________________
प्रथमो भवः गुरुः प्राह महाराज ! सर्वं निर्वेदकारणम् । चतुर्गतिमयेऽप्यत्र चिन्त्यमानं भवे भवेत् ॥२४२॥ सर्वत्र जन्म मृत्युश्च चपलाचपलाः श्रियः । न ज्ञायते कुतोऽप्येतः क्व वा यास्याम्यहं पुनः ॥२४३।। दुर्लभं मानुषं जन्म चञ्जलं तच्च जीवितम् । भोगिभोगनिभाः कामभोगाः पर्यन्तदारुणाः ॥२४४|| भवे द:खमयेऽमुष्मिन् सति स्थाने च शाश्वते । तस्योपाये जिनोद्दिष्टे यत्नं कुर्यान्न कः सुधीः ॥२४५॥ कलापकम् एवं निर्वेदहेतुर्मे भव एवाभवन्नृप ! । निमित्तमात्रमन्यत्तु तन्मे कथयतः शृणु ॥२४६।। इहैव विजये देशो गान्धारो नाम विश्रुतः । गन्धाराख्यं पुरं तत्र सदा तस्मिन्वसाम्यहम् ॥२४७|| अस्ति सौवस्तिक: सोमवसुनामात्र सोमवित् । तत्पुत्रः पवनस्येव मित्रं मम विभावसुः ॥२४८|| द्वितीयमिव मे चित्तं प्रतिबिम्बमिवात्मनः । स कदाचन नौज्झन्मां मांसं जीवन्नखो यथा ॥२४९॥ अन्यदाऽयं गदाकान्तः कृतैर्जायुशतैरपि । नोऽमन्यत प्रतीकारं प्रभिन्न इव वारणः ॥२५०॥ तेजस्व्यपि स्वयं सोऽयं मित्रे मय्यन्तिकस्थिते । आयुरेधो विना वेगाच्छाम्यति स्म विभावसुः ॥२५१॥ तद्वियोगासहश्चाहं भ्रमन्नप्यभ्रमन्नपि । लभे स्म न रति क्वापि पुण्हीन इव श्रियम् ॥२५२।।
समरादित्यसंक्षेपः वियोगे मां दहन्नन्तः स नवीनो विभावसुः । संयोगे हि बहिर्देहमन्यो दहति देहिनाम् ॥२५३|| मम दु:खवतः प्रेष्यश्चतुरश्चतुरो मुनीन् । समागत्य स्थितानाख्यद् गन्धारगिरिगहरे ॥२५४|| तान्निशम्य समायातान् दु:खेऽपि मुदितोऽस्म्यहम् । मुनयो दु:खदग्धानां सुहृदः सुहृदो यतः ॥२५५।। मयाऽथ त्वरितं गत्वा साधवस्ते ववन्दिरे । धर्मलाभाशिषं लब्ध्वोपविष्टः शासितश्च तैः ॥२५६।। सम्यक्त्वं लब्धवांस्तेभ्यः पर्युपासे निरन्तरम् । तस्थुस्ते तु चतुर्मासं नित्यमासोपवासिनः ॥२५७।। तद्विहारनिशान्त्यार्धयामे तान्नन्तुमुत्सुकः । गच्छन्नद्राक्षमुद्योतमश्रौषं च जयध्वनिम् ॥२५८।। गुहासमीपे गन्धाम्बुपुष्पवृष्टिं विलोकयन् । सुरांश्च स्तुवतस्तेषां ज्ञातवानस्मि केवलम् ॥२५९।। रत्नसिंहासनासीनान्नत्वा केवलिनो मुनीन् । सुरासुरनरव्रातचेतः संशयहारिणः ॥२६०|| अपृच्छमहमप्येकं भगवन् क्व सुहृन्मम । उत्पन्नः स कथं चास्ति स्नेह: केनात्र मे महान् ॥२६१।। युग्मम् उवाच केवल्यत्रैव पुर्यास्ते वस्त्रशोधकः । ऊषदत्तः शुनी तस्य नामतो मधुपिङ्गला ॥२६२।। तद्गर्भे शुनकत्वेनोत्पन्न: संमर्दनीतटे । बद्धः खरखुराधातभीतोऽस्ति क्षुधितश्च सः ॥२६३।। भवान्तरे च ते पुष्पपुरे निवसतः सतः । नाम्ना कुसुमसारस्य श्रीकान्ता नामतः प्रिया ॥२६४||
१. गान्धाराख्यं ख घ ङ च ।