SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ २४५ २४६ षष्ठो भवः ततः स लोकवाक्येन मूकनाम्नैव पप्रथे । द्वादशाऽब्दे तु तत्राऽऽगाच्चतुर्ज्ञानी महामुनिः ॥३७५|| मेघनादाऽभिध: सैष नागदत्तगृहे मुनिम् । प्रवाचं प्रेषयाञ्चके शिक्षां दत्त्वा गतश्च सः ॥३७६|| तमूचे कुहनामूकं कुमारक ! गुरुर्मम । प्रेषीत्तव समीपे मां तन्मुखेनेति वक्ति च ॥३७७|| अलं तापस मौनेन ज्ञात्वा धर्म समाचर । मृत्वा कोलश्च सर्पश्च जातः पुत्रस्य पुत्रकः ॥३७८।। नत्वा हित्वा च मूकत्वं स प्राह क्व नु ते गुरुः । चक्राऽवतारचैत्येऽस्ति ऋषिणोक्ते सहैदसौ ॥३७९।। गुरुं नत्वाऽवदद् वृत्तं वेत्सि मे भगवन्कथम् । ज्ञानेनेति गुरुप्रोक्तेऽशोकदत्तो विसिष्मिये ॥३८०॥ धर्मेऽथ कथिते बुद्ध: पूर्ववासनया तु सः । मूक इत्युच्यते लोकैद्वितीयं नाम तत्ततः ॥३८१।। देवो व्यजिज्ञपन्नाथमहं भोत्स्ये कथं प्रभो ! । भगवानाह वैताढ्ये स्वकुण्डलयुगेक्षणात् ॥३८२॥ देवोऽथ गत्वा कौशाम्बी स्वबोधं मूकमार्थयत् । यतिष्येऽहं यथाशक्ति तेनेति गदिते सति ॥३८२।। वैताढ्यं तं सुरो नीत्वाऽवदद् द्वे एव वल्लभे । सिद्धायतनकूटं च कुण्डलद्वितयं च मे ॥३८३।। इदं रत्नावतंसाख्यं कुण्डलद्वितयं मम । दर्शनीयं तदा नाऽहं यदा बुध्ये कथञ्चन ॥३८५।। उक्त्वेति तत्र तं न्यस्य चिन्तारत्नं समय॑ च । आख्यद्यदिहलोकस्थकार्यस्यैकस्य कार्यदः ॥३८६।। समरादित्यसंक्षेपः तदेतेन त्वया कार्य वैताढ्यगमनं सखे !। प्रतिपन्नमनेनेदं कौशाम्बी च समागतौ ॥३८७।। दिवं देवो गतश्च्युत्वा वसुमत्युदरेऽभवत् । बभूव च शरद्यस्याः सहकारेषु दोहदः ॥३८८।। अप्राप्तौ सा सगर्भाऽपि व्यथिताऽथ जनोऽवदत् । न जीवति ततो मूको मातृस्नेहविमोहितः ॥३८९।। दध्यौ जिनोक्ते सत्यत्वादन्यथापि भविष्यति । वैताढ्यगमनं मातुर्दोहदं पूरयामि तु ॥३९०॥ ध्यात्वेत्यचिन्तयच्चिन्तारत्नादाम्रफलानि सः । श्रद्धामपूरयच्चास्याः क्रमेण तनयोऽजनि ॥३९१।। नागदत्तः पिता तस्यादऽत्त नाम कृतोत्सवं । अर्हद्दत्तः स चाऽशोकदत्तस्यातीव वल्लभः ॥३९२।। वर्षैकदेश्यं तं बन्धुनिन्येऽर्हद्गुरुवेश्मसु । तान् ननाम न नामैष रुरोद तु हतोदरः ॥३९३॥ अस्य द्विः कथितो धर्मो बन्धुनाऽबुद्ध न त्वयम् । गुरुद्वेषस्फुरत्कर्मपरिपाकविपाकतः ॥३९४|| अग्रजेन ततः प्राच्यभवेऽस्य कथिते सति । स प्राह प्रलपस्युच्चैः किमसम्बद्धमीदृशम् ॥३९५।। ज्येष्ठस्तत्कर्मसामर्थ्यं चिन्तयन्नजनि व्रती । अनुजेनेभ्यपुत्र्यस्तु चतस्रः परिणिन्यिरे ॥३९६॥ अथो विषयिणस्तस्य गते काले कियत्यपि । विपन्नेऽशोकदत्तर्षों श्रुते शोकः प्रचुर्यभूत् ॥३९७।। तस्योर्ध्वदेहिकं चक्रऽनुजो ज्येष्ठस्तु पञ्चमे । स्वर्गे स्वयंवधिज्ञानाद् बोधोपायमचिन्तयत् ॥३९८||
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy