________________
द्वितीयो भवः
समरादित्यसंक्षेपः
न क्रीडयति चक्राङ्गान्न कीडति च कन्दुकैः । न च पाठयति प्रीतिकारिकाः शुकसारिकाः ॥५५॥ ताम्बूलं यूषणं देहभूषणं दूषणं परम् । मन्यते सा वियोगेन दूना मलयजं मलम् ॥५६॥ अत्राऽन्तरे च तद्धात्र्या समादिष्टा कृतादरम् । पुत्री मदनरेखाख्या द्वितीयमिव तन्मनः ॥५७|| यदद्योद्यानतः श्रान्ता समेता कुसुमावली । सतालवृन्तकर्पूवीटका व्रज तद्गृहम् ॥५८॥ तत्क्षणं मातुरादेशाद् गतोपकुसुमावलि । सा चिन्तानिस्सहामेनां शून्यचित्तां व्यलोकत ॥५९॥ सोचे स्वामिनि केन त्वमुद्विग्नेवाऽसि हेतुना । पितरौ किं न तुष्टौ ते किं न रक्तः सखीजनः ॥६०॥ मनःसमीहितं किञ्चित् किं न संपद्यतेऽथवा । ममाऽस्ति यदि कथ्यं तत् कथ्यतां भर्तृदारिके ॥६१।। स्वहस्तेनालकांस्तस्याः संयम्य कुसुमावलिः । ऊचे सखि ! तवाऽप्यस्ति किमकथ्यं किमप्यलम् ॥६२॥ तदाकर्णय पुष्पावचयोत्पन्नपरिश्रमात् । ज्वरस्तज्जनितस्तापस्तन्निमित्ता ममाऽरतिः ॥६३।। सख्यूचे तर्हि कर्पूरवीटकस्वादमातनु । खेदजस्वेदविच्छेदं व्यजनेन तनोमि ते ॥६४॥ ऊचेऽथ कुसुमावल्या वीटकव्यजनैरलम् । बालरम्भागृहे यामि तापश्चेत्तत्र शाम्यति ॥६५॥
तत्र गत्वा कृता शय्या सज्जा मदनरेखया । कदलीनां दलैस्तस्यां न्यषीदत्कुसुमावली ॥६६॥ सख्या समर्पयाञ्चके तस्यै कर्पूरवीटकम् । वीजिता व्यजनेनैषा तापनिर्वापणेच्छया ॥६७|| शुन्यचित्ता पुनदृष्टा पृष्टा सख्या त्वया कथम् । गच्छन्त्यागतयोद्याने दृष्टं किमपि कौतुकम् ।।६८।। सोचे सखि ! मयोद्याने रत्या विरहितः स्मरः । रोहिणीरहितश्चन्द्रः कामपाल इवानिरः ॥६९॥ स्वर्णवर्णो नखज्योतिरुयोतिचरणाङ्गुलिः । सुनिगूढसिरासन्धिविशङ्कटकटीतटः ॥७०॥ कृशो मध्ये बृहद्वक्षा उन्नतस्कन्धबन्धुरः । पद्मध्वजाङ्कुशच्छत्ररेखाङ्कितकद्धयः ॥७१॥ अच्छिद्राङ्गुलिराताम्रकरजः कम्बुकन्धरः । पक्वबिम्बाधरः शुद्धदन्तः कमललोचनः ॥७२।। समकर्णः समुत्तुङ्गनासावंशोऽलिके पृथुः । सोष्णीषशीर्षः सुस्निग्धश्यामकुञ्चितकुन्तलः ॥७३|| श्रीचन्दनविलिप्ताङ्गो दुकूलद्वयशोभितः । आमुक्तमुक्तालतिकञ्चूडारत्नविभूषितः ॥७४|| लावण्यस्याऽपि लावण्यं रूपं रूपस्य पश्यताम् । सौन्दर्यस्याऽपि सौन्दर्य यौवनस्याऽपि यौवनम् ॥७५।। श्रीमत्पुरुषदत्तस्य महाराजस्य नन्दनः । दृष्टः सिंहकुमाराख्यः श्रियेव मधुसूदनः ॥७६।। अष्टभिः कुलकम् स्थानेऽनुरागः स्वामिन्या अनुरूपो ह्ययं वरः । इयं तस्यैव योग्येति ध्यात्वा धात्रीसुताऽवदत् ॥७७||
१. विजनेन क ।