________________
द्वितीयो भवः
४१
कुमारः प्राह युक्तं हि रूपे लिखितवीक्षिते । सखीनां हृदयालूनां तत्स्वरूपप्रकाशनम् ॥१०१।। अथैष पत्रच्छेद्येषु निष्णातः पत्रकर्तरीम् । लात्वा नागलतापत्रे हंसं पत्रलमादधे ॥१०२॥ तं न्यस्य पट्टिकायां च तस्यां हंसीपुरस्थितम् । श्लोकत्रयं लिलेखैष श्लोकयोग्यो मनीषिणाम् ॥१०३।। प्राणेषु प्रोषितेषु स्यात्प्रियया नैव संगमः । अनेन हेतुना हंसो न विमुञ्चति जीवितम्" ॥१०४|| "चित्राऽनुरागिणी त्वं चाऽहं च चित्रानुरागवान् । प्रिये पुन: पुनर्जाप्यं तत्त्वया चित्रकौशलम्" ॥१०५।। "इदं तु प्रकृतं मात्राऽधिकं चित्तं विचार्यताम् । स्वयं हि निपुणाऽसि त्वं निपुणस्ते सखीजनः" ॥१०६।। लिखित्वेत्यर्पयित्वा च तस्यै तां चित्रपट्टिकाम् । कण्ठादुत्तार्य हारं चार्पयदिन्दुकरामलम् ॥१०७।। तं नत्वा साऽऽगताऽऽचख्यौ सर्व वृत्तान्तमुज्ज्वलम् । मुदिता सा पुनः श्लोकौ लिखित्वा प्राहिणोदिमाम् ॥१०८।। ततो मदनरेखाऽस्मै गत्वा श्लोकौ समर्पयत् । तावित्थं वाचयामास मुदितो नृपनन्दनः ॥१०९।। "अरं चित्तं विचार्येदं प्रागेव प्रहितं प्रिय ! । अरं सूत्रस्य वृत्तिस्तु तव श्लोकद्वयादभूत्" ॥११०।। "चित्रं चित्तस्थिते सूत्रे वृत्तिर्मतिमता कृता । किं चित्रं पूरयन्त्येव समस्यां चिन्तितां बुधाः" ॥१११।। प्रेयसीत: प्रसूतं स श्लोकतोकद्वयं नवम् । सुधामधुरया वाचा पुनः पुनरलालयत् ॥११२॥
समरादित्यसंक्षेपः ऊचे च पदशय्याऽसौ कर्णपीयूषसारणिः । अर्थदृष्टिश्च गुप्ताऽपि प्रकाशैव प्रकाशते ॥११३।। ज्ञानविज्ञानसौरभ्यसुन्दरा कुसुमावली । उचिता हृदये धर्तुं प्रथिता ग्रथिता गुणैः ॥११४।। इत्थं प्रशस्य तां प्रीतः प्रीतिदानपुर:सरम् । पुनर्विसर्जयामास कुमारः प्रेयसीसखीम् ॥११५।। इत्थं रथाऽङ्गभृङ्गाऽऽदियुग्माऽऽलेखनतो मिथः । तयोः प्रीतिरवर्धिष्ट तटिनीव पदे पदे ॥११६।। अन्यदा च महाराजप्रार्थितेन महीभुजा । कुमाराय ददे लक्ष्मीकान्तेन कुसुमावली ॥११७॥ दत्ते नैमित्तिकेऽनाथ पाणिग्रहणवासरे । सा बन्धुस्त्रीभिरासन्यां प्राङ्मुखी विनिवेशिता ॥११८॥ नखकर्म विधाप्याऽथ कौसुम्भवसनावृता । मेक्षिता सधवस्त्रीभिः स्नपिता कुङ्कुमाम्बुभिः ॥११९॥ ततश्च पूर्णचित्रेणाऽवमिताऽसौ समन्ततः । अक्षताः शिरसि न्यस्ता गुरुभिः परितोषिभिः ॥१२०॥ तस्या वदनवक्षोजकरेषु घुसृणद्रवः । रागेऽधिकेऽपि नीचत्वाद्यावकः पदयोरभूत् ॥१२१॥ विन्यस्तं कज्जलं चक्षुरक्षणायेव चक्षुषोः । मधुश्रिय इवैतस्या विहितस्तिलको मुखे ॥१२२॥ हंसकौ पदयोर्लग्नौ गतिस्वरजिताविव । तदङ्गलीषु विन्यस्ता ऊर्मिका मणिनिर्मिता ॥१२३।।
१. धिकोऽपि ख ग घ ।