SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ २४७ २४८ षष्ठो भवः चके जलोदरव्याधि ततः सोऽजनि तत्क्षणात् । परिशुष्कभुजः श्यूनपदः प्रम्लानलोचनः ॥३९९|| गजजिो विनिद्रश्चाऽरतिमान् गाढवेदनः । प्रत्याख्यातोऽगदंकारैर्विविक्षुचलनेऽभवत् ॥४००॥ युग्मम् श्रुत्वेति स्वजना म्लाना मूर्छिताः प्राणवल्लभाः । खिन्नः परिजन: सर्वो विलापं विदधेऽधिकम् ॥४०१।। तदा शबरवैद्यत्वं दधद्देवस्तदोकसः । उदघोषयदासन्नः सर्वव्याधीन्हराम्यहम् ॥४०२।। स्वजनैर्भणितो भद्राऽपनयाऽस्य महोदरम् । दयो यथेष्टं स प्राह धर्मवैद्योऽस्म्यहं ननु ॥४०३।। व्याधिस्तु कुच्छ्रसाध्योऽस्य नाऽपयाति यथा तथा । निदानं परिहर्तव्यं सेव्यस्तत्परिपन्थिकः ॥४०४|| निदानं द्विविधं तच्चैहिकाऽऽमुष्मिकभेदतः । ऐहिके त्यज्यतेऽपथ्यं धातुक्षोभस्य कारणम् ॥४०५।। आमुष्मिके तु मिथ्यात्वं हेयं सेव्ये च सर्वदा । विशुद्ध दर्शनज्ञाने सूत्रार्थों पौरुषीद्वये ॥४०६।। त्रिधाऽपि षड्वती पाल्या वर्जनीयाः कुधादयः । भ्रम्यमप्रतिबद्धन स्थातव्यं काननादिषु ॥४०७|| कुर्वाणस्येति किं त्वेतद्याता भवजलोदरम् । ततः परिजनेनोचे मरणाद्रुचिरं ह्यदः ॥४०८| स मृत्योरधिकं ह्येतद् ध्यात्वेत्यूचे भवत्विदम् । वैद्यः प्रोचेऽथ शक्ति मे पश्य क्लेशापहां क्षणात् ॥४०९।। निश्चितेन त्वया भाव्यं मोहो हेयश्च सर्वथा । न कर्तव्यः कुसंसर्गो नाऽऽज्ञा खण्ड्या च मे क्वचित् ॥४१०।। समरादित्यसंक्षेपः ततो मण्डलमालिख्याऽर्हद्दत्तं न्यस्य तत्र च । अभिमन्यौषधं दत्तं छन्नश्च श्वेतवाससा ॥४१२|| दिव्यशक्त्याऽथ तस्याङ्गाद्विमुक्ताकन्दभैरवः । अङ्गोपाङ्गमहाभङ्गपूर्वं रूपेण भीषणः ॥४१२।। दुर्गन्धोऽश्रव्यगीरात्मतुल्यसाष्टशतान्वितः । मूर्तो व्याधिः समाकृष्टस्तेन पापविपाकवत् ॥४१३॥ युग्मम् विस्मितोऽथ जनः सर्वस्तस्य निद्रा समागमत् । प्रबोध्य भिषजा प्रोक्तो व्याधिस्तेऽपगतो ननु ॥४१४|| तत्तथा भवता कार्यं यथा नायं पुनर्भवेत् । कमेणाऽप्राप्तपूर्वं चाऽऽरोग्यसौख्यमवाप्स्यसि ॥४१५॥ अनेन व्याधिना ग्रस्तोऽहमप्यस्मि भवानिव । काचिन्मात्राऽपनीता च रोगस्याऽस्य मयाऽपि हि ॥४१६|| शेषाऽपनयनोपाये तूत्तमे नाऽधुनोचितः । ततस्त्वमुत्तमोपायं भजाऽथ मम चेष्टितम् ॥४१७।। उत्तमः क उपायोऽत्र लोकपृष्टो भिषग्जगौ । जिनदीक्षाग्रहस्तस्माद् व्याधिः सर्वोऽप्यपेत्ययम् ॥४१८।। मज्जातौ तु न दीक्षा स्यात्त्वं तु जात्युत्तमत्वतः । दीक्षां गृहाण वा साधं मया वा विहराऽन्वहम् ॥४१९॥ लोकः प्रोवाच ते भ्राताऽपि हि प्रव्रजितोऽभवत् । तदिदं सुन्दरं कर्तुमुचितं च कुरुष्व तत् ॥४२०॥ अनिच्छन्नपि चित्तेन प्रतिपेदे स तगिरा । कस्मिन्नप्यागते साधौ जग्राह द्रव्यतो व्रतम् ॥४२१।। गते शबरवैद्येऽसौ समुत्पन्नाऽरतिः पुनः । द्रव्यलिङ्ग परित्यज्य निजं गृहमुपागतः ॥४२२।।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy