________________
प्रथमो भवः
वेत्रिणी जन्म पुत्रस्य धरित्रीशाय शंसितुम् । गत्या नित्यगति पश्चाच्चक्रे स तु मुखेऽभवत् ॥१७५॥ श्वासाद्वक्तुमशक्तापि सा सानन्दविलोचना । अवदन्त्यपि कल्याणशंसिनीत्यन्वमन्यत ॥ १७६ ॥ वर्धापतो नृपः पुत्रजन्मनाऽस्यै वितीर्णवान् । भूषणान्यङ्गलग्नान्युत्तीर्णान्युद्धषणादिव ॥ १७७॥ पुत्रजन्मसुधां श्रुत्या निपीय वसुधाधिपः । मुधा मेने सुधापानं सुधाशनपतिश्रियै ॥१७८॥ अथादिशदसौ देशे पटहोद्घोषपूर्वकम् । पुत्रजन्मोत्सवं प्रीतः पुर्यामेव न केवलम् ॥ १७९ ॥।
गुप्तिमोक्षमहादानमानवृद्धिपुरस्सरम् । तदाऽभूत्तत्क्षणादेव महोत्सवमयं पुरम् ॥१८०॥
नृत्यद्वेश्याजनं तूर्यबन्दिवृन्दरवाकुलम् । वर्धापनमभूद्दिव्यं कुब्जनृत्यहसज्जनम् ||१८१|| इतश्च गुरुनिर्देशादग्निशर्मा तपोधनः । आगच्छन्नुच्छ्रितानेकपताकं पुरमैक्षत ॥ १८२ ॥
तत्प्रशान्तरजःपुञ्जं मसृणं घुसृणाम्बुभिः । मौक्तिकस्वस्तिकाकीर्णं वीक्ष्य चित्ते व्यचिन्तयत् ॥ १८३॥
अहो महानुभावोऽयं मम पारणवासरे। चक्रेऽवक्रेण चित्तेन महोत्सवमयं पुरम् ॥ १८४॥
अहो अस्य परा भक्तिरहो अस्य विनीतता ।
अहो अस्य महौदार्यमहो अस्य महन्महः ॥ १८५ ॥
१. सुधापानसुधाशनपतिश्रियों क ख ० श्रियौ ङ ।
२. वृन्दसमाकुलम् क ।
१७
१८
समरादित्यसंक्षेपः
ध्यायन्निति कृशाङ्गोऽपि तत्प्रमोदेन मेदुरः ।
गुणसेननरेन्द्रस्य प्रासादे प्राविशन्मुनिः ॥ १८६॥ विशेषकम् पुत्रप्रमोदतस्तत्र प्रमत्ते धरणीधवे ।
व्याकुले सकले राजकुले नाट्यादिवीक्षणैः ॥ १८७॥ दूरेऽस्तु भुक्तियुक्तिश्च भक्तिव्यक्तिश्च काचन । केनाऽपि न दृशा दृष्टो न केनाऽपि च भाषितः ॥ १८८ ॥
निर्गतः स मुहूर्तेन बाधितः सकुधा क्षुधा । त्वरितत्वरितं गच्छन्विपरीतः पुराभूत् ॥ १८९ ॥ विशेषकम्
पुरमस्तरजःपुञ्जं सरजस्को द्विधाऽप्ययम् । सानुरागं पुरं राज्ञि रागहीनस्त्वसावभूत् ॥१९०॥
पुरं समौक्तिकं दध्यौ स तु ध्यानेन मुक्तकः । तत्रोत्सवमये सोऽभून्मत्सरेण निरुत्सवः ॥१९१॥ रक्तो दृशोर्मुखे श्यामो भस्मपाण्डुः कुधा सितिः । पिङ्गो जटास्ववर्णोऽयं पञ्चवर्णोऽप्यजायत् ॥१९२॥
अध्यायच्च दुरात्माऽयं बाल्यादपि रिपुर्मम । तदेतेन हतेनापि हतकेन न पातकम् ॥१९३॥
ध्यात्वेत्यज्ञानदोषेण निदानं क्षुन्निदानतः ।
भवे भवेऽस्य भूयासं वधायेति व्यधादयम् ॥ १९४ ॥ युग्मम्
स तपोविभवक्रीततन्निदानक्रयाणकः । माकन्दवीथ्यामेवागाच्शौल्लिकानां भयादिव ॥ १९५ ।।
तस्यां शिलातलासीनस्तन्निदानं निकाचयन् । तस्थौ चतुर्विधाहारपरिहारपरायणः ॥ १९६ ॥
१. ध्यानममौक्तिकं कङ ।