष्टां यक्षवधूमेतां देवीनेपथ्यधारिणीम् ॥३८५।। कदर्थयित्वा निःशूकं निर्वासयत वेगतः । आदेश इति तैरुक्त्वा गृहीता वैरिणी यथा ॥३८६॥ युग्मम् समरादित्यसंक्षेपः आः पापिनीति जल्पद्भिः केशबाहूत्तरीयतः । केनाऽपि विधृता क्वाऽपि नृपस्याऽग्रे कथिता ॥३८७।। बहिर्नीत्वा च दुःशीलस्त्रीवद् बाढं विडम्ब्य च । निर्वास्य नगरोद्यानसन्निधावृज्झिताऽस्मि तैः ॥३८८।। उक्ता च भवने राज्ञः प्रवेक्ष्यसि पुनर्यदि । ततोऽस्मदीयहस्तेन गन्ताऽसि यमसद्मनि ॥३८९|| गतेषु राजमत्र्येषु दध्यौ च किमहो मया । प्राप्तं पापपरीणामादपि मन्तुविहीनया ॥३९०॥ व्यापादये तदात्मानं पतित्वा गिरिशृङ्गतः । ध्यात्वेति तत्रारोहन्ती दृष्टा साधुजनैरहम् ॥३९१।। अथ ज्ञानयुतो दुःखिवत्सलः साधुभिर्वृतः । गुरुर्दृष्टो नतश्चैष तेनाहं धर्मलाभितः ॥३९२।। उक्त्वा सुसंगते वत्से न संतप्यं हृदि त्वया । भवेऽत्र प्राणिनः प्रायो भवन्ति विपदां पदम् ॥३९३।। दु:कृतानां कृतानां प्राक् छुटन्ति न कथञ्चन । अकृत्वा वचनं चारु वीतरागनिदेशितम् ॥३९४|| मयोक्तं भगवन् ! किं प्राक् पापकर्म मया कृतम् । यस्येदृशो विपाकोऽभूद् भगवानाह तच्छृणु ॥३९५।। उत्तरस्यां दिशि ब्रह्मसेनो ब्रह्मपुरेश्वरः । अभूद् बहुमतस्तस्य विदुरो नामतो द्विजः ॥३९६|| पुरंदरयशा नाम तत्पत्नी त्वं तयोः सुता । आसीश्चन्द्रयशा नामातीतेऽस्मान्नवमे भवे ॥३९७।। पित्रोरिष्टा भवत्याश्च तौ धर्म दिशतः सदा । जैनं तव तु बालत्वात्परिणामे समेति न ॥३९८।। Page #175 -------------------------------------------------------------------------- ________________ अष्टमो भवः उत्पन्ना च तव प्रीतिर्यशोदामेभ्यभार्यया । बन्धुसुन्दर्यभिधया सदासंक्लिष्टचित्तया ॥३९९।। संसारस्याऽभिनन्दिन्या कामभोगेषु गृद्धया । अनपेक्षाजुषा प्रेक्ष्य पितृभ्यां वारिताऽसि च ॥४००।। युग्मम् वत्सेऽलमेतत्सङ्गेन पापमित्रसमा ह्यसौ । प्रतिषिद्धो हि तत्सङ्गस्तत्त्वयाऽवमतं वचः ॥४०१॥ अन्यदा त्वं गता वीक्ष्य विषण्णां बन्धुसुन्दरीम् । अपृच्छ: कारणं सोचे विरक्तः सखि ! मे प्रियः ॥४०२॥ रक्तश्च मदिरावत्यां मदिरायामिरापवत् । अजातपुत्रभाण्डा च विषण्णाऽस्मि ततो दृढम् ॥४०३।। त्वयोचेऽलं विषादेन कुरूपायं तयोदितम् । प्रवाजिकोत्पलाख्याऽस्ति कुशला कर्मणीदृशे ॥४०४|| न तु मेऽवसरस्तस्या दर्शनेऽथ त्वयोदितम् । क्व सास्तीतरया प्रोचे पूर्वस्यां नगराद् बहिः ॥४०५॥ गत्वा त्वयाऽथ सानीयाऽर्पिताऽस्यै त्वं गृहे गता । साऽचिता बन्धुसुन्दर्या वृत्तान्तः कथिते निजः ॥४०६।। परिवाजिकया प्रोचे धीरा भव करोम्यहम् । तस्यां विद्वेषणं पत्युः सा प्राहाऽनुग्रहो महान् ॥४०७|| तया तथा कृते श्रेष्ठी तत्याज मदिरावतीम् । गृहीता सा शुचा बद्धं त्वया कर्म च तद्भवम् ॥४०८।। ततस्त्वं परिपाल्याऽऽयु: कर्मदोषाद्वशाभवः । अप्रिया यूथनाथस्य पतिता वारिबन्धने ॥४०९।। मृता च वानरीत्वेनाऽभवस्तत्राऽपि दुर्भगा । यूथेशेन बहियूंथात्कृताऽथ पुरुषैधृता ॥४१०॥ समरादित्यसंक्षेपः लोहशृङ्खलया नद्धायुः प्रान्ते सरमाऽभवः । शुनामनिष्टा सर्वेषां पूर्वकर्मानुभावतः ॥४११॥ कीटभक्षितदेहा च मृता मार्जारिकाऽभवः । तत्राप्यनिष्टा सर्वेषामोतूनां कर्मदोषतः ॥४१२॥ मृता रथाङ्ग्यथो जाता सर्वदाऽपि प्रियोज्झिता । मृत्वा बभूव चाण्डाली तत्राऽपि प्रियवर्जिता ॥४१३।। मृत्वाऽभूः शबरीत्वेन सर्वाऽनिष्टा च पल्लितः । आकृष्टा शबरैः कर्मदोषाहुःखेन जीवसि ॥४१४|| अन्यदा मुनिभिर्मार्गभ्रष्टैः पृष्टाऽसि धार्मिकि । कोऽयं प्रदेशो मार्गश्च दूरे कियति तिष्ठति ॥४१५।। त्वयोचे सह्यकान्तारमिदं मार्गश्च सन्निधौ । दर्शयामीति भाषित्वा बहुमानेन दशितः ॥४१६।। चिन्तितं च विशुद्धेन चेतसाऽमी विमत्सराः । प्रियंवदाः प्रशान्ताश्च भाग्यैरेतत्समागमः ॥४१७। त्वयेति सिद्धचित्तत्वाद् बोधिबीजं समजितम् । ततश्च प्रणता भावात् साधुभिर्धर्मलाभिता ॥४१८॥ तदा त्वयाऽल्पकारऽऽम्भमार्दवाऽऽर्जवभावतः । साधुसन्निधिसामर्थ्यान्मनुष्यायुर्यबध्यत ॥४१९।। गतेष्वपि मुनिष्वेषु तदनुस्मरणात्तव । नैवाऽत्रुटच्छुभो भावस्त्रुटितं जीवितं पुनः ॥४२०॥ जाता तत्कर्मशेषेण सहिता श्वेतवीपतेः । दुहिता कोशलेशेनोपयताऽसि च रूपतः ॥४२१।। कर्मशेषादयं च त्वां यक्षिणीरूपवञ्चितः । इत्थं कदर्थयामास वत्सेऽनुत्सेकवानपि ॥४२२।। Page #176 -------------------------------------------------------------------------- ________________ अष्टमो भवः श्रुत्वेत्यपगतं मोहतमो मेऽभूद्विरागिता । जाता जातिस्मृतिर्बद्धः संवेगो वन्दितो गुरुः || ४२३ || उक्तं च भगवन्नेवमिदं मम कदा पुनः । प्राच्यकर्मविपाकोऽयं सकलोऽपि त्रुटियति ॥ ४२४ ॥ गुरुराख्यदहोरात्रादस्मादेव मयोदितम् । कथं तां यक्षिणीमार्यपुत्रो विज्ञास्यति प्रभो ! || ४२५ ।। गुरुः प्रोचेऽद्य रात्रौ त्वत्स्वभावात्तुल्यभावतः । सशङ्कमानसः स्वस्य मन्त्रिणः कथयिष्यति ॥४२६|| न्यस्तेऽथ मन्त्रिणा जैनबिम्बे प्रोल्लङ्घिते तया । नेयं देवी महीपालंश्चित्ते निश्चेष्यतीदृशम् ॥४२७॥ कृष्टरिष्टिस्ततश्चैनां हन्तुमुत्थास्यति स्वयम् । तिरोधास्यति निःपुण्या सा पुण्यजननार्यपि ॥ ४२८ ॥ मयोचे कुशलं तस्या नार्यपुत्रः करिष्यति । गुरुः प्राह न किं तु त्वदुःखात्संतप्स्यतेऽधिकम् ॥४२९|| मयोचे भगवन् दोषो नार्यपुत्रस्य कश्चन । केवलं मम कर्मेदं गुरुः प्राह तथेति च ॥ ४३० ॥ तथापि मोहदोषेण संतप्तः श्वः समेष्यति । त्वां दृष्ट्वा च त्वया युक्तः सुखितोऽति भविष्यति ||४३१ || ततस्त्वया न संतप्यं मयोक्तं भगवन् ! गतः । त्वदीक्षणेन संतापो विरक्तं च मनो भवात् ॥४३२|| तत्किं मम नृपाऽऽगत्या वियोगान्ता हि सङ्गमाः । कीदृशं सुखितत्वं च जरामरणदुःखिनाम् ॥४३३॥ १. पुण्यजनमार्यपि क ग घ । ३४५ ३४६ समरादित्यसंक्षेपः गुरुराख्यदिदं सत्यं किं त्वत्यन्तसुखीभवेत् । जिनोक्तक्रियया तां च कुर्वन्सुस्थी भविष्यति ||४३४|| एतदाकर्ण्य हष्टाऽहमुक्ता भगवतेति च । सर्वमन्त्रोत्तमं वत्से ! सर्वकल्याणकारणम् ||४३५|| दुर्लभं जीवलोकेऽत्र सर्वभीतिप्रणाशनम् । अचिन्त्यशक्तिसंयुक्तं शिवसौख्यस्य साधकम् ||४३६॥ पूजनीयं सतां सर्वगुणानां प्रापकं परम् । परमेष्ठिमयं मन्त्रं गृहाण जिनभाषितम् ॥४३७॥ विशेषकम् महाप्रसाद इत्युक्ते मयाऽथ भगवाञ्जगी । प्राङ्मुखी वामतस्तिष्ठ स्थिता किञ्चिन्नता तथा ॥ ४३८|| भगवानुपयुक्तोऽथाऽस्खलितादिगुणान्वितम् । ददौ पञ्चनमस्कारं प्रत्यैच्छं तमहं मुदा ॥ ४३९ || नष्टेव भवभीमेऽथ समेतेवाऽथ निर्वृत्तिः । अनाख्येयप्रमोदोऽभूद्भगवानूचिवानथ ॥४४०॥ वत्से ! मन्त्रं स्मरन्त्याऽमुं त्वया गिरिगुहास्थया । निशि स्थेयमहं यामि श्वः पुनर्दर्शनं हि नः || ४४१|| मयोचेऽनुगृहीताऽस्मि गतश्च भगवांस्ततः । नमस्कारपराया मेऽतिक्रान्ता क्षणदा क्षणात् ॥४४२॥ प्रातः सादिशतैर्युक्ते समेते नृपतावहम् । दृष्टा सादिभिराख्याता तस्य सोऽन्तिकमागमत् ॥ ४४३|| साश्रुरूचे न कोप्यं मे मन्तुरज्ञानजो ह्ययम् । मयोचे कीदृशः कोपो भोक्तव्ये निजदुः कृते ॥ ४४४ हेतुरत्राऽहमित्युक्ते भूनेत्राऽहमभाषिष। आर्यपुत्र ! मया सोढं दुःखं जन्मान्तरेषु यत् ||४४५ ।। Page #177 -------------------------------------------------------------------------- ________________ ३४७ ३४८ अष्टमो भवः तत्राऽपि किं भवान्हेतुर्दोषोऽयं मत्कृतः खलु । राज्ञोचे देवि ! सामान्याद्विजानाम्यहमप्यदः ॥४४६॥ विशेषज्ञानयुक्तेव देवी मन्त्रयते पुनः । मयोचे सत्यमेवेदं राज्ञोचे कथमुच्यताम् ॥४४७।। मयाऽऽख्यायि मृतिध्यानगुरुसंदर्शनादिकः । श्रीनमस्कारलाभान्तो वृत्तान्तो निखिलस्ततः ॥४४८|| ततो भगवतो ज्ञानातिशयाद्विस्मितो नृपः । अल्पपापमहदुःखश्रुतेः संवेगमागमत् ॥४४९।। ऊचे च क्व गुरुः प्रोक्तं मयास्ति निकषा गिरिम् । मया सहोपगुर्वेष गतः परिजनान्वितः ॥४५०।। प्राणमत्प्रमनाः पूज्यममुना धर्मलाभितः । स प्राह सर्वो वृत्तान्तो देव्याऽऽख्यायि मम प्रभो ! ॥४५१।। तदल्पस्याऽपि पापस्य विपाकः स्याद्यदीदृशः । किं कर्तव्यं ममाऽनेकविधपापजुषस्तदा ॥४५२॥ विभुराह महाराज ! कर्तव्यं शृणु सादरः । विरतिः सर्वसावद्ययोगे सत्प्रणिधानतः ॥४५३।। अतीतस्य प्रतिक्रान्तिः संविग्नेन च चेतसा । अत्यन्तमनिदानं च प्रत्याख्यानमनागते ॥४५४।। एवं कृते सति क्षमाप महत्कुशलभावतः । पापानि मेघवृष्टयेवाऽर्चीषि शाम्यन्त्ययत्नतः ॥४५५॥ शुभाशयो भवत्युच्चैर्जीववीर्यं समुल्लसेत् । विशुध्यत्यन्तरात्मा च प्रमादः पर्यवस्यति ॥४५६।। मिथ्याविकल्पा नश्यन्ति खिद्यते भवसन्ततिः । कर्माऽनुबन्धश्चापैति प्राप्यते परमं पदम् ॥४५७|| समरादित्यसंक्षेपः तदिदं भवता कार्य राज्ञोचेऽनुग्रहो महान् । ततोऽहं वीक्षिताऽवोचं देव युक्तमिदं ध्रुवम् ॥४५८॥ अथाऽदायि महादानं कारितोऽष्टाहिकामहः । ज्येष्ठश्च तनयो राज्ये स्थापितः सुरसुन्दरः ॥४५९।। सामन्तैः सचिवैर्युक्तो मया चाऽन्तःपुरेण च । सुगृहीताभिधगुरोः समीपे प्राव्रजन्नृपः ॥४६०॥ वत्से ! तदेवं स्तोकेन कर्मणेहग् मयाऽऽप्यत । विपाकस्तव तु स्तोकस्याज्ञानस्य विजृम्भते ॥४६१।। बहोस्तु तिर्यगादौ स्यात्तत्कर्मपरिणामजम् । मत्वा दुःखमिदं नैव संतप्यं ज्ञानशालिना ॥४६२।। रत्नवत्याह भगवत्यनुभूतं बहु त्वया । दु:खं त्वं तु कृतार्थाऽसि योत्तीर्णा क्लेशपङ्कतः ॥४६३।। धन्याऽहमपि दृष्टा त्वं यया चिन्तामणिप्रभा । तदादिश मया कार्यं यदथो गणिनी जगौ ॥४६४।। गृहिधर्म नमस्कारपूर्वकं त्वं गृहाण तत् । तथा रत्नवती कृत्वाऽपृच्छच्च गणिनीमिति ॥४६५।। याहग्भर्तुः परानन्दयोगे संभवति स्वरः । तादृशस्ते त्वयाऽऽदिष्टं परानन्दः स कीदृशः ॥४६६।। किं कुतोऽप्यार्यपुत्रेण श्रुतं जिनपतेर्वचः । गणिनी प्राह वत्सेऽहं तर्कयामीति चेतसि ॥४६७|| तदा जगर्ज मत्तेभो मङ्गलातोद्यमध्वनत् । तदा त्वस्योचितं चेत्यपाठीन्मङ्गलपाठकः ॥४६८।। धर्मोदयेन तन्नास्ति यन्न स्यादिह ! विष्टपे । मत्वेति त्वं दृढं धर्मं कुरु सुन्दरि सम्प्रति ॥४६९॥ Page #178 -------------------------------------------------------------------------- ________________ अष्टमो भवः ३४९ ३५० कृतानि प्राभृतेऽमुष्याः कदलानि च नन्दया । सितपुष्पकरश्चैत्य प्रोवाचेति पुरोहितः ॥४७०॥ देवि देवगुरूणां हि वर्तते वन्दनक्षणः । दध्यौ रत्नवती हृष्टा संदेहो नात्र कश्चन ॥४७१।। अनुकूल: समग्रोऽपि यदेष शकुनव्रजः । आर्यपुत्रेण तत्सम्यग् वीतरागवचः श्रुतम् ॥४७२।। लब्धः शिवाध्वा वाग्देवीतुल्यायाः कथमन्यथा । एतस्याः परमानन्दशब्दोऽयं स्फुरितो मुखात् ।।४७३॥ अथ नत्वा गणिन्युक्ता स्थातुं वः कल्पते निशि । गणिन्युवाच यत्र त्वं तत्र नैवं विरुध्यते ॥४७४।। गच्छामि साम्प्रतं तावन्न दूरेऽस्मत्प्रतिश्रयः । इत्युक्त्वा गणिनी यान्ती रत्नवत्यनुजग्मुषी ॥४७५।। निवृत्य चोचिताद्देशात्सान्ध्यकृत्यं विधाय च । नमस्कारपरा रात्रिमतिवाहयति स्म सा ॥४७६|| प्रातः श्वशुरमापृच्छ्याऽनुज्ञाता तेन साऽगमत् । वन्दित्वा गणिनी श्रुत्वा धर्ममागात्पुनर्गृहम् ।।४७७|| द्वितीयदिवसे धर्मानुरागाद् गणिनी गृहे । रत्नवत्याः समागत्याऽऽचख्यौ धर्मकथां मुदा ॥४७८।। इत्थं गणिन्युपास्त्या सा निनाय चतुरो दिनान् । पञ्चमे पर्युपासाना गणिनी यावदस्ति सा ॥४७९।। समेत्य चन्द्रसुन्दर्या तावत्तस्या निवेदितम् । सत्यं भगवतीवाक्यं त्वच्चित्तानन्द आगमत् ।।४८०॥ तुष्टा रत्नवती तस्यै व्यतरत्पारितोषिकम् । कुमारस्तु समं यातो विग्रहेण नृपान्तिकम् ।।४८१।। समरादित्यसंक्षेपः आख्याय विग्रहोदन्तं तातेन बहुमानितः । आगतो गणिनीयुक्तां प्रियां प्रेक्ष्य स पिप्रिये ॥४८२।। ववन्दे गणिनी लब्धधर्मलाभोऽवदच्च ताम् । मम पुण्योदयं पश्य महान्तं भगवत्यमुम् ॥४८३।। यतः श्रीसुगृहीताख्यगुरुणा बोधितोऽस्म्यहम् । त्वया च बोधिता देवी द्वितीयं हृदयं मम ॥४८४|| दृष्टा भगवती जन्मशतदुर्लभदर्शना ।। गणिन्युवाच पुण्यानुबन्धिपुण्यान्न किं भवेत् ॥४८५।। अस्माद्धि प्राणिनां मुक्तिसुखं स्यादपरं तु किम् । कुमारः प्राह मुक्ति: स्यात्पुण्यपापक्षयेऽपि चेत् ॥४८६।। तथापि कारणं तत्र पुण्यं पुण्यानुबन्धकम् । तद्विपाकं विना भावस्तादृशो हि न लभ्यते ॥४८७|| गणिन्यूचे कुमारेण साध्वेतदवधारितम् । अथवा कुशलानां स्याद्धेतुमात्रं हि देशना ॥४८८।। इत्थं धर्माऽऽख्यया वेलां निर्गम्य कियतीमपि । तावापृच्छय परिप्रीतौ निजस्थानं गणिन्यगात् ॥४८९|| सधर्मधर्मसम्पत्त्याऽतुष्यत्तन्मिथुनं मिथः । चक्रे भुक्तोत्तरं धर्मवृत्तान्तं च श्रुतानुगम् ॥४९०|| गतौ च गणिनीपार्श्वे तस्याः शुश्रुवतुर्गिरम् । उचिते समये वेश्म पुनरेव समागतौ ॥४९१।। इत्थं प्रतिदिनं धर्मयोगाराधनयुक्तयोः । बाढं भावितयोधर्मे पुत्रः कालकमादभूत् ॥४९२।। १. धर्मयुक्ता क । Page #179 -------------------------------------------------------------------------- ________________ ३५१ ३५२ अष्टमो भवः पुत्रपुत्राननं वीक्ष्य मुदा मैत्रीबलो नृपः । गुणचन्द्रं न्यधाद्राज्ये स्वयं तु व्रतमग्रहीत् ॥४९३।। तस्य नि:कण्टकं राज्यं न्यासकर्मसमन्वितम् । परिपालयतः कालः कियानप्यतिजग्मिवान् ।।४९४।। अन्यदा प्रावृडभ्यागाच्छन्नं जलधरैर्नभः । व्यजृम्भतोजितागजिर्नीपवाता ववुः सुखाः ॥४९५।। उल्ललास बलाकालिविधुद्विद्योतते स्म च । प्रनृत्ताः केकिनो वृष्टा मेघा हृष्टाश्च चातकाः ॥४९६।। नष्टं हंसै रुतं भेकैरुद्भिन्नं कन्दलैर्नवैः । खिन्नं पथिकजायाभिनिवृत्तं महिषीव्रजैः ॥४९७|| नृपोऽथ सरितः पूरं द्रष्टुं परिजनान्वितः । ययौ दृष्टा च सा तेन तृणकाष्ठादिसङ्कुला ॥४९८|| कूले प्रपातयन्ती द्राग् नाशयन्ती तटदुमान् । कल्लोलकलिता त्यक्तमर्यादाऽत्यन्तभीषणा ॥४९९।। आकुला क्रूरयादोभिर्वर्जिता दूरतो बुधैः । आवतैः संकुलाऽनेकैः कलुषं स्वं प्रकुर्वती ॥५००॥ विशेषकम् तां निरीक्ष्य मुहूर्तेन प्राविशन्नगरी नृपः । शरद्यथ व्रजन्वाहकेलिमैक्षत तां नदीम् ॥५०१।। स्वच्छोदकामपक्रूरसत्त्वां साधुजनोचिताम् । तां वीक्ष्य पूर्ववृत्तान्तस्मृतेर्दध्यौ नराधिपः ॥५०२।। मन्ये नदीरयप्रायं पुरुषस्यद्धिविस्तरम् । यदेषोऽपि महारम्भः शुभकूलप्रपातकः ॥५०३।। १. तोजितो गर्जि ङ। २. पथिकजाषा० ख । समरादित्यसंक्षेपः विनाशयति धर्मद्रून् स्वं च कश्मलयत्यलम् । सत्त्वैः संयुज्यते कूरैः साधुभिश्च वियुज्यते ॥५०४।। सेव्यते कृत्यमर्यादारहितो मदवीचिभिः । अपकारी स्वपरयोर्मोहावर्तविवर्तनः ॥५०५।। विशेषकम् स्वभावे तु मन:शुद्ध: पापमित्रविवर्जितः । जीवलोकोपकाराय जायते सिन्धुवाहवत् ॥५०६।। बाह्यस्तु विस्तरः पुंसः परलोकाऽन्तरायकम् । तत्तं विहाय स्वार्थाय कृर्वे यत्नं समाहितः ।।५०७॥ विचिन्त्येति समागत्य निजाकूतं न्यवेदयत् । रत्नवत्यै प्रधानानां सामन्तानां च मन्त्रिणाम् ॥५०८।। एतैरनुमतो न्यस्य राज्ये धृतिबलं सुतम् । गुरुं काशिस्थितं मत्वा तत्रागात्सपरिच्छदः ।।५०९॥ नत्वा गुरुं निवेद्य स्वाकूतं तेनोपबृंहितः । शुभे मुहूर्ते काशीशकृतनिष्क्रमणक्षणः ॥५१०।। रत्नवत्या प्रधानेन समं परिजनेन च । गुरोविजयधर्माख्याद्यतिधर्म नृपोऽग्रहीत् ।।५११॥ युग्मम् काले कियत्यप्यभ्यस्तसूत्रो ज्ञातक्रियाक्रमः । गुरूनापृच्छ्य कल्पज्ञो जिनकल्पं प्रपन्नवान् ।।५१२।। तपसा सत्त्वसूत्राभ्यामेकत्वेन बलेन च । तुलनां पञ्चधा कृत्वा नियूंढस्तासु सात्त्विकः ॥५१३।। युग्मम् कियत्यपि गते काले कोल्लाके सन्निवेशने । समागतो रहस्येष स्थितः प्रतिमया स्थिरः ॥५१४।। तदा च मलयं गच्छन् वीक्ष्य तं वानमन्तरः । कुद्धो गिरिशिलामेकां तस्योपरि विमुक्तवान् ।।५१५।। Page #180 -------------------------------------------------------------------------- ________________ अष्टमो भवः स तया पीडितः काये न तु भावे महामनाः । अहतेऽत्र पुनः कुद्धः शिलामन्यां मुमोच सः ॥ ५१६ ॥ एवं त्रिः प्रहतस्तेन शिलया न मृतो यदा । तदा धर्मान्तरायार्थमुपायं विदधेऽपरम् ॥५१७|| कस्याऽपि सदनं मुष्ट्वा मुक्त्वा मोषं च सन्निधौ । आख्यदारक्षकाणां स तेऽथ तत्र समाययुः ॥ ५१८ । वीक्ष्य तं भगवन्तं च शान्तमूर्ति तपः कृशम् । ते दध्युः कथमीदृक्षः कर्मेदृक्षमयं श्रयेत् ॥ ५१९ ॥ अथवा दम्भवैचित्र्यं मोषमन्वेषयामहे । दृष्टे मोषे धृताशङ्कः पृष्टश्च भगवानिमैः ॥ ५२० ॥ न स जल्पत्यथैकेन ताडितोऽपि न जल्पति । हृष्टस्तु खेचरो बद्धं नरकायुर्न्यकाचयत् ॥५२१॥ तलारक्षैरथाऽऽख्यायि विश्वसेनाय भूभुजे । समेतः प्रत्यभिज्ञाय तं ननाम स भावतः ॥५२२॥ ऊचे चाऽऽरक्षकान् किञ्चिद्विलोमं न कृतं मुनेः । ते प्रोचुस्तादृशं किञ्चिन्न चक्रेऽथ नृपोऽवदत् ॥ ५२३|| अहो स्वाम्ययमस्माकं गुणचन्द्राभिधो नृपः । सर्वसङ्गपरित्यागी ध्यानयोगं समाश्रितः ॥ ५२४ || समस्तेष्वपि भावेषु ममत्वपरिवर्जितः । करोति सफलं जन्म मानुषं जिनकल्पतः ॥ ५२५ ॥ युग्मम् धन्योऽयमिति ते प्रोच्य क्षमयामासुराशु तम् । राज्ञोचे कथितं येन तमानयत लध्विह ॥५२६ ॥ श्रुत्वेत्यदर्शनीभूतः खेचरो वानमन्तरः । तमदृष्ट्वा च ते प्रोचुरधुनैव गतः क्वचित् ॥५२७॥ ३५३ ३५४ समरादित्यसंक्षेपः राज्ञोचेऽमानुषः स स्यादुपसर्गकरो विभोः । तेन संक्लिष्टचित्तेन तदलं पापकारिणा ॥ ५२८ ॥ यात यूयं समाख्यात पुरे सान्तःपुरेऽपि च । राजर्षिर्गुणचन्द्रोऽस्त्यागतस्तं नमताऽऽदरात् ॥५२९॥ तदादेशे तलारक्षैर्गत्वा तत्र निवेदिते । अभ्येत्य पूजयित्वा च भक्त्या सर्वैर्नतः प्रभुः ॥ ५३०॥ अथाऽश्मपातनिर्घातमूर्छाव्यपगमे सति । राज्ञो राजर्षिर्वृत्तान्तमित्याख्यत्काष्ठभारिकः ॥ ५३१ ॥ त्रिः कोऽपि भगवत्यस्मिशिलां व्योमचरोऽमुचत् । तन्निर्घाताच्च मे मूर्छाऽऽगता वेद्म्यपरं न तत् ॥५३२॥ ततो नृपः सशुद्धान्तः शुद्धान्तःकरणोऽधिकम् । शोचन्भगवता ध्यानं पारयित्वेति भाषितः ॥ ५३३|| अलं शुचा महाराज ! दुःखरूपो ह्ययं भवः । सन्तस्तत्तापसंतप्ता धर्मशाखिनमाश्रिताः ॥५३४|| सम्यक्त्वमूलं सिद्धान्तस्कन्धं व्रतलतान्वितम् । शीलाङ्गपत्रलं देवनरद्धिकुसुमव्रजम् ॥५३५॥ जिनवाक्कुल्ययाऽजस्रं सिच्यमानमतुल्यया । निर्वाणफलमश्रान्तं सेवितं साधुपङ्क्तिभिः ॥५३६॥ विशेषकम् मूढास्तु तुच्छभोगानां कृते क्लिश्यन्त्यनेकशः । जानन्तोऽप्यस्थिरं देहं स्वं पश्यन्त्यजरामरम् ॥५३७॥ किं च राजन् ! मयाऽप्यत्र संसारे भ्रमता चिरम् । किं किं दुःखं न सम्प्राप्तं बहुकृत्वः सुदारुणम् ॥५३८|| १. धर्मवारिधिमाश्रिताः ख ग घ च । Page #181 -------------------------------------------------------------------------- ________________ अष्टमो भवः ३५५ ३५६ त्रयस्त्रिंशत्पयोध्यायुरप्रतिष्ठानकस्थितः । भिन्नोऽस्म्युत्पातपाताभ्यां वज्राश्मकमलेष्वहम् ॥५३९।। कन्दुकुम्भकवल्लीषु दीप्तासु नरकाग्निना । पक्वः सीमन्तकाऽऽवासे निःसीमं दुःखमाश्रितः ।।५४०॥ निहतोऽस्म्यायुधैस्तीत्रैर्नरकेष्वपरेष्वपि । भिन्नो रौद्रत्रिशूलैश्च वज्रतुण्डैश्च भक्षितः ॥५४१॥ बहुशो वाहितस्तप्तयुगेषु च रथेष्वहम् । हिंसादोषाबलीचके कर्तं कर्तं तिलं तिलम् ॥५४२।। जिह्यमुत्खाय चाऽसत्याज्जल्पितोऽस्मि बलादपि । परद्रव्याऽपहाराच्च गृधैः क्षिप्तोऽस्मि दिक्ष्वहम् ॥५४३।। श्लेषितः शाल्मलि तप्तां परदाराऽभिलाषतः । जग्धश्च ढिङ्ककङ्काद्यैर्बारम्भपरिग्रहात् ॥५४४॥ भक्षितोऽस्मि निजं मांसं मांसभक्षणदूषणात् । वपुताम्रादिकं तप्तं पायितो मद्यपानतः ।।५४५।। तिर्यक्ष्वपि मया दु:खं प्राप्तं तीव्रमनेकशः । बन्धवाहनभाराद्यैर्दहनाङ्कनभेदनैः ॥५४६।। नरेष्वपि नराधीश ! दुःखदारिद्मविद्रवैः । तन्न किञ्चिदिदं दुःखं त्यज निष्कारणां शुचम् ॥५४७।। राज्ञोचे नैव शोच्यस्त्वं सफलं तव जीवितम् । सम्प्राप्तं हि विवेकास्त्रं निजिता भावशत्रवः ॥५४८।। वश्या तप:श्रीस्त्यक्तश्च प्रमादः स्वं स्थिरं व्यधाः । व्यतीतं भवकान्तारं प्राप्तप्राया च निर्वृत्तिः ॥५४९।। युग्मम् शोच्यस्तु क्लिष्टसत्त्वोऽयमुपसर्गकरस्तव । भगवानाह भूपाल ! संसारोऽसौ सदेदृशः ॥५५०॥ समरादित्यसंक्षेपः चिन्तयाऽऽत्मानमन्यस्य चिन्तया किं तया तव । नृपः प्राहाऽऽदिश स्वामिन् ! कुतो गृह्णाम्यहं व्रतम् ॥५५१॥ मुनिः प्राह भगवतो गुरोविजयधर्मतः । वचनं गुणचन्द्रपेस्तथेति विदधे च सः ॥५५२।। अथ क्षीणायुषो वानमन्तरस्याऽभवद् गदः । समेतश्च स्वभावोऽस्य संमुखो नरकावनेः ॥५५३।। विपर्यासोऽभवत्तस्याऽशुभेषु विषयेष्वतः । ततो विष्टाङ्गरागाद्यैर्बभूव मनसो धृतिः ॥५५४|| महाक्रन्दयुतो रौद्रध्यानी मृत्युवशङ्गतः । त्रयस्त्रिंशत्पयोध्यायुः सप्तम्यां नारकोऽभवत् ॥५५५।। कृत्वा संयममुज्ज्वलं समतयाऽऽत्मानं विधूतैनसं पश्यन्नात्मनि पादपोपगमनं श्रित्वा च तत्त्वाश्रयः । जीवः श्रीगुणचन्द्रभूपतियतेर्देवो विमाने त्रयस्त्रिंशत्सागरजीवितः समभवत् ससर्वार्थिसिद्धाभिधे ॥५५६।। इति श्रीहरिभद्रोक्त्या प्रद्युम्नाचार्यगुम्फिते । समरादित्यसंक्षेपेऽजनिष्ट जनिरष्टमी ॥५५७|| Page #182 -------------------------------------------------------------------------- ________________ नवमो भवः इतश्च जम्बूद्वीपेऽत्र भरतक्षेत्रमध्यतः । पुर्यस्त्युज्जयिनी नाम जयिनी सर्वसम्पदाम् ॥१॥ अस्थैर्यकुपितेनेव वेधसा वीक्षिता चिरात् । निबद्धा परिखारज्ज्वा लक्ष्मीस्त्रिभुवनस्य या ॥२॥ सरोभिर्यत्र सीमानः पद्मिनीभिश्च तान्यलम् । ताश्च पद्यैर्विराजन्ते तानि च भ्रमरव्रजैः ||३|| नृपः पुरुषसिंहोऽस्ति तत्र सिंहपराक्रमः । द्विषद्विपप्रतीघाते चित्रं न नखरायुधः ||४|| यशः शशी द्विषां रात्रिं प्रतापार्कः सतां दिनम् । विधत्तो युगपद्यत्रोदितौ पूर्वमहीभृति ॥५॥ चन्दनाभं यशो यस्य प्रतापोऽग्निशिखोपमः । दिग्देव्यर्चाकृते भातश्चतुःसमतया युतौ ॥६॥ तस्य प्रियतमा रूपविजिताऽनङ्गसुन्दरी । सर्वाङ्गसुन्दराकारा सुन्दरी नामतोऽभवत् ॥७॥ भुञ्जानस्य तया सार्धं तस्य वैषयिकं सुखम् । धर्मार्थाऽबाधया कालो व्यतीयाय कियानपि ॥८॥ जीवोऽथ गुणचन्द्रर्षेश्च्युतः सर्वार्थसिद्धितः । उत्पन्नः सुन्दरीकुक्षौ सा च स्वप्न उदैक्षत ||९|| सूर्य वदनमार्गेण विशन्तमुदरान्तरे । विबुद्धा दयितायाऽऽख्यन्मुदितः प्राह तामयम् ॥१०॥ ३५८ समरादित्यसंक्षेपः तमोपहो जगच्चक्षुर्बोधयन्कमलाकरम् । ऋषिस्तुत्यो जनैर्वन्द्यो जीवलोकप्रकाशकः ॥११॥ सर्वक्रियाकलापस्य कारणं तेजसां निधिः । अद्भुतस्तव सूर्याभः सूनुर्देवि भविष्यति ॥ १२ ॥ विशेषकम् साभिनन्द्य वचस्तस्य त्रिवर्गनिरता मुदा । उद्भटं गरभं दध्रे शरभं वनभूरिव ॥१३॥ तत्प्रभावाज्जगन्नेत्रस्वप्नसंदर्शनादिव । नेत्राम्भोजद्वयं देवी विकस्वरतरं दधौ ||१४|| मन्ये तनुतनुर्गर्भमतनुं वोढुमक्षमा । बभार देवी देहस्योपचयं निचयं श्रियः || १५ | गूढेऽपि दिनकृत्यत्र परित्रस्ततमस्ततिः । देवी समभवत् पूर्वपर्वतैकतटीनिभा ॥१६॥ प्रसूतिसमये प्राप्ते प्रशस्तेऽह्नि प्रकाशकम् । प्रद्योतनमिव प्राची प्रसूते स्म तनूरुहम् ||१७|| सिद्धमत्यभिधा चेटी तं नृपाय न्यवेदयत् । नृपः सपरितोषोऽस्यै व्यतरत्पारितोषिकम् ॥१८॥ आदिशच्च प्रतीहारीं ममादेशेन काष्टिकैः । कालघण्टाप्रयोगेण बन्धनानि विमोचय ॥ १९ ॥ पद्मराजादिभूपानां पुत्रजन्मनिवेदकान् । विसर्जय प्रतीहारान्पौराणां च निवेदय ||२०|| विधापय क्षणादेव महोत्सवमयं पुरम् । आदेशं नृपतेः सर्वं तं तथा वेत्रिणी व्यधात् ॥ २१ ॥ ततो बहुविधाऽऽतोद्यध्वनिनृत्यद्वधूजनम् । कर्पूरपटवासाद्यैरुद्धूलितजनव्रजम् ॥२२॥ Page #183 -------------------------------------------------------------------------- ________________ नवमो भवः बहुकस्तूरिकापङ्कग्रस्यमानजनक्रमम् । शिञ्जानमञ्जुमञ्जीरनारीराजिविराजितम् ॥२३॥ परस्परसमुत्क्षिप्तोत्तरीयाणां च योषिताम् । संलक्ष्यमाणवक्षोजविस्तरं कामिभिर्नरैः ||२४|| आयल्लकमिलत्पौररुध्यमानाध्वसंचरम् । मार्दङ्गिकव्रजन्यस्यमानकण्ठविभूषणम् ||२५|| परस्परपरिस्पर्धानृत्यद्वारवधूजनम् । वर्धापनमभूद्दिव्यं जितस्वर्गिमहोत्सवम् ॥ २६ ॥ पञ्चभिः कुलकम् मास्यतीतेऽस्य च स्वप्नदर्शनस्याऽनुमानतः । समरादित्य इत्याख्यामदात्पैतामहीं नृपः ||२७|| वानमन्तर उद्धृत्य भवं भ्रान्त्वाऽऽप्य फेरुताम् । तत्रैव पुरि मातङ्गग्रन्थिकाऽऽख्यस्य सद्मनि ॥ २८ ॥ भार्यायां यक्षदेवायां गिरिसेनः सुतोऽजनि । कुरूपो दुःस्थितो मूर्खः समयं गमयत्ययम् ॥ २९ ॥ युग्मम् बाल्येऽपि समरादित्यस्त्वबालचरितक्रमः । कलाकलापसम्पूर्ण: कुमारत्वमवाप्तवान् ॥३०॥ शास्त्रानुरक्तः श्रद्धालुः संविग्नः समतास्थितः । तत्त्वज्ञः सोऽस्मरज्जाति तन्न वेत्ति जनः पुनः ||३१|| विशुद्धज्ञानयुक्तोऽयं विहाय विषयव्रजम् । विरक्तात्मा शुभध्यानस्थितो यतिरिवाऽभवत् ||३२|| निरीक्ष्य तादृशं राजा विषयाऽऽ सेवनाविधौ । तं दुर्ललितगोष्ठीषु निधातुमुपचक्रमे ||३३|| १. तदुल्ललितघोष्ठीषु विधा क । ३५९ ३६० समरादित्यसंक्षेपः अथ कामाङ्कुराशोककलिताङ्गाभिधाभृतः । भुजङ्गास्ते नरेन्द्रेण मित्रत्वेऽस्य नियोजिताः ||३४|| ते च गायन्ति खेलन्ति स्मरगाथाः पठन्ति च । कामशास्त्राणि शंसन्ति प्रशंसन्ति च नाटकम् ||३५|| संविग्नात्मा कुमारस्तूपायं तद्बोधहेतवे । ध्यायन्नस्थादचक्षाणो वचनं तद्विरोधकृत् ॥३६॥ तद्बोधायाऽन्यदा नाट्यभङ्गीमङ्गीचकार च । नीत्वा विश्वस्ततां प्रीतिर्वर्धिताऽपि च तैः समम् ||३७|| अशोकेनाऽन्यदा पृष्टः कामशास्त्रस्य चारुताम् । प्रोचे कामाङ्करस्तद्धि त्रिवर्गफलकारणम् ॥३८॥ कामशास्त्रप्रयोगाद्धि स्वदाराऽऽराधनं ततः । शुद्धः सुतो भवेद्दानाद्येन धर्मोऽप्यनुत्तरः ||३९|| सम्पद्येते च कामार्थी रक्तस्त्रीशुद्धपुत्रतः । विपर्यये तु सर्वेषामर्थानां स्याद्विपर्ययः ||४०|| कामशास्त्रं मतमतः कामधर्मार्थसाधकम् । ललिताङ्गो जगादाऽथ सुशोभनतरं ह्यदः ॥ ४१ ॥ धर्मार्थसफलत्वस्य निदर्शनमितो भवेत् । मोक्षो ह्यलौकिको ध्यानभावनादिप्रकर्षजः ॥४२॥ तस्माद्धर्मार्थसाफल्यनिदर्शनपरत्वतः । सुशोभनतरं ह्येतदशोकोऽथ सुहृज्जगौ ||४३|| कुमारोऽत्र प्रमाणं नः प्राह कामाङ्करोऽस्त्विति । ललिताङ्गोऽवदत्तर्हि प्रसादं कुरुतां गिरा ॥४४॥ कुमारः प्राह कोप्यं न परमार्थं भणाम्यहम् । ते प्रोचुः कीदृशः कोपोऽस्माकमज्ञाननाशने ॥४५॥ Page #184 -------------------------------------------------------------------------- ________________ नवमो भवः प्रोचे कुमारः शृणुत कामशास्त्रमिदं खलु । आख्यतः शृण्वतश्च स्याद्वस्तुतोऽज्ञानकारकम् ॥४६॥ यतो विडम्बनाप्रायाः कामभोगा विषोपमाः । जन्तवो न्यक्कृता ह्येतैर्महामोहस्य दोषतः ॥४७॥ परमार्थं न वीक्षन्ते न जानन्ति हिताऽहितम् । विचारयन्ति नो कृत्यं नायति चिन्तयन्ति च ॥ ४८ ॥ विशेषकम् यत्कामिनोऽबलाङ्गेष्वशुचिष्वशुचिहेतुषु । कुन्देन्दीवरचन्द्रादिरम्यतां हृदि बिभ्रति ॥४९॥ अशुचौ निरतास्तत्र गर्ताशूकरवच्च ते । मूढाः सजन्ति कामेषु निर्वाणपदवैरिषु ॥५०॥ अन्यच्च वधबन्धानामिहलोकेऽपि कारणम् । विषयाः परलोके च दुर्गदुर्गतिहेतवः ॥ ५१ ॥ एवं स्थिते च मध्यस्थभावेनैव निरीक्ष्यताम् । कामशास्त्रं कथं नाम स्यात् त्रिवर्गस्य साधकम् ॥५२॥ अन्यच्च दारचित्तस्याराधको न भवेन्नरः । कश्चित्प्रयोगवेत्ताऽपि कोऽप्यज्ञोऽपि पुनर्भवेत् ॥५३॥ दृश्यन्ते च सुताः केचित्सतीनामपि योषिताम् । दुःशीलाः कर्मवैचित्र्यमत्र हेतुः परं न तु ॥ ५४ ॥ तुच्छा दानादिशून्याश्चाऽनुरक्ता अपि योषितः । दृश्यन्ते तेन कामार्थी ततः स्युरिति नोचितम् ॥५५॥ अन्यच्चाऽशोभनं कामाः पामाकण्डूयनोपमाः । विरसाऽन्ताः कथं नाम धर्मार्थफलदा मताः ॥५६॥ ३६१ धर्मार्थों तावनर्थों हि कामाञ्जनयतोऽत्र यौ । सत्याप्रमत्तताशौचोपशमायतिनाशकौ ॥५७॥ ३६२ समरादित्यसंक्षेपः धर्मार्थौ पुरुषार्थौ तन्नात्र कामफलौ मतौ । किं तु मोक्षफलावेव पुरुषार्थाविमौ मतौ ॥५८॥ अलौकिकश्च मोक्षो न मुनिलोकविलोकनात् । जन्मादिबाधाहीनश्च सर्वोत्तमसुखप्रदः ॥५९॥ समाधिभावनाध्यानादयो धर्मो हि भावतः । अर्थोऽपि हि निरीहस्य भवेन्मोक्षफलप्रदः ||६०|| अन्यथा गर्हितानीष्टापूर्तानीति श्रुतेर्वचः । कामाश्चाऽनिन्द्रिया न स्युः प्रवर्तन्ते स्वभावतः ||६१ || तिरक्षामपि विख्याता विरूपाश्च स्वरूपतः । शास्त्रेण तत् किमेतेषां निन्दितानां प्ररूपणम् ॥६२॥ शास्त्रं तदुच्यते शास्ति त्रायते च यदंहसः । तदिदं न भवत्येव शास्त्रमंहसि पातनात् ॥६३॥ कुकाव्यहविषा कामं दीप्यते कामपावकः । तत्कामोद्दीपकं नैव प्रशस्यं वचनं बुधैः ||६४ || शमादिभावकृद्वाक्यं वाच्यं श्लाघ्यं च धीमता । तदलं दुर्वचस्तुल्यकामशास्त्राऽर्थचिन्तया ॥ ६५ ॥ सर्वेऽथ विस्मिता दध्युरहो अस्य विरागिता । विवेको धन्यताभावः परिणामश्च कीदृशः ॥६६॥ अशोकोऽथावदत्सत्यं कुमारैतत्तथापि हि । लोकमार्ग प्रतीत्येदं कामशास्त्रं हि किं परम् ॥६७॥ कामाङ्करोऽवदद्भव्यमशोकेन प्रजल्पितम् । ललिताङ्गोऽवदद्वक्तुं नाऽशोको वेत्त्यशोभनम् ॥६८॥ कुमारोऽथाऽवदद्भद्भजनो भिन्नरुचिर्यतः । तन्मार्गेण ततः किञ्चिन्नावैमि परतामहम् ॥६९ ॥ Page #185 -------------------------------------------------------------------------- ________________ ३६३ ३६४ नवमो भवः बालानां कामिनां मन्ये शास्त्रमेतद्विनोदकृत् । जीवानां कर्महतूनि कि तु कामसुखान्यपि ॥७०|| उत्तरस्याऽसमर्थस्तैः कुमारवचनं मतम् । दिनैः कतिपयैर्वीतैः पुनस्तेऽमन्त्र्यन्निति ॥७१।। ऋषितुल्य: कुमारोऽयं कथमस्मादृशैर्जनैः । शक्यते कामभोगेष्वाहतैरपि नियोजितम् ॥७२।। तथाप्येक उपायोऽस्ति यतो दाक्षिण्यवानयम् । मित्राणि मन्यतेऽस्मांश्च वच्मस्तद्दारसंग्रहे ॥७३॥ ध्यात्वेत्यवसरेऽशोकोऽवदत्त्वां वच्मि किञ्चन । कुमार मित्रवात्सल्यं सता कार्यं न वा वद ॥७४।। कुमारोऽथ जगौ साधु पृष्टं मित्रं भवेत् त्रिधा । अधर्म मध्यमं चैवोत्तमं च गुणभेदतः ॥७५॥ आत्मनोऽप्यधिकं दृश्यमानं संमानितं सदा । कार्योऽन्यथा स्याद्यन्मित्रं ज्ञेयं तदधमं बुधैः ॥७६।। कदाचित्संगतं यत्तु लाल्यते चोत्सवादिषु । विधुरे च विलम्बेन त्यजत्येतद्धि मध्यमम् ॥७७|| उत्तमं तु नमस्कारमात्रतो मित्रतां गतम् । दु:खान्मोचयते गाढं विपत्स्वपि न मुञ्चति ॥७८।। एवं स्थितं समालोच्य निजमत्या नरोत्तमः । सर्वथाप्युत्तमे मित्रे सदा भवति वत्सलः ||७९|| कामाङ्करोऽवदत्कोऽत्र भावः ख्यातमिदं यतः । जघन्यमध्यमे त्यक्त्वोत्तमं मित्रं निषेव्यते ॥८०॥ कमारः प्राह भावोऽयमेव यः कथितस्त्वया । ललिताङ्गोऽवदन्नतज्ज्ञायते विवृति विना ॥८१।। समरादित्यसंक्षेपः तत्कानि त्रीणि मित्राणि विवृत्याऽऽख्याहि साम्प्रतम् । कुमारः प्राह न ज्ञातं युष्याभिः श्रूयतां ततः ॥८२॥ पारमार्थिकमित्राणि प्रतीत्येदं मयोदितम् । तत् प्रसिद्धं च को नाम न जानाति सचेतनः ॥८३|| तदत्र मित्रमधर्म देहो ज्ञातिस्तु मध्यमम् । उत्तमं परमो धर्मस्तद्भावार्थं निबोधत ॥८४|| सदोपचर्यमाणोऽपि विकरोत्येव विग्रहः । संगतां शत्रुपक्षे च विस्त्रसामनुवर्तते ॥८५।। क्षणादेव त्यजत्यन्तकालापदि ततोऽधमम् । स्वजनऽस्तु ममत्वस्याऽनुरूपं चेष्टते सदा ॥८६।। क्लिश्यते ग्लानकार्येषु जहाति गतजीवितम् । स्मरत्यवसरे प्राप्ते तन्मित्रं मध्यमं ततः ॥८७।। विशेषकम् धर्मों यथा तथा व्याप्त एकान्तेनैव वत्सलः । निर्भयो मित्रतां निर्वाहयत्येव तदुत्तमम् ॥८८॥ ज्ञात्वेत्यनित्ये विषयसौख्येऽसारे स्वभावतः । विपाकदारुणे धीरपुरुषैरवधीरिते ॥८९|| प्राप्तेऽपि च मनुष्यत्वे भवाटव्यां सुदुर्लभे । सुक्षेत्रे गुणधान्यानां निर्वाणस्य प्रसाधके ।।९।। मोहं हित्वा पदं ध्यात्वाऽचिन्त्यचिन्तामणिप्रभे । उपादेये जिनप्रोक्ते धर्ममित्रेऽत्रमिद्यते ॥९॥ विशेषकम् श्रुत्वेत्यशोकमुख्यानां व्यगलत्कर्मसंहतिः । ग्रन्थिभेदेन मिथ्यात्वं क्षयोपशममागतम् ।।९२॥ अशोकोऽथ ससंवेगोऽवददित्थमिदं खलु । संदेहो नात्र निर्दिष्टं कुमारेण सुशोभनम् ॥१३॥ Page #186 -------------------------------------------------------------------------- ________________ ३६५ नवमो भवः कामाङ्करोऽवदत्सत्यं शोभनादपि शोभनम् । रम्यं यदिदमेवैकं नास्ति रम्यमतः परम् ॥९४|| ललिताङ्गोऽवदन्मोहनिद्रासुप्ताः प्रबोधिताः । कुमारेण विदध्मोऽस्य तदाज्ञामात्मनो हिताम् ॥९५।। अशोकोऽथाऽवदत्साधु ललिताङ्गेन भाषितम् । सर्वैरूचे कुमारो नः कृत्यमादिशतु द्रुतम् ॥१६॥ सोऽथ प्रोचे समासेन हेया विषयवासना । ध्येयं भवस्वरूपं च वर्जनीयः कुसंगमः ॥९७|| साधवः सेवनीयाश्च यथाशक्ति विधीयताम् । दानशीलतपोभावरूपो धर्मश्चतुर्विधः ॥९८॥ युग्मम् ते प्रोचुः प्रतिपेदेऽदः साधु साधु वचस्तव । कुमारः प्राह धन्याः स्थ सफलं जन्म वोऽभवत् ॥९९।। ते प्राहुः स्यादधन्यानां किं कुमारस्य दर्शनम् । इति स्तुत्वा ययुर्वेश्म चकुस्तच्च यथोचितम् ॥१००।। अथाऽऽगात्परपुष्टानां मधुर्मधुरितस्वरः । वनश्रियो व्यजृम्भन्त पुष्वितास्तिलकादयः ॥१०१।। वासन्त्युदलसच्चूतो मञ्जरीजालमालितः । मुदिता भ्रमरश्रेणिः प्रवृत्तो मलयानिलः ॥१०२।। यस्मिन्बहुमता हाला दोला परिवहन्ति च । उद्यानानि निषेव्यन्ते चन्द्रश्चित्तहरोऽभवत् ॥१०३।। प्रेरणानि प्रवर्तन्ते गान्धवं बहु मन्यते । विशिष्टोज्ज्वलनेपथ्याः कीडन्ति तरुणव्रजाः ॥१०४॥ देवतानामपि रथा भ्राम्यन्ति च विभूतिभिः । यान्ति स्मरशरत्रस्ताः शरणं च प्रियाः प्रियान् ॥१०५।। समरादित्यसंक्षेपः एवंविधे मधौ भूपमेयुः पुरमहत्तमाः । ऊचुश्चोत्सववीक्षार्थं प्रीतः स प्राह तान्प्रति ॥१०६।। बहुशोऽपि मया दृष्टो वसन्तसमयोत्सवः । साम्प्रतं तु कुमारस्यावसरोऽस्याऽवलोकने ॥१०७|| हृष्टास्तेऽथ ययुर्भूपः समरादित्यमाह्वत । ऊचे च वत्स ! पौराशां पूरयोत्सवदर्शनात् ॥१०८॥ तातादेशः प्रमाणं मे कुमारेणेति भाषिते । हृष्टो नृपः समादिक्षत् प्रतीहारानुदारगीः ॥१०९।। ज्ञानगर्भादिकामात्यान् ममादेशेन भाषत । चर्चरीदर्शनसुखं यत् कुमारः श्रयिष्यति ॥११०॥ पौराणां परितोषार्थमुद्यानं च गमिष्यति । ततो रथवरं सज्जीकुरुत त्वरितक्रमम् ॥११॥ समादिष्टे प्रतीहारैरथ ते रथवेश्मतः । समाकृष्य रथं चक्रुर्यन्त्रयोत्रसमन्वितम् ॥११२॥ निबद्ध किङ्किणीजालं वैजयन्त्यः समुच्छ्रिताः । बद्धानि रत्नदामानि ग्रथिता मौक्तिकस्रजः ॥११३।। आसनं कल्पितं रम्यं लम्बिता चामरावली । श्रुत्वेति पापमूलानि सहर्षाणि समाययुः ॥११४|| कुङ्कमक्षोदसम्पूर्णकच्चोलककरोऽमिलत् । भुजङ्गलोकः पुष्पर्तुयोग्यनेपथ्यधारकः ॥११५।। तस्थुः परिजनैर्युक्ता राजपुत्रा दिदृक्षवः । प्रग्रीवेष्वस्थुरुद्गीवाः कम्बुग्रीवाः सहस्रशः ॥११६।। प्रावर्ततोत्सवः पुर्यामथागत्य निवेदितम् । सचिवैर्नृपतेर्दैवविहितं देवशासनम् ॥११७।। Page #187 -------------------------------------------------------------------------- ________________ ३६८ नवमो भवः समादिष्टो महीशेनाऽशोकादिसहृदन्वितः ।। कुमारोऽथ समारोहद् रथं शममनोरथः ॥११८।। ऊचे च सारथिं रथ्यान्प्रेरयस्वार्य सारथे । तदादिष्टेन तेनाऽऽथ प्रेरितास्तुरगाः शनैः ॥११९।। वादित्राणि ततो नेदुर्जज्ञे जयजयारवः । नृत्तानि पापमूलानि क्षुभिता प्रेक्षकावली ॥१२०।। केलिः प्रवृत्ता परितः प्रासरत् कौङ्कम रजः । तत्पश्यन् राजवाऽगात्संविग्नात्मा नृपात्मजः ॥१२१॥ गीर्वाणचर्चरीतुल्याश्चर्चरीश्च विलोकयन् । दध्यौ चेतस्यहो मोहसामर्थ्यं धृष्टताऽप्यहो ॥१२२।। प्रमादचेष्टितं चाहो अहो अशुभभावना । अहो अमित्रसंयुक्तरहो संसारचेष्टितम् ॥१२३॥ ध्यायन्निति ससंवेगः कर्मसात्म्यं विचारयन् । चर्चरीर्वीक्षमाणश्च प्रेरणानि निरूपयन् ॥१२४।। प्रेक्षस्वेदमिदं प्रोच्यमानः सारथिनेति च । कियन्तमपि भूभागमाजगाम नृपात्मजः ॥१२५|| युग्मम् अथ दृष्टोऽमुना देवकुलिकापीठिकागतः । गलद्विग्रह आताम्रमुखो बीभत्सदर्शनः ॥१२६।। प्रनष्टनासिकः श्यूनपद: शीर्णाङ्गलीगणः । निर्गताताम्रनयनो मक्षिकाजालमालितः ॥१२७|| महाव्याधिपरिग्रस्तः पुरुषः कोऽपि दूरतः । वसनाशनशय्याद्यैः स्वकैरपि बहिष्कृतः ॥१२८।। विशेषकम् तं वीक्ष्य करुणासान्द्रो जनताबोधहेतवे । कुमारः सारथिं प्राह किमिदं प्रेरणं ननु ॥१२९॥ समरादित्यसंक्षेपः स प्राह प्रेरणं नैतद् व्याधिग्रस्तः पुमानयम् । कुमारः प्राह को व्याधिरवोचदथ सारथिः ॥१३०|| अकालेऽपि शरीरं यो विनाशयति देहिनाम् । कुमारः प्राह दुष्टोऽयमहितश्च जनं प्रति ॥१३१।। तत्कि तातो न हन्त्येनं तेनाऽवध्य इतीरिते । कुमारो जनबोधाय खड्गमादाय तं जगौ ॥१३२॥ रे व्याधे ! मुञ्च मुञ्चैनं युद्धसज्जोऽथवा भव । इति जल्पन् समुत्थाय रथात्तं प्रत्यधावत ॥१३३।। हा किमेतदिति त्यक्त्वा चर्चरी मिलितो जनः । सारथिः प्राह न व्याधिर्नाम्ना कोऽपि पुमानिह ॥१३४।। दुष्टो निग्रहयोग्यश्च नृपतीनामयं पुनः । जीवानां कर्मजः क्लेशो नृपा न प्रभवोऽस्य तत् ॥१३५।। कुमारपृष्टैः पौरैरपीदमित्थमितीरिते । कुमारः सारथिं प्राह ग्रस्तोऽयममुना यदि ॥१३६।। ततः किं पौरुषं हित्वा तिष्ठतीदृगवस्थया । सूतः प्राह स्वभावोऽयमेतेनेदृग् भवेन्नरः ॥१३७।। कुमारः प्राह कस्यैष न स्यात् प्रभवितुं क्षमः । स प्राह परमार्थेन धर्मपथ्यनिषेविणः ॥१३८|| कुमारः प्राह कोऽप्यस्त्युपायोऽस्मिन्सारथि गौ । स्वकृतं कर्म भुञ्जानाः प्राणिनः क्षेत्रवाहिनः ॥१३९।। नास्त्युपायस्ततः कोऽपि विना धर्मचिकित्सितम् । कुमारपृष्टैः पौरैरपीदमित्थमितीरितम् ॥१४०।। १. भवाथवा ख ङ । Page #188 -------------------------------------------------------------------------- ________________ नवमो भवः प्रोचे कुमारस्तद्व्याधौ सर्वसाधारणे रिपौ । उपायो धर्म एवाऽत्र कार्यः किं नर्तनादिभिः || १४१ || पौराः प्राहुरिदं सत्यं लोकस्थितिरियं पुनः । लोकस्य रसभङ्गस्तत्कर्तुं देव ! न युज्यते ॥ १४२ ॥ इत्थं सारथिनाऽप्युक्तेऽनुमते नृपसूनुना । प्रवर्तन्ते स्म चर्चर्यः कियतीमपि भूमिकाम् ॥१४३॥ अपश्यच्च स कोणस्थं स्वगृहस्योपरि स्थितम् । श्लथाङ्गं खलति क्षीणदन्तं कम्प्रशरीरकम् ॥ १४४॥ गलद्विलोचनं काशश्वासैर्भाषितुमक्षमम् । वणिग्मिथुनकं वृद्धमवज्ञातं सुतैरपि ॥ १४५ ॥ युग्मम् तद्वीक्ष्य सूतं बोधाय प्राह किं प्रेरणं न्विदम् । स प्राह प्रेरणं नैतज्जरातं मिथुनं त्वदः ॥ १४६॥ कुमारः प्राह का नाम जरा स प्राह देव या । अजीर्णमपि कालेन कुरुते गात्रमीदृशम् ॥ १४७॥ ऊचे कुमारो दुष्टेयमहिता च जने ततः । कस्मादुपेक्षते तातः स प्रोचे तस्य नो वशे ॥ १४८ ॥ किं वशे नेति स प्रोच्य बोधायाऽसि विमार्ग्य च । प्रोचे जरे विमुञ्चेदं स्त्री त्वं किं भण्यसे परम् ॥१४९॥ भणन्निति रथोत्थायमेतां प्रति चचाल सः । चर्चर्योऽथ पुनः शान्ता मिलितश्चाखिलो जनः ॥ १५०॥ सूतः प्रोचे जरा देव न स्त्री काऽप्यस्ति किं पुनः । नृणां कालपरिणतिस्तन्नोपालम्भमर्हति ॥ १५१ ॥ देव साधारणा चेयं सर्वेषामपि देहिनाम् । कुमारपृष्टैः पौरैरप्येतदेवमितीरितम् ॥१५२॥ ३६९ ३७० समरादित्यसंक्षेपः कुमारोऽथ जजल्पाऽस्यां प्रणाशिन्यां महौजसः । धर्मकामाऽपकारिण्यां पराभवकुलावनौ ॥१५३॥ उपहासप्रवधिन्यां प्रभवन्त्यां जनं प्रति । युज्यते नर्तनाद्यं किं हित्वा धर्मरसायनम् ॥ १५४ ॥ युग्मम् श्रुत्वेति ते कुमारस्य विवेकं तत्त्वदर्शिताम् । स्तुवन्तः परमं प्रापुः संवेगमखिला जनाः || १५५ ॥ ऊचुश्च देव साधूचे किं त्वेषा मोहवासना । दुस्त्यजा भूपसूः प्राह मोहवासनया कृतम् ॥१५६॥ यदेष दारुणो व्याधिर्जरा रौद्रा च पापिनी । तद्विपक्षे ततो धर्मे कर्तुं यत्नः सुसंगतः ॥ १५७॥ अत्रान्तरे जरन्मञ्चस्थितो जीर्णपटावृतः । उत्क्षिप्तः पुरुषैर्दनैः कतिथैर्बन्धुभिर्वृतः ॥ १५८ ॥ रुदता स्त्रीजनेनौच्चैः पत्न्याऽनुक्रन्दमानया । जनेन वीक्ष्यमाणश्च दरिद्रः पञ्चतां गतः ॥ १५९ ॥ आराद् दृष्टः कुमारेण ततः पृष्टश्च सारथिः । आर्य ! मह्यं समाख्याहि किमिदं प्रेरणं नवम् ॥१६०|| विशेषकम् दध्यौ सूतो विदन्नेष विप्रलम्भयति ध्रुवम् । वाणी किमनभिज्ञस्याऽस्मादृग्बोधे प्रगल्भते ॥ १६१|| प्राप्तकालं भवत्वेवं सत्यमाख्याम्यथाऽवदत् । प्रेरणं न भवत्येतन्मृत्युग्रस्तः पुमानयम् ॥१६२॥ कुमारः प्राह को नाम मृत्युः प्रोवाच सारथिः । इत्थं संत्यज्यते मर्त्यो येन ग्रस्तः स्वकैरपि ॥ १६३॥ कुमारोऽथावदद् दुष्टोऽहितश्चैष जनं प्रति । तत्किं न हन्ति तातोऽमुं तेनाऽवध्य इतीरितम् ॥१६४॥ Page #189 -------------------------------------------------------------------------- ________________ ३७१ ३७२ नवमो भवः कुमारो जनबोधाय खड्गं लात्वाऽथ तं जगौ । अरे रे दुष्ट ! मृत्योऽमुं मुञ्च युध्यस्व वा मया ॥१६५।। भणन्निति रथोत्थायं प्रवृत्तस्तस्य संमुखः । सूतः प्राह न कोऽप्यस्ति मृत्युनामा पुमानिह ॥१६६।। दृष्टो निग्रहयोग्यश्च नृपतीनामयं पुनः । देहत्यागस्वभावो हि कर्मणा जनितो जने ॥१६७।। तदस्याऽप्रभवो भूपाः सर्वसाधारणो ह्ययम् । अथ पृष्टैः कुमारेण पौरैरपि तदीरितम् ॥१६८।। कुमारोऽथाऽवदत्सूतं बान्धवाः किं त्यजन्त्यमुम् । सूतः प्राह किमेतेन हेतुभूतो गतो हि सः ॥१६९।। कलेवरमिदं तिष्ठदपकाराय केवलम् । सङ्कलं कृमिजालेन पूतिगन्धनिबन्धनम् ॥१७०।। कुमारः प्राह तयेते बान्धवा विलपन्ति किम् । सूतः प्राह प्रियोऽमीषां गतोऽयं दीर्घयात्रया ॥१७१।। एतेनाऽदर्शनं चैषां स्मृत्वा तत्सुकृतान्यतः । निरोद्धुमक्षमाः शोकमनुपाया रुदन्त्यमी ॥१७२।। कुमारः प्राह यद्येष प्रियः किं नाऽनुयान्ति तत् । सारथिः प्राह नो शक्यमिदं कर्तुं कथञ्चन ॥१७३।। गच्छन्नाख्याति न प्रेमाऽपेक्षते दृश्यते न च । स्थानं न ज्ञायते चाऽस्य वैचित्र्यात्कर्मणां गतः ॥१७४|| अनवस्थितसंयोगादनुबन्धो न चेदृशः । नाऽनुगच्छन्त्यतो हेतोः कुमारोऽथाऽवदत्पुनः ॥१७५।। समरादित्यसंक्षेपः एवं यदि ततो व्यर्था प्रीतिस्तत्रेतरो जगौ । परमार्थोऽयमेवाऽत्र कुमारः प्राह यद्यदः ॥१७६।। ततः कश्चिदुपायोऽस्ति तमुवाचाऽथ सारथिः । उपायो योगिगम्योऽत्र ज्ञायतेऽस्मादृशैर्न हि ॥१७७|| पृष्टैरथ कुमारेण पौरैरपि तदीरितम् । ऊचे कुमारो यद्येवं तत्सर्वसमताजुषि ॥१७८।। असुन्दरे प्रकृत्या च सर्वथाऽप्यपकारके । मृत्यौ चिन्त्यः प्रतीघातोपायः किं नर्तनेन नु ॥१७९।। श्रुत्वेति पौराः संविग्ना बोधिबीजानि लेभिरे । नृत्यादुपरताः कृत्ये प्रवृत्ताश्च यथोचितम् ॥१८०॥ कुमारः सवसन्तस्य वसन्तसुहृदश्चमः । चर्चरीमिषतो मन्ये त्रिभङ्क्त्वा स्ववशे व्यधात् ॥१८१।। अथ ज्ञात्वेति वृत्तान्तं देवसेनाऽभिधद्विजात् । राजा प्रेष्य प्रतीहारं समरादित्यमाह्वत ॥१८२।। आयातः प्रणतः प्रोक्तो भूभुजा वच्मि किञ्चन । कुमार तत्कुमारेणावश्यं कर्तव्यमेव च ॥१८३|| कुमारः प्राह गुरवो दुलझ्यवचनाः खलु । राज्ञोचेऽवसरे तर्हि भणिष्याम्यधुना व्रज ॥१८४।। आदेश इत्यथ प्रोच्य प्रणम्य च महीपतिम् । कुमारः सदनं गत्वा कर्तव्यमुचितं व्यधात् ॥१८५।। अन्यदा भवनस्थस्य मित्रैर्धर्मकथाकृतः । अमारस्य कुमारस्य प्रतीहारः समागमत् ॥१८६।। अवोचच्च कुमार त्वां देव इत्यादिशत्यहो । एहि त्वं वेगतोऽमात्याः समेता मातुलस्य ते ॥१८७।। १. रथोत्थाय ख ङ च । Page #190 -------------------------------------------------------------------------- ________________ नवमो भवः ३७३ ३७४ कुमारोऽथ समुत्थायाऽऽगतः सहचरैः सह । नत्वा वसुमतीनाथमुपविष्टस्तदन्तिके ॥१८८।। उक्तो भूपतिना वत्स ! मातुलेन तवाऽऽदरात् । भुभुजा खड्गसेनेन सप्तवेणीसुनिर्मले ॥१८९।। जीविताऽभ्यऽधिके पुत्र्यौ प्रहिते ते स्वयंवरे । एका विभ्रमवत्याख्या परा कामलताभिधा ॥१९०॥ युग्मम् तत्तस्य बहुमानेन कन्ययोश्चाऽनुरागतः । आज्ञया गुरुवर्गस्य विशिष्टाऽध्वाऽनुवर्तनात् ॥१९१॥ कुमारेणेष्टसम्पत्त्याऽऽनन्दितव्ये सुनिश्चितम् । कृतेऽस्मिन् वचने स्याच्च सर्वेषामपि निर्वृत्तिः ॥१९२।। श्रुत्वेति समरादित्यो दध्यावेतन्न शोभनम् । संयोगा दुःखबीजानि निदेशवचनं त्वदः ॥१९३|| अभ्यर्थितोऽस्मि प्रथमं मया बहुमतं च तत् । अलङ्घनीया गुर्वाज्ञा मानिता हि जिनैरपि ॥१९४।। नियमेनेष्टसम्पत्त्या निर्वतिः सुन्दरं वचः । कुर्वाणानां च गुर्वाज्ञां क्वाऽपि नाऽशोभनं भवेत् ॥१९५।। विशेषकम् इति ध्यायन्नयं प्रोक्तः साशङ्केनाऽवनीभुजा । चिन्तया पूर्यतां वत्स ! प्रार्थनां मम संस्मर ॥१९६।। न चाऽत्र परिणामस्ते कल्याणानां परम्पराम् । विमुच्याऽन्यादृशः कोऽपि कर्तव्यं तदिदं ध्रुवम् ॥१९७।। इदं सुशोभनं वाक्यमिति प्रमुदितात्मना । अभाष्यत कुमारेण गुर्वाज्ञा मे शिरस्यसौ ॥१९८|| हृष्टोऽथ नृपतिः प्राह साधु साधु सुनन्दन ! । विवेकः संगतस्तेऽसौ गुरुभक्तिः सुशोभना ॥१९९| समरादित्यसंक्षेपः कल्याणभाजनं चाऽसि भवतोऽन्यच्च वेम्यहम् । पक्षपातं महाशुद्धे धर्मे समुचिते सताम् ॥२००॥ असारोऽयं भवः सत्यं निर्वेदस्य निबन्धनम् । तथाऽपि लोकधर्मोऽयमनुवयों मनीषिणा ॥२०१॥ कुशला संततिः कार्या परस्योपकृतिस्तथा । अनुवर्त्यः कुलाचारः सदाचारविचारिभिः ॥२०२॥ इत्थमेकान्ततो लोकधर्म परिणते सति । निष्पन्ने पौरुषे ब्रह्मचर्ये सुष्ठ प्रतिष्ठिते ॥२०३|| वयसः परिणामेऽथोपद्रवैविद्रुतैरलम् । गुणपात्रीकृते चात्मन्युचितं धर्मसेवनम् ॥२०४।। इदं ततः कुमारेण शोभनं विदधेऽधुना । भवत्वेवमिदं भावि परिणामेऽतिसुन्दरम् ॥२०५।। सप्तभिः कुलकम् तदा कक्षाऽन्तरस्थेन सिद्धार्थेन पुरोधसा । उक्तमत्र न संदेहोऽवश्यमेव भविष्यति ॥२०६।। मङ्गल्यतूर्य दध्वान गजितं मत्तहस्तिना । उद्धृष्टो बन्दिलोकेन बाढं जयजयारवः ॥२०७|| नृपः प्रमुदितः प्रोचेऽनुकूलः शकुनव्रजः । अन्यच्च शुद्धधर्माहत्वं सुसुन्दरकारणम् ॥२०८।। गृहीतशकुनार्थोऽथ कुमारो मुदितोऽवदत् । सर्वं ताताशिषा भाव्यथाऽपठत् कालपाठकः ॥२०९।। तमो निर्माश्य मोहं च जनस्य तपनोऽधुना । चेष्टयाऽऽकाशमध्यस्थो धर्मकृत्ये प्रवर्तते ॥२१०॥ १. पीपठत् क । Page #191 -------------------------------------------------------------------------- ________________ नवमो भवः केचिन्मज्जन्ति केचिच्च कुर्वते देवताऽर्चनम् । केचिद्ददति दानानि गुरूपास्तिपराः परे ॥ २११ || साधवोऽप्युज्झितध्याना जनाऽनुग्रहहेतवे । योगाऽन्तरं प्रपद्यन्ते पिण्डग्रहणहेतवे ॥ २१२ ॥ इत्थं पुर्या नराधीश नरः शुद्धक्रियापरः । परं नृजन्मसारं ते कल्याणं सूचयत्यलम् ॥२१३॥ मध्याह्नसमयं मत्वा कुमारं व्यसृजन्नृपः । वर्धापनकृतेऽमात्यानादिशच्च समन्ततः ॥ २१४॥ आदेश इति तैरुक्त्वा महादानं प्रदापितम् । कारिता नगरीशोभा पूजितो देवताव्रजः ॥ २१५ ॥ पौराणां कथितं पापमूलान्याकारितानि च । दापिताऽऽनन्दभेरी च हर्षशङ्खाः प्रपूरिताः ॥ २१६ ॥ अथ प्रहृष्टपौराढ्यं प्रनृत्यत्पापमूलकम् । नदत्पुण्याऽहवादित्रं पठन्मङ्गलपाठकम् ॥२१७|| युतमन्तःपुरीवर्गे राजलोकेन संयुतम् । महता विस्तरेणाऽभूद्दिव्यं वर्धापनं पुरि ॥२१८॥ युग्मम् परितुष्टेन भूपेन पृष्टैर्मौहूर्तिकैरहः । कथितं देव पञ्चम्यामद्यैवेदं सुसुन्दरं ॥ २१९ ॥ नृपोऽमात्यानथादिक्षद्विवाहप्रह्वताविधौ । ते कोशाध्यक्षमादिक्षन्मङ्क्षु रत्नाकराभिधम् ॥ २२०॥ प्रधानमुखं वीक्ष्य त्वं पत्रिकां भूषणावली: । आकृष्यान्तः पुरीयोग्या दायकेभ्यो नियोजय || २२१ ॥ चेलकर्मान्तिकं प्राहुर्देवाङ्गं वसनान्यहो । देवाङ्गानि समाकृष्य देवीपरिजनेऽर्पय ॥२२२॥ ३७५ ३७६ समरादित्यसंक्षेपः महामातलिनामानमूचुः शस्त्राधिनायकम् । आयुधानि रथांश्चैव प्रगुणीकुरु वेगतः ॥ २२३|| गजचिन्तामणि नाम्ना गजाध्यक्षं बभाषिरे । विक्कान्वशाश्च संभूष्य वेगात् परिजनेऽर्पय ॥ २२४ ॥ केकाणधूलिनामानमश्वाध्यक्षं समादिशन् । संभष्य तुरगाशीघ्रं प्रेषय क्ष्मापगोचरे ॥ २२५ ॥ यदादिशन्त्यमात्यास्तज्जातं सर्वैरितीरिते । सज्जितुं मण्डपं केऽपि जग्मिवांसो वधूगृहे ॥२२६॥ निर्वृत्तस्तत्र चोल्लोच उच्छ्रिता मणितोरणाः । स्थापिता स्वर्णवेदी च रचिताः काञ्चनध्वजाः ॥ २२७॥ न्यस्ता मङ्गलकुम्भाश्च जातं स्नपनकं ततः । वध्वौ संस्नप्य सम्भूष्य द्वे अपि प्रगुणीकृते ॥ २२८ ॥ अथ लग्ने समासन्ने मोहूर्तिक निवेदिते । सम्पादितकुलाचारः सम्पूज्य कुलदेवताः ॥ २२९ ॥ वन्दित्वा गुरुवर्गं च सम्मान्य सहचारिणः । कुमारो रथमारोहन्निजैः सहचरैः सह ॥ २३०॥ आनन्दतुमुलोऽथाऽभून्मङ्गल्यातोद्यमध्वनत् । नृत्ता वारविलासिन्यः शुद्धान्तो गायति स्म च ॥२३१॥ चलिताश्च महीपाला भुजङ्गाः प्रविजृम्भिताः । आनन्दिता पुरी बाढं हृष्टः पुरुषसिंहराट् ॥२३२॥ कुमारस्तु ससंवेगो भवरूपं विचिन्तयन् । विवाहभुवनं प्राप्तो रथादवततार च ॥ २३३॥ कृतोचितविधिर्मध्यगतो वध्वौ व्यलोकत । गौराङ्गीं विभ्रमवतीं श्यामां कामलतां रुचा || २३४ || Page #192 -------------------------------------------------------------------------- ________________ नवमो भवः ३७७ ३७८ आद्या कुङ्कमलिप्ताऽङ्गी लक्ष्यते दन्तपुत्रिका । नीलाऽश्मपुत्रिकेवाऽन्या श्रीखण्डद्रवमण्डिता ॥२३५।। दध्यौ कुमारस्ते वीक्ष्य कल्याण्याकृतिरेतयोः । सर्गचङ्गानि चाङ्गानि सम्पूर्णावयवावली ॥२३६॥ निष्कलङ्कं च लावण्यमाभोगश्चातिनिर्मलः । लक्षणानि प्रशस्तानि मूर्तिः शान्तरसाश्रया ॥२३७।। अनघं धैर्यमेते तत्पात्रभूते भविष्यतः । इति चिन्तयता तेन चके पाणिग्रहस्तयोः ॥२३८।। विशेषकम् सर्वं यथोचितं कृत्वा भ्रान्ता मङ्गलमण्डली । उपचारो जने चक्रे महादानं च दापितम् ॥२३९।। वृत्तो विवाहयज्ञोऽथ दिनः परिणतोऽभवत् । शीतीभूतं खेबिम्बं संहृतः किरणव्रजः ॥२४०॥ सन्ध्या समागता जातं नभः कनकपिञ्जरम् । अभ्युद्गतो निशानाथः पूर्वकाष्ठा विजृम्भिता ॥२४१।। तदाऽशोकादिभिः सार्धं प्रज्वलन्मणिदीपकम् । पुष्पोपचारसंयुक्तं भ्रमरावलिमालितम् ॥२४२।। संगतं पटवासेन विलुलच्चम्पकस्रजम् ।। संगतं शयनीयेन धूपधूमाऽभिवासितम् ।।२४३॥ ससखीपरिवाराभ्यां वधूभ्यां च विभूषितम् । कुमारो वासभवनमाजगाम शमप्रियः ॥२४४।। विशेषकम् अभ्युत्थितो वधूभ्यां स शयनीये निषेदिवान् । अशोकाद्यः सुहृद्वर्गो यथायोग्यमुपाविशत् ॥२४५।। अथ कुन्दलता नाम्ना सखी संकेतिताऽऽद्यया । परया मानिनी नाम्ना ताम्बूलं ददतुर्मुदा ॥२४६।। समरादित्यसंक्षेपः मालां बकुलपुष्पाणामस्मै कुन्दलताऽर्पयत् । अतिमुक्तकसम्भूतपुष्पमालां तु मानिनी ॥२४७।। ऊचतुश्च स्वहस्ताभ्यां ग्रथिता प्रियया तव । कुमार तव योग्येयमत्यन्तमनुरागतः ॥२४८।। यथायोग्यं कुमारस्तन्निवेशयतु ते इमे । करोतु सफलं स्वस्मिन्ननुरागं च कान्तयोः ॥२४९।। ऊचे च समरादित्यो भवत्यौ चिन्त्यमस्त्यदः । ममोपर्यनुरागोऽस्ति कान्तयोर्नास्ति वाऽनयोः ॥२५०॥ प्राह कुन्दलताऽग्रेऽदश्चिन्तितं शृणु साम्प्रतम् । त्वन्नाम बन्दिनोद्धृष्टं श्रुतमाभ्यां यदाद्यपि ॥२५१।। तदादि खेदहर्षाभ्यां गृहीते निन्दतः स्तुतः । निजं जन्म कलाजालमस्यतोऽभ्यस्यतोऽपि वा ॥२५२॥ कुरुतः संकथां तेन कुरुतस्तत्र विश्रमम् । खिद्यते च शरीरेण वर्धेते विभ्रमेण च ॥२५३।। मुच्येते लज्जयाऽप्येते बाद रणरणेन च । इदं वीक्ष्य किमेतन्नु व्यषीददनयोः पिता ॥२५४|| ज्ञात्वा व्यतिकरं तं च सुनिष्णातसखीजनात् । स्थानेऽभिलाषं संचिन्त्य सहर्षात् प्राहिणोदिमे ॥२५५।। सम्पन्नस्वेहिते सौख्यसहिते इह चागते । कुमारचिन्तितो दूरमनुरागस्तदेतयोः ॥२५६|| दध्यौ कुमारोऽस्त्यनयोरनुरागो ममोपरि । अनुरक्ताश्च गृह्णन्ति निर्विकल्पं वचोऽङ्गिनः ॥२५७॥ प्रवर्तन्ते स्वभावेन क्रियया विदधत्यपि । तद्युज्यतेऽनयोः कर्तुं देशना क्लेशनाशिनी ॥२५८।। Page #193 -------------------------------------------------------------------------- ________________ नवमो भवः ३८० ध्यात्वेत्याह भवत्योः किमनरागोऽस्ति मां प्रति । साशङ्क दध्यतुस्ते किं गम्भीरं वचनं ह्यदः ॥२५९॥ नोचतुश्च पदाङ्गुष्ठप्रान्तालिखितकुट्टिमे । सख्यूचेऽथ स्वया मत्या कुमारेणाऽवधार्यताम् ॥२६०।। कुमारः प्राह यद्येवमहिते प्रविवर्तिषा । सानरागे तया स्याच्चेत्तत् कीगनुरागिता ॥२६१।। मानिन्यूचे कुमारेदं न जानाम्यहितं कथम् । कुमारः प्राह शृणु तत् त्वमत्रार्थे कथानकम् ॥२६२।। कामरूपाभिधे देशे मदनाद्यं पुरं पुरम् । प्रद्युम्नाख्यो नृपस्तत्र प्रियास्य रतिराख्यया ॥२६३।। तयोविषयसौख्येन गते काले कियत्यपि । अन्यदा च गतो राजा वाहवाहनहेतवे ॥२६४।। रत्या विमलमत्याख्यसार्थवाहस्य नन्दनः । दृष्टः शुभकरो राजमार्गे वातायनस्थया ॥२६५।। साऽपि दृष्टिगता तेन साभिलाषं विलोकिता । चित्तज्ञ इति सन्तुष्टा रतिर्मतिविमोहतः ॥२६६।। दुर्निवारस्मरशरप्रकरप्रहता च सा । जालिन्याख्यां सखीमूचेऽमुं युवानं समानय ॥२६७।। अस्मिन्नर्थे सुबोधानि मनांसि खलु कामिनाम् । प्रतार्येति तयाऽऽनीय प्रेष्ययं वासवेश्मनि ॥२६८।। उपविष्टस्य पल्यङ्के ताम्बूलं रतिरार्पयत् । तस्मिन्नर्धगृहीते च बन्दिकोलाहलोऽभवत् ।।२६९।। राजानमागतं ज्ञात्वा चित्ताऽरतिमती रतिः । उपायः कोऽपि नान्योऽपि प्रैषीद्व!गृहेऽथ तम् ॥२७०॥ समरादित्यसंक्षेपः नृपः प्रविश्य पल्यङ्के निविश्य क्षणमाह्वत । वाव्यिापारिणं वर्षो गृहं गन्तुं समुत्सुकः ॥२७१।। श्रुत्वेत्यत्यन्तभीतेन तेन जीवितकाङ्क्षिणा । अगाधे ध्वान्तवत्यात्मा वर्च:कूपे प्रपातितः ॥२७२।। कृमिभिर्वेष्टितो रुद्धा दृष्टिः सङ्कुचिता तनुः । उदीर्णा वेदना बाढमाकुलो मूर्छितश्च सः ॥२७३।। इतो नृपः शकृद्वेश्मन्यङ्गरक्षनिरीक्षिते । प्रविश्य कृत्वा कायस्य स्थिति तस्माद्विनिर्गतः ॥२७४।। स्थित्वा रत्या समं चित्तविनोदेन धराधिपः । अतीते वासरे गत्वा तस्थावास्थानमण्डपे ॥२७५।। शुभकरव्यतिकरं रत्या पृष्टाथ जालिनी । प्रोचे मन्ये मृतः कूपे चित्तादप्यथ विस्मृतः ॥२७६।। शुभङ्करस्तु दुःखार्तस्तत्राशुचिरसाशनः । स्थित्वा कतिपयं कालं वर्च:कूपेऽथ शोधिते ॥२७७।। विष्ठानिर्गममार्गेण निर्गतो विगतच्छविः । निर्नष्टरोमकरजः शुचीभूतः कथञ्चन ॥२७८|| क्लेशेन गृहमायासीद्रीतः परिजनोऽखिलः । मा भैषीरिति जल्पित्वा स्वमाख्यत शुभङ्करम् ॥२७९।। पित्रा पृष्टोऽथ किं चके त्वया येनाऽजनीदृशः । स प्राह तात यच्चके तदाख्यामि रह: कुरु ॥२८०॥ कथिते रतिवृत्तान्ते पिता संविग्नमानसः । तं वेश्ममध्यतो नीत्वा तैलाभ्यङ्गाद्यकारयत् ॥२८१।। कालात्प्रगुणगात्रोऽयं प्रवृत्तो देवतागृहम् । दृष्टो रत्या सखीं प्रेष्याऽऽकारितः पुनरागतः ॥२८२।। Page #194 -------------------------------------------------------------------------- ________________ ३८१ ३८२ नवमो भवः पुनरप्यागते राज्ञि प्रागुक्तं सर्वमप्यभूत् । इत्थं पुन: पुनर्जातं बहुशोऽप्येतदीदृशम् ॥२८३॥ ततः पृच्छाम्यहं तस्मिन् रतेः स्नेहोऽस्ति वा न वा । मानिन्यूचे कुमाराऽस्ति परमार्थेन न ध्रुवम् ।।२८४।। निर्मतिः सा रतिर्वस्तु निजं भावं च नेक्षते । आत्मनः परतन्त्रत्वं ध्यायत्यस्याऽऽयति च न ॥२८५॥ कुमारः प्राह तन्नैवाऽनुरागोऽस्त्यनयोर्मयि । इमे अपि मतिभ्रष्टे स्वचेतसि विचार्यताम् ।।२८६।। एते यदिच्छतो भोगान् स्वभावाऽसुन्दराऽस्थिरान् । हेतूनीpविषादादेस्तेन वस्तु न पश्यतः ॥२८७।। दुर्लभं च मनुष्यत्वं निर्वाणपदकारणम् । न नियोजयतो धर्मे तेन भावं न पश्यतः ॥२८८।। तथा मृत्योरतिकूरस्याऽऽत्मानं गोचरे स्थितम् । यन्न चिन्तयतस्तेन नेक्षेते परतन्त्रताम् ॥२८९।। तथा भोगविषं जीवमोहकं दुर्गतिप्रदम् । नियोजयन्त्यौ मां तत्राऽऽयति चिन्तयतो न मे ॥२९०|| एवं स्थिते कथं नामाऽहितेषु विनियोजनात् । एतयोः परमार्थेनाऽनुरागः स्यान्ममोपरि ॥२९१।। श्रुत्वेति वध्वौ संविग्ने जातसंशुद्धभावने । गुरोरिव कुमारस्य क्रमौ नत्वेत्यभाषताम् ।।२९२।। आर्यपुत्राऽऽवयोः कामरागो भवभयादिव । गतस्तत्स्वानुरागस्य तुल्यं यत्कृत्यमादिश ॥२९३।। कुमारस्ते प्रशस्याऽऽह मोहसंक्लेशयोरमी । विषया हेतवः सात्म्यान्येतयोश्चानुबन्धकाः ॥२९४।। समरादित्यसंक्षेपः तत्त्यज्यन्तामिमे यावज्जीवमाद्रियतां शमः । चित्ते विचार्यतां धर्मे क्रियतामुद्यमः परः ॥२९५|| प्रोचतुस्ते तवाऽऽदेशाद्यावज्जीवं समुज्झिताः । आवाभ्यां विषयाः शेषे प्रमाणं शक्तिरेव नौ ॥२९६।। ये चर्चरीचमूभङ्गेऽनङ्गो दुर्गे किलाश्रयत् । ताभ्यामपि कुमारेण धर्मद्वारा निरासि सः ॥२९७।। दध्यौ हृष्टः कुमारोऽथ धन्यत्वमनयोरहो । धीरत्वमल्पकर्मत्वं प्रशमस्तत्त्ववेदिता ॥२९८।। ध्यात्वेत्याह युवां धन्ये यावज्जीवं मयाऽपि तत् । विषयान्सम्परित्यज्य ब्रह्मचर्य प्रतिश्रुतम् ॥२९९।। अहो श्रेष्ठमहो श्रेष्ठमित्यशोकादयोऽवदन् । चके कुसुमवृष्टिश्च यथासन्निहिताऽमरैः ॥३०॥ सर्वं हर्षमयं जज्ञे तदा त्वावरणक्षयात् । कुमारस्याऽवधिज्ञानं वर्धमानमजायत ॥३०१।। वीक्ष्याऽतीतादिकान्भावान्संविग्नोऽतिशयेन सः । श्रुत्वेति पितरौ द्वा:स्थाद्विषण्णावेवमूचतुः ॥३०२। कुमारो नोचितं चक्रे त्यजन् भवभवं सुखम् । इदं सुदुःकरं कस्माद्विदधे तनयः स नौ ॥३०३|| तदा खड्गकरा सर्वाङ्गीणाभरणभारिणी । पराभवन्ती तेजोभिः प्रदीपान्देवताऽऽगमत् ॥३०४॥ अथो सहर्षखेदाभ्यामेताभ्यां प्रणता च सा । ऊचेऽलं वां विषादेन कुमारेणोचितं कृतम् ॥३०५॥ सुधाऽऽदायि विषं हित्वा क्लैब्यं हित्वा च पौरुषम् । औदार्य क्षुद्रतां हित्वा भवं हित्वा च निर्वृतिः ॥३०६॥ Page #195 -------------------------------------------------------------------------- ________________ ३८३ ३८४ नवमो भवः सुतेनैतेन धन्यौ हि युवां निर्वृतिहेतुना । तद्विषादं परित्यज्य कार्यमाचर्यतां शुभम् ॥३०७॥ विशेषकम् का त्वं भगवतीत्युक्ते नृपेण प्राह देवता । राजन् ! खड्गायुधा देवी नामतोऽहं सुदर्शना ॥३०८।। वसामि भवनेऽमुष्मिस्त्वत्पुत्रगुणरागतः । हृष्टो नृपः कुमारस्य देवताश्लाधितैर्गुणैः ॥३०९।। देव्यूचे देव पुत्रस्य प्रभावः कश्चिदीदृशः । मन्त्रयन्ति प्रमोदेन यदेवं देवता अपि ॥३१०॥ तदेहि गत्वा तं वीक्ष्य धर्मपिण्डं विदध्वहे । सर्वथा तत्कृतं युक्तमिति तौ मुदितौ गतौ ॥३११।। मत्वा कुमारोऽभ्युत्थाय नत्वा विनयवामनः । निवेश्याऽऽसनयोः प्राह पुनर्नत्वा कृताञ्जलिः ॥३१२॥ किं चक्रेऽनुचितं तात ! किमम्बाऽहं न शब्दितः । नृपो नाऽनुचितं प्रोच्य देवताऽऽख्यातमाख्यत ॥३१३।। ऊचे च जननी वत्स ! त्वमतुच्छगुणाश्रयः । आदेशस्य न योग्योऽसि कुमारस्तामथाऽवदत् ॥३१४|| कस्मादम्ब ! वदस्येवं यूयं हि गुरवो मम । गुर्वादेशविधानं च गुणबन्धनिबन्धनम् ॥३१५।। नृपः प्राह कुमाराऽतिदुष्करं भवता कृतम् । किमिदं दुष्करं तात ! श्रूयतामित्ययं जगौ ॥३१६|| पुरुषाः केऽपि चत्वारस्तत्र द्वावर्थलम्पटौ । द्वौ च स्त्रीलम्पटावेकमध्वानं तु प्रपेदिरे ॥३१७|| समरादित्यसंक्षेपः तेऽद्राक्षुः क्वचिदुद्देशे निधी नायौं च सद्रुची । प्राप्त प्राप्यमतो हृष्टा सम्मुखीना दधाविरे ॥३१८।। कुतोऽपि देवी वागेतैर्मा साहसमिति श्रुता । वीक्षध्वमूर्ध्वं युष्माकं पतत्युपरि पर्वतः ॥३९१।। एतद्गोचरयातानाममुना चेष्टितेन किम् । एतदाकर्ण्य तैरूज़मीक्षितं भयसम्भ्रमात् ॥३२०।। दृष्टश्चाऽध्यासितव्योमा न सोमाकारदर्शनः । देवानामप्यवारोंजाः सर्वतः पर्वतः पतन् ॥३२१।। ते प्रोचुः क उपायोऽत्र कुतोऽप्याकणितं पुनः । न साम्प्रतमुपायोऽस्त्युपद्रवस्याऽस्य विद्रवे ॥३२२।। किंत्विच्छन्त्यर्थभोगान् ये संगताऽसंगतैरपि । तैस्ते शैलेन चूर्यन्ते हन्ताऽनेन पुनः पुनः ॥३२३।। निरीहास्त्वर्थभोगेषु तदसारत्वभावनात् । पुनः पुनर्न चूर्यन्ते कालेनाऽस्माच्छुटन्ति च ॥३३४।। तत्रैके चिन्तयामासुः किं तया दीर्घचिन्तया । ध्यात्वनेति तेऽर्थभोगेषु प्रवृत्ता भाव्यनिश्चयात् ॥३२५॥ अन्ये निवृत्तास्तान् मत्वा चरान् वीपाकदारुणान् । संयुज्यन्ते फलैः स्वैः स्वैस्तत्तत्कर्मानुभावतः ॥३२६।। एवं व्यवस्थिते तात ! के स्युर्दुष्करकारकाः । नृपः प्राह प्रवर्तन्ते ये ते दुष्करकारकाः ॥३२७|| किं पुनर्दुष्करं वत्स ! युक्तियुक्ते निवर्तने । कुमारः प्राह यद्येवं तत्तातेनाऽवधार्यताम् ॥३२८॥ १. तव पुत्रस्य ख । १. all Mss spell चूर्यंते; is चूर्ण्यन्ते intended ? | Page #196 -------------------------------------------------------------------------- ________________ नवमो भवः मृत्युशैले जगत्त्रय्याघातकेऽत्यन्तभीषणे । पातुकेऽभीष्टभावानां वियोगकृति दुर्जये ॥ ३२९ ॥ अर्थकामपरित्यागोऽव्याबाधः शिवकारणम् । सेव्यते दुष्करं नैतद् दुष्करस्त्वितराश्रयः ||३३०॥ राज्ञोचे सत्यमेवेदं सम्यगालोच्यते यदि । दुरन्तस्तु महामोहः कुमारोऽथ जगाद तम् ||३३१|| सत्यं दुष्टाऽवसानोऽयं यन्मृत्यो प्रभवत्यपि । जया गृह्यमाणा अप्यर्थभोगवशंवदाः ||३३२ ॥ सर्वजन्तुहितेऽत्यन्तं मृत्युवार्धकघातके । जिनोक्ते न प्रवर्तन्ते धर्मे निर्वाणसाधके ॥ ३३३॥ युग्मम् राज्ञोचे सत्यमेवेदं सोद्वेगा प्राह तत्प्रिया । मोहनाशेन नौ जातं कामितं न तु बालयोः ॥ ३३४ ॥ प्रोचे कुमारोऽलं मातरुद्वेगेन यदेतयोः । सम्पन्नं कामितं धन्ये मोक्षबीजेन संगते ॥ ३३५॥ तन्मुखे वीक्षिते देव्या प्रोचतुस्ते प्रणम्य ताम् । स्नेहमात्रनिमित्तोऽयमुद्वेगो वां मनस्यलम् ||३३६|| अन्यथा त्वार्यपुत्रेण यदादिष्टं तथैव तत् । सफलं मानुषत्वं नौ सम्पन्नं कामिताऽधिकम् ||३३७|| दध्यौ च देव्यहो रूपमनयोस्तत्त्ववेदिता । गाम्भीर्य वाक् शमो भक्तिः समुदाचरणं तथा ||३३८|| ऊचे च युवयोर्वत्से खड्गसेनेन जातयोः । युक्तमेतद् गुरुजनो यदेवमनुवर्त्यते ॥ ३३९॥ तदा पुरन्दराऽऽख्यस्य भट्टस्य सदने महान् । आक्रन्दोऽभून्नृपो ज्ञातुं यावत्कञ्चित्प्रहेष्यति ॥३४०॥ ३८५ ३८६ समरादित्यसंक्षेपः तावदुक्तः कुमारेण तात ! ज्ञातमिदं खलु । विजृम्भितं भवस्याऽथ राज्ञोचे कथय स्फुटम् ॥३४१|| कुमारः प्राह भट्टोऽयमस्त्यर्धोपरतोऽधुना । तद्वेश्मन्ययमाक्रन्दो नृपः प्रोचेऽद्य सेक्षितः || ३४२।। कुमारः प्राह ताताऽयमहेतुर्मृत्युधर्मिणाम् । नृपः प्राह न कोऽप्यस्य व्याधिरासीत्कथं मृतः ॥३४३|| ऊचे कुमारोऽवक्तव्यस्तात ! व्यतिकरो ह्यसौ । निन्द्यो लोकद्वये यस्मादथ प्राह धराधवः ॥ ३४४ || निन्द्यं किं वा न संसारे कौतुकं मम तद्वद । न चाऽत्राऽसज्जनः कश्चिद्यस्माद् गोप्यं प्रकाशते ॥ ३४५॥ कुमारः प्राह यद्येवं तातस्तर्हि शृणोत्विदम् । सोऽस्ति नर्मदया पत्न्याऽर्धहतो विषदानतः ॥ ३४६ ॥ अन्यच्च तद्गुहद्वारनैर्ऋत्यां श्वाऽपि तिष्ठति । तयैवाऽर्धहतो वैद्यान् प्रैष्य द्वावपि जीवय ॥३४७॥ तात जीविष्यतोऽवश्यमेकेनैवौषधेन तौ । नृपो दध्यावहो ज्ञानातिशयो मत्तनूभुवः ॥ ३४८ ॥ विषवैद्यानथाऽऽदिश्य नृपः प्रोचे कुमार किम् । अस्याऽसद्व्यवसायस्य तस्या जज्ञे निबन्धनम् ||३४९|| स प्राह निर्विवेकत्वं विशेषादपरं पुनः । पुरन्दरस्य सातीव शचीव खलु वल्लभा ॥३५०|| मोहदोषान् निजे दासेऽर्जुनाख्ये प्रासजत्पुनः । तत्परम्परया श्रुत्वा श्रद्धधे स्नेहतो न सः ॥३५१|| अन्यदा तज्जनन्या स्ववंशभ्रंशनभीतया । न सुन्दरा महेला ते मोपेक्षस्वेति भाषितम् ॥३५२॥ Page #197 -------------------------------------------------------------------------- ________________ नवमो भवः ३८७ ३८८ दध्यौ पुरन्दरो नैतद्धटतेऽम्बा तु भाषते । तत्परीक्ष इति ध्यात्वैकान्ते सा तेन भाषिता ॥३५३।। राजाऽऽदेशेन गन्तव्यं मया कान्ते महासरः । सम्यगेवाऽऽसितव्यं तत्त्वया कत्यपि वासरान् ॥३५४|| सा प्रोचे कीदृशं सम्यगार्यपुत्र ! त्वया विना । इत्युक्त्वा रुदती शीघ्रमेष्यामीति प्रबोधिता ॥३५५।। द्वितीयदिवसे गत्वा कैतवेन पुरन्दरः । निर्गम्य वासरं रात्रियामयुग्मेऽविशद् गृहम् ॥३५६।। वासवेश्म प्रविष्टेन तेनाऽदृश्यत नर्मदा । अर्जुनेन समं सुप्ता सुरताऽऽयासखेदतः ॥३५७|| कुद्धो दध्यौ सुधाहारतुल्या नार्योऽतियत्नतः । भोगश्च रक्षणं चासां दुराचारोऽर्जुनः पुनः ॥३५८।। हन्म्येनं तदिति ध्यात्वा सुप्तस्तेनाऽर्जुनो हतः । निर्गत्य वासगेहाच्च बहि: कोणे स्थितः स्वयम् ॥३५९|| विबुद्धा नर्मदा रक्तस्पर्शतो ध्यातवत्यथ । हहा केनाऽपि पापेन हतो मे प्राणवल्लभः ॥३६०।। हताऽहं निहता किं न तं विना जीवितेन किम् । निवृत्ता रतिसौख्यस्य कथा हृद्बन्धनं गतम् ॥३६१।। ध्यात्वेति भित्त्यधो गर्ता कृत्वा न्यस्तस्तया शवः । विलोक्येति स्वकार्याय निर्जगाम पुरन्दरः ॥३६२।। सा तु कृत्वा स्थली तत्र तन्मूर्ति देवतामिव । नित्यमर्चति नैवेद्यबलिदीपविधानतः ॥३६३।। आश्लिष्यति च मोहेनाऽथोचिते समये समैत् । पुरन्दरो न चाऽलक्षि सावहित्थतया तया ॥३६४|| समरादित्यसंक्षेपः दिनैः कतिपयैदृष्ट्वा स्थलीशुश्रूषणोद्यताम् । तामेष दध्यौ मूढत्वमहो अस्याः सरागता ॥३६५।। यद्वाऽनधीतशास्त्र: स्त्रीजनो हि भवतीदृशः । सुधाहारसमा नार्यो मुनिवाक्यमिदं यतः ॥३६६।। ध्यात्वेति पूर्ववत् सार्धं तया विषयसेवनात् । अह:समाः समास्तस्य द्वादश व्यतिचक्रमुः ॥३६७|| इतोऽहि पञ्चमेऽतीते पक्षान्ते प्रस्तुते बलौ । अभुक्तेषु द्विजेष्वेषा स्थलीबलिविधि व्यधात् ॥३६८।। तां वीक्ष्य सस्मितं प्राह किं तेऽद्यापि हलेऽमुना । श्रुत्वेति भिन्नचित्ता साऽध्यायद्ध्याममुखाम्बुजा ॥३६९॥ मन्ये मम प्रियोऽनेन हतो हन्मि रिपुं ततः । वैरनिर्यातनां कुर्वे प्रदाय विषभोजनम् ॥३७०॥ ध्यात्वेत्यसौ तथा चक्रे तात ! व्यतिकरो ह्ययम् । स्थल्युपद्रवकर्तुश्च शुनः कस्याऽप्यदः कृतम् ॥३७१।। किं च तत्प्रेममोहेन रक्षितुं स्थल्युपद्रवम् । तया हतोऽर्जुनः सैष सप्तकृत्वः स्ववल्लभः ॥३७२।। कृमिपल्ल्याखुमण्डूकालसाहिश्वानरूपतः । उत्पन्नः स्थानकस्नेहाद्वराको निहतस्तया ॥३७३|| धिक् संसारं युवा यत्र निजरूपेण गर्वितः । कृमिविपद्य जायते निज एव कलेवरे ॥३७४।। तत्प्रेममोहितहृदा स्त्रियैव च स हन्यते । तथापि जन्तुर्मोहेन विषयेष्वेव खेलति ॥३७५।। तदेष श्वानवृत्तान्तः संविग्नो नृपतिस्ततः । दध्यावहो भवो भीष्मो विचित्रा कर्मणां गतिः ॥३७६।। Page #198 -------------------------------------------------------------------------- ________________ ३८९ ३९० समरादित्यसंक्षेपः नवमो भवः अहो विषयलोलत्वमहो चाज्ञानजृम्भितम् । अहो अतत्त्ववेदित्वं सर्वथा गहनं ह्यदः ॥३७७।। तदा वैद्याः समागत्याऽवदन् देवप्रसादतः । पुरन्दरः कुक्कुरश्च देव ! द्वावपि जीवितौ ॥३७८।। जीवितौ कथमित्युक्ते नृपेण भिषजो जगुः । दत्त्वा त्याजनकान्युच्चविषं संत्याज्य जीवितौ ॥३७९।। तदा बालातपप्रायं तेजः पुर्यां विजृम्भितम् । दुन्दुभिदिव्यगेयं च श्रुतेर्हर्षप्रहर्षदे ॥३८०॥ राज्ञोचे किमिदं वत्स ! देवोत्पातं स आख्यत । वत्स ! कोऽयं सुरः किं चाकाण्डेऽस्योत्पातकारणम् ॥३८१।। कुमारः प्राह तातैष गुणधर्मेभ्यनन्दनः । जिनधर्माभिधोऽद्यैव देवभूयं जगाम सः ॥३८२॥ स्वभार्यासहृदोर्बोधायाऽऽगतो बोधितौ च तौ। निजश्रीर्दशिता तेनोत्पतता स्वर्गतेः कृते ॥३८३।। नपः प्राह कथं वत्स ! अद्यैव देवत्वमाप सः । कथं वा गृहिणीमित्रे बोधिते तेन मे वद ॥३८४|| ऊचे कुमार एषोऽपि तात व्यतिकरोऽखिलः । जात: कर्मपराधीनसत्त्वचेष्टाऽनुरूपकः ॥३८५।। तथापि कथ्यते पृष्टस्तातेनेत्यन्यथा कथम् । लोकद्वयविरुद्धं हि शक्यमाख्यातुमीदृशम् ॥३८६।। राज्ञोचे वत्स ! संसारे नाख्येयं किञ्चिदस्ति किम् । कुमारः प्राह यद्येवं तत्ताताकर्ण्यतामिदम् ॥३८७।। जिनोक्तभावितो ह्येष भीत: संसारखासतः । विषयेषु निरीहश्च कुशलं भावयत्यलम् ॥३८८।। तन्मित्रं धनदत्ताख्यो द्वितीयहृदयोपमः । भार्या च बन्धुला तेन संगता सा विमोहतः ॥३८९।। जिनधर्मस्त्वनाख्याय निरपेक्षोऽद्य मन्दिरे । आसन्नशून्यगेहेऽस्थात् प्रतिमा सार्वरात्रिकीम् ॥३९०॥ बन्धुलाऽपि तमज्ञात्वा तत्संकेतनिकेतनम् । सलोहकीलं पल्यङ्कं समादाय समागता ॥३९१।। जिनधर्मपदस्योपर्यभूत्पर्यङ्कपादकः । द्विधाऽप्यस्यास्तमोदोषाद्विद्धः कीलेन तत्पदः ॥३९२।। तत्रैत्य धनदत्तेन समं सा बन्धुलाऽवसत् । तद्भारपीलितः कीलो भित्त्वांऽहि धरणीमगात् ॥३९३।। मूर्छितः पीडया ताभ्यां भित्त्यस्रस्थो न लक्षितः । सोऽथ संजातचैतन्योऽपश्यद् व्यतिकरं च तम् ॥३९४|| प्रवृद्धधर्मबुद्धिः संश्चिन्तयामास चेतसि । ईदृशा विषया एते धर्मबुद्धिविमोहकाः ॥३९५।। नाशकाः शीलरत्नस्य दुर्गदुर्गतिपातकाः । दुश्चिकित्स्या अमी भावव्याधयश्च शरीरिणाम् ॥३९६।। धन्यास्ते त्रिजगत्पूज्यास्तीर्थेशा मुनयोऽपि च । प्रायो न प्राणिनां पापबुद्धिर्यत्सन्निधौ भवेत् ॥३९७।। अधन्योऽहं तु भावोपकारं कर्तुं यदेतयोः । कुक्षिम्भरिः क्षमो नास्मि नित्यसंगतयोरपि ॥३९८।। अहो ममाऽकृतार्थत्वमहो मे दुःखहेतुता । संक्लिष्टं चेष्टितं हेतुर्दुर्गतेश्च यदेतयोः ॥३९९।। मया व्यर्थीकृतं सूक्तं श्रूयते यन्न नि:फलः । योगः कल्याणमित्राणां कीहक् कल्याणता च मे ॥४००।। Page #199 -------------------------------------------------------------------------- ________________ नवमो भवः यदेतदीदृशं पक्षपाते सत्यपि मेऽनयोः । पक्षपातं च तं वेत्ति मदीयं किल केवली ॥४०१ || परमेष्ठिमहामन्त्रे प्रयत्नं तत्करोम्यहम् । तं ध्यायन्नेष हित्वाङ्गं ब्रह्मलोके सुरोऽभवत् ॥ ४०२ || ज्ञात्वावधेरकृत्वाऽपि देवकृत्यं कृपाभरात् । समायातो विबोधाय वेगतो मित्रभार्ययोः ॥४०३|| स्यादेवंविधयोर्बोधिर्विनिपातं विना न हि । तद्देवमायया चक्रे बन्धुलायां विशूचिकाम् ||४०४।। तस्याश्च वेदनार्ताया अशुच्यपि विकुर्वितम् । दुर्गन्थं चिक्कणं स्पर्शे भिन्ना तेन समन्ततः ॥४०५॥ हा म्रिये इति जल्पन्ती धनदत्तमसौ श्रिता । सोऽमेध्यलेपितो जातारतिरेतद् व्यचिन्तयत् ॥४०६ || अहो कीदृगिदं जातमित्युद्विग्नो विदूरगः । तयोक्तो मम भज्यन्तेऽङ्गान्यर्त्याऽहं म्रिये तथा ॥ ४०७|| स प्राह किमहं कुर्वेऽसाध्यमेतत्तयोदितम् । संवाहयाऽङ्गं सोऽप्येतदुपरोधात्तथा व्यधात् ॥ ४०८ ॥ श्लिष्टावशुचिजम्बाले न च संचरतः करौ । स दध्याविति किं पापं प्रकर्षमिदमागतम् ||४०९ || ऊचे च किमहं कुर्वे यतो न वहतः करौ । स दध्यौ सत्यमेवं यद्वञ्चितस्तादृशः पतिः ॥ ४१० ॥ कृतं लोकद्वये निन्द्यमिति संवेगमागता । प्रवृत्ता रोदितुं बाढं हाऽऽर्यपुत्राऽऽर्यपुत्र हा ||४११|| १. हाहा for बाढ़ क. ३९१ ३९२ समरादित्यसंक्षेपः दध्यौ च धनदत्तो हा हाऽनार्य धनदत्त ! ते । ईदृशे जीवलोकेऽस्मिन्नसारे च शरीरके ॥४१२|| श्रुत्वा प्रियसुहृद्वाक्यं प्रसादानुपजीव्य च । किमीहगुचितं चेष्टातुल्यं परिणतं च ते ॥ ४१३|| हा मया मन्दभाग्येन प्रियमित्र ! भवानपि । द्रोहितोऽसीति संवेगसङ्गतो मोहमासदत् ॥४१४|| विबुध्याऽवधिना बोधकालं संवेगवृद्धये । शवपूजामिषाद्देवः प्रत्यक्षः शवमार्चयत् ॥४१५ ॥ एतौ हतार्त्तिशोकाग्नी तं नत्वा हृदि दध्यतुः । अहो अस्य प्रभावेण वेदनाऽपगताऽऽवयोः ||४१६ || शक्ती रूपं द्युतिः कीर्तिरहो अस्येति विस्मितौ । पुनर्नत्वोचतुः कस्त्वं किं निमित्तमिहागतः || ४१७ || देवोऽहं जिनधर्मार्चापूजार्थ च समागतः । तेनोक्ते प्रोचतुस्तौ क्व सा देवेन प्रदर्शिता ||४१८|| तां वीक्ष्य हृदि संक्षुब्धावूचतुर्भगवन् ! क सः । निर्जीवा लक्ष्यते मूर्तिस्तत्तत्त्वं कथयाऽऽवयोः ||४१९|| इत्युक्त्वाऽह्निपतितयोः स प्राह ससुरोऽभवत् । दृष्टस्ताभ्यां स पश्यद्भ्यां मञ्चकीलेन कीलितः ॥४२०|| विकर्म कृतमावाभ्यामित्युक्त्वा तौ च मूर्छितौ । देवेनाऽऽश्वासितौ मर्तुमारब्धौ च त्रपाभरात् ॥४२१ ।। स प्राह कि म्रियेथे तौ प्रोचतुर्ज्ञानवान् भवान् । स प्राह वां तदादेशपालनं मरणाद् वरम् ॥४२२|| Page #200 -------------------------------------------------------------------------- ________________ ३९३ नवमो भवः तावूचतुस्तदादेशेऽनुचितौ विद्धि वां प्रभो ।। अदृश्यां च दशां यातो वेगवानावयोः स हि ॥४२३।। स प्राह योग्यौ खियेथे यावां स्वेन कर्मणा । अकृत्ये सेवितेऽपि स्यादयोग्येऽनुशयो हि न ॥४२४|| अदृश्यां च दशां यातो नैषोऽहं हि स एव यत् । भवद्भ्यां न च शोच्यं यदीदृशी कर्मणां गतिः ॥४२५।। रौद्रो विषयमार्गोऽयं दारुणं मोहचेष्टितम् । तत्कि वीतेन शरणे धर्मों मित्रं विधीयताम् ॥४२६।। विशेषकम् आदेशस्ते शिरसि नौ त्यक्त्व्यं किं तु जीवितम् । अकृत्यपात्रं गात्रं हि न धर्तुमधुना क्षमौ ॥४२७।। एवं व्यवस्थिते योग्यं भगवन्नौ समादिश । तेनाख्यातश्च सर्वज्ञोपज्ञधर्मः क्षमादिकः ॥४२८॥ स ताभ्यामाहतश्चकेऽनशनं पूर्वदुःकृतम् । निन्दितं परिणामश्च शुद्धोऽजनितरां तयोः ॥४२९।। कृतकृत्यश्च देवोऽयं प्रक्षिप्य स्वकलेवरम् । उत्पपातेति चाकर्ण्य संविग्नोऽभूद्धराधिपः ॥४३०|| अवोचच्चेन्द्रजालस्य सदृशं भवचेष्टितम् । कल्याणमित्रयोगस्तु दुर्लभः सर्वथा हितः ॥४३१।। प्रधानगुणलाभोऽभूद्यतोऽस्मादेतयोरपि ।। सर्वाण्येवमिति प्रोचुः संविग्नानि च जज्ञिरे ॥४३२।। राज्ञोचे क्वैतदुत्पत्तिः सौधर्म इति सोऽवदत् । राज्ञोक्तं दुश्चरित्रत्वात्कि स्वर्गो युज्यतेऽनयोः ॥४३३॥ समरादित्यसंक्षेपः कुमारः प्राह विरतेस्तात ! सामर्थ्यमीदृशम् । अप्रमादेन सा युक्ता सर्वदुष्कृतभेदिनी ॥४३४।। राज्ञोचे विरतेोग्या भवेयुः कथमीदृशाः । योग्याश्च सम्प्रवर्तन्ते परिणामे किमीदृशे ॥४३५।। कुमारः प्राह ताताऽत्र विचित्रा कर्मणां गतिः । किं च तादृश्यकुशले नाऽभून्निर्मग्नचित्तता ॥४३६।। जाता कुशलपक्षे तु संगताऽऽगमसम्पदा । भावसारा व्यतीचारा निरपेक्षा भवस्थितौ ॥४३७|| युग्मम् ऊचेऽचलापतिर्वत्स ! समीचीनमिदं वचः । अनीदृशी प्रवृत्तिः किं भिनत्ति भवपञ्जरम् ॥४३८।। कुमारः प्राह तातेन सम्यगेवाऽवधारितम् । किं च विज्ञपयाम्युच्चैस्तातं सम्प्रति किञ्चन ॥४३९|| रतिर्न मे भवेऽमुष्मिन्नटपेटकसन्निभे । तत्ताताऽनुमतो हातमिच्छाम्येतं प्रसीद मे ॥४४०॥ वदन्निति पपातांहयो:र्नृप उच्चाय्य तच्छिरः । ऊचे मतं नः सर्वेषामेतत्तत्त्वं मतो मया ॥४४१॥ अथवा ज्ञानतो भावोपकारात्कारणित्वतः । गुरुस्त्वं पृच्छसि कुतः कुरु कारय चोचितम् ॥४४२|| उवाच समरादित्यः प्रसादोऽयं महानभूत् । यत्तातेन व्यवसितामिदं समुचितं मुदा ॥४४३।। अथ प्राभातिकं तूर्य बन्दिध्वनिवदध्वनत् । वाता: प्रत्यूषवाताश्च प्रोल्ललासाऽरुणोऽरुणः ॥४४४|| १. भगवाना० for वेग० ख ङ च. १. ज्ञाता ख ङ २. उत्थाय्य ख, उच्छाद्य ग, उच्चार्य च ङ । Page #201 -------------------------------------------------------------------------- ________________ नवमो भवः तद्धियेव तमोऽनेशद्दिनलक्ष्मीः समागमत् । मिलितानि रथाङ्गानि विबुद्धं नलिनीवनम् ॥ ४४५|| आगतानाममात्यानां रात्रिव्यतिकरं नृपः । आख्यच्च निजमाकूतमेतद् बहुमतं च तैः ||४४६|| नृषः पुरुषसिंहोऽथ जामेयं क्षत्रियोत्तमम् । कुमारं मुनिचन्द्राख्यं निजराज्ये न्यवीविशत् ||४४७|| दापितं च महादानं कारितोऽष्टाहिकामहः । मानिता: पौरसामन्ताः पूजिता गुरुबन्दिनः ||४४८॥ चतुर्ज्ञानप्रभासान्द्रः प्रभासाख्यः प्रभुस्तदा । समवासरदुद्याने नाम्ना पुष्पकरण्डके ||४४९|| कुमारः सुमुहूर्तेऽथ मूर्तो धर्मः समन्वितः । पितृभ्यां धर्मपत्नीभ्यां मित्रैर्मन्त्रिजनैरपि ॥४५०|| पुरन्दरेण सामन्तैरुचितैर्नागरैरपि । याप्ययानं समारूढो महर्द्धिसमुदायवान् ॥४५१॥ नदद्भिर्मङ्गलातोद्यैर्नृत्यद्भिः पापमूलकैः । बन्दिभिः स्तूयमानोऽर्थिसार्थस्वेच्छां प्रपूरयन् ॥४५२॥ संगतो राजलोकेन वीक्ष्यमाणश्च नागरैः । जनयन् विस्मयं तेषां संवेगं च प्रवर्धयन् ॥४५३॥ बोधिबीजं वपंस्तेषु परिणामविशुद्धिमान् । निर्गत्याऽऽगात्तदुद्यानं प्रभासाऽऽचार्यभासितम् ||४५४ ॥ पञ्चभिः कुलकम् तदा देवाः समागच्छन्महानभ्युदयोऽभवत् । पार्श्वे प्रभोः प्रभासस्य प्रव्रज्यामाददे च सः ॥४५५ || ३९५ नतो नृदेवैर्देवैश्च मुनिचन्द्रेण पूजितः । अमार्युद्घोषणा जज्ञे धर्मः सर्वत्र विस्तृतः ||४५६ || ३९६ समरादित्यसंक्षेपः अमुं व्यतिकरं मत्वा गिरिसेनोऽतिपीडितः । प्राच्यकर्माऽनुभावेन बाधितश्च क्षुधाधिकम् ||४५७॥ दध्यावहो जनो मूढो यदेतस्मिन्नपण्डिते । राजपुत्रे करोत्येवं बहुमानममानधीः ॥४५८ ॥ विमान्यैनं दुरात्मानं मानं व्यपनयामि तत् । अस्मादृशामप्यधुना गतो दर्शनगोचरम् ॥४५९ ॥ चिरकालप्रदीप्तं स्वं मनो निर्वावपामि च । निहत्यैनमिति च्छिद्रान्वेषणं विदधेऽन्वहम् ||४६०|| कलापकम् यतिस्तु समरादित्यो गुरुपादाऽन्तिके वसन् । हेलयापि हि जग्राह द्वादशाङ्गी सदाग्रहः ||४६१|| स्थापितो वाचकपदे प्रभासप्रभुणा ततः । सह शिष्यगणेनाऽऽगादयोध्यां पुरमन्यदा ||४६२॥ तत्र शक्रावताराख्ये चैत्ये सङ्घसमन्वितः । युते युगादिदेवेन ययौ पूर्भूविभूषणे ॥४६३ ॥ चैत्यं यदश्मगर्भाश्मपीठिकं मणिकुट्टिमम् । सशालभञ्जिकमणिस्तम्भराजिविराजितम् ॥४६४॥ चन्द्रोदयेषु विन्यस्तमुक्कामालाऽवचूलकम् । गर्भगेाऽन्तरे दीप्यमानरत्नप्रदीपकम् ॥४६५ ॥ पारिजातादिपुष्पौघप्रकाराऽचितभूमिकम् । समेतदेवताऽऽब्धतूर्यत्रिकमनोहरम् ॥४६६॥ दह्यमानाऽगुरुक्षोदाss मोदवासितदिक्पथम् । चारणश्रमणस्तोत्ररवप्रतिरवाकुलम् ||४६७॥ हारनीहारगोक्षीरकुन्देन्दुसमदीधिति । प्रह्वानिवाऽऽह्वयद्दूराच्चलता ध्वजपाणिना ||४६८ ॥ पञ्चभिः कुलकम् Page #202 -------------------------------------------------------------------------- ________________ नवमो भवः आरुह्य मणिसोपानमाले तत्राऽभिवन्द्य च । जगत्त्रयगुरुं चैत्यैकदेशे न्यषदद् गुरुः ॥४६९ ॥ चारणश्रमणैर्विद्याधरैः सिद्धैश्च वन्दितः । तदागमं वनीपालोऽवनीपालाय चाख्यत || ४७० ॥ तं संतोष्य प्रमोदेन भगवद्वन्द्वनोत्सुकः । आगात् प्रसन्नचन्द्रो द्रागयोध्यायाः पुरोऽधिपः || ४७१ कृत्वा भगवतः पूजां वन्दित्वा चैत्यसंहितम् । नत्वा च समरादित्यवाचकं समुपाविशत् ||४७२ ।। अपृच्छच्च कथं धर्मचक्याद्यो वृषभः प्रभुः । कथं धर्मः पुरा नाऽभूत्कथितस्त्वमुनाऽधुना ||४७३॥ भगवानाह भरतेऽवसर्पिण्यामयं प्रभुः । धर्मचक्रयादिमो नैव नाऽभूद्धर्मः परेण तु ॥ ४७४ ॥ अनादयो जिना धर्मस्तदाख्यातोऽप्यनादिमान् । नृपः प्रोवाच सर्वत्र भवत्येषाऽवसर्पिणी ||४७५ ॥ भगवानूचिवान् कर्मभूपञ्चदशकान्तरे । भरतैरावतक्षेत्रदशके सम्भवत्यसौ ||४७६ ॥ विदेहेषु सदैव स्युश्चक्रिणो धर्मचक्रिणः । शाङ्गिणः सीरिण: सिद्धिस्तत्र कालो ह्यवस्थितः ||४७७ || भरतैरावतक्षेत्रदशके तु प्रवर्तते । कालश्चकमिवैतच्च द्वादशारं प्रचक्षते ||४७८॥ षडरा अवसर्पिण्यामुत्सर्पिण्यां च तेऽन्यथा । एवं द्वादशभिस्तैस्तु कालचक्रं यदूचिरे || ४७९ || तत्रैकान्तसुषमारचतस्रः कोटिकोटयः । सागराणां सुषमा तु तिस्रस्तत्कोटिकोटयः ||४८० | ३९७ ३९८ समरादित्यसंक्षेपः सुषमदुःषमा ते द्वे दुःषमसुषमा पुनः । सैका सहस्त्रैर्वर्षाणां द्विचत्वारिंशतोनिता ||४८१ ॥ प्रत्येकं कथ्यते वर्षसहस्राण्येकविंशतिः । दुषमाऽतिदुःषमा च विलोमोत्सर्पिणी च सा ॥४८२|| तत्राद्येऽस्त्रये मर्त्यास्त्रिद्वयेकपल्यजीविताः । त्रिद्वयेकगव्यूतोच्छ्रायास्त्रिद्वयेकदिनभोजनाः ॥४८३॥ कल्पद्रुफलसंतुष्टा धर्माऽधर्मबहिष्कृताः । क्षीणप्राये तृतीयाऽऽरे धर्मचक्री तु जायते ॥ ४८४॥ तत्प्रणीतं विवाहाद्यं धर्मश्चैष चतुर्विधः । दानशीलतपोभावरूपः श्रेष्ठः प्रवर्तते ||४८५ ॥ प्रसन्नचन्द्र भूपाल चतुर्थे त्वरके नराः । पूर्वकोट्यायुषः पञ्चधनुःशतसमुच्छ्रयाः ॥४८६|| पञ्चमे तु वर्षशतायुषः सप्तकरोच्छ्रयाः । द्वयोरप्यनयोर्धर्माऽधर्मसंज्ञा प्रवर्तते ॥ ४८७॥ षष्ठे पुनः षोडशाऽब्दायुषो हस्तसमुच्छ्रयाः । भवत्येषां पुनर्धर्माधर्मसंज्ञा न तादृशी ||४८८॥ एकान्तदुःखप्रचिता उत्सर्पिण्यामपीदृशाः । पश्चानुपूर्व्या विज्ञेया अरेषु किल षट्स्वपि ॥ ४८९ ॥ एवं हि भरतक्षेत्रे प्रथमो धर्मचक्रययम् । न पुनः परतो नाऽभूद्धर्मः शर्मभरप्रदः ||४९० || अथाऽऽह नृपतिर्मोहोऽपनीतः प्रभुणा मम । बाढं चानुगृहीतोऽस्मि तदिच्छाम्यनुशासनम् ||४९१॥ १. भवेत्तेषां ख. Page #203 -------------------------------------------------------------------------- ________________ ३९९ ४०० समरादित्यसंक्षेपः नवमो भवः तदा समागतो वृद्धो मध्यस्थो भवभीरुकः । इन्द्रशर्माऽभिधो विप्रो नत्वाऽपृच्छदतुच्छधीः ॥४९२।। कर्माऽष्टधा कथं जीवो बध्नातीति समादिश । उवाच वाचक: सौम्य पच्यते समये हि नः ॥४९३।। ज्ञानस्य निह्नवद्वेषप्रत्यूहाऽऽशातनादिभिः । विसंवादेन च ज्ञानावरणं कर्म बध्यते ॥४९४।। दर्शनाऽऽवरणं तत्र निवाऽऽद्यैस्तु बध्यते । भूताऽनुकम्पया सातवेदनीयं तु बध्यते ॥४९५।। जीवानां दु:खतापाद्यैरसातं बध्यते पुनः । तीनैः कषायमिथ्यात्वैर्मोहनीयं तु बध्यते ॥४९६।। बध्नाति नरकायुस्तु महारम्भात् परिग्रहात् । पञ्चेन्द्रियवधान् मांसाहारादपि च देहभृत् ॥४९७।। तिर्यगायुर्निबध्नाति माययाऽलीकवाक्यतः । कूटया तुलया कूटमानेन च शरीरभृत् ॥४९८।। स्वभावविनयित्वेन सानुकोशतयाऽपि च । अमत्सरितया जीवो मनुष्यायुर्निबन्धकः ॥४९९॥ देवायुर्बन्धकोऽकामनिर्जराज्ञानकष्टतः । सरागसंयमाज्जीव: संयमाऽसंयमादपि ॥५००। आर्जवैर्वाग्मनोङ्गानामविसंवादयोगतः । नामकर्म शुभं बध्नात्यशुभं वैपरीत्यतः ॥५०१।। उच्चैर्गोत्रं निबध्नाति जात्यादिमदवर्जितः । जात्यादिमदकर्ता तु नीचैर्गोत्रस्य बन्धकः ॥५०२।। स्याद्दानलाभभोगोपभोगवीर्याऽन्तरायतः । बन्धकस्त्वन्तरायस्य बन्धः सौम्य ! भवेदिति ॥५०३।। इन्द्रशर्माऽऽह भगवन्नेवं सति पुनः किमु । मोक्षबीजं कथं वा तत् प्राप्यते भगवाञ्जगौ ।।५०४|| मोक्षबीजमिदं तावच्छमाद्याएं सुपावनं । सम्यक्त्वं सत्परीणामरूपं दुष्कर्मनाशनम् ॥५०५।। तच्चाहद्दर्शनाद्धर्मश्रुतेः सद्गुणसंगमात् । गुणानां पक्षपातेन तथा भाव्यनियोगतः ॥५०६।। अनुकम्पादिभावाच्च क्षयोपशमतोऽपि च । कर्मणां प्राप्यतेऽथाऽऽहेन्द्रशर्मा भगवन्कथम् ॥५०७।। एवं व्यवस्थिते मोक्ष एकान्तेन सुखात्मकः । दुःखैकसेवनारूपाद् व्रतानुष्ठानतो भवेत् ।।५०८।। गुरुः प्राह चिकित्सातः सुखा नीरोगता यथा । प्राप्यते संयमान् मोक्षोऽत्यन्तं सुखमयस्तथा ॥५०९।। न चापि दुःखसेवात्मा परमार्थेन संयमः । शमसोख्यपरीणामाल्लेश्याशुद्धत्वतोऽपि च ॥५१०॥ किं चैतत्पठ्यते तन्न चक्रिणो वज्रिणः सुखम् । भवेऽपि यद् भवेत्साघोर्लोकव्यापारवर्जिनः ॥५११।। प्रश्नः श्रमणनिर्ग्रन्था येऽमी आर्यतया प्रभो ! । व्यतिव्रजन्ति ते कस्य तेजोलेश्यामथोत्तरम् ॥५१२।। व्यन्तराणां नवानां च नागादिभवनौकसाम् । असुराणां ग्रहाणां च सूर्यचन्द्रमसामपि ॥५१३।। आनतप्राणतौ हित्वा कल्पयोश्च द्वयोर्द्वयोः । ग्रैवेयकभावानां चानुत्तराणां सुपर्वणाम् ॥५१४|| एकादिद्वादशप्रान्तमासपर्यायतः क्रमात् । व्यतिव्रजन्ति ते तेजोलेश्यां गौतमसाधवः ॥५१५॥ कलापकम् Page #204 -------------------------------------------------------------------------- ________________ नवमो भवः शुक्ललेश्यस्ततः साधुः शुक्लध्यानी च सिध्यते । बुध्यते मुच्यते सर्वदुःखान्तं च करोत्ययम् ॥५१६॥ तदेवं परमार्थेन दुःखरूपो न संयमः । इन्द्रशर्माऽऽह भगवंस्तवेच्छाम्यनुशासनम् ॥५१७॥ अथ पूर्वागतश्चित्राङ्गदो नत्वाऽवदत्प्रभो ! । के प्राणिनः कतिविधं कर्म बध्नन्ति किंस्थितिः ॥५१८ || स प्रोचे सप्तधा कर्माण्यायुर्बध्नन्ति देहिनः । मोहायुर्वर्जितं सूक्ष्मसम्परायास्तु षड्विधम् ॥५१९॥ बध्नन्ति च जिना वेद्यं कर्म द्विसमयस्थितिः । न सम्परायं शैलेशीप्रतिपन्नास्त्वबन्धकः ॥५२०|| अप्रमत्तमुनीनां स्यान् मुहूर्तान्यष्ट तु स्थितिः । उत्कृष्टानां जघन्यां तु मुहूर्तान्तः प्रचक्षते ॥५२१॥ अनाकुट्य प्रमत्ता ये घ्नन्ति तेषां स्थितिर्मता । उत्कृष्ट वत्सराण्यष्टौ मुहूर्तान्तः परा पुनः ॥ ५२२|| बन्धः सम्यग्दृशां ग्रन्थि व्यतियाति कदापि न । उत्कृष्टस्तु भवेन्मथ्यादृष्टीनां सूत्रभाषितः ॥ ५२३|| चित्राङ्गदो जगादाऽथ तथेति भगवन्निदम् । बाढं चानुगृहीतोऽस्मि तदिच्छाम्यनुशासनम् ॥५२४॥ आगता कालवेलाऽथ नरनाथाऽऽदयो गताः । द्वितीयेऽपि दिनेऽभ्येत्य चैत्यमस्थान् मुनीश्वरः ॥ ५२५॥ समागादग्निभूत्याख्यो विप्रः श्रीवृषभप्रभुम् । नत्वा च समरादित्यवाचकं समुपाविशत् ॥५२६॥ ऊचे च भगवन्देवविशेषं मे समादिश । तदुपास्तिविधिं तस्य पर्युपास्तेः फलं तथा ॥५२७|| ४०१ ४०२ समरादित्यसंक्षेपः भगवानाह यो वीतरागो दोषविवर्जितः । ज्ञानी सुरासुरैः पूज्यः परमार्थस्य देशकः ॥५२८॥ कृतार्थोऽचिन्त्यमाहात्म्यः सर्वजीवहितोऽपि च । जन्ममृत्युजराहीनः परमात्मा स देवता ॥५२९ ॥ युग्मम् यथाशक्ति निरीहेण चित्तेनाऽत्यन्तभावतः । क्रियते निरतीचारं सारं तदुपदेशितम् ॥५३०॥ दानं प्रदानं शीलस्य पालनं तपसः क्रिया । भावनाभावनं चेति तदुपास्तिविधिर्मतः ॥ ५३१ ॥ युग्मम् पर्युपास्तिफलं दिव्याः कामभोगाः कुलं शुभम् । रूपं मतिः स्थितिर्धर्मे गतिश्च परमे पदे ॥ ५३२॥ ऊचेऽग्निभूतियों वीतरागो मध्यस्थ एव सः । कस्याऽपि कुरुते नोपकारमन्यव्यथाभयात् ॥५३३॥ तं चाऽकुर्वन् कथं सर्वहितो हेतुमिहाऽऽदिश । उवाच समरादित्यवाचकः शृणु सुन्दर ! ॥५३४|| कथनात् परमार्थस्य महामोहप्रणाशनम् । न च तस्मात् परः कश्चिदुपकारपरो भवेत् ॥५३५॥ परपीडापरित्यागाद् भगवांस्तं करोति च । एष एवाऽत्र हेतुस्तदग्निभूतिरथावदत् ॥५३६|| भगवन्नित्युपास्तौ स्यादुपकारोऽस्य कीदृशः । फलसिद्धिः कथं तस्याऽभावे तस्माच्च सा कथम् ॥५३७|| गुरुः प्राह न खल्वत्र मता तस्योपकारतः । फलसिद्धिर्भवेत् किं तु तदुपासनयाऽनया ॥ ५३८ ॥ दृष्टं तदुपकारस्याऽभावेऽपि विधिसेवया । चिन्तामण्यग्निमन्त्रेभ्योऽभीष्टार्थफलसेधनम् ॥५३९॥ Page #205 -------------------------------------------------------------------------- ________________ ४०३ ४०४ नवमो भवः स्मृतेरनुसृतेर्जापान्न तत्तेभ्यो न जायते । श्रुत्वेति प्रतिबुद्धोऽग्निभूतिराह तथेति च ॥५४०॥ तदा चाऽभिनवः श्राद्धः समैत्परिजनान्वितः । धनवृद्धयभिधः श्रेष्ठी श्रीनाभेयमपूजयत् ॥५४१|| नत्वा च वाचकं तस्योपविष्टोऽन्ते तमूचिवान् । भगवन् ! सर्वसावधव्यापारविरतिर्यतेः ॥५४२।। स्थूलप्राणातिपातादिरूपाणुव्रतदानतः । श्राद्धानामपरे तस्यानुमति किं न जायते ॥५४३।। गुरुः प्रोवाच विधिना प्रदाने सा न जायते । स प्राह विधिदानं तत् कीदृशं भगवाञ्जगौ ॥५४४॥ कथयित्वा ससंवेगं भवसात्म्यं यथा विधिः । अनवस्थितमेकान्ताहुःखधोरणिकारणम् ॥५४५।। तस्य निर्घातने शक्तमात्यन्तिकरसायनम् । मोक्षसाधकमक्षेपान्मुनिधर्म यथास्थितम् ॥५४६।। जनयित्वा शुभं भावं संवेगस्य प्रवर्धनात् । तमप्रपद्यमानेषु श्रावकेषु स्वकर्मतः ॥५४७॥ लग्नेष्वणुव्रतादाने माध्यस्थ्याद्यच्छतो मुनेः । आकाराद्यवदातं तद्विधिदानं प्रकीर्तितम् ॥५४८।। कलापकम् श्रेष्ठ्यूचे भगवन्नेवमपि तस्येतरे कथम् । न स्यादनुमतिः प्राह भगवाशृणु सुन्दर ! ॥५४९|| श्रीवसन्तपुराधीशो जितशत्रुरभून्नृपः । सधर्मचारिणी तस्य धारिणी शीलधारिणी ॥५५०॥ समरादित्यसंक्षेपः नाट्याऽतिशयतस्तस्याः परितुष्टो धराधिपः । उवाच कियतां किं ते प्रियं प्रियतमे ! वद ॥५५१|| साऽवोचदार्यपुत्राऽत्र प्रसाद: कौमुदीमहे । यथोप्सितप्रचारेणाऽन्तःपुराणां विधीयताम् ।।५५२।। इति प्रतिश्रुते राज्ञा दिवसः स समागमत् । सर्वत्रोद्घोषितं चेत्थं पुरे पटहपूर्वकम् ॥५५३।। यः कोऽप्यद्य पुरस्यान्तः पुरुषो निशि वत्स्यति । तस्य दण्डो विधातव्यो मया विग्रहनिग्रहः ॥५५४।। उग्रदण्डं नृपं मत्वा निर्ययुः पुरुषाः समे । एकस्य श्रेष्ठिनः किं तु षट् सुता न विनिर्गताः ॥५५५।। व्यवहारजुषां तेषां प्रतोल्यः संवृत्तास्ततः । ते तत्रैव निलीयाऽस्थू रजन्यामुत्सवोऽभवत् ॥५५६॥ द्वितीयदिवसे राज्ञा परिज्ञाय चरैरिमे । कुद्धेनाऽवन्ध्यकोपेन बध्यत्वेन निदेशिताः ॥५५७।। गृहीता राजपुरुषैः षडपि श्रेष्ठिनन्दनाः । नीताश्च वध्यमेदिन्यां श्रेष्ठिना शुश्रुवे च तत् ॥५५८।। गृहीत्वाऽथ महारत्नपूर्ण स्थालं समागतः । समीपे नृपतेरित्थं स च विज्ञो व्यजिज्ञपत् ॥५५९|| देव मन्तुं क्षमस्वैषामेकवारं विमुञ्च च । अन्येऽप्येवं विधातारो नेति मुञ्चति भूपतिः ॥५६०॥ मा भूत् कुलक्षय इति भण्यमानः पुनः पुनः । ज्येष्ठपुत्रं नृपोऽमुञ्चत् पिता तं बह्वमन्यत ।।५६१।। १. सौ for सा ख ङ १. सोऽत्र for स च; ग घ. Page #206 -------------------------------------------------------------------------- ________________ ४०५ ४०६ नवमो भवः अन्ये तु निहता राज्ञा श्रेष्ठिनः समताजुषः । एकस्य बहुमानेऽस्ति परेष्वनुमतिः कथम् ॥५६२॥ दृष्टान्तोऽयमुपनयस्त्वस्य श्राद्धो नृपोपमः । साधुः श्रेष्ठिसमः पुत्रतुल्या जीवास्तु षड्विधाः ॥५६३॥ विज्ञप्तितुल्या विज्ञेया साधुधर्मस्य देशना । एवं च सूक्ष्मजीवानां श्रावकस्याविमोचने ॥५६४।। साधोरनुमतिर्न स्याद्भवेदितरथा पुनः । अत एवोक्तमर्हद्भिः पूर्वं ज्ञानं ततो दया ॥५६५।। सर्वं सम्यगनुष्ठानं ज्ञानपूर्वमतो मतम् ।। श्रुत्वेति मुदितः श्रेष्ठी धनवृद्धिरभाषत ॥५६६।। यदात्थ भगवान् सत्यमिदं धर्मो जिनोत्तमैः । सुष्ट दृष्टो ह्ययमहो महोध्वस्ततमोभरैः ।।५६७|| तदा पूर्वागतो नत्वाऽशोकचन्द्रोऽब्रवीदिति । भगवन् ये खलु स्तोकेऽपि प्रमादस्य चेष्टिते ॥५६८।। विपाकदारुणाः शास्त्रे श्रूयन्ते ते तथैव किम् । उताऽन्यथा प्रभुः प्राह शृणु सौम्य ! समाहितः ॥५६९|| सिद्धान्तोक्ता हि सत्या यन्नाऽन्यथावादिनो जिनाः । ये तु सिद्धान्तबाह्याः स्युर्यदृच्छा तेषु सुन्दर ! ॥५७०|| अशोक: प्राह भगवन् ! केषाञ्चिदपि किं ततः । हिंसादिषु प्रवृत्तानां सुविरुद्धकृतामपि ॥५७१।। सम्पत्तिरक्षया भोगा घना दीर्घ च जीवितम् । अल्पेऽपि त्वपराधे स्यादितरेषां विपर्ययः ॥५७२।। युग्मम् प्रोचे गुरुः परिणतिविचित्रा खलु कर्मणाम् । पापानुबन्धिपुण्या ये जीवा दुर्गतिगामिनः ॥५७३।। समरादित्यसंक्षेपः भवाभिनन्दिनः क्षुद्राः कल्याणस्य पराङ्मुखाः । सम्पत्त्यादि भवेत्तेषां पापपूरणहेतवे ॥५७४।। परमार्थान्न सा सम्पत् परेषां तु महात्मनाम् । उक्तभावविपर्यासाज्ज्ञेयः सर्वविपर्ययः ॥५७५।। विशेषकम् तेनाऽथ सत्यमित्युक्ते नत्वा प्राह विलोचनः । विशिष्टं किमुपष्टम्भप्रदानाभयदानयोः ॥५७६।। ऊचे भगवता दानमभयस्य विशिष्यते । दृष्टान्तोऽत्राऽऽत्तचौरस्य राजपत्न्या विमोचनात् ॥५७७।। अस्त्यत्रैव पुरे ब्रह्मपुरे राजा कुशध्वजः । कमलाऽऽख्या महादेवी तिस्रोऽन्यास्तस्य सन्ति च ॥५७८|| अन्यदा च गवाक्षस्थस्ताभिश्चतसृभिः सह । अक्षयूतविनोदेन यावदस्ति नरेश्वरः ॥५७९|| तावन्नेककशाघातदूनं बद्धं च तस्करम् । तलारक्षः समानीय नृपं विज्ञप्तवानिति ॥५८०।। देवानेन परद्रव्यस्याऽपहारो विनिर्मितः । व्यापादयैनमित्युक्ते राज्ञा संचारितः स तैः ॥५८१।। प्राणानामथ वाल्लभ्यात् साक्रन्दं तेन भाषितम् । अहो प्रथमचौर्योऽहं हन्येऽप्राप्तमनोरथः ॥५८२॥ श्रुत्वेति देव्यो निर्व्याजं नृपं व्यज्ञपयन्निति । अयं मनोरथेऽपूर्णे मार्यतामार्यपुत्र ! मा ॥५८३।। किमप्यन्योचितं कुर्म आर्यपुत्रप्रसादतः । नृपेण कुरुतेत्युक्ते विमोच्यैका गृहेऽनयत् ॥५८४।। अभ्यङ्गकुशलैः पुम्भिस्तमभ्यङ्गं विधाप्य सा । गन्धोदकैश्च संस्नप्य क्षौमयुग्ममदान्मुदा ।।५८५॥ Page #207 -------------------------------------------------------------------------- ________________ नवमो भवः ४०७ ४०८ लग्ना दशसहस्त्याः सर्वद्रव्यव्ययः कृतः । परया पायितः सीधु घृतपूरांश्च भोजितः ॥५८६।। विलेप्य यक्षपङ्केन प्रदत्ता स्वर्णमेखला । सहस्त्रा विशतिस्तस्या लग्ना स्वस्वव्ययः कृतः ॥५८७|| अन्यया भोजयित्वैष भोजनं सर्वकामितम् । पायितः पानकान्युच्चैर्भूषितो दिव्यभूषणैः ॥५८८।। प्रदत्तमथ ताम्बूलं लक्षं द्रव्यस्य चाऽलगत् । सापि चौरस्य तस्याऽर्थे सर्वद्रव्यव्ययं व्यघात् ॥५८९।। रात्रौ कमलिनीवाथ कमलाऽऽख्या मुकुल्यभूत् । भणिता च नरेन्द्रेण किञ्चित्त्वं न ददासि किम् ॥५९०॥ सोचे ममाऽऽर्यपुत्राऽर्थो नास्ति दानेऽस्य सुन्दरि ! । राज्ञोचे तव किं नास्ति मत्प्राणा अपि ते वशाः ॥५९१|| सोचे महाप्रसादो मे यद्येवं देवनिर्मितः । आर्यपुत्राऽनुमत्याऽस्मै तत्किचिद्वितराम्यहम् ॥५९२॥ एवं कुर्विति राज्ञोक्ते बभाषे तस्करस्तया । भद्र ! दृष्टस्त्वयाऽकार्यबीजद्रुकुसुमोद्गमः ॥५९३|| स प्राह देवि ! दृष्टोऽयं सुष्टु तेनाऽनुतापवान् । यावज्जीवं निवृत्तोऽस्म्यकार्याऽऽचरणतोऽमुतः ॥५९४।। देवी प्रोवाच यद्येवं तद्ददेऽस्याऽभयं मया । सुदत्तमिति राज्ञोक्ते चौरः स मुदितोऽधिकम् ॥५९५।। हसितं शेषदेवीभिः प्रदत्तं सुष्टु सुन्दरम् । कमलोचे हसत किं पृच्छतैनं हि सुष्टु किम् ।।५९६।। समरादित्यसंक्षेपः ताभिः पृष्टोऽवदच्चौरो मया मृत्युभयात्पुरा । ज्ञातं किमपि नो वस्तु साम्प्रतं सुखितः पुनः ।।५९७।। सर्वाभिः सत्यमित्युक्तं विशिष्टमभयं ततः । हृष्टस्त्रिलोचनः प्रोचे तथेति भगवन्निदम् ॥५९८।। कालवेलाऽथ संजाता श्राद्धवर्गो ययौ गृहम् । कृतं भगवता सर्वं तदात्वसमयोचितम् ॥५९९।। इत्थं विहृत्य देशेषु गते काले कियत्यपि । वाचकः समरादित्योऽन्यदाऽवन्त्यां समागमत् ।।६००। स जातशिष्यनिष्पत्तिः सद्योगाराधनाविधौ । अशोकोद्यान एकान्ते स्थितः प्रतिमया स्थिरः ॥६०१|| तथास्थो गिरिसेनेन दृष्टश्च क्लिष्टकर्मणा । हिण्डितोऽयं बहु कालमित्यत्यन्तं चुकोप सः ॥६०२॥ स रौद्रध्यानसंधानो दध्यावेतच्च चेतसि । प्रस्तावोऽत्रैष न पुनरीदृशः क्वापि दृश्यते ॥६०३।। हन्म्येनं तदुराचारं पूरयामि मनोरथम् । तथा हन्मि यथा दुःखं महच्चानुभवत्ययम् ॥६०४|| शीघ्रं कुतश्चिदानीय वेष्टितः स पटच्चरैः । सिक्तश्च तैलेनैतस्य लगितोऽथ हुताशनः ॥६०५।। किञ्चिद्भगवतो योगाऽतिशयात्तन्न चेतितम् । प्रवृत्ते देहदाहे तु समभूद् ध्यानसंक्रमः ॥६०६।। दध्यौ चाहो भवो भीमः कस्याऽपि क्लेशकारणम् । बभूवाऽहमथाऽलं मे चिन्तितेनाऽमुनाऽधुना ॥६०७।। १. तं for न क २. वशे ख ङ च. ख. १. महत्वा क ग घ. Page #208 -------------------------------------------------------------------------- ________________ नवमो भवः ४०९ समरादित्यसंक्षेपः सुन्दरा समतैवाऽत्र चिन्तामिति विमुच्य सः । विशुद्धं ध्यानमध्याद्योगः परिणतस्ततः ॥६०८।। महासामायिकं जज्ञेऽथाऽपूर्वकरणं कमात् । क्षपकश्रेणिमारूढो जीववीर्य विजृम्भितम् ॥६०९॥ ध्यानानलः प्रवृद्धोऽथ निर्दग्धाः कर्मशत्रवः । दग्धं मोहेन्धनं लब्धा लब्धयः स्वो विमोचितः ॥६१०॥ स्थापितः परमे योगे घातिकर्माणि तुत्रुटुः । अभूच्च केवलज्ञानं लोकालोकप्रकाशकम् ॥६११।। गिरिसेनेन मन्येऽहं तत्तनुदीपिका कृता । महातम:प्रभा नाम दुर्गति गन्तुमिच्छता ॥६१२।। सत्यं च व्रतपञ्चास्यधर्मत्रस्त इवान्त्यजः । महर्षेः समरादित्यस्याऽङ्गमुल्मुकमादधात् ॥६१३।। पुत्रा अनुहरन्ते यत्पितरं नितरामिति । अशठैः पठितं सूक्तं लोकेऽलीकमजायत ॥६१४|| यतोऽदत्त य एवाग्निर्गिरिसेनस्य दुर्गतिम् । तेनैव जातो ध्यानाग्निरन्यस्य शिवदोऽभवत् ॥६१५।। युग्मम् तत्पूर्वमेव दृष्टाया देव्याः श्रीकेवलश्रियः । शुशुभेऽस्य विभोर्देहोज्वलन्मङ्गलदीपवत् ॥६१६।। तदा केवलिनस्तस्य प्रभावाच्चलितासनः । दत्त्वोपयोगमवधौ सविधक्षेत्रसंश्रयः ॥६१७|| अनेकदेवतायुक्तो गृहीतकुसुमोत्करः । गत्या जवनतरयाऽऽगमद्वेलन्धरः सुरः ॥६१८।। युग्मम् प्रणम्य भगवन्तं स पुष्पवृष्टिमपातयत् । धूमध्वजं च विध्याप्य जरच्चीराण्यपानयत् ॥६१९|| समरादित्यपूर्वाद्रावादित्य इव केवले । उदिते ज्वलनो जज्ञे नि:प्रभः किं तदद्भुतम् ॥६२०॥ किमेतदिति संक्षुब्धो गिरिसेनोऽथ भाषितः । वेलन्धरेण रे पाप्मन् ! दुराचार ! नराधम ! ॥६२१|| अद्रष्टव्यमुखाऽश्रेयः किमिदं विदधे त्वया । यदेष विश्ववन्द्योऽपि विश्वनिन्द्य ! कर्थितः ॥६२२॥ युग्मम् मुनिचन्द्रमहीन्द्रोऽथ नर्मदादिप्रियान्वितः । महासामन्तसंयुक्तः समेत्य प्राणमत्प्रभुम् ॥६२३।। राज्ञा वेलन्धरः पृष्टः किमेतदिति सोऽवदत् । प्रभोः प्राणान्तिकं ध्यानमनाऽर्येणामुनाग्नितः ॥६२४|| राज्ञोचे मोहसामर्थ्यमहो अस्य सुदारुणम् । अथाऽस्याऽध्यवसायस्य कारणं किं नु सम्भवेत् ॥६२५।। यद्विभुः सर्वजीवानां वत्सलो हर्षकारणम् । वर्जकः परपीडाया अथ वेलन्धरोऽवदत् ॥६२६।। कारणं नाऽवगच्छामि तर्कयामीदृशं पुनः । अशुभः कर्मबन्धोऽस्याऽनन्तसंसारकारणम् ॥६२७|| राज्ञोचे सत्यमेवेदं भगवानत्र पृच्छयते । वेलन्धरोऽवदद्राजन्नाऽन्यथा संशयच्छिदा ॥६२८|| अथो ऋतुप्रभुः कर्तुं महिमानं मुनिप्रभोः । भवता दिव्यनाट्येनाऽऽगमन्नागमधिश्रितः ॥६२९।। १. वध्याप्य क ग घ. १. नद्यं for "निद्यं क ख ग घ २. 'दृश for "दृशं ख ङ Page #209 -------------------------------------------------------------------------- ________________ नवमो भवः ४११ ४१२ संशोध्य पृथ्वी सम्पाद्य समतां गन्धवारिभिः । सिक्त्वा सम्पूज्य पुष्पैश्च न्यास्थत्कनकवारिजम् ॥६३०।। उपविष्टो विभुस्तत्र देवराजेन वन्दितः । स्तुतश्च भगवन् ! धन्य ! मोहो व्यपगतस्तव ॥६३१।। निर्वृत्ताः सर्वसंक्लेशो विजिताः कर्मशत्रवः । प्राप्ता केवललक्ष्मीश्चोपकृतं भव्यजन्तुषु ॥६३२।। श्रुत्वेति मुदितो बाद मुनिचन्द्रो महीपतिः । ववन्दे पुनरप्येनं देवीसामन्तसंगतः ॥६३३।। तदा च किन्नरैर्गीतं नृत्तं स्वर्गिवधूगणैः । कैवल्यमहिमा जज्ञेऽमुष्य तेनाऽऽगमञ्जनाः ॥६३४।। अहो महानुभावोऽयं न चके रुचिरं मया । ध्यात्वेति गिरिसेनोऽपि पुण्यबीजी ततो ययौ ॥६३५।। ज्ञात्वाऽथ समयं ज्ञानी प्रारेभे धर्मदेशनाम् । दन्तधुता सितध्यानवर्णिकामिव दर्शयन् ॥६३६।। भो भो भव्यजना ! धर्मशीला ! जन्तुरनादिमान् । काञ्चनोपलवत्कर्ममलेन परिसंगतः ॥६३७|| तदोषादेव लभते विकारान् बहुयोनिषु । तत्रोत्पन्नो जरारोगमृत्युभिश्च कदर्थ्यते ॥६३८।। वेदनां लभते योगवियोगैर्दूयतेऽधिकम् । न मोहाऽऽबाधितो वेत्ति त्रिदोषीव हिताहितम् ॥६३९।। हितं परिहरत्युच्चैरपथ्यं बहुमन्यते । महापदश्च प्राप्नोति तस्मादेवं व्यवस्थिते ॥६४०।। परित्यजत मूढत्वं तत्त्वं वीक्षध्वमादरात् । देवान् गुरूंश्च महत विधिदानं प्रयच्छत ॥६४१|| समरादित्यसंक्षेपः विमुच्य कुत्सितं मैत्रीमङ्गीकुरुत देहिषु । शीलं शुद्धं प्रपद्यध्वमभ्यस्यत तपो द्विधा ॥६४२।। भावना भावयध्वं च त्यजताऽसद्ग्रहं मुहुः ।। ततोऽपनयत ध्यानैः शुभैः कर्ममलं चिरात् ॥६४३॥ एवं जीवेऽथ कल्याणीभूते कर्ममलक्षयात् । न दुष्कृतविकाराः स्युर्जायेत च परं सुखम् ॥६४४|| उपदिष्टगुणेष्वस्मात् स्वशक्त्या कुरुतोद्यमम् । श्रुत्वेति पर्षत् संविग्ना प्रतिपन्ना गुणाऽन्तरम् ॥६४५।। अमराः समरादित्यं समरागं शुभाऽशुभे । नत्वागुरमरावत्याममराधिपसंगताः ॥६४६॥ मुनिचन्द्रोऽथ पप्रच्छ भगवन् ! कि नरार्वणः । तस्योपसर्गकारित्वे कारणं भगवत्यपि ॥६४७|| भगवानाह पापानुबन्धोऽयं सुमहानभूत् । गुणसेनाऽग्निशर्मादिकथामकथयत्ततः ॥६४८|| श्रुत्वेति सर्व संविग्नमथ वेलन्धरोऽवदत् । कीदृशः परिणामोऽस्य भविताऽथ गुरुर्जगौ ॥६४९।। साम्प्रतं नरकप्राप्तिस्ततोऽनन्तो भवः पुनः । अथाऽऽह नर्मदा देवी कीदृशा नरकाः प्रभो ! ॥६५०॥ नारका कीदृशा कीहक् तत्र तीव्रा च वेदना । उवाच केवली वाचमाकर्णय सुधार्मिकि ॥६५१॥ मध्ये वृत्ताश्चतुष्कोणा बहिर्नित्यतमोवृताः । अधः क्षुरप्रसंस्थानस्थिताः सूर्यादिवजिताः ॥६५२।। नित्यलिप्ततलाः पूतिवसामेदोऽस्रकर्दमैः । अमेध्यादिकदुर्गन्धा वह्निवर्णाः सुकर्कशाः ॥६५३॥ Page #210 -------------------------------------------------------------------------- ________________ ४१३ ४१४ समरादित्यसंक्षेपः नवमो भवः सुदु:संचरवानः सुतीक्ष्णाऽऽयसगोक्षुरैः । दु:प्रेक्षाः कर्तरीचक्रकुन्तशूलाऽसिशक्तिभिः ॥६५४॥ दुर्गन्धा दूरसा दुष्टस्पर्शा दुःशब्दमन्दिराः । घोरास्ते नरकावासा यत्र ते सन्ति नारकाः ॥६५५॥ कालाः कालावभासाश्च भीमा उत्वासना अपि । नित्योद्विग्नाः सुदुःखार्ता भवं तेऽनुभवन्ति हि ॥६५६।। विचित्रकर्मजास्तत्र विचित्रा वेदना इमा । शीर्षच्छेदशूलभेदी करपत्रेण दारणम् ॥६५७।। असंधिच्छेदजिह्वारुक्-तप्तताम्रादिपायनम् । भक्षणं वज्रतुण्डैश्च शरीरेण बलिक्रिया ॥६५८।। दृप्तश्वापदजा भीतिर्नयनोत्पाटनानि च । प्रवेशो निष्कुटे घोरे शस्त्रपातश्च सर्वशः ॥६५९॥ सद्यो ध्मातलोहमयपुत्रिकाऽऽश्लेषणानि च । ज्वलच्छिलानिपाताश्च मूर्छया परतन्त्रता ॥६६०।। इत्यादिका महत्यः स्युर्वेदनाः सहजास्तथा । शीतोष्णवेदनास्तत्रोपमानेन विजिताः ॥६६१।। पञ्चभिः कुलकम् सप्तसु क्षेत्रजा पीडा षष्ठी यावन्मिथः कृता । तिसृष्वाद्यासु विहिता स्यात्परमाधर्मिकैरपि ॥६६२॥ ऊचे सुलसमञ्जर्या स्वरूपं भगवन् ! दिश । विमानानाममानां तदीयसुखसम्पदम् ॥६६३|| गुरुः प्राह विमानास्ते निष्पकमलधूलयः । सर्वरत्नमया नानासंस्थाना मृदुताजुषः ॥६६४॥ सश्रीकाः सप्रभा दर्शनीया उल्लोचशालिनः । कलितास्तोरणैश्चित्रैः किङ्कराऽमररक्षिताः ॥६६५॥ सरसश्लक्ष्णगोशीर्षचन्दनन्यस्तहस्तकाः । पञ्चवर्णकपुष्पस्त्रगुपचारेण राजिताः ॥६६६।। दह्यमानागुरुक्षोदधूपधूमसुगन्धयः । अप्सरोगणसंकीर्णास्तूर्यध्वनितबन्धुराः ॥६६७|| कलापकम् देवा विचित्रचिह्नाश्च रूपवन्तो महद्धिकाः । महापूर्वयश:सौख्यबलद्युत्यनुभावकाः ॥६६८॥ सर्वालङ्करणाऽऽकीर्णा विलसहिव्यवाससः । माल्याऽनुलेपनधरा वनमालाविभूषिताः ॥६६९।। वर्णगन्धरसस्पशैदिव्यैर्युत्या च दिव्यया । लेश्यया तेजसा चापि द्योतयन्तो दिशो दिशः ॥६७०|| दिव्यवादिवनादेन दिव्यगीतरवेण च । दिव्यान् भोगोपभोगांश्च भुञ्जाना विहरन्ति ते ॥६७१॥ कलापकम् प्रोचे सुलोचना देवा देवसौख्यं च सुन्दरम् । भगवन्नादिशेः सिद्धाः सिद्धिसौख्यं च कीदृशम् ॥६७२।। भगवानचिवान् धर्मशीलेऽत्र महदन्तरम् । सौन्दर्य किं हि देवानां येषामङ्गमशाश्वतम् ॥६७३|| कषायोत्कटता कर्मबन्धस्य परतन्त्रता । इन्द्रियाण्यवशान्युर्वी तृष्णा विषयसंभवा ॥६७४|| उत्कर्षाश्चापकर्षाश्च विचित्रा मोहवैशसम् । विरसोऽन्तो भयं मृत्योस्तत्तेषां कीदृशं सुखम् ॥६७५।। संगीतादिकयोगोऽपि न सुखं परमार्थतः । गीतं सर्वं विलोपो यन्नाट्यं सर्वं विडम्बनम् ॥६७६।। १. "खेन च all Mss. Page #211 -------------------------------------------------------------------------- ________________ ४१६ नवमो भवः अलङ्काराः समे भाराः कामाः सर्वेऽप्यसातदाः । धर्मशीले ततः सिद्धाः परमार्थेन सुन्दराः ॥६७७।। तेषामेव सुखं यत्ते कर्मबन्धनवर्जिताः । परिनिष्ठितकार्यत्वाद् रहिताश्च मनोरथैः ॥६७८।। निर्भयाः सर्वभावानां ज्ञातारः प्रेक्षकाश्च ते । बुद्धीनां हेतवः सिद्धर्जन्ममृत्युविवर्जिताः ॥६७९॥ यद्वा किं नेदृशां सौख्यं परमानन्दयोगतः । सर्वाबाधानिवृत्तानां सिद्धान्ते हि प्रचक्ष्यते ॥६८०।। सिद्धस्य सुखराशि: स्यात्सर्वाद्धापिण्डितो यदि । अनन्तवर्गभक्तोऽपि सर्वाकाशे न माति सः ॥६८१।। न चास्ति तन्मनुष्याणां सर्वेषां च सुपर्वणाम् । सौख्यं यदस्ति सिद्धानामव्याबाधाजुषामिति ॥६८२।। सुलोचनेति श्रुत्वोचे तथेति भगवन्निदम् । संवेगोऽजनि सर्वेषामथ वेलन्धरोऽवदत् ॥६८३।। भगवन् ! कीदृशं सिद्धस्वरूपं भगवाञ्जगौ । आकारोऽसौ न दीर्घोऽस्ति न हुस्वो न त्रिकोणकः ॥६८४|| न वृत्तश्चतुरस्त्रो वा पञ्चवर्णविवर्जितः । न सुगन्धो न दुर्गन्धो न च स्त्रीपुंनपुंसकः ॥६८५।। न तिक्तो न कटुर्नाम्लो न स्वादुस्तुबरो न च । स्निग्धो रूक्षो मृदुश्चण्डो नोष्णः शीतो गुरुर्लघुः ॥६८६।। न सङ्गो न रुहश्चैव नाऽन्यथाऽस्य च विद्यते । संज्ञोपमा परिज्ञा वा नीरूपः सत्तया तु सः ॥६८७|| शब्दो रूपं रसो गन्धः स्पर्शश्चाऽस्य न विद्यते । अपदस्य पदं नास्ति निर्विकार इति ब्रुवे ॥६८८|| समरादित्यसंक्षेपः समस्ताऽनन्तयोगीन्द्राऽऽनन्दसुन्दरमन्दिरम् । सर्वप्रपञ्चरहितं परब्रह्मेति तं विदुः ॥६८९|| अन्यच्च ज्ञातमस्तीह धर्मशीला निशम्यताम् । सुलोचनाऽवदत्तस्मादनुगृह्णातु नः प्रभुः ॥६९०।। उवाच वाचकपृष्ठः समरादित्यकेवली । क्षितिप्रतिष्ठितं नाम पुरं सुरपुरप्रभम् ॥६९१|| येनैकधनदाऽनेकधनदाश्रयशालिना । वस्वोकसारा नि:सारा विदधे निजसम्पदा ॥६९२॥ जितशत्रुर्धरित्रीस्तत्राऽस्त्यन्वर्थनामभृत् । युक्तं तस्य महादेवी जयश्रीरिति विश्रुता ॥६९३।। तस्य रत्येव कामस्य तया दयितया सह । विषयानुपभुञ्जानस्याऽगात्कालः कियानपि ॥६९४।। महद्धिरपि पापद्धिकृतेऽसौ निर्गतोऽन्यदा । वाह्वीकमश्वमारूढोऽमन्तूञ्जन्तून् बहूनहन् ॥६९५।। कर्मणेव हृतस्तेन वाजिना वायुवाजिना । क्षिप्तोऽतिगहने विन्ध्यधरणीधरगहरे ॥६९६|| ततो विषमदेशेऽस्य प्रसर: स्खलितो महान् । ततः संचरति स्मैष मन्दमन्दं पदस्पदः ॥६९७|| अत्रान्तरे च संनद्धवध्रकङ्कटसंकटः । निध्याय दध्यौ धात्रीशं शबरोऽनुचरोपमः ॥६९८|| महानुभावः कोऽप्येष पुरुषः पतितोऽटवौ । भीमायां तत्करोम्यस्योपचारमुचितोचितम् ॥६९९|| १. क्रमेण क, कर्मणे ख ग घ ङ कर्मणो च. Page #212 -------------------------------------------------------------------------- ________________ ४१८ नवमो भवः ध्यात्वेति नत्वा भूपालं खलीने हयमग्रहीत् । अनैषीच्च जलाऽभ्यर्णमुत्तीर्णः पृथिवीपतिः ॥७००॥ उत्पण्य तुरङ्गोऽथ कृतपद्दामबन्धनः । उामखर्वदूर्वायां भिल्लेन मुमुचेऽमुना ॥७०१।। अकुण्ठ इव वण्ठोऽयं स्नपयित्वा नृपं ततः । गत्वा पनसनारङ्गकदलादिफलान्यलात् ॥७०२।। सुस्वादानि सुगन्धीनि तान्यानीयोपनीय च । पतित्वा पादयोः प्राह प्रसादं कुरु देव ! मे ॥७०३।। सफलानि फलानि त्वमाहारग्रहणात्कुरु । नपो दध्यावहो अस्य वत्सलत्वमकारणम् ।।७०४|| अहो वचनविन्यासो बहुमानो महानहो । भक्तिश्च विनयश्चाहो महापुरुषचेष्टितम् ।।७०५॥ करोम्यस्य धृति तस्मादाहारग्रहणादहम् । मा वैमनस्यमस्य स्यादिति राज्ञा प्रतिश्रुतम् ॥७०६॥ महाप्रसाद इत्युक्त्वा स पपात पुनः पदोः । कृता राज्ञाऽस्य विज्ञप्तिः सफला च फलाशनात् ॥७०७।। तदा परिणते घस्ने सहस्रांशौ तिरोहिते । सन्ध्याकाले कृतं कृत्यमुचितं जगतीभुजा ॥७०८।। शबर: स्रस्तरं ध्वस्ततूलिकाविस्तरं व्यधात् । असमैः कुसुमैः शुभ्रं सौरभ्यभरभासुरम् ॥७०९|| संयम्य वाजिनं चापव्यग्रपाणिः समागतः । नृपं व्यजिज्ञपच्चैवं विश्वस्तः स्वपिहि प्रभो ! ॥७१०।। समरादित्यसंक्षेपः उक्त्वेति पार्श्वतोऽभ्राम्यत् स तस्थौ नृपतिः पुनः । शिश्ये महानुभावत्वं शबरस्य विचिन्तयन् ॥७११|| विभावरी विभाताऽथ पूर्वाद्रिमरुणोऽरुणत् । तदाऽश्वपदमार्गेणाऽनुपदं सैन्यमागमत् ।।७१२॥ विबुद्धो नृपतिर्बन्दिशब्दैरथ च ढौकितः । महाश्वपतिना तस्य तौरुष्कतुरगः पुरः ॥७१३।। नृपस्तं स्वयमारोहृदरोहयदमुं हये । वोल्लाहे शबराधीशं गतश्च नगरं निजम् ॥७१४|| पौरैर्वर्धापितः स्पर्धाऽनुबन्धेन परस्परम् । प्रविवेश विशामीशः पुरं लक्ष्म्या पुरन्दरः ॥७१५।। अथ मज्जनवेलायां ममज्ज शबराऽन्वितः । विदधे गुरुदेवानामुचितं रुचितं हृदः ॥७१६|| निवेश्य शबस्चाग्रासनेऽभोज्यत भूभुजा । स्वहस्तेन विलिप्तश्च सुचिरं चन्दनद्रवैः ॥७१७।। वस्त्रयुग्मं च देवाङ्गमव्यङ्गं परिधापितः । भूषितो भूषणैः स्वाङ्गलग्नैर्मग्नैर्महोजले ॥७१८॥ अथ चाऽऽस्थानवेलायां नृपः संसदमापसदत् । समं शबरनाथेन मधुनेव मधोः सुहृत् ॥७१९।। पृष्टश्चाऽमात्यसामन्तैरिति देव ! निवेद्यताम् । क एष पुरुषः सम्पूजितो देवेन देववत् ॥७२०।। ततो हयाऽपहाराचं यावत्सैन्यसमागमम् । कथितं पल्लिनाथस्य नरनाथेन चेष्टितम् ।।७२१।। १. सुस्वादूनि ख ङ च. १. भ्राम्यन् all Mss. Page #213 -------------------------------------------------------------------------- ________________ ४१९ ४२० समरादित्यसंक्षेपः नवमो भवः आस्थानपुरुषैः सर्वेर्बहुधा स प्रशंसितः । विनोदो नाटकादीनां तस्य राज्ञा प्रदशितः ॥७२२।। लङ्खिकाराजसुन्दर्याः पतित्वेन च सोऽर्पितः । राज्ञोचे सा च हे राजसुन्दर्येष महापुमान् ॥७२३।। भीमायामटतोऽटव्यां मम प्राणप्रदायकः । उपचर्यस्त्वया भावचर्यया सुसपर्यया ॥७२४॥ आदेश इति सा प्रोच्य तमादाय कराम्बुजे । गता स्वगृहमारुढा सप्तमे च क्षमातले ॥७२५।। तत्र वासगृहे चित्रविताने चित्रचित्रदे । पञ्चवर्णकपुष्पस्रक्सुगन्धितदिगन्तरे ॥७२६।। घटिते परितो धूपघटीभिर्माणिदीपके । नीत्वा भदन्तपल्यङ्के शायितस्तूलिकाजुषि ॥७२७|| कृतोचितोपचारोऽयं पायित: कापिशायनम् । दत्त्वा कर्पूरताम्बूलं भोगसौख्यं च लम्भितः ॥७२८।। कियत्यपि गते काले तेन व्यज्ञपि भूपतिः । देव ! गच्छामि राज्ञोचे कुरु स्वरुचितं बत ॥७२९।। ततो दत्त्वा बहु द्रव्यं महाय॑ वेसनादि च । पल्लिप: प्रहितः पल्ली सप्रत्ययनरैः सह ॥७३०॥ स राजपुरुषानेतान् विसृज्य स्वगृहं गतः । कल्पद्रुरिव देवाङ्गवसनाभरणादिभिः ॥७३१।। समेत्य नित्यलोकेन पृष्टः क्व त्वं गतोऽभवः । स्थितः कालं क्व चेयन्तं किं किं लब्धं च पल्लिप ! ॥७३२।। तेनाऽथ कथितः पृथ्वीनाथनिर्वर्णनादिकः । पल्लीसमागमप्रान्तः स्ववृत्तान्तः स्वकाग्रतः ॥७३३|| स तैः सकौतुकैः पृष्टः किंरूपं नगरं हि तत् । कीदृशो नृपतिर्लोकस्तत्र भोगश्च कथ्यताम् ।।७३४।। ते तु तस्मिन्ननाख्याति सादृश्यरहिते वने । गुहाद्रुमूलकल्पानि गृहाणि प्रलपन्त्यलम् ।।७३५॥ भक्षाणि फलतुल्यानि युवती: शबरीनिभाः । गुञ्जाश्च भूषणप्राया धातुतुल्यं विलेपनम् ॥७३६।। यथास्थितान् गुणानेष न शक्तो वक्तुमञ्जसा । विकास्य वदनं तूष्णी शबर: श्रयते पुनः ॥७३७॥ एवमौपम्यहीनोऽत्र मोक्षो वक्तुं न शक्यते । श्रद्धातव्यः पुनर्येन नाऽन्यथावादिनो जिनाः ॥७३८।। श्रुत्वेति मुनिचन्द्रस्य देवीसामन्तसंयुजः । चारित्रमोहजं कर्म क्षयोपशममागतम् ।।७३९|| ऊचुश्च तानि भगवन् ! धर्मदेशनयाऽनया । युष्मच्चरिततश्चाऽभून्निर्वेदो भवचारके ॥७४०॥ तत्कर्तव्यं किमस्माभिर्भगवानादिशत्वदः । उवाच भगवान् यूयं धन्यानि ज्ञानिसन्निधौ ॥७४।। सुप्राप्तं येन युष्माभिर्भवचारकमोक्षदम् । छेदनं स्नेहबन्धानां मोहधूलिप्रमार्जनम् ।।७४२।। अङ्गं ज्ञानप्रकर्षस्य परं निर्वाणकारणम् । भावतः शुद्धचारित्रमतीचारविवर्जितम् ।।७४३।। विशेषकम् कृतं कृत्यं ततस्तत्र द्रव्यतोऽपि प्रपद्यताम् । तानि प्रोचुः प्रमाणं हि प्रभोरादेश एव नः ॥७४४|| अथ वेलन्धरो दध्यौ धन्यान्येतानि सर्वथा । यत्प्राप्तं भावचारित्रं सारं मनुजजन्मनः ॥७४५।। १. वसिवादकिं for वसनादि च ख ङ च. Page #214 -------------------------------------------------------------------------- ________________ ४२१ ४२२ नवमो भवः वन्दित्वा हर्षसंयुक्तः सर्वं तदुचितं व्यधात् । तान्यादुर्भगवच्छिष्यशीलदेवान्तिके व्रतम् ॥७४६।। अथाऽऽश्चर्यकृपायुक्तोऽपृच्छद्वेलन्धरः सुरः । प्रभु श्रीसमरादित्यं सम्यगानम्य भावतः ।।७४७|| उद्दिश्य भगवन्तं स स्वोपसर्गविधायकः । स्वामिन्नभव्यो भव्यो वा परुषः पुरुषब्रुवः ॥७४८॥ भगवानाह भव्योऽयमथ वेलन्धरोऽवदत् । आप्तबीजोऽथवाऽनाप्तबीजोऽथ भगवाञ्जगौ ॥७४९॥ अनाप्तबीजः स प्राह कदा प्राप्स्यत्यथाऽवदत् । केवली समरादित्यस्तच्चरित्रमनागतम् ॥७५०॥ पुद्गलानां परावर्तेष्वसंख्येषु गतेष्वयम् । नृपशार्दूलशार्दूलसेनस्याऽश्वो भविष्यति ॥७५१।। तदा प्राप्स्यति येनैष मामुद्दिश्य व्यचिन्तयत् । अहो महानुभावोऽयमिति स्वच्छेन चेतसा ॥७५२।। तेनाऽसफलितं बीजं गुणवत्पक्षपातजम् । तज्जन्मपारम्पर्येण सम्यक्त्वस्य निबन्धनम् ॥७५३।। अतीतेषु त्वसंख्यातभवेषु भववल्लभः । अयं संख्याऽभिधो विप्रो भूत्वा निर्वाणमेष्यति ॥७५४|| इत्याकर्ण्य सकर्णोऽयं हृष्टो वेलन्धरः सुरः । ज्ञानिनं सम्यगानम्य निजं सदनमासदत् ॥७५५।। भव्यान् बोधयतस्तत्रभवतो ज्ञानशालिनः । केवलित्वविहारेण गतः कालः कियानपि ।।७५६|| समरादित्यसंक्षेपः अन्यदा गिरिसेनस्तूज्जयिन्यामेव पुर्ययम् । चौर्यव्यतिकराद्धृत्वा कुम्भीपाकेन घातितः ॥७५७।। मन्येऽस्य गन्तुकामस्य सप्तमी नरकावनीम् । कुम्भीपाको महास्नेहादिव संमुखमागमत् ।।७५८।। उत्पन्नश्च तथारूपप्रभुप्रद्वेषदोषतः । सप्तम्यां नरकावन्यामन्यायकुलसद्म सः ॥७५९॥ पृथिव्यां विहरन् कालक्रमेण भगवानपि । गतो वृषभतीर्थं द्राग् निर्वाणसमयं विदन् ॥७६०॥ केवलित्वसमुद्धातं शैलेशी च प्रपद्य सः । भवोपग्राहिकर्माणि क्षपयामास तत्क्षणम् ॥७६१|| भ्रान्त्वाऽऽदित्य इवावनौ स समरादित्यप्रभुः केवली सच्चकस्य सुखावहः शममहः प्रध्वस्तदोषोदयः । भित्त्वा मोहतमोभरं भवमहाम्भोराशिपारं परं गत्या सार्जवया जगाम समयेनैकेन निःश्रेयसम् ॥७६२।। विज्ञातुं हृदि तत्त्वसत्त्वनवके जेतुं कषायेन्द्रियारातीनां नवकं द्विधा नवविधब्रह्मव्रतं रक्षितुम् । निर्मातुं नवनोकषायकषणं यद्यस्ति वाञ्छा ततो जन्मानां नवकं निबोध समरादित्यस्य वृत्ते विभो ॥७६३।। इति श्रीहरिभद्रोक्त्या प्रद्युम्नाचार्यगुम्फिते । समरादित्यसंक्षेपे नवमोऽनवमो भवः ॥७६४|| १. पुरुषः पुरुषधं ख, पुरुषापुरषध्रुवः च, पुरुषापुरषध्रुवं ग घ. २. 'सकलितं for "सफलितं ख ग घ ङ च. Page #215 -------------------------------------------------------------------------- ________________ नवमो भवः 423 424 समरादित्यसंक्षेपः यस्मिंश्चकाणि रत्नत्रितयमृषिगृहिश्रेयसी चोद्धियुग्मं कारुण्यं स्थालमुच्चेरितरयमचतु:काष्ठिकागाढबद्धम् / संवेगस्वच्छभावी शिखरकलशको शुद्धबुद्धिः पताका साधुश्राद्धौ च धुयौं जयतु शमयुगः स्यन्दनः सैष शास्त्रम् // 7 // चन्द्रप्रभः प्रभुरभूदिह चन्द्रगच्छे तस्माद्गुरुश्च समयुपूरि पद्रदेव्याः / श्रीमान्धनेश्वर इति प्रथितोऽस्य शिष्यः श्रीशान्तिसूरिरिति तस्य च देवभद्रः // 1 // अक्षावलिप्रवरपुस्तकधर्मचिह्नश्वेताम्बुजस्वरविपञ्चिकरे यदीये / शब्दानुशासनविरञ्चिरितः स देवानन्दप्रभुः पुरुषरूपगिरीश्वरोऽभूत् // 2 // श्रीरत्नप्रभपरमानन्दौ कनकप्रभः प्रभुश्चास्मात् / श्रीपरमानन्दविभोर्जयसिंह: सूरिरुदियाय // 3 // शिष्यः श्रीकनकप्रभस्य सुकविः श्रीबालचन्द्रानुजो ज्यायाश्रीजयसिंहतः प्रतिभया श्रीवस्तुपालस्तुतः / विश्वाह्लादनठकुरान्वयगुरुर्मत्या सतां संमतः सूरीणां सुकवित्वशोधनविधौ प्रद्युम्नसूरि: कवि // 4 // वर्षे वारिधिपक्षयक्षगणिते (1324) श्रीवर्धमानस्थितश्चके ऽमुं प्रथमं लिलेख तु जगच्चन्द्रः सुधीः पुस्तके / प्राग्वाटाऽन्वयमन्त्रिवाहटसुतश्रीराणिगस्याङ्गजी। ग्रन्थार्थे रणमल्लसेगसचिवौ स्वं प्रार्थयेतां गुरुम् / / 5 / / यावद्ग्रन्थरथाश्चर्तुदशशती श्रीहारिभद्रा इमे वर्तन्ते किल पारियानिकतया सिद्ध्यध्वयानेऽङ्गिनाम् / तावत्पुष्परथः स एष समरादित्यस्य मन्निर्मितः संक्षेपस्तदनुप्लवः प्रचरतु क्रीडाकृते धीमताम् // 6 / / 1. नई for वद्धं ख ङ च / The following verse is added in क देवानन्दमुनीशगच्छसवितुः श्रीसोमसूरेः प्रभा चन्द्रो राजविहारनामविदितः सूरिः सदा पत्तने / यशोमारसिजस्थितो जिन इव श्राद्धैर्मुदः सेव्यते। तस्य प्राप्य गिरं मुनीक्षणजगत्पृथ्व्याख्यसंवत्सरे // The following verse is wanting in क त्रिलोकवसुवेदाङ्के विद्धि वृद्धिमिहाधिकाम् / आद्यन्तयोश्चतुर्युक्तां सप्ताशीतिमनुष्टुभाम् //