________________
प्रथमो भवः तेनान्यस्यापि ते नामा दर्शनं नैव युज्यते । तवामन्दपरिस्पन्दमन्दिरस्य विशेषतः ॥२१९।। यद्यमन्दस्तवानन्दस्तस्य वन्दनकर्मणि । पुरे गत्वाऽत्र तद्भूमीपते ! त्वं पुनरापतेः ॥२२०॥ तथेति प्रतिपद्याऽथ दुर्मना मेदिनीपतिः । नत्वा कुलपति गन्तुं प्रावर्तत निजं पुरम् ॥२२१।। सानुकोशेन केनाऽपि तापसेनाऽग्निशर्मणः । अनुगम्य मनोभावः कथितः पृथिवीपतेः ॥२२२।। नृपोऽध्यायदिहागन्तुं न स्थातुं चान्तिके पुरे । क्षितिप्रतिष्ठितं गन्तुं साम्प्रतं मम साम्प्रतम् ।।२२३।। स्थितः पुरेऽत्र मा श्रौषमस्याऽश्रव्यं मुनेर्वचः । ध्यात्वेत्यपृच्छदैवज्ञं प्रयाणायापरे पुरे ॥२२४|| प्रातरेवेति तेनोक्ते प्रयाणैरविलम्बितैः । ससैन्यो नृपतिः प्राप तत्पुरं मासमात्रतः ॥२२५॥ पौरगौरवितस्तत्र गुणगौरः क्षमापतिः । पुरे च सर्वतोभद्रे प्रासादे च विवेश सः ॥२२६।। तस्मिन्नेव दिने तत्रानेकशिष्यपरिच्छदः । द्वादशाङ्गी चतुर्ज्ञानी यौवनस्थो मनोरमः ॥२२७।। मण्डनं भूमिभामिन्याः क्षमाया जङ्गमा क्षमा । आकरो गुणरत्नानामानन्दो जगतीदृशाम् ॥२२८॥ सूरिविजयसेनाख्यो नृपवंशसमुद्भवः । उद्याने समवासाषींदशोकवननामनि ॥२२९।। विशेषकम्
समरादित्यसंक्षेपः रक्ताशोकलता यत्रासूर्यम्पश्या दलोच्चयैः । कौसुम्भवसना भान्ति मधुभूपप्रिया इव ॥२३०|| इतश्च गुणसेनेनाऽऽस्थानस्थेनावनीभुजा । प्रस्तावे धर्मवार्तानामित्यूचे रुचिरं वचः ॥२३१।। कुलीनश्च सुलीनश्च योगमार्गे महामनाः । दृष्टः किं कोऽपि केनाऽपि गुरुः सर्वगुणैर्गुरुः ॥२३२।। नर: कल्याणकाख्योऽथ वचः कल्याणमूचिवान् । देवाद्यैव मया दृष्टो यादृक् पृष्टो गुरुस्त्वया ॥२३३।। श्रेष्ठिनोऽशोकदत्तस्योद्यानेऽशोकवनाभिधे । पौत्र: समरसेनस्य विभोर्गन्धारनीवृतः ॥२३४|| सूरीविजयसेनाख्यो विकाराद्यभिधोऽपि यः । नैव स्पृष्टो विकारेण मनोवचनकर्मभिः ॥२३५।। विशेषकम् नृपोऽजल्पदहं प्रातर्वन्दिष्येऽर्कनिभं विभुम् । देशनाऽभीषुभिर्विश्वविश्वमोहतमोपहम् ॥२३६।। अथ प्रातः कृतप्रात:कृत्यः कृत्यविदां वरः । उद्याने शिष्यताराढ्यं तं मुनीन्दुमवैक्षत ॥२३७।। भून्यस्तजानुहस्तेन नतस्तेन मुनीश्वरः । सर्वाशी:प्रवरां तस्मै धर्मलाभाशिषं ददौ ॥२३८।। परानपि मुनीनेष ववन्दे च तप:कृशान् । हदि सिद्धिवधूसङ्गचिन्ताचान्ततनूनिव ॥२३९|| उपविष्टो गुरोः पावें पश्यंस्तं स्थिरया दृशा । विस्मितो रूपवृत्ताभ्यां तमूचे रचिताञ्जलिः ॥२४०।। भगवन् ! सर्वसंपत्तौ किं ते निर्वेदकारणम् । यद्राज्यलक्ष्मीमुज्झित्वा प्रतिपेदे महाव्रतम् ॥२४१॥
१. प्रापत्तत्पुरं ख।