________________
प्रथमो भवः दृष्टस्तपस्विभिम्र्लानः पृष्टोऽपारणकारणम् । प्राक् चिन्तितं च वृत्तं च तदग्रेऽगुणयत्पुनः ॥१९७।। असंभाव्यमदस्तस्मिस्तपस्विजनवत्सले । इत्युक्त्वा तत्र गत्वा च तैराख्यायि गुरोस्तथा ।।१९८।। श्रुत्वा कुलपतिस्तच्च समागच्छत् ससंभ्रमः । नतस्तेनाऽवदत्तस्य प्रमादो ही महीभुजः ॥१९९।। सोऽवदन्नाऽस्य दोषोऽयं ममैवैष प्रमादिनः । गच्छाम्यहं यदाहारमात्रहेतोरिदं गृहम् ॥२००।। न्यषेधि स मयाऽऽहारस्तन वाच्यः किमप्यहम् । प्रोचे कुलपतिः कोप: कार्यो नात्र महीपतौ ॥२०१।। शिष्यं तमनुशिष्यैवं तापसान्परिचारकान् । समादिश्य च याति स्म मुनीश उटजं निजम् ॥२०२।। अथ स्मृते नरेन्द्रेण पृष्टः प्रोवाच काष्टिकः । समेत्याऽगादभुक्तोऽपि स तपस्वी तपोवनम् ॥२०३।। अथात्मानं नृपो निन्दन्नक्षमः स्वास्यदर्शने । प्राहिणोत्तदुदन्ताय सोमदेवं पुरोधसम् ॥२०४॥ गतोऽयं वीक्ष्य तं विप्रः कुशस्त्रस्तरकस्थितम् । उवाच भगवन् ! क्षीणशरीर इव लक्ष्यसे ॥२०५।। तेनोक्तमन्यतो लब्धवृत्तीनां हि तपस्विनाम् । मतं कृशत्वमेवाङ्गमिति श्रुत्वाऽवदद् द्विजः ।।२०६।। त्वादृशामपि नाऽऽहाप्रदा नात्र पुरे जनाः । स प्राह सत्यमेवेदं गुणसेननृपं विना ॥२०७॥
समरादित्यसंक्षेपः विप्रः प्राह नपः किं तेऽकरोद्धर्मपरो हि सः । मुनिराह महाधर्मपरो हि ऋषिघातकः ॥२०८|| सोमस्तं कुपितं मत्वाऽपृच्छदन्यं तपस्विनम् । किमिदं सोऽवदद्राज्ञि कोपेनानशनं ह्यदः ॥२०९।। तद् ज्ञात्वा कथयामास यथावृत्तं स भूभुजे । सशुद्धान्तोऽप्ययं तस्मै नमस्कर्तुमुपाययौ ॥२१०॥ नृपागमनमाख्यातं तापसेनाऽग्निशर्मणः । सोऽपि स्वगुरुमाकार्येत्यवदन्निष्ठुरं वचः ॥२११।। अकारणरिपोरस्य न मुखं वीक्षितुं क्षमः । यत्किञ्चिदुक्त्वा दूरेण पाप एष विसृज्यताम् ॥२१२।। सकषायममुं हित्वा गुरुरागान्नृपं प्रति । नतस्तेनाथ तं वीथ्यां चम्पकानां न्यवेशयत् ॥२१३॥ अजल्पच्च महाराज ! क्रमचङ्कमणं तव ।। सकलत्रस्य भूभागमियन्तं नोचितं ह्यदः ॥२१४|| नृपोऽजल्पदितोऽप्यस्ति प्रभो मेऽनुचितं परम् । येन तेनाऽप्युपायेन यदेतदृषिघातनम् ॥२१५।। अथवा मे किमेतेन वचसा निकृतिस्पृशा । महात्मा क्व स तन्नत्या शोधयाम्यात्मकल्मषम् ।।२१६।। जगौ कुलपती राजंस्त्वन्निर्वेदभुवो मुनेः । नाऽऽहारपरिहारोऽसौ किं तु पर्यन्तसङ्गतः ॥२१७।। किं च क्लेशकलापेन पूर्वकर्म समजितम् । विधुनानोऽधुना ध्यानं चर्करीति स कर्कशम् ॥२१८।।
१. हि क ।
१. निर्वेदभवो क ।