________________
द्वितीयो भवः
कि कीडासुन्दरोद्यानसौन्दर्याद्भगवान् स्वयम् । क्रीडासुखस्यानुभवं तनोति मकरध्वजः ॥३३॥ दूरादपसरन्ती तां प्राह चेटी प्रियङ्करा । अपसर्तुमलं स्वामिन्ययं सिंह: कुमारराट् ।।३४।। सुतः पुरुषदत्तस्य महीभर्तुर्महायशाः । श्रीकान्तायाः समुद्भूतो गर्भे तव पितृष्वसुः ॥३५।। तदयं त्वामदाक्षिण्यां कलयिष्यति मानसे । स्थिरीभूय कुमारस्योपचारः क्रियतामतः ॥३६॥ सोचे सखि ! त्वमेवात्र कुशला कथ्यतां ततः । किं किमस्य करोमीति ततः प्रोचे प्रियङ्करा ॥३७॥ आसनं स्वागतप्रश्नो वसन्तकुसुमैः सह । ताम्बूलं च स्वहस्तेन दीयतामस्य साऽवदत् ॥३८॥ सकण्टकवपुः स्विन्नकम्पमानकरद्धया । नाऽस्य कालोचितं कर्तुमहं किञ्चिदपि क्षमा ॥३९॥ तत्त्वमेव हले सर्वं निवर्तय यथोचितम् । इत्युक्तया तयासन्ने कुमारेऽसज्जि विष्टरः ॥४०॥ ऊचे च स्वागतं रत्या विहीनस्य मनोभुवः । प्रसादः क्रियतामत्राऽऽसने समुपविश्यताम् ॥४१॥ तुष्टो राजाङ्गजः स्मित्वा रत्या हीनोऽभवं पुरा । नाधुनेति वदंस्तत्रोपविष्टो विष्टरे वरे ॥४२॥ प्रियङ्कराऽथ वासन्तीपुष्पमालासमन्वितम् । स्वर्णस्थालेन ताम्बूलमार्पयत्तच्च सोऽग्रहीत् ॥४३॥
समरादित्यसंक्षेपः युक्तं तेन ह्रदि न्यस्ता कुमारी कुसुमावली । तया तु च्छेकयाऽप्यत्र न्यस्तः सिंहस्तदद्भुतम् ॥४४॥ अत्रान्तरे च कुसुमावलीमातुर्निदेशतः । सम्भरायणनामाऽऽगात्कन्याऽन्तःपुरकञ्चुकी ॥४५।। अप्रेक्षमाणमर्धाक्षिप्रेक्षितैर्नृपनन्दनम् । अनुरागेण पश्यन्ती सोऽपश्यत्कुसुमावलीम् ॥४६।। अध्यायच्च समं रत्या मनोभूमिलितश्चिरात् । मानयिष्यति यद्येनं विधि निरुपधिर्विधिः ॥४७॥ ततः समीपमागत्य कुमारमभिनन्द्य च । उवाच वत्से त्वां देवी मुक्तावल्यादिशत्यदः ॥४८।। सुचिरं क्रीडया खेदो मा भूत्तव शरीरके । वत्से तच्छीघ्रमागच्छ यदहं विरहाऽसहा ॥४९|| यदादिशति मेऽम्बेति वदन्ती कुसुमावली । चिरं कुमारमालोकमानोद्यानाद्विनिर्ययौ ॥५०॥ गृहं गत्वा प्रणम्याऽम्बां सदनस्योपरि स्थिते । निषीदति स्म पल्यङ्के कुमारं हृदि बिभ्रती ॥५१॥ सर्वं विसर्जयामास सा सन्मान्य सखीजनम् । ध्यानाऽऽनीतकुमारेणैकान्तवार्ताचिकीरिव ॥५२॥ सा मुक्तदीर्घनि:श्वासा विषमायुधबाधया । चित्ते तमेव पश्यन्ती नाऽपरं चित्रमातनोत् ॥५३॥ तत्प्रेमहुदनिर्मग्ना नामज्जद्दीर्घिकादिषु । कुमारे सानुरागत्वान्नाऽङ्गरागे दधौ मनः ॥५४॥
१. क्रियतामिति क ।
१. तया चित्तगुहान्तस्तु क । २. यद्येवं क । ३. नागभद्दी ख ।