SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ द्वितीयो भवः यथाऽद्य सह देवेन सुबुद्धिर्मन्त्रयश्रुतः । देव्यादेशेन गतया मया चेद्भावि तत्तथा ॥७८॥ तत्संगतः स्मरो रत्या रोहिण्या सहितः शशी । इस्या कलितः कामपालो न्यूनं न किञ्चन ॥ ७९ ॥ युग्मम् कुसुमावल्युवाचाऽथ किं श्रुतं सखि साऽवदत् । उवाचार्यसुबुद्धिर्यद्देव ! राज्ञः सुतां तव ॥८०॥ कृते सिंहकुमारस्य निर्बन्धो याचने महान् । वरश्च कुसुमावल्या नापरस्तं विना वरः ॥ ८१ ॥ युग्मम् ऊचे ततः कृतालीकक्रोधा तां कुसुमावली । ब्रवीषि किमसंबद्धं सा प्राह किमसंगतम् ॥८२॥ युज्यते कलहंसेन कलहंसी हि संगतम् । सुबुद्धि प्राह देवोऽथ प्राणेभ्योऽपि प्रभुः प्रभुः ||८३|| इति यावद्वदन्त्यौ स्तस्तावदुद्यानपालिका । चेटी पल्लविका नाम प्रोवाच कुसुमावलीम् ॥८४॥ त्वामादिशति देवीदं त्वं दन्तवलभीं व्रज । देवेनाऽस्ति यदादिष्टं भवनोद्यानसज्जनम् ॥८५॥ अत्र सिंहकुमारेण महाराजस्य सूनुना । आगम्यमिति सा श्रुत्वा देव्यादेशं व्यधात्तथा ॥८६॥ इतश्च भवनोद्याने सज्जितेऽसौ निमन्त्रितः । एतश्च त्वरितस्तत्र कुमारीदर्शनोत्सुकः ||८७|| प्रविष्टो भवनोद्याने भोजनावसरात्परम् । मृद्वीकामण्डपस्तत्र दृष्टस्तेन सुशीतलः ॥८८॥ तत्र कङ्केल्लिमाकन्दपूगनागलतादिकम् । सर्वं निरीक्ष्य वासन्तीलतामण्डपमाश्रयत् ॥८९॥ ३९ ४० समरादित्यसंक्षेपः अत्रान्तरे च कुसुमावली मदनरेखया । ऊचे स्वामिनि संबन्धः स्वाजन्यादेव तिष्ठति ॥९०॥ संभाषपुष्पताम्बूलदानाद्यैस्तं प्रकाशय । किं च हंसोत्सुकां हंसी चित्रे लिख वियोगिनीम् ॥ ९१ ॥ उक्त्वेति वर्तिकावर्णपट्टिकाद्यमुपानयत् । सा विज्ञातसखीभावा यथोक्तामलिखच्च ताम् ॥९२॥ निरीक्ष्य सुचिरं चित्रं ततो मदनरेखया । श्लोकस्तदुपरि न्यस्तस्तदवस्थानिवेदकः ||९३ || "बिसग्रासेऽप्यनाशंसा सोत्कण्ठा प्रियदर्शने । पद्मखण्डमपश्यन्ती बाढं ताम्यति हंसिका ॥९४॥ आदाय प्राभृतं चित्रपट्टिकां च समागता । राजपुत्र्याः सखीत्येषा कुमारेणाऽभिनन्दिता ॥ ९५ ॥ तं नत्वा सादरं प्रोचे राजपुत्राऽवधारय । त्वद्येोग्यं कुसुमावल्या प्रहितं प्राभृतं वरम् ॥९६॥ प्रियङ्गमञ्जरी नव्या कक्कोलकफलानि च । कर्पूरवीटकान्युच्चैश्चित्रस्था राजहंसिका ॥ ९७|| कुमारेण सकक्कोलं ताम्बूलं स्वादितं कृता । प्रियङ्गमञ्जरी कर्णे वीक्षिता कलहंसिका ॥९८॥ शिरो धुनानः सोऽवादीदहो चित्रस्य कौशलम् । तदवस्था द्विरूचे तु श्लोकेनेत्यथ साऽवदत् ॥ ९९ ॥ स्वामिन्या लिखितं वीक्ष्य प्रियोत्कां कलहंसिकाम् । लिखितोऽयं मया श्लोकस्तदवस्थानिवेदकः ॥ १०० ॥ १. यथोक्तम ख ।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy