________________
प्रथमो भवः द्विधापि मानभङ्गस्य प्रभूष्णुर्भञ्जनेऽस्म्यहम् । मानभङ्गोऽथवा नेतुः कः प्रमत्तपराजये ॥१५२।। उक्त्वेति स महारम्भः ससंरम्भः परक्षितौ । भृत्यैर्भम्भारवारम्भमादधेऽरं भयोज्झितः ॥१५३।। विशेषकम् कृतप्रयाणवादेन भम्भानादेन संगतम् । हस्तिकाश्वीयपादातरथकड्यादिकं स्यात् ॥१५४।। करिवारिधरं तूर्यजितं कुन्तचञ्चलम् । अकालदुर्दिनप्रायं बभौ तन्मिलितं बलम् ॥१५५।। पृथ्वीशेऽथ रथारूढे पूर्णकुम्भे पुरस्कृते । जयतूर्ये स्वनत्युच्चैः पठन्मङ्गलपाठके ॥१५६।। निरुद्ध नृपतिद्वारे दुर्गमे बलिनामपि । स महात्मा द्विमासान्ते पारणाय समागमत् ॥१५७।। युग्मम् प्रविष्टोऽपि प्रधानेन जनेनाऽनुपलक्षितः । भीतश्च दुर्दमाश्वीयरथसम्मर्दमर्दनात् ॥१५८।। स्थित्वा कियन्तमप्येष कालं कालमुखादिव । विनिर्गतो नृपद्वाराद् गजाश्वरथदन्तुरात् ॥१५९|| युग्मम् इत: सुलग्ने लग्न विज्ञप्तो नृपतिर्जगौ । पारणादिनमद्यास्ति तापसस्याऽग्निशर्मणः ॥१६०॥ आगच्छतु महात्माऽसौ द्विमासक्षपको मुनिः । भोजयित्वा च नत्वा च तं गमिष्यामि सिद्धये ॥१६१।। तदा व्यज्ञपि केनाऽपि स आगत्य गतः प्रभो ! । निर्याति नगरान्मन्ये नाऽद्याप्येष स्थिरक्रमः ॥१६२।। श्रुत्वेति नृपती रथ्याननुदत्तस्य पृष्ठतः । स निर्गच्छन्पुरा दृष्टो रथादुत्तीर्य वन्दितः ॥१६३।।
समरादित्यसंक्षेपः पदोर्लगित्वा प्रोक्तश्च निवर्तस्व गृहान्प्रति । त्वत्कृतेऽहमियत्कालं प्रस्थितोऽपि स्थितः प्रभो ! ॥१६४।। अग्निशर्मावदल्लाभालाभयोः समचेतसः । स्वप्रतिज्ञा न मुञ्चन्ति महाराज तपस्विनः ॥१६५।। राज्ञोचे लज्जितोऽस्म्युच्चैः प्रमादाचरितादितः । किं च त्वद्देहपीडातो मनःपीडा ममाऽधिका ॥१६६।। न निर्गच्छति गी: स्वं च मन्ये पापशिरोमणिम् । तन्मे दुःखशमोपायं दु:खिमित्र ! विचिन्तय ॥१६७।। दध्यौ मुनिरयं बाढं खिद्यते मय्यभोजिते । नास्य दुःखशमोपायोऽन्योऽस्ति मनोजनं विना ॥१६८॥ ध्यात्वेति स नृपं प्राह त्वं महाराज ! मा श्रमः । पूर्णे मासि करिष्यामि पारणं तव मन्दिरे ॥१६९| तद्गिराउजनि गोशीर्षचन्दनच्छटयेव सः । शीतो ध्मातद्विपञ्चाशत्पलायोगोललीलया ॥१७०॥ मुनिमूचे च भगवन् यात यूयं तपोवनम् । नाहं कुलपतेः शक्तो निजं दर्शयितुं मुखम् ॥१७१।। इत्युदित्वा च नत्वा च प्रेष्य चामुं तपोवनम् । स्वयं चास्य कृते स्थित्वा सैन्यं प्रैषीद्रिपुं प्रति ॥१७२।। गुरोः सर्वं समाख्याय मुनेस्तपसि तस्थुषः । नित्यं संसेव्यमानस्य राज्ञा मासो व्यतीयिवान् ॥१७३|| पारणस्य दिने प्राप्ते मनोरथशतैरथ । देवी वसन्तसेनाख्या सुखतः सुषुवे सुतम् ॥१७४।।
१. पापिशिरोमणिः क च; प्रियमित्र क ।