________________
प्रथमो भवः
विलप्यैवं द्वितीयेऽह्नि गतः प्रातस्तपोवनम् ।
नत्वा कुलपति लज्जानम्रास्यो न्यषदन्नृपः || १३०॥
विचित्ततां परिज्ञाय तस्योवाच मुनीश्वरः । किं ते दुःखं महाराज ! कथ्यं चेत्कथ्यतां मम ॥ १३१ ॥ नृपोऽवदत्तदप्यस्ति किं किञ्चिद्यन्न कथ्यते । युष्मादृशमहर्षीणामषडक्षीणमप्यलम् ॥१३२॥
परं नृशंसमेतादृक् चरितं यन्न शक्यते । वचसा शंसितुं किं तु युष्मदाज्ञेति कथ्यते ॥१३३॥
मद्दुश्चेष्टितनिर्वेदादग्निशर्मा तपस्व्यभूत् ।
आत्तव्रतेऽपि ही तस्मिन्मदीयं दुष्टचेष्टितम् ॥१३४॥
यन्निमन्त्र्य मया मासपारणेऽसौ न भोजितः । शिरोर्तिजप्रमादेन तत्पापं मम दुर्वचम् ॥ १३५ ॥ षड्भिः कलापकम्
ऊचे कुलपतिर्वत्स ! त्वं खेदं मा कृथा वृथा । अलाभे हि तपोवृद्धिस्तस्य प्रत्युत संपदः ॥ १३६ ॥ नृपोऽवादीदयं खेदः कथं शाम्यत्यभोजिते । तस्मिन्महामुनौ गाढप्रतिज्ञाभरधूर्वहे ||१३७|| श्रुत्वेति तापसाचार्यः समतौदार्यसुन्दरः । अग्निशर्माणमाकार्य कार्यवेदीत्युवाच तम् ॥१३८ ।। वत्स ! चित्तं तवातुच्छमतुच्छं दुस्तपं तपः । अतुच्छः समताभावोऽतुच्छचाभिग्रहग्रहः ॥ १३९ ॥
१३
यत्त्वं समेतो भूपस्य गृहादकृतपारणः । तेनासह्यतमेनैष हृदि दन्दह्यतेऽधिकम् ॥१४०॥
१. ० भारधूर्वहे क ।
१४
समरादित्यसंक्षेपः
तत्प्रार्थयन्तमेतं च मां च मानय मानद ।
मासान्ते पारणं कार्यं गृहेऽस्य धरणीभुजः ॥ १४१ ॥
इत्यूचुषा धृतो बाहौ गुरुणा करुणावता ।
बहुमानेन तस्यासावमानस्तदमानयत् ॥ १४२ ॥ पञ्चभिः कुलकम्
अवोचच्च ममानेन परलोकविरोधकृत् ।
न किञ्चन कृतं येन चित्ते संतप्यतेऽधिकम् ॥१४३॥
अहो महानुभावत्वमस्येति नृपतिर्वदन् ।
नत्वा कुलपतिं तं च मुदितः स्वपुरं ययौ ॥१४४॥
तत्पारणदिन ध्यानशुद्धधीरवनीश्वरः ।
मुनीश्वरश्च सद्ध्यानबद्धधीर्मासमक्षपत् ॥ १४५ ॥
अङ्गुलीभिर्गणयतस्तत्पारणकवासरः । गुणसेनमहीभर्तुः सुमुहूर्त इवागमत् ॥१४६॥ इतः कुलपतेर्वाचा सदाचारशिरोमणिः । अग्निशर्माऽस्तदुष्कर्माऽभूत्तदागमनोन्मुखः || १४७ || तत्पारणदिनप्रातः समयेऽथ समागतः । स्पर्शः शशंस भूपस्य वचः श्रवणदुः श्रवम् ॥१४८॥
देव देवस्य या सेना रभसेनाऽद्रिसन्धिगा । व्यद्राव्यत प्रमत्ता सा मानभङ्गमहीभुजा ॥ १४९ ॥ अवस्कन्दस्य दानेनाऽऽस्कन्द्य तावकसैनिकान् । मानभङ्गस्त्वयि स्वामिन्निजं नाम न्ययोजयत् ॥१५०||
श्रुत्वेति भूपतिः कोपारुणदारुणलोचनः । परिकम्प्राधरः पाणितलप्रहतभूतलः ॥ १५१ ॥
१. क्षिपत् क ।
२. निजनाम क ।